महागुणस्य चाल्पो ऽपि गुणः स्यादिति चेद् भवेत् इतिचेदापाद्यते । तद्भवेदेत्यर्थः । अत्र गुणग्रहणं क्रियादेरप्युपलक्षणम् । गुणकालयोर्यथेष्यमुपादानं प्राथम्यनिरासाथर्म् । तेनोक्तकल्पनागौरवपरिहारं सूचयति । *७,३६४* ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते । कथं तर्हि नैव गुणाल्पत्वमिति निराकरणमित्यतो ऽभिसन्धिमुद्घाटयति तावत्त्वमेवेति ॥ तावत्त्वमेव नैव स्याद् ॥। अल्पत्वमेवेत्यर्थः । इत्युक्तं प्रागिति शेषः । कुतो न स्यादिति चेत् । आपादकाभावादित्याह देशे ऽपीति ॥ ॥। देशे ऽप्येतन्न नो मतम्
mahāguṇasya cālpo 'pi guṇaḥ syāditi ced bhavet iticedāpādyate / tadbhavedetyarthaḥ / atra guṇagrahaṇaṃ kriyāderapyupalakṣaṇam / guṇakālayoryatheṣyamupādānaṃ prāthamyanirāsātharm / tenoktakalpanāgauravaparihāraṃ sūcayati / *7,364* nanu yadi kālālpatvaṃ guṇālpatvaṃ cāṅgīkriyate / kathaṃ tarhi naiva guṇālpatvamiti nirākaraṇamityato 'bhisandhimudghāṭayati tāvattvameveti // tāvattvameva naiva syād ... alpatvamevetyarthaḥ / ityuktaṃ prāgiti śeṣaḥ / kuto na syāditi cet / āpādakābhāvādityāha deśe 'pīti // ... deśe 'pyetanna no matam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.