इष्यमेवैतत् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः । *१२,४४फ़्।* मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति । किं तावत्प्राप्तम् । तेष्वप्यात्मग्रह एव युक्तः । कस्मात् । ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति । ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् । नहि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् । प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्वमात्मग्रहो वा । किञ्च यथा रुचकस्वस्तिकयोर्नेतरात्मत्वम् । द्वयोरपि विकारत्वात् । तथा प्रतीकात्मनोरपि । सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीकेष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः । *१२,४६* तेष्वेवोदाहरणेष्वन्यः संशयः । किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्मदृष्टिरादित्यादिष्विति । सामानाधिकरण्यस्योभयथोपपत्तेः । तत्रानियमो नियमकारिणः शास्त्रस्याभावात् । अथवादित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः । एवं हि ब्रह्मोपासितं भवति । ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्यादिषु स्यात् । कस्मात् । उत्कर्षात् । एवमुत्कर्षेणादित्यादयो दृष्टा भवन्ति । तथा च लौकिको न्यायो ऽनुगतो भवति । क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् । यत्तु फलवत्त्वया ब्रहोपासनं युक्तमिति तदयुक्तम् । आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः । ब्रह्मैव च सर्वाध्यक्षत्वात्फलं दास्यति । इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति । *१२,४८* तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति नेति ॥ नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम्
iṣyamevaitat / tasmādātmetyeveśvare mano dadhīteti prathamasūtrārthaḥ / *12,44f.* mano brahmetyupāsītetyevamādiṣu pratīkopāsaneṣu saṃśayaḥ kiṃ teṣvapyātmagrahaḥ kartavyo na veti / kiṃ tāvatprāptam / teṣvapyātmagraha eva yuktaḥ / kasmāt / brahmaṇa ātmatvāt, pratīkānāmapi brahmavikāratvāt brahmatve satyātmatvopapatteriti / brūmaḥ / na pratīkeṣvātmamatiṃ badhnīyāt / nahi sa upāsakaḥ pratīkāni yattānyātmatvenākalayet / yatpunarbrahmavikāratvātpratīkānāṃ brahmatvaṃ tataścātmatvamiti tadasat / pratīkābhāvaprasaṅgāt / vikārasvarūpopamardena hi nāmādijātasya brahmatvamevāśritaṃ bhavati / svarūpopamarde ca nāmādīnāṃ kutaḥ pratīkasvarūpatvamātmagraho vā / kiñca yathā rucakasvastikayornetarātmatvam / dvayorapi vikāratvāt / tathā pratīkātmanorapi / suvarṇātmaneva brahmātmanaikatve pratīkābhāvaprasaṅgamavocāma / ato na pratīkeṣvātmadṛṣṭiḥ kartavyeti dvitīyasūtrārthaḥ / *12,46* teṣvevodāharaṇeṣvanyaḥ saṃśayaḥ / kimādityādidṛṣṭayo brahmaṇi kāryāḥ kiṃvā brahmadṛṣṭirādityādiṣviti / sāmānādhikaraṇyasyobhayathopapatteḥ / tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāt / athavādityādidṛṣṭaya eva brahmaṇi kartavyāḥ / evaṃ hi brahmopāsitaṃ bhavati / brahmopāsanaṃ ca phalavaditi prāpte brūmaḥ / brahmadṛṣṭirevādityādiṣu syāt / kasmāt / utkarṣāt / evamutkarṣeṇādityādayo dṛṣṭā bhavanti / tathā ca laukiko nyāyo 'nugato bhavati / kṣattari khalu rājadṛṣṭiḥ kriyate na tu rājñi kṣattṛṣṭirviparyaye pratyavāyaprasaṅgāt / yattu phalavattvayā brahopāsanaṃ yuktamiti tadayuktam / ādityādyupāsanasyāpi phalavattvopapatteḥ / brahmaiva ca sarvādhyakṣatvātphalaṃ dāsyati / idameva ca brahmopāsanaṃ yadādityādiṣu taddṛṣṭiḥ pratimādiṣviva viṣṇvādīnāmiti tṛtīyasūtrā(syā)rtha iti / *12,48* tatra tāvatprathamasūtrasyāpavyākhyānaṃ dūṣayati neti // nātmeti sūtramīśasya jīvatvapratipādakam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.