प्रधानत्वादपीत्यन्वयः । आहुः श्रुतयः । पौराणानि (च) वाक्यानीति वर्तते । उक्तानुवादः प्रतिपत्तिसौकर्यार्थः । प्रधानत्वं वैशिष्ययम् । तत्त्वमसीत्यादिव्यपदेशः सादृश्याद्गौण इत्युक्तम् । नान्यो ऽतो ऽस्ति द्रष्टेत्यादि निर्देशस्तु स्वातन्त्र्यप्राधान्याभ्यां लाक्षणिकः । द्रष्टृपदेन तत्रारोपितवैशिष्ययं स्वातन्त्र्यं चोपलक्ष्यते । तथाच द्रष्टा विशिष्यः स्वातन्त्र्यश्चान्यो नास्ति इत्यर्थः सम्पद्यते । यद्वा तत्त्वमसीत्यादिनिर्देशो ऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते । तथाहि । तच्छब्देन तदीये स्वातन्त्र्यप्राधान्ये लक्ष्येते । पुनस्ताभ्यां तद्विषयता लक्ष्यते । ततश्च तत्प्रधानकस्तत्तन्त्रश्चेति वाक्यार्थो भवति । एतदप्युपलक्षणम् । अतत्त्वमसीत्यादिव्याख्यानान्तरमप्यत्र द्रष्टव्यम् । स्यादेतत् । तुशब्दो हि सौत्रो ऽवधारणार्थस्तेन च सादृश्यातिरिक्तो ऽर्थो निवर्त्यते । तत्कथमर्थान्तरवर्णनमित्यतो ऽन्यथा व्याचष्टे नेति ॥ ॥। न स्वरूपाभिदां क्वचित्
pradhānatvādapītyanvayaḥ / āhuḥ śrutayaḥ / paurāṇāni (ca) vākyānīti vartate / uktānuvādaḥ pratipattisaukaryārthaḥ / pradhānatvaṃ vaiśiṣyayam / tattvamasītyādivyapadeśaḥ sādṛśyādgauṇa ityuktam / nānyo 'to 'sti draṣṭetyādi nirdeśastu svātantryaprādhānyābhyāṃ lākṣaṇikaḥ / draṣṭṛpadena tatrāropitavaiśiṣyayaṃ svātantryaṃ copalakṣyate / tathāca draṣṭā viśiṣyaḥ svātantryaścānyo nāsti ityarthaḥ sampadyate / yadvā tattvamasītyādinirdeśo 'pi prādhānyasvātantryābhyāṃ lākṣaṇiko vyākhyāyate / tathāhi / tacchabdena tadīye svātantryaprādhānye lakṣyete / punastābhyāṃ tadviṣayatā lakṣyate / tataśca tatpradhānakastattantraśceti vākyārtho bhavati / etadapyupalakṣaṇam / atattvamasītyādivyākhyānāntaramapyatra draṣṭavyam / syādetat / tuśabdo hi sautro 'vadhāraṇārthastena ca sādṛśyātirikto 'rtho nivartyate / tatkathamarthāntaravarṇanamityato 'nyathā vyācaṣṭe neti // ... na svarūpābhidāṃ kvacit
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.