Library·Patanjali: Vyakaranamahabhasya·1·1.1

Patanjali: Vyakaranamahabhasya 1.1

क्अ इ,३७।२-७ रो इ,१२१-१२३ कुत्वम् कस्मात् न भवति चोः कुः पदस्य इति । भत्वात् । कथम् भसञ्ज्ञा । अयस्मयादीनि छन्दसि इति । छन्दसि इति उच्यते । न च इदम् छन्दः । छन्दोवत् सूत्राणि भवन्ति । यदि भसञ्ज्ञा वृद्धिः आद् ऐच् अत् एङ् गुणः इति जश्त्वम् अपि न प्राप्नोति । उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते । तत् यथा । सः सुष्टुभा सः ऋक्वता गणेन । पदत्वात् कुत्वम् भत्वात् जश्व्तम् न भवति । एवम् इह अपि भत्वात् कुत्वम् न भविष्यति

KA I,37.2-7 Ro I,121-123 kutvam kasmāt na bhavati coḥ kuḥ padasya iti . bhatvāt . katham bhasañjñā . ayasmayādīni chandasi iti . chandasi iti ucyate . na ca idam chandaḥ . chandovat sūtrāṇi bhavanti . yadi bhasañjñā vṛddhiḥ ād aic at eṅ guṇaḥ iti jaśtvam api na prāpnoti . ubhayasañjñāni api chandāṃsi dṛśyante . tat yathā . saḥ suṣṭubhā saḥ ṛkvatā gaṇena . padatvāt kutvam bhatvāt jaśvtam na bhavati . evam iha api bhatvāt kutvam na bhaviṣyati

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७।८-२४ रो इ,१२३-१२४ किम् पुनः इदम् तद्भावितग्रहणम् : वृद्धिः इति एवम् ये आकारैकारौकाराः भाव्यन्ते तेषाम् ग्रहणम् आहोस्वित् आदैज्मात्रस्य । किम् च अतः । यदि तद्भावितग्रहणम् शालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति । आम्रमयम् शालमयम् वृद्धलक्षणः मयट् न प्राप्नोति । आम्रगुप्तायनिः शालगुप्तयनिः वृद्धलक्षणः फिञ् न प्राप्नोति । अथ ऐज्मात्रस्य ग्रहणम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति । इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति । अस्तु तर्हि ऐज्मात्रस्य । ननु च उक्तम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति । कथम् तर्हि । उत्तरपदस्य इति एवम् प्रकृत्य या वृद्धिः तद्वति उत्तरपदे इति एवम् एतत् विज्ञायते । अवश्यम् च एतत् एवम् विज्ञेयम् । तद्भावितग्रहणे सति अपि इह प्रसज्येत : सर्वः कारकः सर्वकारकः इति । यद् अपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः । न एवम् विज्ञायते वृद्धेः निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तस्य इति । कथम् तर्हि । वृद्धेः निमित्तम् यस्मिन् सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति । किम् च वृद्धेः निमित्तम्। यः असौ ककारः णकारः ञकारः वा । अथ वा यः कृत्स्नायाः वृद्धेः निमित्तम् । कः च कृत्स्नायाः वृद्धेः निमित्तम् । यः त्रयाणाम् आकारैकारौकाराणाम् ।

KA I,37.8-24 Ro I,123-124 kim punaḥ idam tadbhāvitagrahaṇam : vṛddhiḥ iti evam ye ākāraikāraukārāḥ bhāvyante teṣām grahaṇam āhosvit ādaijmātrasya . kim ca ataḥ . yadi tadbhāvitagrahaṇam śālīyaḥ mālīyaḥ iti vṛddhalakṣaṇaḥ chaḥ na prāpnoti . āmramayam śālamayam vṛddhalakṣaṇaḥ mayaṭ na prāpnoti . āmraguptāyaniḥ śālaguptayaniḥ vṛddhalakṣaṇaḥ phiñ na prāpnoti . atha aijmātrasya grahaṇam sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti . iha ca tāvatī bhāryā asya tāvadbhāryaḥ yāvadbhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ prāpnoti . astu tarhi aijmātrasya . nanu ca uktam sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate uttarapadasya vṛddhiḥ uttarapadavṛddhiḥ uttarapadavṛddhau iti . katham tarhi . uttarapadasya iti evam prakṛtya yā vṛddhiḥ tadvati uttarapade iti evam etat vijñāyate . avaśyam ca etat evam vijñeyam . tadbhāvitagrahaṇe sati api iha prasajyeta : sarvaḥ kārakaḥ sarvakārakaḥ iti . yad api ucyate iha tāvatī bhāryā asya tāvadbhāryaḥ yāvadbhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ prāpnoti iti na eṣaḥ doṣaḥ . na evam vijñāyate vṛddheḥ nimittam vṛddhinimittam vṛddhinimittasya iti . katham tarhi . vṛddheḥ nimittam yasmin saḥ ayam vṛddhinimittaḥ vṛddhinimittasya iti . kim ca vṛddheḥ nimittam. yaḥ asau kakāraḥ ṇakāraḥ ñakāraḥ vā . atha vā yaḥ kṛtsnāyāḥ vṛddheḥ nimittam . kaḥ ca kṛtsnāyāḥ vṛddheḥ nimittam . yaḥ trayāṇām ākāraikāraukārāṇām .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३७।२५-४०।१७ रो इ,१२५-१३३ सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः । अथ सञ्ज्ञा इति प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः । किम् प्रयोजनम् । सञ्ज्ञासम्प्रत्ययार्थः । वृद्ध्यादीनाम् शब्दानाम् सञ्ज्ञा इति एषः सम्प्रत्ययः यथा स्यात् । इतरथा हि असम्प्रत्ययः यथा लोके । अक्रियमाणे हि सञ्ज्ञाधिकारे वृद्ध्यादीनाम् सञ्ज्ञा इति एषः सम्प्रत्ययः न स्यात् । इदम् इदानीम् बहुसूत्रम् अनर्थकम् स्यात् । अनर्थकम् इति आह । कथम् । यथा लोके । लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि दृश्यन्ते । अर्थवन्ति तावत् : देवदत्त गाम् अभ्याज शुक्लाम् दण्डेन । देवदत्त गाम् अभ्याज कृष्णाम् इति । अनर्थकानि च । दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति । सञ्ज्ञासञ्ज्ञ्यसन्देहः च । क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः । कुतः हि एतत् वृद्धिशब्दः सञ्ज्ञा आदैचः सञ्ज्ञिनः इति । न पुनः आदैचः सञ्ज्ञा वृद्धिशब्दः सञ्ज्ञी इति । यत् तावत् उच्यते सञ्ज्ञाधिकारः कर्तव्यः सञ्ज्ञासम्प्रत्ययार्थः इति न कर्तव्यः । आचार्याचारात् सञ्ज्ञासिद्धिः । आचार्याचारात् सञ्ज्ञासिद्धिः भविष्यति । किम् इदम् आचार्याचारात् । आचार्याणाम् उपचारात् । यथा लौकिकवैदिकेषु । तत् यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावत् : मातापितरौ पुत्रस्य जातस्य संवृते अवकाशे नाम कुर्वाते देवदत्तः यज्ञदत्तः इति । तयोः उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति । वेदे : याज्ञिकाः सञ्ज्ञाम् कुर्वन्ति स्फ्यः यूपः चषालः इति । तत्रभवताम् उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति । अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारान् उदाहरन्ति । ते मन्यामहे : यया प्रत्याय्यन्ते सा सञ्ज्ञा ये प्रतीयन्ते ते सञ्ज्ञिनः इति । यत् अपि उच्यते क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः इति । सञ्ज्ञासञ्ज्ञ्यसन्देहः । सञ्ज्ञासञ्ज्ञिनोः असन्देहः सिद्धः । कुतः । आचार्याचारात् एव । उक्तः आचार्याचारः । अनाकृतिः । अथ वा अनाकृतिः सञ्ज्ञा । आकृतिमन्तः सञ्ज्ञिनः । लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते । लिङ्गेन वा । अथ वा किम् चित् लिङ्गम् आसज्य वक्ष्यामि इत्थंलिङ्गा सञ्ज्ञा इति । वृद्धिशब्दे च तत् लिङ्गम् करिष्यते न आदैच्छब्दे । इदम् तावत् अयुक्तम् यत् उच्यते आचार्याचारात् इति । किम् अत्र अयुक्तम् । तम् एव उपालभ्य अगमकम् ते सूत्रम् इति तस्य एव पुनः प्रमाणीकरणम् इति एतत् अयुक्तम् । अपरितुष्यन् खलु अपि भवान् अनेन परिहारेण आकृतिः लिङ्गेन वा इति आह । तत् च अपि वक्तव्यम् । यदि अपि एतत् उच्यते अथ वा एतर्हि इत्सञ्ज्ञा न वक्तव्या लोपः च न वक्तव्यः । सञ्ज्ञालिङ्गम् अनुबन्धेषु करिष्यते । न च सञ्ज्ञायाः निवृत्तिः उच्यते । स्वभावतः सञ्ज्ञाः सञ्ज्ञिनः प्रत्याय्य निवर्तन्ते । तेन अनुबन्धानाम् अपि निवृत्तिः भविष्यति । सिध्यति एवम् । अपाणिनीयम् तु भवति । यथान्यासम् एव अस्तु । ननु च उक्तम् सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः इतरथा हि असम्प्रत्ययः यथा लोके इति । न यथा लोके तथा व्याकरणे । प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः शुचौ अवकाशे प्राङ्मुखः उपविश्य महता यत्नेन सूत्रम् प्रणयति स्म । तत्र अशक्यम् वर्णेन अपि अनर्थकेन भवितुम् किम् पुनः इयता सूत्रेण । किम् अतः यत् अशक्यम् । अतः सञ्ज्ञासञ्ज्ञिनौ एव । कुतः नु खलु एतत् सञ्ज्ञासञ्ज्ञिनौ एव इति न पुनः साध्वनुशासने अस्मिन् शास्त्रे साधुत्वम् अनेन किर्यते । कृतम् अनयोः साधुत्वम् । कथम् । वृधिः अस्मै अविशेषेण उपदिष्टः प्रकृतिपाठे । तस्मात् क्तिन्प्रत्ययः । आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः । प्रयोगनियमार्थम् तर्हि इदम् स्यात् । वृद्धिशब्दात् परः आदैचः प्रयोक्तव्याः इति । न इह प्रयोगनियमः आरभ्यते । किम् तर्हि । संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते । तेषाम् यथेष्ठम् अभिसम्बन्धः भवति । तत् यथा : आहर पात्रम् , पात्रम् आहर इति । आदेशाः तर्हि इमे स्युः । वृद्धिशब्दस्य आदैचः । षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः । आगमाः तर्हि इमे स्युः । वृद्धिशब्दस्य आदैचः आगमाः । आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लिङ्गेन

