यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा *८,४०१फ़्।* "स्तुहि गर्तगम्ऽ; इत्यनेन"स्तुहि श्रुतं गर्तमदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृऌआ जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मान्निवपन्तु सेनाऽ; इति (ऋ।२-३३-११) । "उत्पिपेषऽ; इत्यनेन"रुद्रस्य त्वेव धनुरार्त्निः रि उत्पिपेषऽ; इति । "गृणीषःऽ; इत्यनेन"कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मऽ; इति (ऋ।२-३३-१२) । "पदम्ऽ; इत्यनेन"तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम्ऽ; इति (ऋ।५-३-३) । "यं कामयेऽ; इत्यनेन"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्ऽ; इति (ऋ।१०-१२५-५) । "माऽ; इत्यनेन"मा शिश्नदेवा अपि गुरृतं नऽ; इति । "घ्नन्ऽ; इत्यनेन"घ्नंच्छिश्नदेवां अभिवर्पसा भूद्ऽ; इति । "एकोसौऽ; इत्यनेन"एको नारायण आसीन्न ब्रह्मा नच शङ्करःऽ; इति । "तस्मात्ऽ; इत्यनेन"स रुष्यः स प्रसन्नो यद्रुष्यो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूताम्ऽ; इति । "वैष्णवम्ऽ; इत्यनेन"तेषां मखं वैष्णवं यश आर्छत्ऽ; इति । यज्ञेनेति, अबध्नन्निति, यो भूतानामिति प्रसिद्धम् । *८,४०२* कथमेताभिः श्रुतिभिः पशुपतेनिर्र्देषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह इत्यादीति ॥ इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः
yo bhūtānāmadhipatī rudrastanticaro vṛṣā *8,401f.* "stuhi gartagam'; ityanena"stuhi śrutaṃ gartamadaṃ yuvānaṃ mṛgaṃ na bhīmamupahatnumugram / mṛḷā jaritre rudra stavāno 'nyaṃ te asmānnivapantu senā'; iti (ṛ.2-33-11) / "utpipeṣa'; ityanena"rudrasya tveva dhanurārtniḥ ri utpipeṣa'; iti / "gṛṇīṣaḥ'; ityanena"kumāraścitpitaraṃ vandamānaṃ prati nānāma rudropayantam / bhūrerdātāraṃ satpatiṃ gṛṇīṣe stutastvaṃ bheṣajā rāsyasma'; iti (ṛ.2-33-12) / "padam'; ityanena"tava śriye maruto marjayanta rudra yatte janima cāru citram / padaṃ yadviṣṇorupamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām'; iti (ṛ.5-3-3) / "yaṃ kāmaye'; ityanena"yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām'; iti (ṛ.10-125-5) / "mā'; ityanena"mā śiśnadevā api gurṛtaṃ na'; iti / "ghnan'; ityanena"ghnaṃcchiśnadevāṃ abhivarpasā bhūd'; iti / "ekosau'; ityanena"eko nārāyaṇa āsīnna brahmā naca śaṅkaraḥ'; iti / "tasmāt'; ityanena"sa ruṣyaḥ sa prasanno yadruṣyo yatprasannastasmādrudrasamprasādāvabhūtām'; iti / "vaiṣṇavam'; ityanena"teṣāṃ makhaṃ vaiṣṇavaṃ yaśa ārchat'; iti / yajñeneti, abadhnanniti, yo bhūtānāmiti prasiddham / *8,402* kathametābhiḥ śrutibhiḥ paśupatenirrdeṣatvaṃ viruddhamityatastāsāṃ tātparyamāha ityādīti // ityādiśrutisāmarthyāt pāratantryaṃ janirmṛtiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.