स एवार्थः कथं ग्राह्य ॥। सद्गगनमित्यादि प्रत्यक्षम् । तच्च साक्षिरूपत्वाद्बलवत् । उपपत्तिश्चार्थक्रियाकारित्वादिका । सा च व्याप्त्यादिमत्त्वाद्बलवती । आगमाश्च विश्वं सत्यमित्याद्याः । तेषा प्राबल्यव्युत्पादनाय बहव इत्युक्तम् । निरवकाशत्वाद्युपलक्षणमेतत् । यदा यस्मिन्नर्थे ऽङ्गीकृते । यत्र यदर्थप्रतिपादने ऽर्थः प्रयोजनं च नास्ति । ब्रह्मणो ऽद्वितीयतासिद्धिः प्रयोजनमिति चेन्न । तस्या एवाप्रामाणिकत्वात् । आत्मनो मुक्तिसिद्धिरिति चेन्न । विनाशेनापि तत्सिद्धेः । बहुजीववादिनामिवादर्शनेनाप्युपपत्तेः । वैराग्यार्थमिति चेन्न । दुःखसाधनताज्ञापनेन तत्सिद्धेः । अर्थग्रहणमुपलक्षणम् । उपक्रमादीनामप्यानुकूल्यं नास्तीति च द्रष्टव्यम् । न केवलं लिङ्गानुकूल्याभावः । किन्नाम यत्र लिङ्गविरोधिता च । एतद्द्वयं ग्रन्थान्तरे तत्र तत्रोक्तं ज्ञातव्यम् । *११,२८९* तर्हि निरवकाशं वाक्यमप्रमाणं प्रसज्यत इत्यत आह उपपन्न इति ॥ ॥। उपपन्ने ऽविरोधिनी प्रत्यक्षादिप्रमाणोपक्रमादिलिङ्गाविरोधिनि तदानुकूल्योपपन्ने च भगवति स्वगतभेदाभावे ऽर्थे वाक्यस्य सति स एवार्थः कथं ग्राह्यः । नेह नानेति वाक्यस्यापव्याख्याने निराकृते लब्धमाह मुख्यार्थ इति ॥ मुख्यार्थे विद्यमाने तु क्व सावर्ज्ञ्यं निषिद्धयते
sa evārthaḥ kathaṃ grāhya ... sadgaganamityādi pratyakṣam / tacca sākṣirūpatvādbalavat / upapattiścārthakriyākāritvādikā / sā ca vyāptyādimattvādbalavatī / āgamāśca viśvaṃ satyamityādyāḥ / teṣā prābalyavyutpādanāya bahava ityuktam / niravakāśatvādyupalakṣaṇametat / yadā yasminnarthe 'ṅgīkṛte / yatra yadarthapratipādane 'rthaḥ prayojanaṃ ca nāsti / brahmaṇo 'dvitīyatāsiddhiḥ prayojanamiti cenna / tasyā evāprāmāṇikatvāt / ātmano muktisiddhiriti cenna / vināśenāpi tatsiddheḥ / bahujīvavādināmivādarśanenāpyupapatteḥ / vairāgyārthamiti cenna / duḥkhasādhanatājñāpanena tatsiddheḥ / arthagrahaṇamupalakṣaṇam / upakramādīnāmapyānukūlyaṃ nāstīti ca draṣṭavyam / na kevalaṃ liṅgānukūlyābhāvaḥ / kinnāma yatra liṅgavirodhitā ca / etaddvayaṃ granthāntare tatra tatroktaṃ jñātavyam / *11,289* tarhi niravakāśaṃ vākyamapramāṇaṃ prasajyata ityata āha upapanna iti // ... upapanne 'virodhinī pratyakṣādipramāṇopakramādiliṅgāvirodhini tadānukūlyopapanne ca bhagavati svagatabhedābhāve 'rthe vākyasya sati sa evārthaḥ kathaṃ grāhyaḥ / neha nāneti vākyasyāpavyākhyāne nirākṛte labdhamāha mukhyārtha iti // mukhyārthe vidyamāne tu kva sāvarjñyaṃ niṣiddhayate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.