इति ॥। सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात् तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात् । वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति । नच प्रतिपिण्डं व्यवहारादिकमस्ति । तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात् । अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात् । अथ विनैवैकेन निमित्तेनोपदेशाद्यभावे ऽपि गोपिण्डान्तरे गोशब्द(सङ्गतिं)सङ्केतं गृह्णीयात् । तदाश्वपिण्डे ऽपि किन्न गृह्णीयात् । अविशेषात् । अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनावगते नायं दोषः प्रादुष्यात् । तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथानुपपत्त्यानुगतमेकमभ्युपगन्तव्यमेव । *८,२८* ननु कथं तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गतिग्रहणम् । उच्यते । तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः । उपाधीनां व्यावृत्तत्वे ऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात् । *८,३४* किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात् । ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात् । *८,३५* कायर्कारणभावे ह्यन्वयव्यतिरेकौ वोपदेशो वा प्रमाणम् । नच व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते । नियमव्यभिचारयोदुर्ज्ञानत्वात् । *८,३६* उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम् । *८,३७* अपि च व्याप्तिज्ञानमप्यनुगतसामान्याभावे ऽनुपपन्नं स्यात् । व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः । *८,३७फ़्।* सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत् । द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे (ह्य)त्वन्यतरस्याप्रामाण्यमेव स्यात् । भिन्नविषयत्वे नापवादविषयो ऽस्ति । अस्ति च तावद्गौरयमित्यनुगताकारप्रत्ययः । नचासौ व्यावृत्तेषु सम्भवति । भ्रान्तत्वप्रसङ्गात् । नचैतत्सवर्मन्यापोहनिबन्धनम् । तस्यापि प्रतिपिण्डं व्यावृत्तत्वात् । अनुगतत्वे वा किमपराद्धं सामान्येन । तथाच विधिरूपः प्रत्ययो ऽपि समाहितः स्यात् । *८,४०* एवंचाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यमित्यत आह व्युत्पत्तिरपीति ॥ ॥। व्युत्पत्तिरपि हि सादृश्येनैव गम्यते अपिपदं कार्यकारणभावावधारणादिसमुच्चयार्थम् । हिशब्दो यस्मादित्यर्थे । गम्यते अभ्युपगम्यते ऽवगम्यत इति । अस्ति तावत्सादृश्यं नाम पदार्थान्तरम् । गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् । तेनैव चोपपद्यते व्युत्पत्त्यादिकम् । तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् । *८,४१* सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते सर्वेष्विति ॥ सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते
iti ... sarveṣu gopiṇḍeṣu yadyanugatamekaṃ gotvasāmānyaṃ na syāt tadā tatra gośabdasaṅgatigrahaṇalakṣaṇā vyutpattirna syāt / vṛddhavyavahāropadeśādinā hi vyutpattirbhavati / naca pratipiṇḍaṃ vyavahārādikamasti / teṣāmānantyena vyutpattāveva puruṣāyuṣaparyavasānaprasaṅgāt / ato yatropadeśādikaṃ tatraiva vyutpattirvyavahāraśceti syāt / atha vinaivaikena nimittenopadeśādyabhāve 'pi gopiṇḍāntare gośabda(saṅgatiṃ)saṅketaṃ gṛhṇīyāt / tadāśvapiṇḍe 'pi kinna gṛhṇīyāt / aviśeṣāt / anugatagotve tu gośabdavṛttinimittatayopadeśādināvagate nāyaṃ doṣaḥ prāduṣyāt / tasmādanekeṣvekaśabdasaṅgatigrahaṇānyathānupapattyānugatamekamabhyupagantavyameva / *8,28* nanu kathaṃ tarhi sāmānyarahiteṣu pṛthivyādiṣu bhūtamūrtādiśabdasaṅgatigrahaṇam / ucyate / tatrāpi bāhyaikendriyagrāhyaguṇāśrayatveyattāvacchinnaparimāṇatvādyupādhinibandhanaiva vyutpattiḥ / upādhīnāṃ vyāvṛttatve 'pyanugatasāmānyāśrayatvena doṣābhāvāt / *8,34* kiñcānugatatantutvapaṭatvādisāmānyābhāve kāryakāraṇabhāvāvadhāraṇaṃ na syāt / tataśca kāryārthinaḥ kāraṇe pravṛttirna syāt / *8,35* kāyarkāraṇabhāve hyanvayavyatirekau vopadeśo vā pramāṇam / naca vyāvṛtteṣu vastuṣvanvayavyatirekagrahaṇamupapadyate / niyamavyabhicārayodurjñānatvāt / *8,36* upadeśaścānanteṣu na sambhavatyevetyuktam / *8,37* api ca vyāptijñānamapyanugatasāmānyābhāve 'nupapannaṃ syāt / vyāvṛttavastūnāmanvayavyatirekāvagamānupapatteḥ / *8,37f.* sāmānyāpavādanyāyaścānugatasāmānyābhāve na bhavet / dvayoḥ pramāṇayorekasvarūpaviṣayatve (hya)tvanyatarasyāprāmāṇyameva syāt / bhinnaviṣayatve nāpavādaviṣayo 'sti / asti ca tāvadgaurayamityanugatākārapratyayaḥ / nacāsau vyāvṛtteṣu sambhavati / bhrāntatvaprasaṅgāt / nacaitatsavarmanyāpohanibandhanam / tasyāpi pratipiṇḍaṃ vyāvṛttatvāt / anugatatve vā kimaparāddhaṃ sāmānyena / tathāca vidhirūpaḥ pratyayo 'pi samāhitaḥ syāt / *8,40* evaṃcāṅgīkārye gotvāderanugame nityatvamapyanivāryamityata āha vyutpattirapīti // ... vyutpattirapi hi sādṛśyenaiva gamyate apipadaṃ kāryakāraṇabhāvāvadhāraṇādisamuccayārtham / hiśabdo yasmādityarthe / gamyate abhyupagamyate 'vagamyata iti / asti tāvatsādṛśyaṃ nāma padārthāntaram / gosadṛśo gavaya ityādyadhyakṣasiddhatvāt / tenaiva copapadyate vyutpattyādikam / tasmānna tadarthaṃ gotvāderanugatatvaṃ kalpanīyam / *8,41* sādṛśyena tāvat śabdavyutpattiprakāraṃ darśayitumupakramate sarveṣviti // sarveṣu yugapacchabdaḥ sadṛśeṣu pravartate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.