KA I,37.25-40.17 Ro I,125-133 sañjñādhikāraḥ sañjñāsampratyayārthaḥ . atha sañjñā iti prakṛtya vṛddhyādayaḥ śabdāḥ paṭhitavyāḥ . kim prayojanam . sañjñāsampratyayārthaḥ . vṛddhyādīnām śabdānām sañjñā iti eṣaḥ sampratyayaḥ yathā syāt . itarathā hi asampratyayaḥ yathā loke . akriyamāṇe hi sañjñādhikāre vṛddhyādīnām sañjñā iti eṣaḥ sampratyayaḥ na syāt . idam idānīm bahusūtram anarthakam syāt . anarthakam iti āha . katham . yathā loke . loke hi arthavanti ca anarthakāni ca vākyāni dṛśyante . arthavanti tāvat : devadatta gām abhyāja śuklām daṇḍena . devadatta gām abhyāja kṛṣṇām iti . anarthakāni ca . daśa dāḍimāni ṣaṭ apūpāḥ kuṇḍam ajājinam palalapiṇḍaḥ adhorukam etat kumāryāḥ sphaiyakṛtasya pitā pratiśīnaḥ iti . sañjñāsañjñyasandehaḥ ca . kriyamāṇe api sañjñādhikāre sañjñāsañjñinoḥ asandehaḥ vaktavyaḥ . kutaḥ hi etat vṛddhiśabdaḥ sañjñā ādaicaḥ sañjñinaḥ iti . na punaḥ ādaicaḥ sañjñā vṛddhiśabdaḥ sañjñī iti . yat tāvat ucyate sañjñādhikāraḥ kartavyaḥ sañjñāsampratyayārthaḥ iti na kartavyaḥ . ācāryācārāt sañjñāsiddhiḥ . ācāryācārāt sañjñāsiddhiḥ bhaviṣyati . kim idam ācāryācārāt . ācāryāṇām upacārāt . yathā laukikavaidikeṣu . tat yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . loke tāvat : mātāpitarau putrasya jātasya saṃvṛte avakāśe nāma kurvāte devadattaḥ yajñadattaḥ iti . tayoḥ upacārāt anye api jānanti iyam asya sañjñā iti . vede : yājñikāḥ sañjñām kurvanti sphyaḥ yūpaḥ caṣālaḥ iti . tatrabhavatām upacārāt anye api jānanti iyam asya sañjñā iti . apare punaḥ sici vṛddhiḥ iti uktvā ākāraikāraukārān udāharanti . te manyāmahe : yayā pratyāyyante sā sañjñā ye pratīyante te sañjñinaḥ iti . yat api ucyate kriyamāṇe api sañjñādhikāre sañjñāsañjñinoḥ asandehaḥ vaktavyaḥ iti . sañjñāsañjñyasandehaḥ . sañjñāsañjñinoḥ asandehaḥ siddhaḥ . kutaḥ . ācāryācārāt eva . uktaḥ ācāryācāraḥ . anākṛtiḥ . atha vā anākṛtiḥ sañjñā . ākṛtimantaḥ sañjñinaḥ . loke api hi ākrtimataḥ māṃsapiṇḍasya devadattaḥ iti sañjñā kriyate . liṅgena vā . atha vā kim cit liṅgam āsajya vakṣyāmi itthaṃliṅgā sañjñā iti . vṛddhiśabde ca tat liṅgam kariṣyate na ādaicchabde . idam tāvat ayuktam yat ucyate ācāryācārāt iti . kim atra ayuktam . tam eva upālabhya agamakam te sūtram iti tasya eva punaḥ pramāṇīkaraṇam iti etat ayuktam . aparituṣyan khalu api bhavān anena parihāreṇa ākṛtiḥ liṅgena vā iti āha . tat ca api vaktavyam . yadi api etat ucyate atha vā etarhi itsañjñā na vaktavyā lopaḥ ca na vaktavyaḥ . sañjñāliṅgam anubandheṣu kariṣyate . na ca sañjñāyāḥ nivṛttiḥ ucyate . svabhāvataḥ sañjñāḥ sañjñinaḥ pratyāyya nivartante . tena anubandhānām api nivṛttiḥ bhaviṣyati . sidhyati evam . apāṇinīyam tu bhavati . yathānyāsam eva astu . nanu ca uktam sañjñādhikāraḥ sañjñāsampratyayārthaḥ itarathā hi asampratyayaḥ yathā loke iti . na yathā loke tathā vyākaraṇe . pramāṇabhūtaḥ ācāryaḥ darbhapavitrapāṇiḥ śucau avakāśe prāṅmukhaḥ upaviśya mahatā yatnena sūtram praṇayati sma . tatra aśakyam varṇena api anarthakena bhavitum kim punaḥ iyatā sūtreṇa . kim ataḥ yat aśakyam . ataḥ sañjñāsañjñinau eva . kutaḥ nu khalu etat sañjñāsañjñinau eva iti na punaḥ sādhvanuśāsane asmin śāstre sādhutvam anena kiryate . kṛtam anayoḥ sādhutvam . katham . vṛdhiḥ asmai aviśeṣeṇa upadiṣṭaḥ prakṛtipāṭhe . tasmāt ktinpratyayaḥ . ādaicaḥ api akṣarasamāmnāye upadiṣṭāḥ . prayoganiyamārtham tarhi idam syāt . vṛddhiśabdāt paraḥ ādaicaḥ prayoktavyāḥ iti . na iha prayoganiyamaḥ ārabhyate . kim tarhi . saṃskṛtya saṃskṛtya padāni utsṛjyante . teṣām yatheṣṭham abhisambandhaḥ bhavati . tat yathā : āhara pātram , pātram āhara iti . ādeśāḥ tarhi ime syuḥ . vṛddhiśabdasya ādaicaḥ . ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ . āgamāḥ tarhi ime syuḥ . vṛddhiśabdasya ādaicaḥ āgamāḥ . āgamāḥ api ṣaṣṭhīnirdiṣṭasya eva ucyante liṅgena

Sanskrit only: no published translation is held for this verse.

क्अ इ,४०।१८-४१।४ रो इ,१३३-१३४ सतः वृद्ध्यादिषु सञ्ज्ञाभावात् तदाश्रये इतरेतराश्रयत्वात् असिद्धिः । सतः सञ्ज्ञिनः सञ्ज्ञाभावात् सञ्ज्ञाश्रये सञ्ज्ञिनि वृद्ध्यादिषु इतरेतराश्रयत्वात् अप्रसिद्धिः । का इतेरेतराश्रयता । सताम् आदैचाम् सञ्ज्ञया भवितव्यम् सञ्ज्ञया च आदैचः भाव्यन्ते । तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । तत् यथा । नौः नावि बद्धा न इतरत्राणाय भवति। ननु च भोः इतरेतराश्रयाणि अपि कार्याणि दृश्यन्ते । तत् यथा । नौः शकटम् वहति शकटम् च नावम् वहति । अन्यत् अपि तत्र किम् चित् भवति जलम् स्थलम् वा । स्थले शकटम् नावम् वहति । जले नौः शकटम् वहति । यथा तरि त्रिविष्टब्धकम् । तत्र अपि अन्ततः सूत्रकम् भवति । इदम् पुनः इतरेतराश्रयम् एव । सिद्धम् तु नित्यशब्दत्वात् । सिद्धम् एतत् । कथम् । नित्यशब्दत्वात् । नित्याः शब्दाः । नित्येषु शब्देषु सताम् आदैचाम् सञ्ज्ञा क्रियते । न सञ्ज्ञया आदैचः भाव्यन्ते । यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् । किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् । निवर्तकम् शास्त्रम् । कथम् । मृजिः अस्मै अविशेषेण उपदिष्टः । तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता । तत्र अनेन निवृत्तिः क्रियते । मृजेः अक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुः भवति इति ।

KA I,40.18-41.4 Ro I,133-134 sataḥ vṛddhyādiṣu sañjñābhāvāt tadāśraye itaretarāśrayatvāt asiddhiḥ . sataḥ sañjñinaḥ sañjñābhāvāt sañjñāśraye sañjñini vṛddhyādiṣu itaretarāśrayatvāt aprasiddhiḥ . kā iteretarāśrayatā . satām ādaicām sañjñayā bhavitavyam sañjñayā ca ādaicaḥ bhāvyante . tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . tat yathā . nauḥ nāvi baddhā na itaratrāṇāya bhavati. nanu ca bhoḥ itaretarāśrayāṇi api kāryāṇi dṛśyante . tat yathā . nauḥ śakaṭam vahati śakaṭam ca nāvam vahati . anyat api tatra kim cit bhavati jalam sthalam vā . sthale śakaṭam nāvam vahati . jale nauḥ śakaṭam vahati . yathā tari triviṣṭabdhakam . tatra api antataḥ sūtrakam bhavati . idam punaḥ itaretarāśrayam eva . siddham tu nityaśabdatvāt . siddham etat . katham . nityaśabdatvāt . nityāḥ śabdāḥ . nityeṣu śabdeṣu satām ādaicām sañjñā kriyate . na sañjñayā ādaicaḥ bhāvyante . yadi tarhi nityāḥ śabdāḥ kimartham śāstram . kimartham śāstram iti cet nivartakatvāt siddham . nivartakam śāstram . katham . mṛjiḥ asmai aviśeṣeṇa upadiṣṭaḥ . tasya sarvatra mṛjibuddhiḥ prasaktā . tatra anena nivṛttiḥ kriyate . mṛjeḥ akṅitsu pratyayeṣu mṛjiprasaṅge mārjiḥ sādhuḥ bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१।५-१६ रो इ,१३४-१३६ प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इति वक्तव्यम् । किम् प्रयोजनम् । समुदाये मा भूताम् इति । अन्यत्र सहवचनात् समुदाये सञ्ज्ञाप्रसङ्गः । अन्यत्र सहवचनात् समुदाये वृद्धिगुणसञ्ज्ञयोः अप्रसङ्गः । यत्र इच्छति सहभूतानाम् कार्यम् करोति तत्र सहग्रहणम् । तत् यथा । सह सुपा । उभे अभ्यस्तम् सह इति । प्रत्यवयवम् च वाक्यपरिसमाप्तेः । प्रत्यवयवम् च वाक्यपरिसमाप्तिः दृश्यते । तत् यथा । देवदत्तयज्ञदत्तविष्णुमित्राः भोज्यन्ताम् इति । न च उच्यते प्रत्येकम् इति । प्रत्येकम् च भुजिः परिसमाप्यते । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । सति एतस्मिन् दृष्टान्ते यदि तत्र सहग्रहणम् क्रियते इह अपि प्रत्येकम् इति वक्तव्यम् । अथ तत्र अन्तरेण सहग्रहणम् सहभूतानाम् कार्यम् भवति इह अपि न अर्थः प्रत्येकम् इति वचनेन ।

KA I,41.5-16 Ro I,134-136 pratyekam vṛddhiguṇasañjñe bhavataḥ iti vaktavyam . kim prayojanam . samudāye mā bhūtām iti . anyatra sahavacanāt samudāye sañjñāprasaṅgaḥ . anyatra sahavacanāt samudāye vṛddhiguṇasañjñayoḥ aprasaṅgaḥ . yatra icchati sahabhūtānām kāryam karoti tatra sahagrahaṇam . tat yathā . saha supā . ubhe abhyastam saha iti . pratyavayavam ca vākyaparisamāpteḥ . pratyavayavam ca vākyaparisamāptiḥ dṛśyate . tat yathā . devadattayajñadattaviṣṇumitrāḥ bhojyantām iti . na ca ucyate pratyekam iti . pratyekam ca bhujiḥ parisamāpyate . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . sati etasmin dṛṣṭānte yadi tatra sahagrahaṇam kriyate iha api pratyekam iti vaktavyam . atha tatra antareṇa sahagrahaṇam sahabhūtānām kāryam bhavati iha api na arthaḥ pratyekam iti vacanena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४१।१७-४२।२४ रो इ,१३६-१४० अथ किमर्थम् आकारः तपरः क्रियते । आकारस्य तपरकरणम् सवर्णार्थम् । आकारस्य तपरकरणम् क्रियते । किम् प्रयोजनम् । सवर्णार्थम् । तपरः तत्कालस्य इति तत्कालानाम् ग्रहणम् यथा स्यात् । केषाम् । उदात्तानुन्दात्तस्वरितानाम् । किम् च कारणम् न स्यात् । भेदकत्वात् स्वरस्य । भेदकाः उदात्तादयः । कथम् पुनः ज्ञायते भेदकाः उदात्तादयः इति । एवम् हि दृश्यते लोके । यः उदात्ते कर्तव्ये अनुदात्तम् करोति खण्डिकोपाध्यायः तस्मै चपेटाम् ददाति अन्यत् त्वम् करोषि इति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । भेदकत्वात् गुणस्य इति वक्तव्यम् । किम् प्रयोजनम् । आनुनासिक्यम् नाम गुणः । तद्भिन्नस्य अपि यथा स्यात् । किम् च कारणम् न स्यात् । भेदकत्वात् गुणस्य । भेदकाः गुणाः । कथम् पुनः ज्ञायते भेदकाः गुणाः इति । एवम् हि दृश्यते लोके । एकः अयम् आत्मा उदकम् नाम । तस्य गुणभेदात् अन्यत्वम् भवति : अन्यत् इदम् शीतम् अन्यत् इदम् ऊष्णम् इति । ननु च भोः अभेदकाः अपि गुणाः दृश्यन्ते । तत् यथा । देवदत्तः मुण्डी अपि जटी अपि शिखी अपि स्वाम् आख्याम् न जहाति । तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति । उभयम् इदम् गुणेषु उक्तम् भेदकाः अभेदकाः इति । किम् पुनः अत्र न्याय्यम् । अभेदकाः गुणाः इति एव न्याय्यम् । कुतः एतत् । यत् अयम् अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति उदात्तग्रहणम् करोति । यदि भेदकाः गुणाः स्युः उदात्तम् एव उच्चारयेत् । यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् स्वरितादेः स्वरितान्तात् च प्राप्नोति । न एषः दोषः । आश्रीयमाणः गुणः भेदकः भवति । तत् यथा । शुक्लम् आलभेत । कृष्णम् आलभेत । तत्र यः शुक्ले आलब्धव्ये कृष्णम् आलभेत न हि तेन यथोक्तम् कृतम् भवति । असन्देहार्थः तर्हि तकारः । ऐच् इति उच्यमने सन्देहः स्यात् । किम् इमौ ऐचौ एव आहोस्वित् आकारः अपि अत्र निर्दिश्यते इति । सन्देहमात्रम् एतत् भवति । सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति । त्रयाणाम् ग्रहणम् इति व्याख्यास्यामः । अन्यत्र अपि हि अयम् एवञ्जातीयकेषु सन्देहेषु न कम् चिद् यत्नम् करोति । तत् यथा । औतः अम्शसोः इति ।इदम् तर्हि प्रयोजनम् : आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति : खट्वा* इन्द्रः खट्वेन्द्रः , खट्वा* उदकम् खट्वोदकम् , खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः , खट्वौदनः , खट्वा* ऐतिकायनः , खट्वैतिकायनः , खट्वा* औपगवः , खट्वौपगवः इति । अथ क्रियमाणे अपि तकारे कस्मात् एव त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति । तपरः तत्कालस्य इति नियमात् । ननु तः परः यस्मात् सः अयम् तपरः । न इति आह । तात् अपि परः तपरः इति । यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् । यवः स्तवः । लवः पवः इति अत्र न स्यात् । न एषः तकारः । कः तर्हि । दकारः । किम् दकारे प्रयोजनम् । अथ किम् तकारे प्रयोजनम् । यदि असन्देहार्थः तकारः दकारः अपि । अथ मुखसुखार्थः तकारः दकारः अपि ।

