ईषदपीत्यर्थः । ब्रह्महत्यादिकर्मविपाकक्षयरोगादिनिवृत्त्यर्थाः प्रायश्चित्तविधयो ऽत्र काम्यविधयो विवक्षिताः । *११,२४* अयमत्रोत्तरक्रमः । "ब्रह्महा क्षयरोगी स्यात्ऽ; इति स्मरणात्क्षयादिकं तावद्ब्रह्महत्यादेः फलम् । तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव । तस्य च प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणे निवृत्तिर्दृश्यते । तत्कथं प्रारब्धकर्मकफलस्य सर्वथाप्यनुपमर्दः । अथ मन्येत । प्रायश्चित्तं न क्षयनिवृत्तिहेतुः किन्तु भोगनिमित्तकर्मक्षय एवेति । तदा प्रायश्चित्तविषयो व्यर्थाः स्युः । गृहदाहेष्ययादिवत्प्रायश्चित्तानां नैमित्तिकत्वं भविष्यतीति चेन्न । क्षयादिसंयोगेन विधीयमानानामेषां तद्विघातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । किञ्चात्र नियतपश्चाद्भावित्वमसमाहितमेव । तदिदमुक्तं काम्येति । तथापि ब्रह्मज्ञानं न तदर्थं विहितमिति चेन्न । फलश्रयणेनैव विधिकल्पनात् । अनेनैव न्यायेन प्रायश्चित्तानां कमर्क्षयहेतुत्वाभावो ऽपि निरस्तः । तथा सति प्रायश्चित्तविधीनां वैयर्थ्यापत्तेः । नैमित्तिकत्वपक्षस्य च दृष्टादृष्टहानोपादानप्रसङ्गेन निरस्तत्वात् । अथ कर्मणो द्वयी शक्तिः । एका तावत्फलजननी अपरा त्वसंव्यवहार्यत्वहेतुः । प्रायश्चित्तैर्द्वितीयापाक्रियत इति चेत् । एवं तर्हि कर्मविपाकप्रायश्चित्तानामपीयमेव गतिरिति कथं नोपमर्दः । किञ्च न सर्वो रोगः सर्वं च दुरितमसंव्यवहार्यताहेतुरिति तत्र प्रायश्चित्तवैयर्थ्यमेव स्यात् । अपि च क्षयकुष्ठाद्युपहतो ऽपि न प्रायश्चित्ताचरणमात्रेण संव्यवहार्यः । किन्तु क्षयाद्यपगम एवेति तत्कारणत्वमेव प्रायश्चित्तानामङ्गीकार्यम् । मरणान्तिकप्रायश्चित्तानामानर्थक्यं च स्यात् । श्राद्धादिव्यवहारसिद्धयर्थं तदिति चेन्न । परिव्राजकानां तदभावापातादित्यलम् । उपसंहरति इत्युक्तेति ॥ ॥। इत्युक्तनियमो भवेत् *११,३०* एवमुत्पन्ननिर्देषःऽ; इत्यादिनोक्तार्थे स्मृतिसम्मतिमाह एवमादीति ॥ एवमद्यापि सम्प्रोक्तं तन्त्रभागवते स्फुटम्
īṣadapītyarthaḥ / brahmahatyādikarmavipākakṣayarogādinivṛttyarthāḥ prāyaścittavidhayo 'tra kāmyavidhayo vivakṣitāḥ / *11,24* ayamatrottarakramaḥ / "brahmahā kṣayarogī syāt'; iti smaraṇātkṣayādikaṃ tāvadbrahmahatyādeḥ phalam / tata utpāditakṣayādikaṃ brahmahatyādiprārabdhameva / tasya ca prārabdhakarmaphalasya kṣayādeḥ prāyaścittakaraṇe nivṛttirdṛśyate / tatkathaṃ prārabdhakarmakaphalasya sarvathāpyanupamardaḥ / atha manyeta / prāyaścittaṃ na kṣayanivṛttihetuḥ kintu bhoganimittakarmakṣaya eveti / tadā prāyaścittaviṣayo vyarthāḥ syuḥ / gṛhadāheṣyayādivatprāyaścittānāṃ naimittikatvaṃ bhaviṣyatīti cenna / kṣayādisaṃyogena vidhīyamānānāmeṣāṃ tadvighātaphalasambhave phalāntarakalpanānupapatteḥ / kiñcātra niyatapaścādbhāvitvamasamāhitameva / tadidamuktaṃ kāmyeti / tathāpi brahmajñānaṃ na tadarthaṃ vihitamiti cenna / phalaśrayaṇenaiva vidhikalpanāt / anenaiva nyāyena prāyaścittānāṃ kamarkṣayahetutvābhāvo 'pi nirastaḥ / tathā sati prāyaścittavidhīnāṃ vaiyarthyāpatteḥ / naimittikatvapakṣasya ca dṛṣṭādṛṣṭahānopādānaprasaṅgena nirastatvāt / atha karmaṇo dvayī śaktiḥ / ekā tāvatphalajananī aparā tvasaṃvyavahāryatvahetuḥ / prāyaścittairdvitīyāpākriyata iti cet / evaṃ tarhi karmavipākaprāyaścittānāmapīyameva gatiriti kathaṃ nopamardaḥ / kiñca na sarvo rogaḥ sarvaṃ ca duritamasaṃvyavahāryatāheturiti tatra prāyaścittavaiyarthyameva syāt / api ca kṣayakuṣṭhādyupahato 'pi na prāyaścittācaraṇamātreṇa saṃvyavahāryaḥ / kintu kṣayādyapagama eveti tatkāraṇatvameva prāyaścittānāmaṅgīkāryam / maraṇāntikaprāyaścittānāmānarthakyaṃ ca syāt / śrāddhādivyavahārasiddhayarthaṃ taditi cenna / parivrājakānāṃ tadabhāvāpātādityalam / upasaṃharati ityukteti // ... ityuktaniyamo bhavet *11,30* evamutpannanirdeṣaḥ'; ityādinoktārthe smṛtisammatimāha evamādīti // evamadyāpi samproktaṃ tantrabhāgavate sphuṭam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.