Library·Patanjali: Vyakaranamahabhasya·1·1.1·1.1.62

Patanjali: Vyakaranamahabhasya 1.1.62

क्अ इ,१६०।२५-१६१।१४। रो इ,४७६-४७८ प्रत्ययग्रहणम् किमर्थम्। लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत । न एषः दोषः । न एवम् विज्ञायते : लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति । कथम् तर्हि । प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति । इदम् तर्हि प्रयोजनम् : सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् । लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति । किम् प्रयोजनम् । ग्रामणिकुलम् , सेनानिकुलम् : औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति । सः मा भूत् इति । यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति । लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत् , जनगत् इति अत्र तुक् न प्राप्नोति । लोपोत्तरकलः हि अत्र तुक् आगमः । तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन । कस्मात् न भवति ग्रामणिकुलम् , सेनानिकुलम् । बहिरङ्गम् ह्रस्वत्वम् । अन्तरङ्गः तुक् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । इदम् तर्हि प्रयोजनम् : कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् । एकदेशलोपे मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति । पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम्। अन्यतरत् शक्यम् अकर्तुम् । अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् । प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति : गवे हितम् गोहितम् , रायः कुलम् रैकुलम् इति ।

KA I,160.25-161.14. Ro I,476-478 pratyayagrahaṇam kimartham. lope pratyayalakṣaṇam iti iyati ucyamāne saurathī vahatī iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta . na eṣaḥ doṣaḥ . na evam vijñāyate : lope pratyayalakṣaṇam pratyayasya prādurbhāvaḥ iti . katham tarhi . pratyayaḥ lakṣaṇam yasya kāryasya tat lupte api bhavati iti . idam tarhi prayojanam : sati pratyaye yat prāpnoti tat pratyayalakṣanena yathā syāt . lopottarakālam yat prāpnoti tat pratyayalakṣaṇena mā bhūt iti . kim prayojanam . grāmaṇikulam , senānikulam : auttarapadike hrasvatve kṛte hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . saḥ mā bhūt iti . yadi tarhi yat sati pratyaye prāpnoti tat pratyayalakṣanena bhavati . lopottarakālam yat prāpnoti tat na bhavati jagat , janagat iti atra tuk na prāpnoti . lopottarakalaḥ hi atra tuk āgamaḥ . tasmāt na arthaḥ evamarthena pratyayagrahaṇena . kasmāt na bhavati grāmaṇikulam , senānikulam . bahiraṅgam hrasvatvam . antaraṅgaḥ tuk . asiddham bahiraṅgam antaraṅge . idam tarhi prayojanam : kṛtsnapratyayalope pratyayalakṣaṇam yathā syāt . ekadeśalope mā bhūt iti : āghnīta sam rāyaspoṣeṇa gmīya iti . pūrvasmin api yoge pratyayagrahaṇasya etat prayojanam uktam. anyatarat śakyam akartum . atha dvitīyam pratyayagrahaṇam kimartham . pratyayalakṣaṇam yathā syāt varṇalakṣaṇam mā bhūt iti : gave hitam gohitam , rāyaḥ kulam raikulam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६१।१५-१६२।२१ रो इ,४७९-४८२ किमर्थम् पुनः इदम् उच्यते । प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् शास्त्रस्य । प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् शास्त्रस्य । सत् शास्त्रेण अन्वाख्यायते सतः वा शास्त्रम् अन्व्याखायकम् भवति । सदन्वाख्यानात् शास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह : एव स्यात् गोमन्तौ यवमन्तौ । गोमान् यवमान् इति अत्र न स्यात् । इष्यते च स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति । अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति। लुकि उपसङ्ख्यानम् । लुकि उपसङ्ख्यानम् कर्तव्यम् : पञ्च सप्त । किम् पुनः कारणम् न सिध्यति । लोपे हि विधानम् । लोपे हि प्रत्ययलक्षणम् विधीयते । तेन लुकि न प्राप्नोति । न वा अदर्शनस्य लोपसञ्ज्ञित्वात् । न वा कर्तव्यम् । किम् कारणम् । अदर्शनस्य लोपसञ्ज्ञित्वात् । अदर्शनम् लोपसञ्ज्ञम् इति उच्यते । लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते । तेन लुकि अपि भविष्यति । यदि एवम् । प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् । प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् अपि प्राप्नोति । तत्र कः दोषः । तत्र लुकि श्लुविधिप्रतिषेधः । तत्र लुकि श्लुविधिः अपि प्राप्नोति । सः प्रतिषेध्यः : अत्ति हन्ति । श्लौ इति द्विर्वचनम् प्राप्नोति । न वा पृथक्सञ्ज्ञाकरणात् । न वा एषः दोषः । किम् कारणम् । पृथक्सञ्ज्ञाकरणात् । पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुकि श्लुविधिः न भविष्यति । तस्मात् अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते । यथा एव तर्हि अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवम् लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञाम् अवगाहेरन् । तत्र कः दोषः । अगोमती गोमती सम्पन्ना गोमतीभूता : लुक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत । ननु च अत्र अपि पृथक्सञ्ज्ञाकरणात् इति एव सिद्धम् । यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुमत्सञ्ज्ञाः लोपसञ्ज्ञाम् न अवगाहन्ते एवम् लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत । तत्र सः एव दोषः : लुकि उपसङ्ख्यानम् इति । अस्ति अन्यत् लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनम् । किम्। लुमत्सञ्ज्ञासु यत् उच्यते तत् लोपमात्रे मा भूत् इति । लुमति प्रतिषेधात् वा । अथ वा यत् अयम् न लुमता अङ्गस्य इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणम् इति ।

KA I,161.15-162.21 Ro I,479-482 kimartham punaḥ idam ucyate . pratyayalope pratyayalakṣaṇavacanam sadanvākhyānāt śāstrasya . pratyayalope pratyayalakṣaṇam iti ucyate sadanvākhyānāt śāstrasya . sat śāstreṇa anvākhyāyate sataḥ vā śāstram anvyākhāyakam bhavati . sadanvākhyānāt śāstrasya ugidacām sarvanāmasthāne adhātoḥ iti iha : eva syāt gomantau yavamantau . gomān yavamān iti atra na syāt . iṣyate ca syāt iti . tat ca antareṇa yatnam na sidhyati . ataḥ pratyayalope pratyayalakṣaṇavacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti. luki upasaṅkhyānam . luki upasaṅkhyānam kartavyam : pañca sapta . kim punaḥ kāraṇam na sidhyati . lope hi vidhānam . lope hi pratyayalakṣaṇam vidhīyate . tena luki na prāpnoti . na vā adarśanasya lopasañjñitvāt . na vā kartavyam . kim kāraṇam . adarśanasya lopasañjñitvāt . adarśanam lopasañjñam iti ucyate . lumatsañjñāḥ ca adarśanasya kriyante . tena luki api bhaviṣyati . yadi evam . pratyayādarśanam tu lumatsañjñam . pratyayādarśanam tu lumatsañjñam api prāpnoti . tatra kaḥ doṣaḥ . tatra luki śluvidhipratiṣedhaḥ . tatra luki śluvidhiḥ api prāpnoti . saḥ pratiṣedhyaḥ : atti hanti . ślau iti dvirvacanam prāpnoti . na vā pṛthaksañjñākaraṇāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . pṛthaksañjñākaraṇāt . pṛthaksañjñākaraṇasāmarthyāt luki śluvidhiḥ na bhaviṣyati . tasmāt adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate . yathā eva tarhi adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate evam lumatsañjñāḥ api lopasañjñām avagāheran . tatra kaḥ doṣaḥ . agomatī gomatī sampannā gomatībhūtā : luk taddhitaluki iti ṅīpaḥ luk prasajyeta . nanu ca atra api pṛthaksañjñākaraṇāt iti eva siddham . yathā eva tarhi pṛthaksañjñākaraṇasāmarthyāt lumatsañjñāḥ lopasañjñām na avagāhante evam lopasañjñā api lumatsañjñāḥ na avagāheta . tatra saḥ eva doṣaḥ : luki upasaṅkhyānam iti . asti anyat lopasañjñāyāḥ pṛthaksañjñākaraṇe prayojanam . kim. lumatsañjñāsu yat ucyate tat lopamātre mā bhūt iti . lumati pratiṣedhāt vā . atha vā yat ayam na lumatā aṅgasya iti pratṣedham śāsti tat jñāpayati ācāryaḥ bhavati luki pratyayalakṣaṇam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६२।