अधिकारिभिरन्तर्हितार्थदर्शनसमर्थैर्योगिभिः । एतच्च (भाष्योदा) उदाहृतस्मृतिसिद्धम् । एतेन"दृश्यते चऽ; इति सूत्रं व्याख्यातं भवति । *६,२६* ये तु मीमांसकंमन्या विग्रहवती देवतां न सहन्ते ते ऽप्यनेनैव निरस्ता भवन्ति । अर्थापत्त्या प्रत्यक्षेण च तत्सिद्धेः । समर्थितं चागमानां सिद्धार्थे प्रामाण्यम् । अनुपलम्भः अनेकत्र युगपत्सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत् । नच पिशाचादयो ऽपि न सन्ति । मन्त्रौषधादिनास्मदादिभिरप्युपलभ्यमानत्वात् । अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः । वक्ष्यति च सूत्रकारो"देवादिवत्ऽ; इत्युक्त्वा तत्रापि विप्रतिपन्नं प्रति"अपि लोकःऽ; इति । किञ्चेन्द्राग्निवरुणादिपदं कस्यचिद्वाचकं पदत्वात् गोपदवत् । नचाचेतनमात्रे तत्प्रयोगो ऽस्ति । नच चेतनो मुक्तः प्रलीनो वा तद्वाच्यः । जगद्वयापारसम्बन्धिन्यपि प्रयोगात् । नचासौ विग्रहविधुरः सम्भवतीत्यलम् । *६,२९* ननु तथापि मृदब्रवीदित्यादिवेदस्याबोधकत्वलक्षणमप्रामाण्यं दुर्निवारम् । तथाहि । यद्यपि वाक्यतापन्नानि पदानि वाक्यार्थं पदार्थानामन्योन्यसंसर्गविशेषरूपमपूर्वमेवावगमयन्ति, तथापि पदार्थैर्वाच्यवाचकभावरूपसम्बन्धप्रतिपत्तिलक्षणां व्युत्पत्तिमपेक्षन्ते अन्वयव्यतिरेकाभ्यां तथावधारणात् । नच मृदादिशब्दानां पृथिव्यादिषु देवतासु व्युत्पत्तिस्सम्भवति । सम्बन्ध(ज्ञान)स्य सम्बन्धिज्ञानसापेक्षत्वात् । प्रतिसम्बन्धिरूपायाश्च देवतायाः प्रत्यक्षेण दुरधिगमत्वात् । लिङ्गाभावेनानुमानायोगात् । नच शब्दतस्तदवगमः । सत्यां व्युत्पत्तौ शब्दतो देवतागमः, सति च तस्मिन्व्युत्पत्तिरिति परस्पराश्रयत्वात् । नच शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम् । अदृष्टकल्पनाप्रसङ्गात् । यद्यपि दृश्यते चेत्युक्तम् । तथाप्यस्मदादीनां व्युत्पत्यनुपपत्तिरेव । देवतादर्शनं तु (च)योगिनां वेदार्थज्ञानोत्तरभावनाजन्यमङ्गीक्रियत इति न व्युत्पत्तिहेतुः । लक्षणापि वाच्यार्थदर्शनं विनानुपपन्नैवेत्यत आह शास्त्रोक्तेति ॥ शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः चशब्दो ऽप्यर्थः । एवशब्दः सामर्थ्याच्छास्त्रशब्देन सम्बन्धनीयः । शास्त्रैकसमधिगम्यवस्तुन इति । प्रत्यक्षाद्यगम्याया अपि देवताया इति यावत् । वस्तुनो व्युत्पत्तिरति मृदादिशब्दस्य तत्सम्बन्धिवाचकत्वप्रतिपत्तिरित्यर्थः । युज्यत इति शेषः । अनेन च एवशब्दस्य सम्बन्धः । शास्त्रलिङ्गतस्तज्ज्ञानसम्भवादिति शेषः । *६,३३फ़्।* यद्वा शास्त्रोक्तवस्तुनो ऽपि शास्त्रलिङ्गतो ऽधिगतिसम्भवात्तत्र शब्दस्य व्युत्पत्तिर्युज्यत इति योजना । देवताया इति वक्तव्ये शास्त्रोक्तवस्तुनश्चेति वचनं शङ्कानुवादरूपम् । शास्त्रमेव लिङ्गं शास्त्रलिङ्गम् । मृदब्रवीदित्यादिशास्त्रादेवोपपत्तिविरोधसहितान्मृदादिशब्दवाच्यतयैव देवतास्वरूपमवगम्यत इति । *६,३४* यद्वा शास्त्रं तैस्तैः प्रणीतं तत्सद्भावे लिङ्गम् । नहि वेदादन्यद्वाक्यं वक्तारमन्तरेणोपपद्यते । ततश्च वचनलिङ्गानुमिते वक्तरि वृद्धैरन्यान्प्रति