राजा यथा पूज्यते तथा । तदा राज्ञः कोपो न स्यात्किम् । लोके ऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् । पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् । न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपीत्याह राज्ञस्त्विति ॥ राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि । आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति
rājā yathā pūjyate tathā / tadā rājñaḥ kopo na syātkim / loke 'bhipaśyati satīti kopātiśayapradarśanārtham / pūjayā darśanamunnīyata ityataḥ pūjyata ityuktam / na kevalaṃ dṛṣṭerunnāyikāyāṃ pūjāyāmeva rājakopaḥ kintu tādṛśyāmuktāvapītyāha rājñastviti // rājñastu purataḥ prokte caṇḍālaṃ nṛpa ityapi / ātmānaṃ sa iti proktamitivaddhayeva kupyati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.