२२-१६४।१० रो इ,४८२-४८६ सतः निमित्ताभावात् पदसञ्ज्ञाभावः । सन् प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् : राज्ञः पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्: राजपुरुषः इति । अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति । सति एतत्प्रत्यये आसीत् : अनया भविष्यति अनया न भविष्यति इति । लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति । अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा भसञ्ज्ञा प्राप्नोति । तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति । तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते । क्व । परिवीः इति । किम् कारणम् । एकयोगलक्षणत्वात् । एकयोगलक्षणे तुग्दीर्घत्वे । इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति । तानि एतानि प्रत्युत्थाप्यन्ते । अनेन एव तुक् अनेन एव च दीर्घत्वम् इति । तत् एतत् एकयोगलक्षणम् भवति । एकयोगलक्षणानि च न प्रकल्पन्ते । सिद्धम् तु स्थानिसञ्ज्ञानुदेशात् आन्यभाव्यस्य । सिद्धम् एतत् । कथम् । स्थानिसञ्ज्ञा अन्यभूतस्य भवति इति वक्तव्यम् । किम् कृतम् भवति । सत्तामात्रम् अनेन क्रियते । यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः । तत् वक्तव्यम् भवति । यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वक्ष्यामि । यदि एवम् आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् । न हि का चित् हन्तेः सञ्ज्ञा अस्ति या वधेः अतिदिश्येत । हन्तेः अपि सञ्ज्ञा अस्ति । का । हन्तिः एव । कथम् । स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् स्वम् रूपम् शब्दस्य सञ्ज्ञा भवति इति हन्तेः अपि हन्तिः सञ्ज्ञा भविष्यति । भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् । भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् भवति । भसञ्ज्ञा : राज्ञः पुरुषः राजपुरुषः । प्रत्ययलक्षणेन यचि भम् इति भासञ्ज्ञा प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । ङीप् : चित्रायाम् जाता चित्रा । प्रत्ययलक्षणेन अणन्तात् ईकारः प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । ष्फ : वतङ्डी । प्रत्ययलक्षणेन यञन्तात् इति ष्फः प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । गोः आत्वम् । गाम् इच्छति गव्यति । प्रत्ययलक्षणेन अमि आ ओतः अम्शसोः इति आत्वम् प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । तस्य दोषः ङौनकारलोपेत्त्वेम्विधयः । तस्य एतस्य लक्षणस्य दोषः ङौनकारलोपः । आर्द्रे चर्मन् लोहिते चर्मन् । प्रत्ययलक्षणेन यचि भम् इति भसञ्ज्ञा सिद्धा भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति । इत्त्वम् : आशीः । प्रत्ययलक्षणेन हलि इति इत्वम् सिद्धम् भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति । इम् : अतृणेत् । प्रत्ययलक्षणेन हलि इति इत्त्वम् सिद्धम् भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् सतः निमित्ताभावात् पदसञ्ज्ञाभावः तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति । न एषः दोषः । वक्ष्यति अत्र परिहारम् । इह अपि परिवीः इति शास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति ।

