उन्मत्तो ऽपि कथं तस्य मतं स्वीकर्तुमिच्छति भ्रान्तित्वात् भ्रान्तिविषयत्वेनाङ्गीकृतत्वात् । दुर्घटत्वस्य भूषणत्वात् भूषणत्वेनाङ्गीकृतत्वाच्च । केवलमुन्मत्तो ऽपि साक्षादुन्मत्तो ऽपि न पुनरुन्मत्तकबीजाद्यदनेनोन्मत्तः । न ह्युन्मत्तः स्वमतं भ्रान्तं दुर्घटं चेति स्वयमेव मन्यते । तर्हि कथं लोके प्रवृत्तमित्यत आह ईशेति ॥ ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम्
unmatto 'pi kathaṃ tasya mataṃ svīkartumicchati bhrāntitvāt bhrāntiviṣayatvenāṅgīkṛtatvāt / durghaṭatvasya bhūṣaṇatvāt bhūṣaṇatvenāṅgīkṛtatvācca / kevalamunmatto 'pi sākṣādunmatto 'pi na punarunmattakabījādyadanenonmattaḥ / na hyunmattaḥ svamataṃ bhrāntaṃ durghaṭaṃ ceti svayameva manyate / tarhi kathaṃ loke pravṛttamityata āha īśeti // īśaśakteracintyatvānmahonmattaiḥ pravartitam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.