अनेन"स य आत्मानमेव लोकमुपास्ते न ह्यस्य कर्म क्षीयते ऽस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजतेऽ; इति श्रुतिमुपादत्ते । आत्मानं परमात्मानम् । लोकं सर्वाश्रयम् । उपास्ते कारणेन कार्योपलक्षणं पश्यतीत्यर्थः । स विद्वान्मुक्तो भूत्वा यद्यत्कामयते तत्तत्कर्मास्माद्धयेवात्मनो ऽस्यात्मनः प्रसादेन सृजते । *११,२९९* अविद्वान् बहुकर्मापि ह्यन्तवत् फलमाप्नुयात्
anena"sa ya ātmānameva lokamupāste na hyasya karma kṣīyate 'smāddhayevātmano yadyatkāmayate tattatsṛjate'; iti śrutimupādatte / ātmānaṃ paramātmānam / lokaṃ sarvāśrayam / upāste kāraṇena kāryopalakṣaṇaṃ paśyatītyarthaḥ / sa vidvānmukto bhūtvā yadyatkāmayate tattatkarmāsmāddhayevātmano 'syātmanaḥ prasādena sṛjate / *11,299* avidvān bahukarmāpi hyantavat phalamāpnuyāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.