संसारिपदमीश्वरातिरिक्तोपलक्षणम् । सर्वेशमिति विशेष्यपदम् । तेन न पौनरुक्तयम् । उपमैवोपमम् । स्वार्थिको ऽण् । नास्त्यौपमं यस्यासावनौपमः । यद्वोपमाया अयमौपमः । सोपम इति यावत् । ततो नञ्समासः । अस्य प्रपञ्चस्य । इमे कथिता दोषा इति शेषः । न केवलं सर्वेशं स्वरूपेणानङ्गीर्कुर्वतामिमे दोषाः । किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि । तथात्वे फलतस्तस्यानीश्वरत्वादिति । *७,२३७* किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह तस्मादिति ॥ तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम्
saṃsāripadamīśvarātiriktopalakṣaṇam / sarveśamiti viśeṣyapadam / tena na paunaruktayam / upamaivopamam / svārthiko 'ṇ / nāstyaupamaṃ yasyāsāvanaupamaḥ / yadvopamāyā ayamaupamaḥ / sopama iti yāvat / tato nañsamāsaḥ / asya prapañcasya / ime kathitā doṣā iti śeṣaḥ / na kevalaṃ sarveśaṃ svarūpeṇānaṅgīrkurvatāmime doṣāḥ / kintu tamaṅgīkṛtyāpi jīvā(dya)nyatvādiviśeṣaṇāni tasyānaṅgīkurvatāmapi / tathātve phalatastasyānīśvaratvāditi / *7,237* kimato yadyevamanīśvaramatamasamañjasamityata āha tasmāditi // tasmācchrutipramāṇena yuktibhiśca paro hariḥ / aṅgīkāyartamo nityaḥ sarvairapi suniścitam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.