KA I,41.17-42.24 Ro I,136-140 atha kimartham ākāraḥ taparaḥ kriyate . ākārasya taparakaraṇam savarṇārtham . ākārasya taparakaraṇam kriyate . kim prayojanam . savarṇārtham . taparaḥ tatkālasya iti tatkālānām grahaṇam yathā syāt . keṣām . udāttānundāttasvaritānām . kim ca kāraṇam na syāt . bhedakatvāt svarasya . bhedakāḥ udāttādayaḥ . katham punaḥ jñāyate bhedakāḥ udāttādayaḥ iti . evam hi dṛśyate loke . yaḥ udātte kartavye anudāttam karoti khaṇḍikopādhyāyaḥ tasmai capeṭām dadāti anyat tvam karoṣi iti . asti prayojanam etat . kim tarhi iti . bhedakatvāt guṇasya iti vaktavyam . kim prayojanam . ānunāsikyam nāma guṇaḥ . tadbhinnasya api yathā syāt . kim ca kāraṇam na syāt . bhedakatvāt guṇasya . bhedakāḥ guṇāḥ . katham punaḥ jñāyate bhedakāḥ guṇāḥ iti . evam hi dṛśyate loke . ekaḥ ayam ātmā udakam nāma . tasya guṇabhedāt anyatvam bhavati : anyat idam śītam anyat idam ūṣṇam iti . nanu ca bhoḥ abhedakāḥ api guṇāḥ dṛśyante . tat yathā . devadattaḥ muṇḍī api jaṭī api śikhī api svām ākhyām na jahāti . tathā bālaḥ yuvā vṛddhaḥ vatsaḥ damyaḥ balīvardaḥ iti . ubhayam idam guṇeṣu uktam bhedakāḥ abhedakāḥ iti . kim punaḥ atra nyāyyam . abhedakāḥ guṇāḥ iti eva nyāyyam . kutaḥ etat . yat ayam asthidadhisakthyakṣṇām anaṅ udāttaḥ iti udāttagrahaṇam karoti . yadi bhedakāḥ guṇāḥ syuḥ udāttam eva uccārayet . yadi tarhi abhedakāḥ guṇāḥ anudāttādeḥ antodāttāt ca yat ucyate tat svaritādeḥ svaritāntāt ca prāpnoti . na eṣaḥ doṣaḥ . āśrīyamāṇaḥ guṇaḥ bhedakaḥ bhavati . tat yathā . śuklam ālabheta . kṛṣṇam ālabheta . tatra yaḥ śukle ālabdhavye kṛṣṇam ālabheta na hi tena yathoktam kṛtam bhavati . asandehārthaḥ tarhi takāraḥ . aic iti ucyamane sandehaḥ syāt . kim imau aicau eva āhosvit ākāraḥ api atra nirdiśyate iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . trayāṇām grahaṇam iti vyākhyāsyāmaḥ . anyatra api hi ayam evañjātīyakeṣu sandeheṣu na kam cid yatnam karoti . tat yathā . autaḥ amśasoḥ iti .idam tarhi prayojanam : āntaryataḥ trimātracaturnātrāṇām sthāninām trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti : khaṭvā* indraḥ khaṭvendraḥ , khaṭvā* udakam khaṭvodakam , khaṭvā* īṣā khaṭveṣā khaṭvā* ūḍhā khaṭvoḍhā khaṭvā* elakā khaṭvailakā khaṭvā* odanaḥ , khaṭvaudanaḥ , khaṭvā* aitikāyanaḥ , khaṭvaitikāyanaḥ , khaṭvā* aupagavaḥ , khaṭvaupagavaḥ iti . atha kriyamāṇe api takāre kasmāt eva trimātracaturnātrāṇām sthāninam trimātracaturmātrāḥ ādeśāḥ na bhavanti . taparaḥ tatkālasya iti niyamāt . nanu taḥ paraḥ yasmāt saḥ ayam taparaḥ . na iti āha . tāt api paraḥ taparaḥ iti . yadi tāt api paraḥ taparaḥ ṝdoḥ ap iti iha eva syāt . yavaḥ stavaḥ . lavaḥ pavaḥ iti atra na syāt . na eṣaḥ takāraḥ . kaḥ tarhi . dakāraḥ . kim dakāre prayojanam . atha kim takāre prayojanam . yadi asandehārthaḥ takāraḥ dakāraḥ api . atha mukhasukhārthaḥ takāraḥ dakāraḥ api .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४२।२६-४४।१४ रो १४०-१४६ इग्ग्रहणम् किमर्थम् । इग्ग्रहणम् आत्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् । इग्ग्रहणम् क्रियते आकारनिवृत्त्यर्थम् सन्ध्यक्षरनिवृत्त्यर्थम् व्यञ्जननिवृत्त्यर्थम् च। आकारनिवृत्त्यर्थम् तावत् । याता वाता । आकारस्य गुणः प्राप्नोति । इग्ग्रहणात् न भवति । सन्ध्यक्षरनिवृत्त्यर्थम् । ग्लायति म्लायति । सन्ध्यक्षरस्य गुणः प्राप्नोति । इग्ग्रहणात् न भवति । व्यञ्जननिवृत्त्यर्थम् । उम्भिता , उम्भितुम् उम्भितव्यम् । व्यञ्जनस्य गुणः प्राप्नोति । इग्ग्रहणात् न भवति । आकारनिवृत्त्यर्थेन तावत् नार्थः । आचार्यप्रवृत्तिः ज्ञापयति न आकारस्य गुणः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति । कथम् कृत्वा ज्ञापकम् । कित्करणे एतत् प्रयोजनम् किति इति आकारलोपः यथा स्यात् । यदि च आकारस्य गुणः स्यात् कित्करणम् अनर्थकम् स्यात् । गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् गोदः , कम्बलदः इति । पश्यति तु आचार्यः न आकारस्य गुणः भवति इति । ततः ककारम् अनुबन्धम् करोति । सन्ध्यक्षरार्थेन अपि न अर्थः । उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भविष्यति । व्यञ्जननिवृत्त्यर्थेन अपि न अर्थः । आचार्यप्रवृत्तिः ज्ञापयति न व्यञ्जनस्य गुणः भवति इति यत् अयम् जनेः डम् शास्ति । कथम् कृत्वा ज्ञापकम् । डित्करणे एतत् प्रयोजनम् डिति इति टिलोपः यथा स्यात् । यदि व्यञ्जन्स्य गुणः स्यात् डित्करणम् अनर्थकम् स्यात् । गुणे कृते त्रयाणाम् अकाराणाम् पररूपेण सिद्धम् रूपम् स्यात् : उपसरजः , मन्दुरजः इति । पश्यति तु आचार्यः न व्यञ्जनस्य गुणः भवति इति । ततः जनेः डम् शास्ति। न एतानि सन्ति प्रयोजनानि । यत् तावत् उच्यते कित्करणम् ज्ञापकम् आकारस्य गुणः न भवति इति । उत्तरार्थम् एतत् स्यात् । तुन्दशोकयोः परिमृजापनुदोः इति । यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति । यत् अपि उच्यते उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भवति इति । यदि यत् यत् सन्ध्यक्षरस्य प्राप्नोति तत् तत् उपदेशसामर्थ्यात् बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति । न एषः दोषः । यम् विधिम् प्रति उपदेशः अनर्थकः स विधिः बाध्यते । यस्य तु विधेः निमित्तम् एव न असौ बाध्यते । गुणम् च प्रति उपदेशः अनर्थकः आयादीनाम् पुनः निमित्तम् एव । यत् अपि उच्यते जनेः डवचनम् ज्ञापकम् न व्यञ्जनस्य गुणः भवति इति । सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति । न च जनेः गुणेन सिध्यति । कुतः हि एतत् जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यात् ओकारः वा इति । आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः अकारः भविष्यति । एवम् अपि अनुनासिकः प्राप्नोति । पररूपेण शुद्धः भविष्यति । एवम् तर्हि गमेः अपि अयम् डः वक्तव्यः । गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति । तस्मात् इग्ग्रहणम् कर्तव्यम् । यदि इग्ग्रहणम् क्रियते द्यौः , पन्थाः , सः , इमम् इते एते अपि इकः प्राप्नुवन्ति । सञ्ज्ञया विधाने नियमः । सञ्ज्ञया ये विधीयन्ते तेषु नियमः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । गुणवृद्धिग्रहणसामर्थ्यात् । कथम् पुनः अन्तरेण गुणवृद्धिग्रहणम् इकः गुणवृद्धी स्याताम् । प्रकृतम् गुणवृद्धिग्रहणम् अनुवर्तते । क्व प्रकृतम् । वृद्धिः आत् ऐच् अत् एङ् गुणः इति । यदि तत् अनुवर्तते अत् एङ् गुणः वृद्धिः च इति अदेङाम् अपि वृद्धिसञ्ज्ञा प्राप्नोति । सम्बन्धम् अनुवर्तिष्यते । वृद्धिः आत् ऐच् । अत् एङ् गुणः वृद्धिः आत् ऐच् । ततः इकः गुणवृद्धी इति । गुणवृद्धिग्रहणम् अनुवर्तते आदैज्ग्रहणम् निवृत्तम् । अथ वा मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः । अथ वा एकयोगः करिष्यते वृद्धिः आत् ऐच् अत् एङ् गुणः इति । ततः इको गुणवृद्धी इति । न च एकयोगे अनुवृत्तिः भवति । अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति । अन्यस्याः सञ्ज्ञायाः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायाः वृद्धिसञ्ज्ञायाः गुणसञ्ज्ञ बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति । अथ वा वक्ष्यति एतत् । अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति । किम् तर्हि यत्नात् भवन्ति । अथ वा उभयम् निवृत्तम् । तत् अपेक्षिष्यामहे ।