मृदादिशब्दाः शक्यव्युत्पादनाः । यद्वा शास्त्रं शासनम् । वर्षणाद्युपलक्षणमेतत् । नहि वर्षणादिक्रिया विकर्तृका सम्भवति । तथाच तयानुमिते कतर्रि शक्य(त)न्त एव वृद्धैः श(ब्दो)ब्दा व्युत्पादयितुम् । अथवा शास्त्रोक्तं लिङ्गमव्यभिचरितो धर्मः शास्त्रलिङ्गम् । पाशहस्तत्वसहस्राक्षत्वादिशास्त्रोक्ततत्तद्देवतालक्षणान्युपादाय व्युत्पादनं शक्यमेव । यथा खलु लोके यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णी, दीर्घग्रीवादिमान्पशुरुष्ष इति लक्षणान्युपादाय मुद्गपर्णीत्यार्(ण्या)दिशब्दा व्युत्पाद्यन्ते, तथा यः पाशहस्तत्वादिमान्सो ऽबादिशब्दार्थ इति व्युत्पादनं सुवचन(कर)मेव । पाशादिशब्दास्तु लोकत एव गृहीतसङ्गतयः । समासस्य वाक्यत्वेन व्युत्पत्त्यनपेक्षत्वमिति न कश्चिद्विरोधः । न केवलं मृदादिशब्दानामयं व्युत्पत्तिप्रकारः । किन्नामातीन्द्रिये धर्मादावपि । ततश्चैवं वेदप्रामाण्यमाक्षिपतो ऽतीन्द्रियाथर्व्यवहारमात्रविलयप्रसङ्ग इति सूचयितुं शास्त्रोक्तवस्तुनश्चेति सामान्येनोक्तम् । *६,३६* एवं तर्हि कुटिलिकेयं व्युत्पत्तिर्दुबर्ला । साक्षात्कृते तु मृदादावेव प्रबला ततश्च देवतानां मुख्यप्रतिपाद्यत्वमित्ययुक्तम् । किन्तु मृदादीनामेव । व्युत्पत्त्यनुसारित्वात्प्रतिपादनस्येत्यत आह व्युत्पत्तिरिति ॥ व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत्
adhikāribhirantarhitārthadarśanasamarthairyogibhiḥ / etacca (bhāṣyodā) udāhṛtasmṛtisiddham / etena"dṛśyate ca'; iti sūtraṃ vyākhyātaṃ bhavati / *6,26* ye tu mīmāṃsakaṃmanyā vigrahavatī devatāṃ na sahante te 'pyanenaiva nirastā bhavanti / arthāpattyā pratyakṣeṇa ca tatsiddheḥ / samarthitaṃ cāgamānāṃ siddhārthe prāmāṇyam / anupalambhaḥ anekatra yugapatsannidhānaṃ ca śaktiviśeṣādupapadyate piśācādivat / naca piśācādayo 'pi na santi / mantrauṣadhādināsmadādibhirapyupalabhyamānatvāt / arthakriyayā saṃvādena ca prāmāṇyopapatteḥ / vakṣyati ca sūtrakāro"devādivat'; ityuktvā tatrāpi vipratipannaṃ prati"api lokaḥ'; iti / kiñcendrāgnivaruṇādipadaṃ kasyacidvācakaṃ padatvāt gopadavat / nacācetanamātre tatprayogo 'sti / naca cetano muktaḥ pralīno vā tadvācyaḥ / jagadvayāpārasambandhinyapi prayogāt / nacāsau vigrahavidhuraḥ sambhavatītyalam / *6,29* nanu tathāpi mṛdabravīdityādivedasyābodhakatvalakṣaṇamaprāmāṇyaṃ durnivāram / tathāhi / yadyapi vākyatāpannāni padāni vākyārthaṃ padārthānāmanyonyasaṃsargaviśeṣarūpamapūrvamevāvagamayanti, tathāpi padārthairvācyavācakabhāvarūpasambandhapratipattilakṣaṇāṃ vyutpattimapekṣante anvayavyatirekābhyāṃ tathāvadhāraṇāt / naca mṛdādiśabdānāṃ pṛthivyādiṣu devatāsu vyutpattissambhavati / sambandha(jñāna)sya sambandhijñānasāpekṣatvāt / pratisambandhirūpāyāśca devatāyāḥ pratyakṣeṇa duradhigamatvāt / liṅgābhāvenānumānāyogāt / naca