यद्यप्युपदेशो नैकपिण्डविशेषगोचरस्तथापि गामानयेत्युक्ते ऽभीष्यगोपिण्डावगतिः स्यादेव । कथम् । प्राप्तितो योग्यत्वात् । अतीतानागतानामत्यन्तविप्रकृष्टदेशस्थानां गवामानयनयोग्यताभावमालोच्य तत्परित्याग इत्यर्थः । तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवति इति चेन्न । गामित्येकवचनात् । तथापि यस्य कस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात् । नाभीष्यस्यैवेति चेन्न । शबलं बहुलां कालाक्षीमित्यादिविशेषणात् । एतदुक्तं भवति । गोशब्दाद्भवत्येव सर्वगोप्रतिपत्तिः । किन्तु लिङ्गप्रकरणादिबलात्पिण्डविशेषे कार्यप्रतिपत्तिरिति । *८,४५* अस्त्वयं गौरित्यादिवाक्यं व्याप्तिपरम् । ततः किमित्यत आह शक्तिरिति ॥ ॥। छक्तिः सादृश्यगा यतः
yadyapyupadeśo naikapiṇḍaviśeṣagocarastathāpi gāmānayetyukte 'bhīṣyagopiṇḍāvagatiḥ syādeva / katham / prāptito yogyatvāt / atītānāgatānāmatyantaviprakṛṣṭadeśasthānāṃ gavāmānayanayogyatābhāvamālocya tatparityāga ityarthaḥ / tarhi sannihitasarvagopratipattiḥ kuto na bhavati iti cenna / gāmityekavacanāt / tathāpi yasya kasyacidekasya gopiṇḍasya pratipattiḥ syāt / nābhīṣyasyaiveti cenna / śabalaṃ bahulāṃ kālākṣīmityādiviśeṣaṇāt / etaduktaṃ bhavati / gośabdādbhavatyeva sarvagopratipattiḥ / kintu liṅgaprakaraṇādibalātpiṇḍaviśeṣe kāryapratipattiriti / *8,45* astvayaṃ gaurityādivākyaṃ vyāptiparam / tataḥ kimityata āha śaktiriti // ... chaktiḥ sādṛśyagā yataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.