KA I,42.26-44.14 Ro 140-146 iggrahaṇam kimartham . iggrahaṇam ātsandhyakṣaravyañjananivṛttyartham . iggrahaṇam kriyate ākāranivṛttyartham sandhyakṣaranivṛttyartham vyañjananivṛttyartham ca. ākāranivṛttyartham tāvat . yātā vātā . ākārasya guṇaḥ prāpnoti . iggrahaṇāt na bhavati . sandhyakṣaranivṛttyartham . glāyati mlāyati . sandhyakṣarasya guṇaḥ prāpnoti . iggrahaṇāt na bhavati . vyañjananivṛttyartham . umbhitā , umbhitum umbhitavyam . vyañjanasya guṇaḥ prāpnoti . iggrahaṇāt na bhavati . ākāranivṛttyarthena tāvat nārthaḥ . ācāryapravṛttiḥ jñāpayati na ākārasya guṇaḥ bhavati iti yat ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti . katham kṛtvā jñāpakam . kitkaraṇe etat prayojanam kiti iti ākāralopaḥ yathā syāt . yadi ca ākārasya guṇaḥ syāt kitkaraṇam anarthakam syāt . guṇe kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt godaḥ , kambaladaḥ iti . paśyati tu ācāryaḥ na ākārasya guṇaḥ bhavati iti . tataḥ kakāram anubandham karoti . sandhyakṣarārthena api na arthaḥ . upadeśasāmarthyāt sandhyakṣarasya guṇaḥ na bhaviṣyati . vyañjananivṛttyarthena api na arthaḥ . ācāryapravṛttiḥ jñāpayati na vyañjanasya guṇaḥ bhavati iti yat ayam janeḥ ḍam śāsti . katham kṛtvā jñāpakam . ḍitkaraṇe etat prayojanam ḍiti iti ṭilopaḥ yathā syāt . yadi vyañjansya guṇaḥ syāt ḍitkaraṇam anarthakam syāt . guṇe kṛte trayāṇām akārāṇām pararūpeṇa siddham rūpam syāt : upasarajaḥ , mandurajaḥ iti . paśyati tu ācāryaḥ na vyañjanasya guṇaḥ bhavati iti . tataḥ janeḥ ḍam śāsti. na etāni santi prayojanāni . yat tāvat ucyate kitkaraṇam jñāpakam ākārasya guṇaḥ na bhavati iti . uttarārtham etat syāt . tundaśokayoḥ parimṛjāpanudoḥ iti . yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham karoti . yat api ucyate upadeśasāmarthyāt sandhyakṣarasya guṇaḥ na bhavati iti . yadi yat yat sandhyakṣarasya prāpnoti tat tat upadeśasāmarthyāt bādhyate āyādayaḥ api tarhi na prāpnuvanti . na eṣaḥ doṣaḥ . yam vidhim prati upadeśaḥ anarthakaḥ sa vidhiḥ bādhyate . yasya tu vidheḥ nimittam eva na asau bādhyate . guṇam ca prati upadeśaḥ anarthakaḥ āyādīnām punaḥ nimittam eva . yat api ucyate janeḥ ḍavacanam jñāpakam na vyañjanasya guṇaḥ bhavati iti . siddhe vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati . na ca janeḥ guṇena sidhyati . kutaḥ hi etat janeḥ guṇaḥ ucyamānaḥ akāraḥ bhavati na punaḥ ekāraḥ vā syāt okāraḥ vā iti . āntaryataḥ ardhamātrikasya vyañjanasya mātrikaḥ akāraḥ bhaviṣyati . evam api anunāsikaḥ prāpnoti . pararūpeṇa śuddhaḥ bhaviṣyati . evam tarhi gameḥ api ayam ḍaḥ vaktavyaḥ . gameḥ ca guṇaḥ ucyamānaḥ āntaryataḥ okāraḥ prāpnoti . tasmāt iggrahaṇam kartavyam . yadi iggrahaṇam kriyate dyauḥ , panthāḥ , saḥ , imam ite ete api ikaḥ prāpnuvanti . sañjñayā vidhāne niyamaḥ . sañjñayā ye vidhīyante teṣu niyamaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . guṇavṛddhigrahaṇasāmarthyāt . katham punaḥ antareṇa guṇavṛddhigrahaṇam ikaḥ guṇavṛddhī syātām . prakṛtam guṇavṛddhigrahaṇam anuvartate . kva prakṛtam . vṛddhiḥ āt aic at eṅ guṇaḥ iti . yadi tat anuvartate at eṅ guṇaḥ vṛddhiḥ ca iti adeṅām api vṛddhisañjñā prāpnoti . sambandham anuvartiṣyate . vṛddhiḥ āt aic . at eṅ guṇaḥ vṛddhiḥ āt aic . tataḥ ikaḥ guṇavṛddhī iti . guṇavṛddhigrahaṇam anuvartate ādaijgrahaṇam nivṛttam . atha vā maṇḍūkagatayaḥ adhikārāḥ . yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā ekayogaḥ kariṣyate vṛddhiḥ āt aic at eṅ guṇaḥ iti . tataḥ iko guṇavṛddhī iti . na ca ekayoge anuvṛttiḥ bhavati . atha vā anyavacanāt cakārākaraṇāt prakṛtāpavādaḥ vijñāyate yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . anyasyāḥ sañjñāyāḥ vacanāt cakārasya anukarṣaṇārthasya akaraṇāt prakṛtāyāḥ vṛddhisañjñāyāḥ guṇasañjña bādhikā bhaviṣyati yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati . atha vā vakṣyati etat . anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti . kim tarhi yatnāt bhavanti . atha vā ubhayam nivṛttam . tat apekṣiṣyāmahe .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४४।१५-४७।१३ रो इ,१४६-१५५ किम् पुनः अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः । कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः । यदि एकम् वाक्यम् तत् च इदम् च अलः : अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयम् तच्छेषः । अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयम् तदपवादः । कः च अत्र विशेषः । वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् । वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् कर्तव्यम् । मिदेः गुणः इकः इति वक्तव्यम् । अनन्त्यत्वात् हि न प्राप्नोति । पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यम् । अनन्त्यत्वात् हि न प्राप्नोति । ऋच्छेः लिटि गुणः इकः इति वक्तव्यम् । अनन्त्यत्वात् हि न प्राप्नोति । ऋदृसः अङि गुणः इकः इति वक्तव्यम् । अनन्त्यत्वात् हि न प्राप्नोति । क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यम् । अनन्त्यत्वात् हि न प्राप्नोति । सर्वादेशप्रसङ्गः च अनिगन्तस्य । सर्वादेशः च गुणः च अनिगन्तस्य प्राप्नोति : याता वाता । किम् कारणम् । अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यम् इकम् उपसङ्क्रान्ता , अङ्गस्य इति च स्थानषष्ठी । तत् यत् इदानीम् अनिगन्तम् अङ्गम् तस्य गुणः सर्वादेशः प्राप्नोति । न एषः दोषः । यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यम् इकम् उपसङ्क्रान्ता एवम् अङ्गस्य इति अपि स्थानषष्ठी । तत् यद् इदानीम् अनिगन्तम् अङ्गम् , तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः सर्वादेशः । एवम् तर्हि न अयम् दोषसमुच्चयः । किम् तर्हि । पूर्वापेक्षः अयम् दोषः , ह्यर्थे च अयम् चः पठितः । मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् सर्वादेशप्रसङ्गः हि अनिगन्तस्य इति । मिदेः गुणः इकः इति वचनात् अन्त्यस्य न । अन्त्यस्य इति वचनात् इकः न । उच्यते तु गुणः । सः सर्वादेशः प्राप्नोति । एवम् सर्वत्र । अस्तु तर्हि तदपवादः । इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः । इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः । जुसि गुणः । सः यथा इह भवति : अजुहवुः , अबिभयुः , एवम् अनेनिजुः , पर्यविविषुः , अत्र अपि प्राप्नोति । सार्वधातुकार्धधातुकयोः गुणः । सः यथा इह भवति : कर्ता हर्ता नयति तरति भवति , एवम् ईहिता , ईहितुम् इति अत्र अपि प्राप्नोति । ह्रस्वस्य गुणः । सः यथा इह भवति : हे अग्ने हे वायो , एवम् हे अग्निचित् , हे सोमसुत् इति अत्र अपि प्राप्नोति । जसि गुणः । सः यथा इह भवति अग्नयः , वायवः इति एवम् अग्निचितः , सोमसुतः इति अत्र अपि प्राप्नोति । ऋतो ङिसर्वनामस्थानयोः गुणः । सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवम् सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति ।घेः ङिति गुणः । सः यथा इह भवति अग्नये वायवे एवम् अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति । ओः गुणः । सः यथा इह भवति बाभ्रव्यः , माण्डव्यः इति एवम् सुश्रुत् , सौश्रुतः इति अत्र अपि प्राप्नोति । न एषः दोषः । पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् । पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् भविष्यति । पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति । प्रकृतस्य एषः नियमः स्यात् । किम् च प्रकृतम् । सार्वधातुकार्धधातुकयोः इति । तेन भवेत् इह नियमात् न स्यात् ईहिता , ईहितुम् , ईहितव्यम् इति । ह्रस्वाद्योः गुणः तु अनियतः । सः अनन्त्यस्य अपि प्राप्नोति । अथ अपि एवम् नियमः स्यात् । पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति । एवम् अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः । सः अनन्त्यस्य अपि प्राप्नोति : ईहिता , ईहितुम् ईहितव्यम् इति । अथ अपि उभयतः नियमः स्यात् : पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः , सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति , एवम् अपि

KA I,44.15-47.13 Ro I,146-155 kim punaḥ ayam alontyaśeṣaḥ āhosvit alontyāpavādaḥ . katham ca ayam taccheṣaḥ syāt katham vā tadapavādaḥ . yadi ekam vākyam tat ca idam ca alaḥ : antyasya vidhayaḥ bhavanti ikaḥ guṇavṛddhī* alaḥ antyasya iti tataḥ ayam taccheṣaḥ . atha nānā vākyam : alaḥ antyasya vidhayaḥ bhavanti , ikaḥ guṇavṛddhī* antyasya ca anantyasya ca iti tataḥ ayam tadapavādaḥ . kaḥ ca atra viśeṣaḥ . vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu iggrahaṇam . vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu iggrahaṇam kartavyam . mideḥ guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . pugantalaghūpadhasya guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . ṛccheḥ liṭi guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . ṛdṛsaḥ aṅi guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . kṣiprakṣudrayoḥ guṇaḥ ikaḥ iti vaktavyam . anantyatvāt hi na prāpnoti . sarvādeśaprasaṅgaḥ ca anigantasya . sarvādeśaḥ ca guṇaḥ ca anigantasya prāpnoti : yātā vātā . kim kāraṇam . alaḥ antyasya iti ṣaṣṭhī ca eva hi antyam ikam upasaṅkrāntā , aṅgasya iti ca sthānaṣaṣṭhī . tat yat idānīm anigantam aṅgam tasya guṇaḥ sarvādeśaḥ prāpnoti . na eṣaḥ doṣaḥ . yathā eva hi alaḥ antyasya iti ṣaṣṭhī antyam ikam upasaṅkrāntā evam aṅgasya iti api sthānaṣaṣṭhī . tat yad idānīm anigantam aṅgam , tatra ṣaṣṭhī eva na asti kutaḥ guṇaḥ kutaḥ sarvādeśaḥ . evam tarhi na ayam doṣasamuccayaḥ . kim tarhi . pūrvāpekṣaḥ ayam doṣaḥ , hyarthe ca ayam caḥ paṭhitaḥ . midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu iggrahaṇam sarvādeśaprasaṅgaḥ hi anigantasya iti . mideḥ guṇaḥ ikaḥ iti vacanāt antyasya na . antyasya iti vacanāt ikaḥ na . ucyate tu guṇaḥ . saḥ sarvādeśaḥ prāpnoti . evam sarvatra . astu tarhi tadapavādaḥ . igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ guṇeṣu anantyapratiṣedhaḥ . igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ guṇeṣu anantyapratiṣedhaḥ vaktavyaḥ . jusi guṇaḥ . saḥ yathā iha bhavati : ajuhavuḥ , abibhayuḥ , evam anenijuḥ , paryaviviṣuḥ , atra api prāpnoti . sārvadhātukārdhadhātukayoḥ guṇaḥ . saḥ yathā iha bhavati : kartā hartā nayati tarati bhavati , evam īhitā , īhitum iti atra api prāpnoti . hrasvasya guṇaḥ . saḥ yathā iha bhavati : he agne he vāyo , evam he agnicit , he somasut iti atra api prāpnoti . jasi guṇaḥ . saḥ yathā iha bhavati agnayaḥ , vāyavaḥ iti evam agnicitaḥ , somasutaḥ iti atra api prāpnoti . ṛto ṅisarvanāmasthānayoḥ guṇaḥ . saḥ yathā iha bhavati kartari kartārau kartāraḥ iti evam sukṛti sukṛtau sukṛtaḥ iti atra api prāpnoti .gheḥ ṅiti guṇaḥ . saḥ yathā iha bhavati agnaye vāyave evam agnicite somasute iti atra api prāpnoti . oḥ guṇaḥ . saḥ yathā iha bhavati bābhravyaḥ , māṇḍavyaḥ iti evam suśrut , sauśrutaḥ iti atra api prāpnoti . na eṣaḥ doṣaḥ . pugantalaghūpadhagrahaṇam anantyaniyamārtham . pugantalaghūpadhagrahaṇam anantyaniyamārtham bhaviṣyati . pugantalaghūpadhasya eva anantyasya na anyasya anantyasya iti . prakṛtasya eṣaḥ niyamaḥ syāt . kim ca prakṛtam . sārvadhātukārdhadhātukayoḥ iti . tena bhavet iha niyamāt na syāt īhitā , īhitum , īhitavyam iti . hrasvādyoḥ guṇaḥ tu aniyataḥ . saḥ anantyasya api prāpnoti . atha api evam niyamaḥ syāt . pugantalaghūpadhasya sārvadhātukārdhadhātukayoḥ eva iti . evam api sārvadhātukārdhadhātukayoḥ guṇaḥ aniyataḥ . saḥ anantyasya api prāpnoti : īhitā , īhitum īhitavyam iti . atha api ubhayataḥ niyamaḥ syāt : pugantalaghūpadhasya eva sārvadhātukārdhadhātukayoḥ , sārvadhātukārdhadhātukayoḥ eva pugantalaghūpadhasya iti , evam api

