न हि वक्तृविहीना च वाच्यहीनापि वाक् क्वचित् द्वौ चशब्दावन्योन्यसमुच्चये । तृतीयो यस्मादित्यर्थे वेदवाच इति वर्तते । हिशब्दः तस्मादित्यर्थे । वाक् वेदवाक् । क्वचित् प्रलये ऽपि । यथा वेदवाग्वाच्याद्युपेतापि क्वचित्तद्रहिता तथा ब्रह्म (स्व)रूपं ज्ञानं व्यवहारे ज्ञेयाद्यन्वितमपि परमार्थतस्तद्रहितं भविष्यतीति प्रत्याशां वारयितुमिदं वचनम् । यस्मादेवं कार्यत्वादिकमप्रयोजकं किन्त्वाकाङ्क्षानिमित्तो नियतसम्बन्ध एव । तस्मान्नित्यवागिव नित्यमपि ज्ञानं ज्ञेयाद्युपेतमेवाङ्गीकार्यमित्युपसंहरति-ज्ञातृज्ञेयेति ॥ ज्ञातृज्ञेयविहीनं च ज्ञानमेवं न तद् भवेत्
na hi vaktṛvihīnā ca vācyahīnāpi vāk kvacit dvau caśabdāvanyonyasamuccaye / tṛtīyo yasmādityarthe vedavāca iti vartate / hiśabdaḥ tasmādityarthe / vāk vedavāk / kvacit pralaye 'pi / yathā vedavāgvācyādyupetāpi kvacittadrahitā tathā brahma (sva)rūpaṃ jñānaṃ vyavahāre jñeyādyanvitamapi paramārthatastadrahitaṃ bhaviṣyatīti pratyāśāṃ vārayitumidaṃ vacanam / yasmādevaṃ kāryatvādikamaprayojakaṃ kintvākāṅkṣānimitto niyatasambandha eva / tasmānnityavāgiva nityamapi jñānaṃ jñeyādyupetamevāṅgīkāryamityupasaṃharati-jñātṛjñeyeti // jñātṛjñeyavihīnaṃ ca jñānamevaṃ na tad bhavet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.