का स्पृहेति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते । कुतः । इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् । तथाहि । "विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाःऽ; इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्त्वेच्छामात्रमिति श्रुत्या स्वमतमुच्यते । ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो नच तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति । अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते । यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपयर्स्ताः स्युः । विशिष्टनिश्चयवन्त इत्येषा प्रशंसानुपपन्ना स्यात् । नच प्रशंसात्वादेवार्थासिद्धिः । पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसानुपपन्ना स्यात् । नच प्रशंसात्वादेवार्थासिद्धिः । पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् । अन्यथा परिणामादिवादा अपि प्रशंस्येरन् । *६,३३०* ॥। कामश्रुतिभ्यश्चैव ॥। न केवलं श्रुतार्थानुपपत्त्या । अपि तर्हि"कामस्तदग्रे समर्वताधिऽ,"सो ऽकामयतऽ; इत्यादिभ्यो भगवतः कामप्रतिपादकश्रुतिभ्यश्चेच्छावगम्यते । एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः । इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न । मुख्ये बाधकाभावात् । *६,३३१* ॥। युक्तितः मा वा सैत्सीदिच्छा ऽर्थापत्तिश्रुतिभ्यां युक्तितस्तावत्सेत्स्यति । तथाहि । ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् । नच मुक्तादौ व्यभिचारः । तत्रापि तस्याः साधयिष्यमाणत्वात् । ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा । ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् । एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् । यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् । नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत्तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते । दुःखादिसाधने बाधो ऽस्ति न बुद्धिसाधन इति चेत् । समं प्रकृते ऽपि । *६,३३३* महातात्पर्ययुक्तेश्च ॥। नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति । मैवम् । महातात्पर्ययुक्तेश्च । यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादिति बाधकसद्भावात् । इच्छा निष्प्रयोजनेति चेत् । स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते । अन्यतः सिद्धे ऽर्थे किं प्रयोजनगवेषणया । ॥। नेच्छामात्रं निषिद्धयते
kā spṛheti śrutyā neśvarasyecchāmātraṃ niṣi(ṣe)dhyate / kutaḥ / icchāvattvasya pramāṇataḥ siddhatvāt / tathāhi / "vibhūtiṃ prasavaṃ tvanye manyante sṛṣṭicintakāḥ / svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā / kālātprasūtiṃ bhūtānāṃ manyante kālacintakāḥ'; iti pariṇāmavādaṃ vivartavādaṃ kālādinimittavādaṃ cānyamatatvenoktvecchāmātramiti śrutyā svamatamucyate / ye sṛṣṭiviṣaye viśiṣṭaniścayavantaste, prabhoricchāmātrādhīnā sṛṣṭirna brahmapariṇāmo naca tadvivarto nāpi kālādinimitteti manyanta iti / anayā prabhoricchāmātrāyattatāṃ sṛṣṭermanyamānānāṃ viniścitā iti praśaṃsayā tasyecchāvattvamavagamyate / yadīśvarasyecchā na syāt tadā tadāyattatāṃ sṛṣṭermanyamānā vipayarstāḥ syuḥ / viśiṣṭaniścayavanta ityeṣā praśaṃsānupapannā syāt / naca praśaṃsātvādevārthāsiddhiḥ / pūrvottarapakṣāvadhāraṇaprasaṅge praśaṃsānupapannā syāt / naca praśaṃsātvādevārthāsiddhiḥ / pūrvottarapakṣāvadhāraṇaprasaṅge praśaṃsāyā api yāthārthyāvaśyambhāvāt / anyathā pariṇāmādivādā api praśaṃsyeran / *6,330* ... kāmaśrutibhyaścaiva ... na kevalaṃ śrutārthānupapattyā / api tarhi"kāmastadagre samarvatādhi',"so 'kāmayata'; ityādibhyo bhagavataḥ kāmapratipādakaśrutibhyaścecchāvagamyate / evaśabdaḥ śrutīnāmarthāpattitaḥ prābalyasūcakaḥ / icchākāmaśabdayorjñānaprayatnopalakṣaṇatvasya sambhavānnārthāpattiśrutibhyāmicchāsiddhiriti cenna / mukhye bādhakābhāvāt / *6,331* ... yuktitaḥ mā vā saitsīdicchā 'rthāpattiśrutibhyāṃ yuktitastāvatsetsyati / tathāhi / īśvara icchāvān ātmatvāt yajñadattavat / naca muktādau vyabhicāraḥ / tatrāpi tasyāḥ sādhayiṣyamāṇatvāt / jñānavattvāt, prayatnavattvāt, kartṛtvādvā / īśvarajñānaṃ vecchāsamānāśrayaṃ jñānatvādasmadādijñānavat / evaṃ tatprayatnamapi pakṣīkṛtya prayoktavyam / yadvā kṣityādikamicchāvajjanyaṃ kāryatvādghaṭavat / nanvevaṃ duḥkhādikamapi sādhayituṃ śakyamiti cettatkimatiprasaṅgabhīruṇā kṣityāderbuddhimatkāraṇakatvānumānamapi tyakṣyate / duḥkhādisādhane bādho 'sti na buddhisādhana iti cet / samaṃ prakṛte 'pi / *6,333* mahātātparyayukteśca ... nanvīśvarasya icchābhāve bādhakābhāvādaprayojakatvamanumānānāmiti / maivam / mahātātparyayukteśca / yadīśvarasya icchā na syāt tadā tasminsarvavedānāṃ (vedāntānāṃ) mahātātparyaṃ na syāditi bādhakasadbhāvāt / icchā niṣprayojaneti cet / syādevaṃ yadi prayojanamanurudhya kalpyate / anyataḥ siddhe 'rthe kiṃ prayojanagaveṣaṇayā / ... necchāmātraṃ niṣiddhayate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.