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७।१४-४९।२१ रो इ,१५५-१६१ अथ वृद्धिग्रहणम् किमर्थम् । किम् विशेषेण वृद्धिग्रहणम् चोद्यते न पुनः गुणग्रहणम् अपि । यदि किम् चित् गुणग्रहणस्य प्रयोजनम् अस्ति वृद्धिग्रहणस्य अपि तत् भवितुम् अर्हति । कः वा विशेषः । अयम् अस्ति विशेषः । गुणविधौ न क्व चित् स्थानी निर्दिश्यते । तत्र अवश्यम् स्थानिनिर्देशार्थम् गुणग्रहणम् कर्तव्यम् । वृद्धिविधौ पुनः सर्वत्र एव स्थानी निर्दिश्यते । अचः ञ्णिति अतः उपधायाः तद्धितेषु अचाम् आदेः इति । अतः उत्तरम् पठति । वृद्धिग्रहणम् उत्तरार्थम् । वृद्धिग्रहणम् क्रियते उत्तरार्थम् । क्ङिति इति प्रतिषेधम् वक्ष्यति । सः वृद्धेः अपि यथा स्यात् । कः च इदानीम् क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः यावता ञ्णिति इति उच्यते । तत् च मृज्यर्थम् । मृजेः वृद्धिः अविशेषेण उच्यते । सा क्ङिति मा भूत् : मृष्टः , मृष्टवान् इति । इहार्थम् च अपि मृज्यर्थम् वृद्धिग्रहणम् कर्तव्यम् । मृजेः वृद्धिः अविशेषेण उच्यते । सा इकः यथा स्यात् । अनिकाः मा भूत् इति । मृज्यर्थम् इति चेत् योगविभागात् सिद्धम् । मृज्यर्थम् इति चेत् योगविभागः करिष्यते । मृजेः वृद्धिः । ततः ञ्णिति । ञिति णिति च वृद्धिः भवति । अचः इति एव । यदि अचः वृद्धिः उच्यते न्यमार्ट् : अटः अपि वृद्धिः प्राप्नोति । अटि च उक्तम् । किम् उक्तम्। अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति । वृद्धिप्रतिषेधानुपपत्तिः तु इक्प्रकरणात् । वृद्धेः तु प्रतिषेधः न उपपद्यते । किम् कारणम् । इक्प्रकरणात् । इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवम् सति मृजेः इग्लक्षणा वृद्धिः भवति । तस्मात् मृजेः इग्लक्षणा वृद्धिः एषितव्या । एवम् तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ सङ्क्रमे विभाषा वृद्धिम् आरभन्ते : परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः , परिममार्जतुः इत्याद्यर्थम् । तत् इह अपि साध्यम् । तस्मिन् साध्ये योगविभागः करिष्यते । मृजेः वृद्धिः अचः भवति । ततः अचि क्ङिति । अजादौ च क्ङिति मृजेः वृद्धिः भवति : परिमार्जन्ति परिमार्जन्तु । किमर्थम् इदम् । नियमार्थम् : अजादौ एव क्ङिति न अन्यत्र । क्व अन्यत्र मा भूत् । मृष्टः , मृष्टवान् इति । ततः वा । वा अचि क्ङिति मृजेः वृद्धिः भवति । परिमृजन्ति , परिमार्जन्ति , परिममृजतुः , परिममार्जतुः इति । इहार्थम् एव सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् । सिचि वृद्धिः अविशेषेण उच्यते । सा इकः यथा स्यात् , अनिकः मा भूत् इति । कस्य पुनः अनिकः प्राप्नोति । अकारस्य : अचिकीर्षीत् , अजिहीर्षीत् । न एतत् अस्ति । लोपः अत्र बाधकः भविष्यति । आकारस्य तर्हि प्राप्नोति : अयासीत् , अवासीत् । न अस्ति अत्र विशेषः सत्याम् वृद्धौ असत्याम् वा । सन्ध्यक्षरस्य तर्हि प्राप्नोति । न एव सन्ध्यक्षरम् अन्त्यम् अस्ति । ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढ इति । न एतत् अस्ति । असिद्धः ढलोपः । तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति । व्यञ्जनस्य तर्हि प्राप्नोति : अभैत्सीत् , अच्छैत्सीत् । हलन्तलक्षणा वृद्धिः बाधिका भविष्यति । यत्र तर्हि सा प्रतिषिध्यते : अकोषीत् , अमोषीत् । सिचि वृद्धेः अपि एषः प्रतिषेधः । कथम् । लक्षणम् हि नाम ध्वनति भ्रमति मुहूर्तम् अपि न अवतिष्ठते । अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति । तस्याः हलन्तलक्षणा वृद्धिः बाधिका । तस्याः अपि न इटि इति प्रतिषेधः । अस्ति पुनः क्व चिद्

KA I,47.14-49.21 Ro I,155-161 atha vṛddhigrahaṇam kimartham . kim viśeṣeṇa vṛddhigrahaṇam codyate na punaḥ guṇagrahaṇam api . yadi kim cit guṇagrahaṇasya prayojanam asti vṛddhigrahaṇasya api tat bhavitum arhati . kaḥ vā viśeṣaḥ . ayam asti viśeṣaḥ . guṇavidhau na kva cit sthānī nirdiśyate . tatra avaśyam sthāninirdeśārtham guṇagrahaṇam kartavyam . vṛddhividhau punaḥ sarvatra eva sthānī nirdiśyate . acaḥ ñṇiti ataḥ upadhāyāḥ taddhiteṣu acām ādeḥ iti . ataḥ uttaram paṭhati . vṛddhigrahaṇam uttarārtham . vṛddhigrahaṇam kriyate uttarārtham . kṅiti iti pratiṣedham vakṣyati . saḥ vṛddheḥ api yathā syāt . kaḥ ca idānīm kṅitpratyayeṣu vṛddheḥ prasaṅgaḥ yāvatā ñṇiti iti ucyate . tat ca mṛjyartham . mṛjeḥ vṛddhiḥ aviśeṣeṇa ucyate . sā kṅiti mā bhūt : mṛṣṭaḥ , mṛṣṭavān iti . ihārtham ca api mṛjyartham vṛddhigrahaṇam kartavyam . mṛjeḥ vṛddhiḥ aviśeṣeṇa ucyate . sā ikaḥ yathā syāt . anikāḥ mā bhūt iti . mṛjyartham iti cet yogavibhāgāt siddham . mṛjyartham iti cet yogavibhāgaḥ kariṣyate . mṛjeḥ vṛddhiḥ . tataḥ ñṇiti . ñiti ṇiti ca vṛddhiḥ bhavati . acaḥ iti eva . yadi acaḥ vṛddhiḥ ucyate nyamārṭ : aṭaḥ api vṛddhiḥ prāpnoti . aṭi ca uktam . kim uktam. anantyavikāre antyasadeśasya kāryam bhavati iti . vṛddhipratiṣedhānupapattiḥ tu ikprakaraṇāt . vṛddheḥ tu pratiṣedhaḥ na upapadyate . kim kāraṇam . ikprakaraṇāt . iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca evam sati mṛjeḥ iglakṣaṇā vṛddhiḥ bhavati . tasmāt mṛjeḥ iglakṣaṇā vṛddhiḥ eṣitavyā . evam tarhi iha anye vaiyākaraṇāḥ mṛjeḥ ajādau saṅkrame vibhāṣā vṛddhim ārabhante : parimṛjanti parimārjanti parimṛjantu parimārjantu parimamṛjatuḥ , parimamārjatuḥ ityādyartham . tat iha api sādhyam . tasmin sādhye yogavibhāgaḥ kariṣyate . mṛjeḥ vṛddhiḥ acaḥ bhavati . tataḥ aci kṅiti . ajādau ca kṅiti mṛjeḥ vṛddhiḥ bhavati : parimārjanti parimārjantu . kimartham idam . niyamārtham : ajādau eva kṅiti na anyatra . kva anyatra mā bhūt . mṛṣṭaḥ , mṛṣṭavān iti . tataḥ vā . vā aci kṅiti mṛjeḥ vṛddhiḥ bhavati . parimṛjanti , parimārjanti , parimamṛjatuḥ , parimamārjatuḥ iti . ihārtham eva sijartham vṛddhigrahaṇam kartavyam . sici vṛddhiḥ aviśeṣeṇa ucyate . sā ikaḥ yathā syāt , anikaḥ mā bhūt iti . kasya punaḥ anikaḥ prāpnoti . akārasya : acikīrṣīt , ajihīrṣīt . na etat asti . lopaḥ atra bādhakaḥ bhaviṣyati . ākārasya tarhi prāpnoti : ayāsīt , avāsīt . na asti atra viśeṣaḥ satyām vṛddhau asatyām vā . sandhyakṣarasya tarhi prāpnoti . na eva sandhyakṣaram antyam asti . nanu ca idam asti ḍhalope kṛte udavoḍhām udavoḍham udavoḍha iti . na etat asti . asiddhaḥ ḍhalopaḥ . tasya asiddhatvāt na etat antyam bhavati . vyañjanasya tarhi prāpnoti : abhaitsīt , acchaitsīt . halantalakṣaṇā vṛddhiḥ bādhikā bhaviṣyati . yatra tarhi sā pratiṣidhyate : akoṣīt , amoṣīt . sici vṛddheḥ api eṣaḥ pratiṣedhaḥ . katham . lakṣaṇam hi nāma dhvanati bhramati muhūrtam api na avatiṣṭhate . atha vā sici vṛddhiḥ parasmaipadeṣu iti sici vṛddhiḥ prāpnoti . tasyāḥ halantalakṣaṇā vṛddhiḥ bādhikā . tasyāḥ api na iṭi iti pratiṣedhaḥ . asti punaḥ kva cid

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९।२४-५०।१६ रो इ,१६१-१६३ षष्ठ्याः स्थानेयोगत्वात् इग्निवृत्तिः । षष्ठ्याः स्थानेयोगत्वात् सर्वेषाम् इकाम् निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति : दधि मधु । पुनर्वचनम् इदानीम् किमर्थम् स्यात् । अन्यतरार्थम् पुनर्वचनम् । अन्यतरार्थम् एतत् स्यात् । सार्वधादुकार्धधातुकयोः गुणः एव इति । प्रसारणे च । प्रसारणे च सर्वेषम् यणाम् निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति : याता वाता । पुनर्वचनम् इदानीम् किमर्थम् स्यात् । विषयार्थम् पुनर्वचनम् । विषयार्थम् एतत् स्यात् । वचिस्वपियजादीनाम् किति एव इति । उः अण् रपरे च । उः अण् रपरे च सर्वर्काराणाम् निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति कर्तृ हर्तृ । सिद्धम् तु षष्ठ्यधिकारे वचनात् । सिद्धम् एतत् । कथम् । षष्ठ्यधिकारे इमे योगाः कर्तव्याः । एकः तावत् क्रियते तत्र एव । इमौ अपि योगौ षष्ठधिकारम् अनुवर्तिष्येते । अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे । अथ वा इदम् तावद् अयम् प्रष्टव्यः । सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात् न भवति : याता वाता । इदम् तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति । यथा एव तर्हि इदम् तत्र अपेक्षिष्यते एवम् इह अपि तद् अपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति।

KA I,49.24-50.16 Ro I,161-163 ṣaṣṭhyāḥ sthāneyogatvāt ignivṛttiḥ . ṣaṣṭhyāḥ sthāneyogatvāt sarveṣām ikām nivṛttiḥ prāpnoti . asya api prāpnoti : dadhi madhu . punarvacanam idānīm kimartham syāt . anyatarārtham punarvacanam . anyatarārtham etat syāt . sārvadhādukārdhadhātukayoḥ guṇaḥ eva iti . prasāraṇe ca . prasāraṇe ca sarveṣam yaṇām nivṛttiḥ prāpnoti . asya api prāpnoti : yātā vātā . punarvacanam idānīm kimartham syāt . viṣayārtham punarvacanam . viṣayārtham etat syāt . vacisvapiyajādīnām kiti eva iti . uḥ aṇ rapare ca . uḥ aṇ rapare ca sarvarkārāṇām nivṛttiḥ prāpnoti . asya api prāpnoti kartṛ hartṛ . siddham tu ṣaṣṭhyadhikāre vacanāt . siddham etat . katham . ṣaṣṭhyadhikāre ime yogāḥ kartavyāḥ . ekaḥ tāvat kriyate tatra eva . imau api yogau ṣaṣṭhadhikāram anuvartiṣyete . atha vā ṣaṣṭhadhikāre imau yogau apekṣiṣyāmahe . atha vā idam tāvad ayam praṣṭavyaḥ . sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti iha kasmāt na bhavati : yātā vātā . idam tatra apekṣiṣyate ikaḥ guṇavṛddhī* iti . yathā eva tarhi idam tatra apekṣiṣyate evam iha api tad apekṣiṣyāmahe sārvadhātukārdhadhātukayoḥ ikaḥ guṇavṛddhī* iti.

