*६,३६फ़्।* सेति । या विदितशब्दशक्तिभिर्वृद्धैः शास्त्रलिङ्गतः सम्पादिता । मूर्खैरविदितशक्तिभिर्व्युत्पादिता । व्युत्पत्तिर्मूर्खव्युत्पत्तिः । हिशब्दो हेतुसूचकः । नहि व्युत्पत्तिविषयस्य परोक्षत्वमपरोक्षत्वं च व्युत्पत्तेर्दैर्बल्ये प्राबल्ये च कारणम् । अपि तर्हि व्युत्पादकस्य (शब्द)शक्तितत्त्वज्ञत्त्वम् । तदनुसारेण व्युत्पादनं प्राबल्ये, अन्यत्तु दौर्बल्ये । अन्यथैखण्डे साक्षात्कृते चन्दनशब्दस्य व्युत्पत्तिः प्रबला । लिङ्गतो ऽपि ज्ञापिते चन्दने दुबर्लेति स्यात् । अस्ति चेदं कारणं प्रकृते । इतीयमेव प्रबला नेतरेति । यत् यस्मादे(वं)वैतत् तस्मात्तत्तन्नामान एवैत इति पूर्वेण सम्बन्धः । *६,३८* नन्वेतदयुक्तम् । यद्युक्तिविरोधेन वेदस्य स्वार्थात्प्रच्यावनम् । तस्य सकलप्रमाणापेक्षया च प्राबल्यम् । यत्क्वचित्स्वार्थात्प्रच्यावनं तदुपजीव्यविरोध एव । नचात्र तथेत्यत आह दृढेति ॥ दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः
*6,36f.* seti / yā viditaśabdaśaktibhirvṛddhaiḥ śāstraliṅgataḥ sampāditā / mūrkhairaviditaśaktibhirvyutpāditā / vyutpattirmūrkhavyutpattiḥ / hiśabdo hetusūcakaḥ / nahi vyutpattiviṣayasya parokṣatvamaparokṣatvaṃ ca vyutpatterdairbalye prābalye ca kāraṇam / api tarhi vyutpādakasya (śabda)śaktitattvajñattvam / tadanusāreṇa vyutpādanaṃ prābalye, anyattu daurbalye / anyathaikhaṇḍe sākṣātkṛte candanaśabdasya vyutpattiḥ prabalā / liṅgato 'pi jñāpite candane dubarleti syāt / asti cedaṃ kāraṇaṃ prakṛte / itīyameva prabalā netareti / yat yasmāde(vaṃ)vaitat tasmāttattannāmāna evaita iti pūrveṇa sambandhaḥ / *6,38* nanvetadayuktam / yadyuktivirodhena vedasya svārthātpracyāvanam / tasya sakalapramāṇāpekṣayā ca prābalyam / yatkvacitsvārthātpracyāvanaṃ tadupajīvyavirodha eva / nacātra tathetyata āha dṛḍheti // dṛḍhayuktivirodhe tu sarvatra nyāya īdṛśaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.