KA I,162.22-164.10 Ro I,482-486 sataḥ nimittābhāvāt padasañjñābhāvaḥ . san pratyayaḥ yeṣām kāryāṇām animittam : rājñaḥ puruṣaḥ iti saḥ luptaḥ api animittam syāt: rājapuruṣaḥ iti . astu tasyāḥ animittam yā svādau padam iti padasañjñā yā tu subantam padam iti padasañjñā sā bhaviṣyati . sati etatpratyaye āsīt : anayā bhaviṣyati anayā na bhaviṣyati iti . lupte idānīm pratyaye yāvataḥ eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam padam iti . asti ca pratyayalakṣaṇena yajādiparatā iti kṛtvā bhasañjñā prāpnoti . tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt parivīḥ iti . tugdīrghatvayoḥ ca vipratiṣedhaḥ na upapadyate . kva . parivīḥ iti . kim kāraṇam . ekayogalakṣaṇatvāt . ekayogalakṣaṇe tugdīrghatve . iha lupte pratyaye sarvāṇi pratyayāśrayāṇi kāryāṇi paryavapannāni bhavanti . tāni etāni pratyutthāpyante . anena eva tuk anena eva ca dīrghatvam iti . tat etat ekayogalakṣaṇam bhavati . ekayogalakṣaṇāni ca na prakalpante . siddham tu sthānisañjñānudeśāt ānyabhāvyasya . siddham etat . katham . sthānisañjñā anyabhūtasya bhavati iti vaktavyam . kim kṛtam bhavati . sattāmātram anena kriyate . yathāprāpte tugdīrghatve bhaviṣyataḥ . tat vaktavyam bhavati . yadi api etat ucyate atha vā etarhi sthānivadbhāvaḥ na ārabhyate . sthānisañjñā anyabhūtasya analvidhau iti vakṣyāmi . yadi evam āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na syāt . na hi kā cit hanteḥ sañjñā asti yā vadheḥ atidiśyeta . hanteḥ api sañjñā asti . kā . hantiḥ eva . katham . svam rūpam śabdasya aśabdasañjñā iti vacanāt svam rūpam śabdasya sañjñā bhavati iti hanteḥ api hantiḥ sañjñā bhaviṣyati . bhasañjñāṅīpṣphagorātveṣu ca siddham . bhasañjñāṅīpṣphagorātveṣu ca siddham bhavati . bhasañjñā : rājñaḥ puruṣaḥ rājapuruṣaḥ . pratyayalakṣaṇena yaci bham iti bhāsañjñā prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . ṅīp : citrāyām jātā citrā . pratyayalakṣaṇena aṇantāt īkāraḥ prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . ṣpha : vataṅḍī . pratyayalakṣaṇena yañantāt iti ṣphaḥ prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . goḥ ātvam . gām icchati gavyati . pratyayalakṣaṇena ami ā otaḥ amśasoḥ iti ātvam prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . tasya doṣaḥ ṅaunakāralopettvemvidhayaḥ . tasya etasya lakṣaṇasya doṣaḥ ṅaunakāralopaḥ . ārdre carman lohite carman . pratyayalakṣaṇena yaci bham iti bhasañjñā siddhā bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . ittvam : āśīḥ . pratyayalakṣaṇena hali iti itvam siddham bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . im : atṛṇet . pratyayalakṣaṇena hali iti ittvam siddham bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam sataḥ nimittābhāvāt padasañjñābhāvaḥ tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt parivīḥ iti . na eṣaḥ doṣaḥ . vakṣyati atra parihāram . iha api parivīḥ iti śāstraparavipratiṣedhena paratvāt dīrghatvam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६४।११-१६५।१३ रो इ,४८६-४९० कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् अपृक्तशिलोपे नुम् अमामौ गुणवृद्धिदीर्घत्वेमडाट्श्नम्विधयः । अपृक्तलोपे शिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ श्नम्विधिः इति प्रयोजनानि । नुम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् । नुम् । अमामौ : हे अनड्वन् , अनड्वान् । गुणः : अधोक् , अलेट् । वृद्धिः : नि अमार्ट् । दीर्घत्वम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् । इम् : अतृणेट् । अडाटौ : अधोक् , अलेट् , ऐयः , औनः । श्नम्विधिः : अभिनः अत्र , अच्छिनः अत्र । अपृक्तशिलोपयोः कृतयोः एते विधयः न प्राप्नुवन्ति । प्रत्ययलक्षणेन भवन्ति । न एतानि सन्ति प्रयोजनानि । स्थानिवद्भावेन अपि एतानि सिद्धानि । न सिध्यन्ति । आदेशः स्थानिवत् इति उच्यते । न च लोपः आदेशः । लोपः अपि आदेशः । कथम् । आदिश्यते यः सः आदेशः । लोपः अपि आदिश्यते । दोषः खलु अपि स्यात् यदि लोपः न आदेशः स्यात् । इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः । यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः । क्व च स्थानिवद्भावः न अस्ति । यः अल्विधिः । किम् प्रयोजनम् । प्रयोजनम् ङौनकार्लोपेत्त्वेम्विधयः । भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः । भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः भवति। भसञ्ज्ञायाम् तावत् न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति ङौ प्रतिषेधम् शास्ति । ङीपि अपि : न एवम् विज्ञायते : अणन्तात् अकारान्तात् । कथम् तर्हि । अण् यः अकारः इति । ष्फे अपि : न एवम् विज्ञायते : यञन्तात् अकारन्तात् इति । कथम् तर्हि । यञ् यः अकारः इति । गोः आत्वे अपि : न एवम् विज्ञायते : अमि अचि इति । कथम् तर्हि । अचि अमि इति । प्रयोजनानि अपि तर्हि तानि न सन्ति । यत् तावत् उच्यते ङौनकार्लोपः इति क्रियते एतत् न्यासे एव : न ङिसम्बुद्ध्योः इति । इत्त्वम् अपि । वक्ष्यति एतत् : शासः इत्त्वे आशासः क्वौ इति । इम्विधिः अपि : हलि इति निवृत्तम् । यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति । एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते । न तर्हि इदानीम् अयम् योगः वक्तव्यः । वक्तव्यः च । किम् प्रयोजनम् । प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् शब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति । किम् प्रयोजनम् । शोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः । सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूत् इति ।

KA I,164.11-165.13 Ro I,486-490 kāni punaḥ asya yogasya prayojanāni . prayojanam apṛktaśilope num amāmau guṇavṛddhidīrghatvemaḍāṭśnamvidhayaḥ . apṛktalope śilope ca kṛte num amāmau guṇavṛddhī dīrghatvam imaḍāṭau śnamvidhiḥ iti prayojanāni . num : agne trī te vajinā trī sadhasthā , ta tā piṇḍānām . num . amāmau : he anaḍvan , anaḍvān . guṇaḥ : adhok , aleṭ . vṛddhiḥ : ni amārṭ . dīrghatvam : agne trī te vajinā trī sadhasthā , ta tā piṇḍānām . im : atṛṇeṭ . aḍāṭau : adhok , aleṭ , aiyaḥ , aunaḥ . śnamvidhiḥ : abhinaḥ atra , acchinaḥ atra . apṛktaśilopayoḥ kṛtayoḥ ete vidhayaḥ na prāpnuvanti . pratyayalakṣaṇena bhavanti . na etāni santi prayojanāni . sthānivadbhāvena api etāni siddhāni . na sidhyanti . ādeśaḥ sthānivat iti ucyate . na ca lopaḥ ādeśaḥ . lopaḥ api ādeśaḥ . katham . ādiśyate yaḥ saḥ ādeśaḥ . lopaḥ api ādiśyate . doṣaḥ khalu api syāt yadi lopaḥ na ādeśaḥ syāt . iha acaḥ parasmin pūrvavidhau iti etasya bhūyiṣṭhāni lope udāharaṇāni tāni na syuḥ . yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ . kva ca sthānivadbhāvaḥ na asti . yaḥ alvidhiḥ . kim prayojanam . prayojanam ṅaunakārlopettvemvidhayaḥ . bhasañjñāṅīpṣphgorātveṣu doṣaḥ . bhasañjñāṅīpṣphgorātveṣu doṣaḥ bhavati. bhasañjñāyām tāvat na doṣaḥ . ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena bhasañjñā bhavati iti yat ayam na ṅisambuddhyoḥ iti ṅau pratiṣedham śāsti . ṅīpi api : na evam vijñāyate : aṇantāt akārāntāt . katham tarhi . aṇ yaḥ akāraḥ iti . ṣphe api : na evam vijñāyate : yañantāt akārantāt iti . katham tarhi . yañ yaḥ akāraḥ iti . goḥ ātve api : na evam vijñāyate : ami aci iti . katham tarhi . aci ami iti . prayojanāni api tarhi tāni na santi . yat tāvat ucyate ṅaunakārlopaḥ iti kriyate etat nyāse eva : na ṅisambuddhyoḥ iti . ittvam api . vakṣyati etat : śāsaḥ ittve āśāsaḥ kvau iti . imvidhiḥ api : hali iti nivṛttam . yadi hali iti nivṛttam tṛṇahāni atra api prāpnoti . evam tarhi aci na iti api anuvartiṣyate . na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . pratyayam gṛhītvā yat ucyate tat pratyayalakṣaṇena yathā syāt śabdam gṛhītvā yat ucyate tat pratyayalakṣaṇena mā bhūt iti . kim prayojanam . śobhanāḥ dṛṣadaḥ asya sudṛṣat brāhmaṇaḥ . soḥ manasī* alomoṣasī* iti eṣaḥ svaraḥ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.