Sanskrit only: no published translation is held for this verse.

क्अ इ,५१।२-१३ रो इ,१६४-१६६ धातुग्रहणम् किमर्थम् । इह मा भूत्: लूञ् लविता लवितुम् पूञ् पविता पवितुम् । आर्धधातुके इति किमर्थम् । त्रिधा बद्धः वृषभः रोरवीति । किम् पुनः इदम् आर्धधातुकग्रहणम् लोपविशेषणम् : आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित् गुणवृद्धिविशेषणम् आर्धधातुकग्रहणम् : धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति । किम् च अतः । यदि लोपविशेषणम् उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति । अथ गुणवृद्धिविशेषणम् क्नोपयति इति अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु लोपविशेषणम् । कथम् उपेद्धः प्रेद्धः इति । बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । यदि एवम् न अर्थः धातुग्रहणेन । इह कस्मात् न भवति: लूञ् लविता लवितुम् । आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः । अथ वा पुनः अस्तु गुणवृद्धिविशेषणम् । ननु च उक्तम् क्नोपयति इति अत्र अपि प्राप्नोति इति । न एषः दोषः । निपातनात् सिद्धम् । किम् निपातनम् । चेले क्नोपेः इति

KA I,51.2-13 Ro I,164-166 dhātugrahaṇam kimartham . iha mā bhūt: lūñ lavitā lavitum pūñ pavitā pavitum . ārdhadhātuke iti kimartham . tridhā baddhaḥ vṛṣabhaḥ roravīti . kim punaḥ idam ārdhadhātukagrahaṇam lopaviśeṣaṇam : ārdhadhātukanimitte lope sati ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam ārdhadhātukagrahaṇam : dhātulope sati ārdhadhātukanimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti . kim ca ataḥ . yadi lopaviśeṣaṇam upeddhaḥ preddhaḥ atra api prāpnoti . atha guṇavṛddhiviśeṣaṇam knopayati iti atra api prāpnoti . yathā icchasi tathā astu . astu lopaviśeṣaṇam . katham upeddhaḥ preddhaḥ iti . bahiraṅgaḥ guṇaḥ antaraṅgaḥ pratiṣedhaḥ . asiddham bahiraṅgam antaraṅge . yadi evam na arthaḥ dhātugrahaṇena . iha kasmāt na bhavati: lūñ lavitā lavitum . ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ . atha vā punaḥ astu guṇavṛddhiviśeṣaṇam . nanu ca uktam knopayati iti atra api prāpnoti iti . na eṣaḥ doṣaḥ . nipātanāt siddham . kim nipātanam . cele knopeḥ iti

Sanskrit only: no published translation is held for this verse.

क्अ इ,५१।१४-५२।२० रो इ,१६६-१६९ परिगणनम् कर्तव्यम् । यङ्यक्क्यवलोपे प्रतिषेधः । यङ्यक्क्यवलोपे प्रतिषेधः वक्तव्यः । यङ्: बेभिदिता मरीमृजः । यक्: कुषुभिता मगधकः । क्य: समिधिता दृषदकः । वलोपे : जीरदानुः । किम् प्रयोजनम् । नुम्लोपस्रिव्यनुबन्धलोपे अप्रतिषेधार्थम् । नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूत् इति । नुम्लोपे: अभाजि रागः उपबर्हणम् । स्रिवेः : आस्रेमाणम् । अनुबन्धलोपे : लूञ् लविता लवितुम् । यदि परिगणनम् क्रियते स्यदः, प्रश्रथः, हिमश्रथः इति अत्र अपि प्राप्नोति । वक्ष्यति एतत् निपातनात् स्यदादिषु इति । तत् तर्हि परिगणनम् कर्तव्यम् । न कर्तव्यम् । नुम्लोपे कस्मात् न भवति । इक्प्रकरणात् नुम्लोपे वृद्धिः । इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः । यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, प्रश्रथः, हिमश्रथः इति अत्र न प्राप्नोति । इह च प्राप्नोति: अवोदः, एधः, ओद्मः इति । निपातनात् स्यदादिषु । निपातनात् स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति । यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथम् स्रिवेः आस्रेमाणम् लूञ् लविता । प्रत्ययाश्रयत्वात् अन्यत्र सिद्धम् । आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः । यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति । रकि ज्यः प्रसारणम् । न एतत् जीवेः रूपम् । रकि एतत् ज्यः प्रसारणम् । यावता च इदानीम् रकि जीवेः अपि सिद्धम् भवति । कथम् उपबर्हणम् । बृहिः प्रकृत्यन्तरम् । कथम् ज्ञायते बृहिः प्रकृत्यन्तरम् इति । अचि इति हि लोपः उच्यते अनजादौ अपि दृश्यते: निबृह्यते । अनिटि इति च उच्यते । इडादौ अपि दृश्यते: निबर्हिता निबर्हितुम् इति । अजादौ अपि न दृश्यते: बृंहयति बृंहकः । तस्मात् न अर्थः परिगणनेन । यदि परिगणनम् न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति । न एषः दोषः । धातुलोपे इति न एवम् विज्ञायते: धातोः लोपः धातुलोपः, धातुलोपे इति । कथम् तर्हि । धातोः लोपः अस्मिन् तत् इदम् धातुलोपम्, धातुलोपे इति । तस्मात् इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः । यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति । अल्लोपस्य स्थानिवत्वात् । अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः ।

KA I,51.14-52.20 Ro I,166-169 parigaṇanam kartavyam . yaṅyakkyavalope pratiṣedhaḥ . yaṅyakkyavalope pratiṣedhaḥ vaktavyaḥ . yaṅ: bebhiditā marīmṛjaḥ . yak: kuṣubhitā magadhakaḥ . kya: samidhitā dṛṣadakaḥ . valope : jīradānuḥ . kim prayojanam . numlopasrivyanubandhalope apratiṣedhārtham . numlope srivyanubandhalope ca pratiṣedhaḥ mā bhūt iti . numlope: abhāji rāgaḥ upabarhaṇam . sriveḥ : āsremāṇam . anubandhalope : lūñ lavitā lavitum . yadi parigaṇanam kriyate syadaḥ, praśrathaḥ, himaśrathaḥ iti atra api prāpnoti . vakṣyati etat nipātanāt syadādiṣu iti . tat tarhi parigaṇanam kartavyam . na kartavyam . numlope kasmāt na bhavati . ikprakaraṇāt numlope vṛddhiḥ . iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . yadi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ syadaḥ, praśrathaḥ, himaśrathaḥ iti atra na prāpnoti . iha ca prāpnoti: avodaḥ, edhaḥ, odmaḥ iti . nipātanāt syadādiṣu . nipātanāt syadādiṣu pratiṣedhaḥ bhaviṣyati na ca bhaviṣyati . yadi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ srivyanubandhalope katham sriveḥ āsremāṇam lūñ lavitā . pratyayāśrayatvāt anyatra siddham . ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ . yadi ārdhadhātukanimitte lope pratiṣedhaḥ jīradānuḥ atra na prāpnoti . raki jyaḥ prasāraṇam . na etat jīveḥ rūpam . raki etat jyaḥ prasāraṇam . yāvatā ca idānīm raki jīveḥ api siddham bhavati . katham upabarhaṇam . bṛhiḥ prakṛtyantaram . katham jñāyate bṛhiḥ prakṛtyantaram iti . aci iti hi lopaḥ ucyate anajādau api dṛśyate: nibṛhyate . aniṭi iti ca ucyate . iḍādau api dṛśyate: nibarhitā nibarhitum iti . ajādau api na dṛśyate: bṛṃhayati bṛṃhakaḥ . tasmāt na arthaḥ parigaṇanena . yadi parigaṇanam na kriyate bhedyate chedyate atra api prāpnoti . na eṣaḥ doṣaḥ . dhātulope iti na evam vijñāyate: dhātoḥ lopaḥ dhātulopaḥ, dhātulope iti . katham tarhi . dhātoḥ lopaḥ asmin tat idam dhātulopam, dhātulope iti . tasmāt iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ . yadi tarhi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ pāpacakaḥ, pāpaṭhakaḥ, magadhakaḥ, dṛṣadakaḥ atra na prāpnoti . allopasya sthānivatvāt . akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५२।२१-५३।१५ रो इ,१६९-१७१ अनारम्भः वा । अनारम्भः वा पुनः अस्य योगस्य न्याय्यः । कथम् बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति । अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः । यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः । क्व च स्थानिवद्भावः न अस्ति । यत्र हलचोः आदेशः: लोलुवः पोपुवः मरीमृजः सरीसृपः इति । अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः । लुकि कृते न प्राप्नोति । इदम् इह सम्प्रधार्यम्: लुक् क्रियताम् अल्लोपः इति किम् अत्र कर्तव्यम् । परत्वात् अल्लोपः । नित्यः लुक् । कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति । लुक् अपि अनित्यः । कथम् । अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । अनवकाशः तर्हि लुक्। सावकाशः लुक् । कः अवकाशः । अवशिष्टः । अथम् कथम् चित् अनवकाशः लुक् स्यात् एवम् अपि न दोषः । अल्लोपे योगविभागः करिष्यते : अतः लोपः । ततः यस्य : यस्य च लोपः भवति । अतः इति एव । किमर्थम् इदम् । लुकम् वक्ष्यति तद्बाधनार्थम् । ततो हलः । हलः उत्तरस्य च यस्य लोपः भवति इति । इह अपि परत्वात् योगविभागात् व लोपः लुकम् बाधेत: कृष्णः नोनाव वृषभः यदि इदम् । नोनूयतेः नोनाव । समानाश्रयः लुक् लोपेन बाध्यते । कः च समानाश्रयः । यः प्रत्ययाश्रयः । अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति । कथम् स्यदः, प्रश्रथः, हिमश्रथः, जीरदानुः, निकुचितः इति । उक्तम् शेषे । किम् उक्तम् । निपातनात् स्यदादिषु । प्रत्ययाश्रत्वात् अन्यत्र सिद्धम् । रकि ज्यः प्रसारणम् इति । निकुचिते अपि उक्तम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

KA I,52.21-53.15 Ro I,169-171 anārambhaḥ vā . anārambhaḥ vā punaḥ asya yogasya nyāyyaḥ . katham bebhiditā, marīmṛjakaḥ, kuṣubhitā samidhitā iti . atra api akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ . yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ . kva ca sthānivadbhāvaḥ na asti . yatra halacoḥ ādeśaḥ: loluvaḥ popuvaḥ marīmṛjaḥ sarīsṛpaḥ iti . atra api akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ . luki kṛte na prāpnoti . idam iha sampradhāryam: luk kriyatām allopaḥ iti kim atra kartavyam . paratvāt allopaḥ . nityaḥ luk . kṛte api allope prāpnoti akṛte api prāpnoti . luk api anityaḥ . katham . anyasya kṛte allope prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . anavakāśaḥ tarhi luk. sāvakāśaḥ luk . kaḥ avakāśaḥ . avaśiṣṭaḥ . atham katham cit anavakāśaḥ luk syāt evam api na doṣaḥ . allope yogavibhāgaḥ kariṣyate : ataḥ lopaḥ . tataḥ yasya : yasya ca lopaḥ bhavati . ataḥ iti eva . kimartham idam . lukam vakṣyati tadbādhanārtham . tato halaḥ . halaḥ uttarasya ca yasya lopaḥ bhavati iti . iha api paratvāt yogavibhāgāt va lopaḥ lukam bādheta: kṛṣṇaḥ nonāva vṛṣabhaḥ yadi idam . nonūyateḥ nonāva . samānāśrayaḥ luk lopena bādhyate . kaḥ ca samānāśrayaḥ . yaḥ pratyayāśrayaḥ . atra ca prāk eva pratyayotpatteḥ luk bhavati . katham syadaḥ, praśrathaḥ, himaśrathaḥ, jīradānuḥ, nikucitaḥ iti . uktam śeṣe . kim uktam . nipātanāt syadādiṣu . pratyayāśratvāt anyatra siddham . raki jyaḥ prasāraṇam iti . nikucite api uktam sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५३।१७-५४।१३ रो इ,१७१-१७४ क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् । क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् कर्तव्यम् । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यम् । किम् प्रयोजनम् । उपधारोरवीत्यर्थम् । उपधार्थम् रोरवीत्यर्थम् च । उपधार्थम् तावत् : भिन्नः , भिन्नवान् इति । किम् पुनः कारणम् न सिध्यति । क्ङिति इति उच्यते । तेन यत्र क्ङिति अनन्तरः गुणभावी अस्ति तत्र एव स्यात्: चितम् स्तुतम् । इह तु न स्यात्: भिन्नः , भिन्नवान् इति । ननु च यस्य गुणः उच्यते तत् क्ङित्परत्वेन विशेषयिष्यामः । पुगन्तलघूपधस्य च गुणः उच्यते तत् च अत्र क्ङित्परम् । पुगन्तलघूपधस्य इति न एवम् विज्ञायते : पुगन्तस्य अङ्गस्य लघूपधस्य च इति । कथम् तर्हि । पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् , पुगन्तलघूपधस्य इति । अवश्यम् च एतत् एवम् विज्ञेयम् । अङ्गविशेषणे हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति । रोरवीत्यर्थम् च । त्रिधा बद्धः वृषभः रोरवीति इति । यदि तन्निमित्तग्रहणम् क्रियते शचङन्ते दोषः । रियति पियति धियति । प्रादुद्रुवत् प्रासुस्रुवत् । अत्र प्राप्नोति । शचङन्तस्य अन्तरङ्गलक्षणत्वात् । अन्तरङ्गलक्षणत्वात् अत्र इयङुवङोः कृतयोः अनुपधात्वात् गुणः न भविष्यति । एवम् क्रियते च इदम् तन्निमित्तग्रहणम् न च कः चित् दोषः भवति । इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि : हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति । न एतानि सन्ति प्रयोजनानि । इह तावत् हतः , हथः इति । प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् अत्र च धातूपदेशावस्थायाम् एव अकारः । इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति । बहिरङ्गे गुणवृद्धी अन्तरङ्गः प्रतिषेधः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । नेनिक्ते इति परेण रूपेण व्यवहितत्वात् न भविष्यति ।

