*६,३३३फ़्।* किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया । स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः । लोकवैरूप्यमिति चेत् । तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतो ऽपि तदीश्वरस्याङ्गीक्रियते । प्रयत्नवत एव वा कर्तृत्वं भविष्यति । तस्य विषयनियमार्थं बुद्धिरेष्यव्येति चेन्न । बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः । तथात्वे बुद्धितो भेदो न स्यादिति चेन्न बुद्धित्वादिनैव तदुपपत्तेः । अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदा न स्यात् । विषयनियमार्थमिति च को ऽर्थः । किं विषयविशेषसम्बद्धतयोत्पादा(नार्)थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् । नाद्यः । अनादित्वात् । सादित्वे ऽपि क(का)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः । न द्वितीयः । पौर्वापर्योभावात् । नहि प्रयत्नः उत्पाद्य स्थित्वा वा पश्चाद्विषयेण सम्बद्धयते । न तृतीयः । स्वरूपग्राहकप्रमाणेनैकतद्ग्रहणात् । बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति । *६,३४८फ़्।* महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत् । यदीश्वरो नेच्छावान्स्यात्तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात् । इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात् । आपाद्यस्यानिष्टत्वाभावाच्चेत्यत उक्तं विवृणोति मोक्षार्था इति ॥ *६,३४९* मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः । उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः
*6,333f.* kiñcaivaṃ sati buddhirapi nāṅgīkaraṇīyā / svarūpasāmarthyenaiveśvarasya kartṛtvopapatteḥ / lokavairūpyamiti cet / tatkimudāsīnasya boddhuḥ kartṛtvamupalabdhaṃ loke, yenānicchato 'pi tadīśvarasyāṅgīkriyate / prayatnavata eva vā kartṛtvaṃ bhaviṣyati / tasya viṣayaniyamārthaṃ buddhireṣyavyeti cenna / buddhivatsvato viṣayapravaṇatopapatteḥ / tathātve buddhito bhedo na syāditi cenna buddhitvādinaiva tadupapatteḥ / anyathā paropādhikaviṣayapravaṇatvayoricchāprayatnayorapi bhedā na syāt / viṣayaniyamārthamiti ca ko 'rthaḥ / kiṃ viṣayaviśeṣasambaddhatayotpādā(nār)tham, utotpannasya sthitasyaiva vā tatsambandhārtham, atha tajjñānārtham / nādyaḥ / anāditvāt / sāditve 'pi ka(kā)raṇasāpekṣa(ta)yā buddherapi parato viṣayapravaṇatāpatteḥ / na dvitīyaḥ / paurvāparyobhāvāt / nahi prayatnaḥ utpādya sthitvā vā paścādviṣayeṇa sambaddhayate / na tṛtīyaḥ / svarūpagrāhakapramāṇenaikatadgrahaṇāt / buddherapi parāpekṣāprasaṅgācceti / *6,348f.* mahātātparyayukteśceti yaduktaṃ tadasat / yadīśvaro necchāvānsyāttadā śrutimahātātparyaviṣayo na syādityatra vyāptyabhāvāt / icchārahitasyāpi dharmādestattacchāstramahātātparyaviṣayatvadarśanāt / āpādyasyāniṣṭatvābhāvāccetyata uktaṃ vivṛṇoti mokṣārthā iti // *6,349* mokṣārthāḥ śrutayo yasmāt sa ca tasya prasādataḥ / unninīṣativākyācca lokadṛṣṭānusārataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.