साम्यगेवाथ नित्या च ॥। यद्यपि विमुक्तानां मतिः सम्यगेव अथापि गुणातीता सत्त्वजन्या न भवति । कुतः शुद्धचितिः नित्या च यतः । जडं हि कुतश्चिज्जायते न चेतनम् । तथानित्यमेव न नित्यम् । दैत्यानां स्वरूपज्ञानेष्वविद्यमानं सम्यक्तवं तर्हि कथमित्यतः शुद्धेत्युक्तम् । स्वाभाविकदोषरहितेत्यर्थः । *१२,१२६* स्वरूपोपाधिगतदाषनिबन्धनं हि दैत्यानां ज्ञानानामसम्यक्त्वम् । करणनिमित्तो ज्ञानानां विषयनियमो वैशद्यभेदश्च । तत्र यदि मुक्तानां ज्ञानं नित्यं तर्हि निर्विषयं वा स्यात् सर्वविषयं वा । एवं वैशद्ये ऽपीति । तत्राह तत्तदिति ॥ ॥। तत्तन्माहात्म्ययोगतः । बहला चातिविशदा ॥। तेषां तेषां माहात्म्यं योग्यतारूपं तदेव योगो निमित्तं ततस्तदनुसारेण (बहुल)बहुलार्थविषयिण्यतिविशदा च । *१२,१२७* श्रीदेव्यामप्युक्तस्यापवादमाह स्पष्टा चेति ॥ *१२,१२८* ॥। स्पष्टा चैव श्रियो मतिः
sāmyagevātha nityā ca ... yadyapi vimuktānāṃ matiḥ samyageva athāpi guṇātītā sattvajanyā na bhavati / kutaḥ śuddhacitiḥ nityā ca yataḥ / jaḍaṃ hi kutaścijjāyate na cetanam / tathānityameva na nityam / daityānāṃ svarūpajñāneṣvavidyamānaṃ samyaktavaṃ tarhi kathamityataḥ śuddhetyuktam / svābhāvikadoṣarahitetyarthaḥ / *12,126* svarūpopādhigatadāṣanibandhanaṃ hi daityānāṃ jñānānāmasamyaktvam / karaṇanimitto jñānānāṃ viṣayaniyamo vaiśadyabhedaśca / tatra yadi muktānāṃ jñānaṃ nityaṃ tarhi nirviṣayaṃ vā syāt sarvaviṣayaṃ vā / evaṃ vaiśadye 'pīti / tatrāha tattaditi // ... tattanmāhātmyayogataḥ / bahalā cātiviśadā ... teṣāṃ teṣāṃ māhātmyaṃ yogyatārūpaṃ tadeva yogo nimittaṃ tatastadanusāreṇa (bahula)bahulārthaviṣayiṇyativiśadā ca / *12,127* śrīdevyāmapyuktasyāpavādamāha spaṣṭā ceti // *12,128* ... spaṣṭā caiva śriyo matiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.