इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् । व्यक्तं वदन्ति ॥। सम्पद्योग्यता । विमोक्षो विशिष्यमोक्षः । निबन्धो नीचस्थाने ऽन्धे तमसि बन्धः । तादर्थ्ये चतुर्थी । चशब्द एवार्थे । भगवता स्वयमेवोक्त इति सम्पद्यते । अन्यथा वीत्युपसर्गस्य वैयर्थ्यापत्तेः । तमेवेति मुनीन्प्रति पृथोर्वाक्यम् । तं विष्णुमेव । आत्मवृत्तिभिरित्यस्यैव विवरणं मनोवचःकायकार्यैः स्वकर्मभिरिति । अमायिनश्छद्मरहिता निष्कामाः । यथाधिकारं योग्यतानुसारेणावसितस्य निश्चितार्थस्य मोक्षस्य सिद्धय इति मोक्षतारतम्योक्तिः । अमायिन इत्युक्तत्वादर्थशब्देन मोक्षस्यैवोक्तेः । अक्षण्वन्तो ऽक्षिमन्तः । अनो नुडिति नुट् । कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः । परस्परं सखायो मुक्ता । मनोजवेषु मनोजवः प्रज्ञातिशयो बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः । भगवत्सामीप्ये च तारतम्यमुच्यते । तेषु केचिदादध्नास आस्यशब्दस्याऽभावः । आस्यं परिमाणस्येत्यादध्नममृतं तदेतेषामस्ति स्थानमित्यर्शआदिभ्यो ऽच् । आस्यपरिमाणे सुधानिधौ विहरन्त इति दूरत्वमुच्यते । यद्वा तरतमशब्द इव दध्नशब्दो ऽप्रत्ययो ऽप्यस्ति । ततश्च सम्यग्दध्ना मग्ना इत्यर्थः । त्वे केचिदुपगताः कक्षं वनमुपकक्षाः । उशब्द एवार्थः । श्वेतद्वीपगतवनक्रीडारता एवेति मध्यत्वमुच्यते । आञ्जसेरसुगित्यसुक् । त्वे(एव)एके स्नात्वाः स्नातव्याः । कृत्यर्थे"तवैकेन् केन्यत्वनऽ; इति त्वन् । हृदा इव गम्भीराः परमेश्वरं ददृश्रे ददृशुः । हरयोरे । अनेनातिसामीप्यमुच्यते । "श्रुत्वा विष्णुं कर्णफलम्ऽ; इत्यादिस्मृत्यास्य मन्त्रस्यैव व्याख्यातत्वान्नार्थान्तरं कल्पनीयम् । इत्यादीनि चेति चशब्देन प्रागुदाहृतकाण्वतैत्तिरीयश्रुती समुच्चिनोति । व्यक्तं निरवकाशम् । ततः किमित्यत आह तत्केनेति ॥ *११,८८* ॥। तत् केन साम्यं मुक्तेषु गम्यते
ityādīni ca vākyāni tāratamyaṃ vimuktigam / vyaktaṃ vadanti ... sampadyogyatā / vimokṣo viśiṣyamokṣaḥ / nibandho nīcasthāne 'ndhe tamasi bandhaḥ / tādarthye caturthī / caśabda evārthe / bhagavatā svayamevokta iti sampadyate / anyathā vītyupasargasya vaiyarthyāpatteḥ / tameveti munīnprati pṛthorvākyam / taṃ viṣṇumeva / ātmavṛttibhirityasyaiva vivaraṇaṃ manovacaḥkāyakāryaiḥ svakarmabhiriti / amāyinaśchadmarahitā niṣkāmāḥ / yathādhikāraṃ yogyatānusāreṇāvasitasya niścitārthasya mokṣasya siddhaya iti mokṣatāratamyoktiḥ / amāyina ityuktatvādarthaśabdena mokṣasyaivokteḥ / akṣaṇvanto 'kṣimantaḥ / ano nuḍiti nuṭ / karṇavantaḥ prāptasamastendriyaphalāḥ / parasparaṃ sakhāyo muktā / manojaveṣu manojavaḥ prajñātiśayo bahuvacanamādyarthe jñānādiguṇeṣu asamāstāratamyopetā babhūvuḥ / bhagavatsāmīpye ca tāratamyamucyate / teṣu kecidādadhnāsa āsyaśabdasyā'bhāvaḥ / āsyaṃ parimāṇasyetyādadhnamamṛtaṃ tadeteṣāmasti sthānamityarśaādibhyo 'c / āsyaparimāṇe sudhānidhau viharanta iti dūratvamucyate / yadvā taratamaśabda iva dadhnaśabdo 'pratyayo 'pyasti / tataśca samyagdadhnā magnā ityarthaḥ / tve kecidupagatāḥ kakṣaṃ vanamupakakṣāḥ / uśabda evārthaḥ / śvetadvīpagatavanakrīḍāratā eveti madhyatvamucyate / āñjaserasugityasuk / tve(eva)eke snātvāḥ snātavyāḥ / kṛtyarthe"tavaiken kenyatvana'; iti tvan / hṛdā iva gambhīrāḥ parameśvaraṃ dadṛśre dadṛśuḥ / harayore / anenātisāmīpyamucyate / "śrutvā viṣṇuṃ karṇaphalam'; ityādismṛtyāsya mantrasyaiva vyākhyātatvānnārthāntaraṃ kalpanīyam / ityādīni ceti caśabdena prāgudāhṛtakāṇvataittirīyaśrutī samuccinoti / vyaktaṃ niravakāśam / tataḥ kimityata āha tatkeneti // *11,88* ... tat kena sāmyaṃ mukteṣu gamyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.