द्वितीये व्याप्त्यभावः । न हि"यो यदपेक्षया पूर्वभावी, स एव तत्कारणं, नान्यःऽ; इति नियमो ऽस्ति । ततः प्रागभावस्य जगत्कारणत्वे ऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति । मैवम् । स्यादेतदेवम् यदीश्वरादीनां प्रलये सत्त्वमेव स्यात् । नचैतदस्ति । सिद्धान्तिना कारणत्वेनाशास्यमानमीश्वरादिकं प्रलये ऽसद्भवितुमर्हति भावत्वान्महदादिकार्यवदिति युक्तिवि(रुद्धत्वतात्)रोधः । एवञ्च(ञ्चेदी) ईश्वरादीनां प्रलये ऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधने ऽपि तस्यैव कारणत्वमिति सिद्धयति । ननु च यत्कार्यं तत्सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरो ऽवश्यमङ्गीकरणीयः । न । प्रलये तत्सत्ता(त्त्वा)ऽभावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः । न चैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रामाण्यमिति साम्प्रतम् । "असदेवेदमग्र आसीत् । तदसदेव सन्मनो ऽकुरुत । असतः सदजायतऽ; इत्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात् । प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात् । प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयतद्वोपपत्तेः । *६,४७फ़्।* ननु"एतेन सर्वेऽ; इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम् । तत्किं शब्दानामन्यत्र शक्तिरेव नास्ति, किं वा श्रुतेस्तत्र तात्पर्याभावः । नाद्यः । समाकर्षाङ्गीकारात् । न द्वितीयः । युक्त्युपतायास्तत्र तात्पर्योपपत्तेः । तथापि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेन्न । अलौकिकार्थस्य यथागमं ग्राह्यत्वात् । सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनो ऽपि समानः । इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम् । अत एव श्रुतिराह"तन्मनो ऽकुरुतऽ; इति । तत् तस्मात्, तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति । तदिदमुक्तम् असदिति ॥ अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते । अनुमीयते च तथा । तस्मात्स एव जगत्कर्तेति । अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः । *६,५४* अपरापि वृत्तिः । भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलये ऽसदनुमीयत इति । अत्रासच्छब्दः कर्तृसाधनः । इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याचष्टे(व्याख्याति) असदिति ॥ ॥। इत्यसत् कारणं न हि
dvitīye vyāptyabhāvaḥ / na hi"yo yadapekṣayā pūrvabhāvī, sa eva tatkāraṇaṃ, nānyaḥ'; iti niyamo 'sti / tataḥ prāgabhāvasya jagatkāraṇatve 'pi tatsamānanyāyānāmīśvarādīnāmapi tatkāraṇatvamaṅgīkāryamiti / maivam / syādetadevam yadīśvarādīnāṃ pralaye sattvameva syāt / nacaitadasti / siddhāntinā kāraṇatvenāśāsyamānamīśvarādikaṃ pralaye 'sadbhavitumarhati bhāvatvānmahadādikāryavaditi yuktivi(ruddhatvatāt)rodhaḥ / evañca(ñcedī) īśvarādīnāṃ pralaye 'sattvasiddhau prāgabhāvasya kāraṇatvamātrasādhane 'pi tasyaiva kāraṇatvamiti siddhayati / nanu ca yatkāryaṃ tatsakartṛkamiti niyamānmahadādikartṛtveneśvaro 'vaśyamaṅgīkaraṇīyaḥ / na / pralaye tatsattā(ttvā)'bhāvasya pramitatvena prāgabhāvasyaiva jagatkartṛtvopapatteḥ / na caitadanumānajātamudāhṛtaśrutiviruddhatvenāprāmāṇyamiti sāmpratam / "asadevedamagra āsīt / tadasadeva sanmano 'kuruta / asataḥ sadajāyata'; ityādiśrutisaṃvāditvena śrutimātrataḥ prābalyāt / prabalayuktiviruddhāyāśca śruteḥ svārthaparityāgasyātītādhikaraṇe sthitatvāt / prāgabhāvasyāpi svarūpasattvādinā sadevetyādiprayogaviṣayatadvopapatteḥ / *6,47f.* nanu"etena sarve'; ityasadādiśabdānāṃ brahmārthatvamuktam / tatkiṃ śabdānāmanyatra śaktireva nāsti, kiṃ vā śrutestatra tātparyābhāvaḥ / nādyaḥ / samākarṣāṅgīkārāt / na dvitīyaḥ / yuktyupatāyāstatra tātparyopapatteḥ / tathāpi prāgabhāvasyaiva kāraṇatvaṃ kartṛtvaṃ ca na kvāpyupalabdhamiti cenna / alaukikārthasya yathāgamaṃ grāhyatvāt / santatotpattiprasaṅgastu brahmavādino 'pi samānaḥ / icchādikāraṇānāṃ kādācitkatvena tatsamādhānaṃ mamāpi samānam / ata eva śrutirāha"tanmano 'kuruta'; iti / tat tasmāt, tattatprāgabhāvasyaiva tattatkartṛtvāduktamayuktamiti / tadidamuktam asaditi // abhāvaḥ śrutyā jagatkartṛtvenocyate / anumīyate ca tathā / tasmātsa eva jagatkarteti / atrāsacchabdo bhāvasādhanaḥ śrutyanugamārthamabhāve prayuktaḥ / *6,54* aparāpi vṛttiḥ / bhāvatvahetunā kāryavadīśvarādikamapi pralaye 'sadanumīyata iti / atrāsacchabdaḥ kartṛsādhanaḥ / iha prathamāṃ vṛttimabhipretya neti siddhāntāṃśaṃ vyācaṣṭe(vyākhyāti) asaditi // ... ityasat kāraṇaṃ na hi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.