KA I,53.17-54.13 Ro I,171-174 kṅiti pratiṣedhe tannimittagrahaṇam . kṅiti pratiṣedhe tannimittagrahaṇam kartavyam . kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti vaktavyam . kim prayojanam . upadhāroravītyartham . upadhārtham roravītyartham ca . upadhārtham tāvat : bhinnaḥ , bhinnavān iti . kim punaḥ kāraṇam na sidhyati . kṅiti iti ucyate . tena yatra kṅiti anantaraḥ guṇabhāvī asti tatra eva syāt: citam stutam . iha tu na syāt: bhinnaḥ , bhinnavān iti . nanu ca yasya guṇaḥ ucyate tat kṅitparatvena viśeṣayiṣyāmaḥ . pugantalaghūpadhasya ca guṇaḥ ucyate tat ca atra kṅitparam . pugantalaghūpadhasya iti na evam vijñāyate : pugantasya aṅgasya laghūpadhasya ca iti . katham tarhi . puki antaḥ pugantaḥ , laghvī upadhā laghūpadhā , pugantaḥ ca laghūpadhā ca pugantalaghūpadham , pugantalaghūpadhasya iti . avaśyam ca etat evam vijñeyam . aṅgaviśeṣaṇe hi sati iha prasajyeta : bhinatti chinatti iti . roravītyartham ca . tridhā baddhaḥ vṛṣabhaḥ roravīti iti . yadi tannimittagrahaṇam kriyate śacaṅante doṣaḥ . riyati piyati dhiyati . prādudruvat prāsusruvat . atra prāpnoti . śacaṅantasya antaraṅgalakṣaṇatvāt . antaraṅgalakṣaṇatvāt atra iyaṅuvaṅoḥ kṛtayoḥ anupadhātvāt guṇaḥ na bhaviṣyati . evam kriyate ca idam tannimittagrahaṇam na ca kaḥ cit doṣaḥ bhavati . imāni ca bhūyaḥ tannimittagrahaṇasya prayojanāni : hataḥ , hathaḥ , upoyate , auyata , lauyamāniḥ , pauyamāniḥ , nenikte iti . na etāni santi prayojanāni . iha tāvat hataḥ , hathaḥ iti . prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum atra ca dhātūpadeśāvasthāyām eva akāraḥ . iha ca upoyate , auyata , lauyamāniḥ , pauyamāniḥ iti . bahiraṅge guṇavṛddhī antaraṅgaḥ pratiṣedhaḥ . asiddham bahiraṅgam antaraṅge . nenikte iti pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५४।१३-५५।५ रो इ,१७५-१७७ उपधार्थेन तावत् न अर्थः । धातोः इति वर्तते । धातुम् क्ङित्परत्वेन विशेषयिष्यामः । यदि धातुः विशेष्यते विकरणस्य न प्राप्नोति : चिनुतः , सुनुतः , लुनीतः , पुनीतः इति । न एषः दोषः । विहितविशेषणम् धातुग्रहणम् । धातोः यः विहितः इति । धातोः एव तर्हि न प्राप्नोति । न एवम् विज्ञायते धातोः विहितस्य क्ङिति इति । कथम् तर्हि । धातोः विहिते क्ङिति इति । अथ वा कार्यकालम् हि सञ्ज्ञापरिभाषम् । यत्र कार्यम् तत्र द्रष्टव्यम् । पुगन्तलघूपधस्य गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति । अथ वा यत् एतस्मिन् योगे क्ङिद्ग्रहणम् तद् अनवकाशम् । तस्य अनवकाशत्वात् गुणवृद्धी न भविष्यतः । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति । कथम् कृत्वा ज्ञापकम् । कित्करणे एतत् प्रयोजनम् गुणः कथम् न स्यात् इति । यदि च अत्र गुणप्रतिषेधः न स्यात् कित्करणम् अनर्थकम् स्यात् । पश्यति तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति । ततः क्नुसनौ कितौ करोति । रोरवीत्यर्थेन अपि न अर्थः । क्ङिति इति उच्यते । न च अत्र क्ङितम् पश्यामः । प्रत्ययलक्षणेन प्राप्नोति । न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः । अथ अपि न लुमता अङ्गस्य इति उच्यते एवम् अपि न दोषः । कथम् । न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते । किम् तर्हि । यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति इति । अथ अपि आङ्गाधिकारः प्रतिनिर्दिश्यते एवम् अपि न दोषः । कथम् । कार्यकालम् हि सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् । सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति । अथ वा छान्दसम् एतत् । दृष्टानुविधिः च छन्दसि भवति । अथ वा बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अथ वा पूर्वस्मिन् योगे यद् आर्धधातुकग्रहणम् तत् अनवकाशम् । तस्य अनवकाशत्वात् गुणः भविष्यति ।

KA I,54.13-55.5 Ro I,175-177 upadhārthena tāvat na arthaḥ . dhātoḥ iti vartate . dhātum kṅitparatvena viśeṣayiṣyāmaḥ . yadi dhātuḥ viśeṣyate vikaraṇasya na prāpnoti : cinutaḥ , sunutaḥ , lunītaḥ , punītaḥ iti . na eṣaḥ doṣaḥ . vihitaviśeṣaṇam dhātugrahaṇam . dhātoḥ yaḥ vihitaḥ iti . dhātoḥ eva tarhi na prāpnoti . na evam vijñāyate dhātoḥ vihitasya kṅiti iti . katham tarhi . dhātoḥ vihite kṅiti iti . atha vā kāryakālam hi sañjñāparibhāṣam . yatra kāryam tatra draṣṭavyam . pugantalaghūpadhasya guṇaḥ bhavati iti upasthitam idam bhavati kṅiti na iti . atha vā yat etasmin yoge kṅidgrahaṇam tad anavakāśam . tasya anavakāśatvāt guṇavṛddhī na bhaviṣyataḥ . atha vā ācāryapravṛttiḥ jñāpayati bhavati upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti yat ayam trasigṛdhidhṛṣikṣipeḥ knuḥ ikaḥ jhal halantāt ca iti knusanau kitau karoti . katham kṛtvā jñāpakam . kitkaraṇe etat prayojanam guṇaḥ katham na syāt iti . yadi ca atra guṇapratiṣedhaḥ na syāt kitkaraṇam anarthakam syāt . paśyati tu ācāryaḥ bhavati upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti . tataḥ knusanau kitau karoti . roravītyarthena api na arthaḥ . kṅiti iti ucyate . na ca atra kṅitam paśyāmaḥ . pratyayalakṣaṇena prāpnoti . na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . atha api na lumatā aṅgasya iti ucyate evam api na doṣaḥ . katham . na lumatā lupte aṅgādhikāraḥ pratinirdiśyate . kim tarhi . yaḥ asau lumatā lupyate tasmin yat aṅgam tasya yat kāryam tat na bhavati iti . atha api āṅgādhikāraḥ pratinirdiśyate evam api na doṣaḥ . katham . kāryakālam hi sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti upasthitam idam bhavati kṅiti na iti . atha vā chāndasam etat . dṛṣṭānuvidhiḥ ca chandasi bhavati . atha vā bahiraṅgaḥ guṇaḥ antaraṅgaḥ pratiṣedhaḥ . asiddham bahiraṅgam antaraṅge . atha vā pūrvasmin yoge yad ārdhadhātukagrahaṇam tat anavakāśam . tasya anavakāśatvāt guṇaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५५।६-१८ रो इ,१७७-१८० इह कस्मात् न भवति : लैगवायनः , कामयते । तद्धितकाम्योः इक्प्रकरणात् । इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे । लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः । लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावः प्राप्नोति : अचिनवम् असुनवम् अकरवम् । लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः इति चेत् यासुटः ङिद्वचनात् सिद्धम् । यत् अयम् यासुटः ङिद्वचनम् शास्ति तत् ज्ञापयति आचार्यः न ङिदादेशाः ङितः भवन्ति इति । यदि एतत् ज्ञाप्यते कथम् नित्यम् ङितः इतः च इति । ङितः यत् कार्यम् तत् भवति ङिति यत् कार्यम् तत् न भवति इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । यासुटः एव ङिद्वचनात् । अपर्याप्तः च एव हि यासुट् समुदायस्य ङित्त्वे ङितम् च एनम् करोति । तस्य एतत् प्रयोजनम् ङितः यत् कार्यम् तत् यथा स्यात् ङिति यत् कार्यम् तत् मा भूत् इति ।

KA I,55.6-18 Ro I,177-180 iha kasmāt na bhavati : laigavāyanaḥ , kāmayate . taddhitakāmyoḥ ikprakaraṇāt . iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca ete iglakṣaṇe . lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaprasaṅgaḥ . lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaḥ prāpnoti : acinavam asunavam akaravam . lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaprasaṅgaḥ iti cet yāsuṭaḥ ṅidvacanāt siddham . yat ayam yāsuṭaḥ ṅidvacanam śāsti tat jñāpayati ācāryaḥ na ṅidādeśāḥ ṅitaḥ bhavanti iti . yadi etat jñāpyate katham nityam ṅitaḥ itaḥ ca iti . ṅitaḥ yat kāryam tat bhavati ṅiti yat kāryam tat na bhavati iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . yāsuṭaḥ eva ṅidvacanāt . aparyāptaḥ ca eva hi yāsuṭ samudāyasya ṅittve ṅitam ca enam karoti . tasya etat prayojanam ṅitaḥ yat kāryam tat yathā syāt ṅiti yat kāryam tat mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५५।२०-५६।१६ रो इ,१८०-१८२ किमर्थम् इदम् उद्यते । गुणवृद्धी मा भूताम् इति : आदीध्यनम् आदीध्यकः , आवेव्यनम् आवेव्यकः इति । अयम् योगः शक्यः अकर्तुम् । कथम् । दीधीवेव्योः छन्दोविषयत्वात् दृष्टानुविधित्वात् च छन्दसः अदीधेत् अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः । दीधीवेव्योः छन्दोविषयत्वात् । दीधीवेव्यौ छन्दोविषयौ । दृष्टानुविधित्वात् च छन्दसः । दृष्टानुविधिः च छन्दसि भवति । अदीधेत् , अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । प्रजपतिः वै यत् किम् चन मनसा अदीधेत् । होत्रय वृतः कृपयन् अदीधेत् । अदीधयुः दाशराज्ञे वृतसः । भवेत् इदम् युक्तम् उदाहरणम् : अदीधेत् इति । इदम् तु अयुक्तम् : अदीधयुः इति । अयम् जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते । सः यथा एव क्ङिति न इति एतम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधते । न एषः दोषः । जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयम् प्रतिषेधम् बाधते । कः च तुल्यजातीयः प्रतिषेधः । यः प्रत्ययाश्रयः । प्रकृत्याश्रयः च अयम् । अथ वा येन न अप्राप्ते तस्य बाधनम् भवति । न च अप्राप्ते क्ङिति न इति एतस्मिन् प्रतिषेधे जुसि गुणः आरभ्यते । अस्मिन् पुनः प्राप्ते च अप्राप्ते च । यदि तर्हि अयम् योगः न आरभ्यते कथम् दीध्यत् इति । दीध्यत् इति श्यन्व्यत्ययेन । दीध्यत् इति श्यन् एषः व्यत्ययेन भविष्यति । इटः च अपि ग्रहणम् शक्यम् अकर्तुम् । कथम् अकणिषम् अरणिषम् , कणिता श्वः , रणिता श्वः इति । आर्धधातुकस्य इट् वलादेः इति अत्र इट् इति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनम् इट् एव यथा स्यात् यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । गुणः । यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः पिपट्ःईः : दीर्घत्वम् न प्राप्नोति । न एषः दोषः । आङ्गम् यत् कार्यम् तत् नियम्यते । न च एतत् आङ्गम् । अथ वा असिद्धम् दीर्घत्वम् । तस्य असिद्धत्वात् नियमः न भविष्यति ।

