रूढमित्येव साध्यं स्याद् ॥। बहुलातिप्रयोगतो हेतोः शब्दजातं हरौ रूढमेवेति साध्यं स्यात् । अयं प्रयोगः । विमताः शब्दा हरौ रूढाः । बहुलातिप्रयोगवत्त्वात् । नारायणादिशब्दवदिति । प्रयोगवत्त्वं च यौगिकेष्वमुख्येषु चास्तीत्यतो बहुलेत्युक्तम् । अज्ञातमुख्येष्वमुख्येष्वपि बहुलप्रयोगो ऽस्तीत्यतो ऽतिप्रयोगत इत्युक्तम् । पूज्यप्रयोगो ह्यतिप्रयोगः । पूज्यता चाविवेकपूर्वकत्वाभावः । नच रूढयोगे रूढोपचारे रूढलक्षणायां व्यभिचारः । तत्रापि रूढिसद्भावेन सपक्षत्वात् । समाहारवृत्तयो हि ताः । *३,४९६* नन्वसिद्धो ऽयं हेतुः । इन्द्रादिशब्दानां परमेश्वरे प्रयोगस्यैवाभावादित्यत आह रूढिरिति ॥ ॥। रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव ॥। अत्र रूढिरिति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते । आप्तिः सम्बन्धः । तत्राविद्वत्सम्बन्धिनो बहुलातिप्रयोगस्याभावे ऽपि विद्वत्सम्बन्धिने भावान्नासिद्धिरिति भावः । अस्त्वेवमीश्वरे(ऽपि)रूढिः शब्दानाम् । तथापि लोके ऽपि तद्भावात्साम्यमेव । ततश्च हरिरेव मुख्यवाच्य इति नोपपद्यत इत्यत आह मुख्येति ॥ *३,४९७* ॥। मुख्या हि विदुषां तु सा
rūḍhamityeva sādhyaṃ syād ... bahulātiprayogato hetoḥ śabdajātaṃ harau rūḍhameveti sādhyaṃ syāt / ayaṃ prayogaḥ / vimatāḥ śabdā harau rūḍhāḥ / bahulātiprayogavattvāt / nārāyaṇādiśabdavaditi / prayogavattvaṃ ca yaugikeṣvamukhyeṣu cāstītyato bahuletyuktam / ajñātamukhyeṣvamukhyeṣvapi bahulaprayogo 'stītyato 'tiprayogata ityuktam / pūjyaprayogo hyatiprayogaḥ / pūjyatā cāvivekapūrvakatvābhāvaḥ / naca rūḍhayoge rūḍhopacāre rūḍhalakṣaṇāyāṃ vyabhicāraḥ / tatrāpi rūḍhisadbhāvena sapakṣatvāt / samāhāravṛttayo hi tāḥ / *3,496* nanvasiddho 'yaṃ hetuḥ / indrādiśabdānāṃ parameśvare prayogasyaivābhāvādityata āha rūḍhiriti // ... rūḍhirhi dvividhā matā / avidvadvidvadāptyaiva ... atra rūḍhiriti rūḍhijñāpako bahulātiprayogo lakṣyate / āptiḥ sambandhaḥ / tatrāvidvatsambandhino bahulātiprayogasyābhāve 'pi vidvatsambandhine bhāvānnāsiddhiriti bhāvaḥ / astvevamīśvare('pi)rūḍhiḥ śabdānām / tathāpi loke 'pi tadbhāvātsāmyameva / tataśca harireva mukhyavācya iti nopapadyata ityata āha mukhyeti // *3,497* ... mukhyā hi viduṣāṃ tu sā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.