साक्षिणः सर्वथा बाधवैधुर्वलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणो ऽपि प्रपञ्चवद्विनिवृत्तिः किं कस्मान्न शङ्कयते । निवर्तकाभावादित्यत उक्तम् अकस्मादिति ॥ ननु च"सत्यं ज्ञानम्ऽ"तत्सत्यम्ऽ; इत्यादिश्रुत्या, ब्रह्म न निवृत्तिमत् अज्ञानतत्कार्यातिरिक्तत्वात् इत्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात्प्रपञ्चारोपाद्यन्यथानुपपत्त्या, ब्रह्मणःसत्यतावगमात्तन्नेत्यत उक्तम् श्रुतीति ॥ एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्कयतामित्यर्थः । एतदुक्तं भवति । "प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तिकं प्रामाण्यं साक्षी गृह्णाति । किन्तु तात्कालिकमेवऽ; इति वदन्वक्तव्यः । साक्षिणः किमात्यन्तिकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्ति । आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तिकं न गृह्णीयात् । द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तिकं प्रामाण्यं गृह्णीयात् । तथाच न ब्रह्मणो ऽबाध्यत्वमात्यन्तिकं सिद्धयेत् । ततश्च साधकबाधकप्रमाणाभावात्तस्यापि बाधः शङ्कयेत । एवंच तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् । अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात्तदा नियामकं वाच्यमिति । *४,५७४* ननु यदि ब्रह्म बाधार्हं स्यात्तर्हीयता कालेन कुतो न निवृत्तम् । तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्कयत इति चेन्न । उक्तोत्तरत्वात् । अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तिकप्रामाण्यासिद्धेः । अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात् । व्यवस्थापकाभावात् । दूषणान्तरमाह इतःपूर्वमिति ॥ इतः पूर्वं तथाभावाद् यदि नो संसृतेर्गतिः तत्कथमेवं शङ्कयत इत्यत उक्तम् श्रुतीति ॥ प्रमाणानां निवृत्तिर्नामात्यन्तिकप्रामाण्याभावः । तात्पर्यं पूवर्वत् । ननु प्रागितो न प्रपञ्च(वि)लयो ऽकस्मादभूत् । तत्कथमुत्तरत्रापि शङ्कयेत इत्यत (उक्तम्) आह इतः पूर्वमिति ॥ किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं न तद्भविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति । नाद्यः । संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न द्वितीयः । संसारनिवृत्तिप्रसङ्गात् । तथाहि । विद्या संसारनिवृत्तिहेतुः । साप्यविद्यात्मकत्वात्संसृतिरेव । नच तस्या निवर्तकान्तरमस्ति । तथाचाकस्मात्किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः । विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न । एवं तर्हि प्रपञ्चो ऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् । अत एव न तृतीयो ऽपीति । *४,५८१* उक्तमेवार्थं विवृणोति वाक्येति ॥ वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः
sākṣiṇaḥ sarvathā bādhavaidhurvalakṣaṇaprāmāṇyāgrāhakatve viśvasya pūrṇasya brahmaṇo 'pi prapañcavadvinivṛttiḥ kiṃ kasmānna śaṅkayate / nivartakābhāvādityata uktam akasmāditi // nanu ca"satyaṃ jñānam'"tatsatyam'; ityādiśrutyā, brahma na nivṛttimat ajñānatatkāryātiriktatvāt ityādyanumānena, niradhiṣṭhānakasyāsākṣikasya bhramasya, niravadhikasya bādhasya cādarśanātprapañcāropādyanyathānupapattyā, brahmaṇaḥsatyatāvagamāttannetyata uktam śrutīti // eteṣāmapi pramāṇānāṃ pratyakṣādīnāmiva vinivṛttiḥ śaṅkayatāmityarthaḥ / etaduktaṃ bhavati / "prapañcaviṣayāṇāṃ pratyakṣādipramāṇānāṃ nātyantikaṃ prāmāṇyaṃ sākṣī gṛhṇāti / kintu tātkālikameva'; iti vadanvaktavyaḥ / sākṣiṇaḥ kimātyantikaprāmāṇyagrahaṇe śaktirastyuta nāsti / ādye kathaṃ prapañcaviṣayāṇāṃ pratyakṣādīnāṃ prāmāṇyamātyantikaṃ na gṛhṇīyāt / dvitīye brahmaṇaḥ satyatāpratipādakānāṃ śrutyādīnāmapi nātyantikaṃ prāmāṇyaṃ gṛhṇīyāt / tathāca na brahmaṇo 'bādhyatvamātyantikaṃ siddhayet / tataśca sādhakabādhakapramāṇābhāvāttasyāpi bādhaḥ śaṅkayeta / evaṃca tajjñānamapi na tattvajñānamiti na tadarthaḥ prayatnaḥ syāt / atha kvacicchaktiḥ kvacinneti brūyāttadā niyāmakaṃ vācyamiti / *4,574* nanu yadi brahma bādhārhaṃ syāttarhīyatā kālena kuto na nivṛttam / tasmāditaḥpūrvaṃ bādharahitatvānnottaratrāpi bādhaḥ śaṅkayata iti cenna / uktottaratvāt / asyā apyupapatteḥ sākṣigrāhyapramāṇabhāvāyā ātyantikaprāmāṇyāsiddheḥ / anyathā prapañcagrāhiṇāṃ pratyakṣādīnāmapi tathātvasyānivāraṇāt / vyavasthāpakābhāvāt / dūṣaṇāntaramāha itaḥpūrvamiti // itaḥ pūrvaṃ tathābhāvād yadi no saṃsṛtergatiḥ tatkathamevaṃ śaṅkayata ityata uktam śrutīti // pramāṇānāṃ nivṛttirnāmātyantikaprāmāṇyābhāvaḥ / tātparyaṃ pūvarvat / nanu prāgito na prapañca(vi)layo 'kasmādabhūt / tatkathamuttaratrāpi śaṅkayeta ityata (uktam) āha itaḥ pūrvamiti // kimatra yatpūrvaṃ nābhūttaduttaratrāpi na bhaviṣyatīti vyāptiḥ, kiṃvā yatpūrvaṃ na nirhetukaṃ vinaṣṭaṃ na taduttaratrāpi tathā vināśavaditi, yadvā yannirhetukaṃ na tadbhaviṣyatīti vyāptiḥ, pūrvoktistu tadupapādanāyeti / nādyaḥ / saṃsṛteravidyāyā nivṛttyabhāvaprasaṅgāt / na dvitīyaḥ / saṃsāranivṛttiprasaṅgāt / tathāhi / vidyā saṃsāranivṛttihetuḥ / sāpyavidyātmakatvātsaṃsṛtireva / naca tasyā nivartakāntaramasti / tathācākasmātkimapi na nivartata ityaṅgīkāre no saṃsṛtergatiḥ / vidyā svayameva svanivṛttiheturavidyāmātravirodhitvāditi cenna / evaṃ tarhi prapañco 'pyuttarakṣaṇe (svayameva) nivartiṣyata iti śaṅkā syāt / ata eva na tṛtīyo 'pīti / *4,581* uktamevārthaṃ vivṛṇoti vākyeti // vākyānumāditaścet syāt tatprāmāṇyaṃ ca sākṣitaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.