śabdatastadavagamaḥ / satyāṃ vyutpattau śabdato devatāgamaḥ, sati ca tasminvyutpattiriti parasparāśrayatvāt / naca śabdaviśeṣasyāgṛhītasaṅgatikasyaiva bodhakatvam / adṛṣṭakalpanāprasaṅgāt / yadyapi dṛśyate cetyuktam / tathāpyasmadādīnāṃ vyutpatyanupapattireva / devatādarśanaṃ tu (ca)yogināṃ vedārthajñānottarabhāvanājanyamaṅgīkriyata iti na vyutpattihetuḥ / lakṣaṇāpi vācyārthadarśanaṃ vinānupapannaivetyata āha śāstrokteti // śāstroktavastunaścaiva vyutpattiḥ śāstraliṅgataḥ caśabdo 'pyarthaḥ / evaśabdaḥ sāmarthyācchāstraśabdena sambandhanīyaḥ / śāstraikasamadhigamyavastuna iti / pratyakṣādyagamyāyā api devatāyā iti yāvat / vastuno vyutpattirati mṛdādiśabdasya tatsambandhivācakatvapratipattirityarthaḥ / yujyata iti śeṣaḥ / anena ca evaśabdasya sambandhaḥ / śāstraliṅgatastajjñānasambhavāditi śeṣaḥ / *6,33f.* yadvā śāstroktavastuno 'pi śāstraliṅgato 'dhigatisambhavāttatra śabdasya vyutpattiryujyata iti yojanā / devatāyā iti vaktavye śāstroktavastunaśceti vacanaṃ śaṅkānuvādarūpam / śāstrameva liṅgaṃ śāstraliṅgam / mṛdabravīdityādiśāstrādevopapattivirodhasahitānmṛdādiśabdavācyatayaiva devatāsvarūpamavagamyata iti / *6,34* yadvā śāstraṃ taistaiḥ praṇītaṃ tatsadbhāve liṅgam / nahi vedādanyadvākyaṃ vaktāramantareṇopapadyate / tataśca vacanaliṅgānumite vaktari vṛddhairanyānprati mṛdādiśabdāḥ śakyavyutpādanāḥ / yadvā śāstraṃ śāsanam / varṣaṇādyupalakṣaṇametat / nahi varṣaṇādikriyā vikartṛkā sambhavati / tathāca tayānumite katarri śakya(ta)nta eva vṛddhaiḥ śa(bdo)bdā vyutpādayitum / athavā śāstroktaṃ liṅgamavyabhicarito dharmaḥ śāstraliṅgam / pāśahastatvasahasrākṣatvādiśāstroktatattaddevatālakṣaṇānyupādāya vyutpādanaṃ śakyameva / yathā khalu loke yathā mudgastathā mudgaparṇī, yathā māṣastathā māṣaparṇī, dīrghagrīvādimānpaśuruṣṣa iti lakṣaṇānyupādāya mudgaparṇītyār(ṇyā)diśabdā vyutpādyante, tathā yaḥ pāśahastatvādimānso 'bādiśabdārtha iti vyutpādanaṃ suvacana(kara)meva / pāśādiśabdāstu lokata eva gṛhītasaṅgatayaḥ / samāsasya vākyatvena vyutpattyanapekṣatvamiti na kaścidvirodhaḥ / na kevalaṃ mṛdādiśabdānāmayaṃ vyutpattiprakāraḥ / kinnāmātīndriye dharmādāvapi / tataścaivaṃ vedaprāmāṇyamākṣipato 'tīndriyātharvyavahāramātravilayaprasaṅga iti sūcayituṃ śāstroktavastunaśceti sāmānyenoktam / *6,36* evaṃ tarhi kuṭilikeyaṃ vyutpattirdubarlā / sākṣātkṛte tu mṛdādāveva prabalā tataśca devatānāṃ mukhyapratipādyatvamityayuktam / kintu mṛdādīnāmeva / vyutpattyanusāritvātpratipādanasyetyata āha vyutpattiriti // vyutpattiḥ sā balavatī mūrkhavyutpattitā hi yat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.