KA I,55.20-56.16 Ro I,180-182 kimartham idam udyate . guṇavṛddhī mā bhūtām iti : ādīdhyanam ādīdhyakaḥ , āvevyanam āvevyakaḥ iti . ayam yogaḥ śakyaḥ akartum . katham . dīdhīvevyoḥ chandoviṣayatvāt dṛṣṭānuvidhitvāt ca chandasaḥ adīdhet adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ . dīdhīvevyoḥ chandoviṣayatvāt . dīdhīvevyau chandoviṣayau . dṛṣṭānuvidhitvāt ca chandasaḥ . dṛṣṭānuvidhiḥ ca chandasi bhavati . adīdhet , adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . prajapatiḥ vai yat kim cana manasā adīdhet . hotraya vṛtaḥ kṛpayan adīdhet . adīdhayuḥ dāśarājñe vṛtasaḥ . bhavet idam yuktam udāharaṇam : adīdhet iti . idam tu ayuktam : adīdhayuḥ iti . ayam jusi guṇaḥ pratiṣedhaviṣaye [pratiṣedhaviṣayaḥ] ārabhyate . saḥ yathā eva kṅiti na iti etam pratiṣedham bādhate evam imam api bādhate . na eṣaḥ doṣaḥ . jusi guṇaḥ pratiṣedhaviṣaye ārabhyamāṇaḥ tulyajātīyam pratiṣedham bādhate . kaḥ ca tulyajātīyaḥ pratiṣedhaḥ . yaḥ pratyayāśrayaḥ . prakṛtyāśrayaḥ ca ayam . atha vā yena na aprāpte tasya bādhanam bhavati . na ca aprāpte kṅiti na iti etasmin pratiṣedhe jusi guṇaḥ ārabhyate . asmin punaḥ prāpte ca aprāpte ca . yadi tarhi ayam yogaḥ na ārabhyate katham dīdhyat iti . dīdhyat iti śyanvyatyayena . dīdhyat iti śyan eṣaḥ vyatyayena bhaviṣyati . iṭaḥ ca api grahaṇam śakyam akartum . katham akaṇiṣam araṇiṣam , kaṇitā śvaḥ , raṇitā śvaḥ iti . ārdhadhātukasya iṭ valādeḥ iti atra iṭ iti vartamāne punaḥ iḍgrahaṇasya prayojanam iṭ eva yathā syāt yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . guṇaḥ . yadi niyamaḥ kriyate pipaṭhiṣateḥ apratyayaḥ pipaṭḥīḥ : dīrghatvam na prāpnoti . na eṣaḥ doṣaḥ . āṅgam yat kāryam tat niyamyate . na ca etat āṅgam . atha vā asiddham dīrghatvam . tasya asiddhatvāt niyamaḥ na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५६।१८-२३ रो इ,१८२-१८३ अनन्तराः इति कथम् इदम् विज्ञायते : अविद्यमानम् अन्तरम् एषाम् इति आहोस्वित् अविद्यमानाः अन्तरा एषाम् इति । किम् च अतः । यदि विज्ञायते अविद्यमानम् अन्तरम् एषाम् इति अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्सु इति अप्-सु इति । विद्यते हि अत्र अन्तरम् । अथ विज्ञायते अविद्यमानाः अन्तरा एषाम् इति न दोषः भवति । यथा न दोषः तथा अस्तु । अथ वा पुनः अस्तु अविद्यमानम् अन्तरम् एषाम् इति । ननु च उक्तम् अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्-सु इति अप्सु इति । विद्यते हि अत्र अन्तरम् इति । न एव दोषः न प्रयोजनम् ।

KA I,56.18-23 Ro I,182-183 anantarāḥ iti katham idam vijñāyate : avidyamānam antaram eṣām iti āhosvit avidyamānāḥ antarā eṣām iti . kim ca ataḥ . yadi vijñāyate avidyamānam antaram eṣām iti avagrahe saṃyogasañjñā na prāpnoti apsu iti ap-su iti . vidyate hi atra antaram . atha vijñāyate avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . atha vā punaḥ astu avidyamānam antaram eṣām iti . nanu ca uktam avagrahe saṃyogasañjñā na prāpnoti ap-su iti apsu iti . vidyate hi atra antaram iti . na eva doṣaḥ na prayojanam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५६।२४-५७।२६ रो इ,१८३-१८६ संयोगसञ्ज्ञायाम् सहवचनम् यथा अन्यत्र । संयोगसञ्ज्ञायाम् सहवचनम् कर्तव्यम् । हलः अनन्तराः संयोगः सह इति वक्तव्यम् । किम् प्रयोजनम् । सहभूतानाम् संयोगसञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति । यथा अन्यत्र । तत् यथा अन्यत्र अपि यत्र इच्छति सहबूतानाम् कार्यम् करोति तत्र सहग्रहणम् । तत् यथा । सह सुपा । उभे अभ्यस्तम् सह इति । किम् च स्यात् यदि एकैकस्य हलः संयोगसञ्ज्ञा स्यात् । इह निर्यायात् , निर्वायात् , वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत । इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट् प्रसज्येत । इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत । इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत । इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत । इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत । न एषः दोषः । यत् तावत् उच्यते इह तावत् निर्यायात् , निर्वायात् वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत इति । न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति । कथम् तर्हि । संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति । एवम् तावत् सर्वम् आङ्गम् परिहृतम् । यत् अपि उच्यते इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत इति । न एवम् विज्ञायते संयोगः अन्तः यस्य तत् इदम् संयोगान्तम् , संयोगान्तस्य इति । कथम् तर्हि । संयोगौ अन्तौ अस्य तद् इदम् संयोगान्तम् , संयोगान्तस्य इति । यत् अपि उच्यते इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति । न एवम् विज्ञायते संयोगौ आदी संयोदादी संयोगाद्योः इति । कथम् तर्हि । संयोगयोः आदी संयोगादी संयोगाद्योः इति । यत् अपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत इति । न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति । कथम् तर्हि । संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति । कथम् कृत्वा एकैकस्य संयोगसञ्ज्ञा प्राप्नोति । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा । तत् यथा । वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः : समुदाये वाक्यपरिसमाप्तिः इति । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् । अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।

KA I,56.24-57.26 Ro I,183-186 saṃyogasañjñāyām sahavacanam yathā anyatra . saṃyogasañjñāyām sahavacanam kartavyam . halaḥ anantarāḥ saṃyogaḥ saha iti vaktavyam . kim prayojanam . sahabhūtānām saṃyogasañjñā yathā syāt ekaikasya mā bhūt iti . yathā anyatra . tat yathā anyatra api yatra icchati sahabūtānām kāryam karoti tatra sahagrahaṇam . tat yathā . saha supā . ubhe abhyastam saha iti . kim ca syāt yadi ekaikasya halaḥ saṃyogasañjñā syāt . iha niryāyāt , nirvāyāt , vā anyasya saṃyogādeḥ iti ettvam prasajyeta . iha ca saṃhṛṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ prasajyeta . iha ca saṃhriyate iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ prasajyeta . iha ca dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta . iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta . iha ca niryātaḥ , nirvātaḥ saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta . na eṣaḥ doṣaḥ . yat tāvat ucyate iha tāvat niryāyāt , nirvāyāt vā anyasya saṃyogādeḥ iti ettvam prasajyeta iti . na evam vijñāyate saṃyogaḥ ādiḥ yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti . katham tarhi . saṃyogau ādī yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti . evam tāvat sarvam āṅgam parihṛtam . yat api ucyate iha ca dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta iti . na evam vijñāyate saṃyogaḥ antaḥ yasya tat idam saṃyogāntam , saṃyogāntasya iti . katham tarhi . saṃyogau antau asya tad idam saṃyogāntam , saṃyogāntasya iti . yat api ucyate iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta iti . na evam vijñāyate saṃyogau ādī saṃyodādī saṃyogādyoḥ iti . katham tarhi . saṃyogayoḥ ādī saṃyogādī saṃyogādyoḥ iti . yat api ucyate iha ca niryātaḥ , nirvātaḥ saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta iti . na evam vijñāyate saṃyogaḥ ādiḥ yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti . katham tarhi . saṃyogau ādī yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti . katham kṛtvā ekaikasya saṃyogasañjñā prāpnoti . pratyekam vākyaparisamāptiḥ dṛṣṭā . tat yathā . vṛddhiguṇasañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ : samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . sati etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam kartavyam . atha tatra antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५७।२७-५९।२ रो इ,१८६-१९० अथ यत्र बहूनाम् आनन्तर्यम् किम् तत्र द्वयोः द्वयोः संयोगस्ञ्ज्ञा भवति आहोस्वित् अविशेषेण । कः च अत्र विशेषः । समुदाये संयोगादिलोपः मस्जेः । समुदाये संयोगादिलोपः मस्जेः न सिध्यति । मङ्क्ता मङ्क्तुम् । इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति । इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट् न प्राप्नोति । इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति । इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति । इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति । अस्तु तर्हि द्वयोः द्वयोः । द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् । द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् न सिध्यति । इन्द्रम् इच्छति इन्द्रीयति । इन्द्रीयतेः सन् : इन्दिद्रीयिषति । न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनम् न प्राप्नोति । न वा अज्विधेः । न वा एषः दोषः । किम् कारणम् । अज्विधेः । न्द्राः संयोगादयः न द्विः उच्यन्ते । अजादेः इति वर्तते । अथ यदि एव बहूनाम् संयोगस्ञ्ज्ञा अथ अपि द्वयोः द्वयोः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् । गतम् इति आह । कथम् । यद तावत् बहूनाम् संयोगस्ञ्ज्ञा तदा एवम् विग्रहः करिष्यते : अविद्यमानम् अन्तरम् एषाम् इति । यदा द्वयोः द्वयोः तदा एवम् विग्रहः करिष्यते : अविद्यमानाः अन्तरा एषाम् इति । द्वयोः च एव अन्तरा कः चित् विद्यते न वा । एवम् अपि बहूनाम् एव प्राप्नोति । यान् हि भवान् षष्ठ्या प्रतिनिर्दिशति एतेषाम् अन्येन व्यवाये न भवितव्यम् । अस्तु तर्हि समुदाये सञ्ज्ञा । ननु च उक्तम् समुदाये संयोगादिलोपः मस्जेः इति । न एषः दोषः । वक्ष्यति एतत् । अन्त्यात् पूर्वः मस्जेः मित् अनुषङ्गसंयोगादिलोपार्थम् इति । अथ वा अविशेषेण संयोगसञ्ज्ञा विज्ञास्यते द्वयोः अपि बहूनाम् अपि । तत्र द्वयोः या संयोगस्ञ्ज्ञा तदाश्रयः लोपः भविष्यति । यत् अपि उच्यते इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति इति अङ्गेन संयोगादिम् विशेषयिष्यामः । अङ्गस्य संयोगादेः इति । एवम् तावत् सर्वम् आङ्गम् परिहृतम् । यत् अपि उच्यते इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तम् विशेषयिष्यामः । पदस्य संयोगान्तस्य । यत् अपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति इति धातुन संयोगादिम् विशेषयिष्यामः । धातोः संयोगादेः इति ।

KA I,57.27-59.2 Ro I,186-190 atha yatra bahūnām ānantaryam kim tatra dvayoḥ dvayoḥ saṃyogasñjñā bhavati āhosvit aviśeṣeṇa . kaḥ ca atra viśeṣaḥ . samudāye saṃyogādilopaḥ masjeḥ . samudāye saṃyogādilopaḥ masjeḥ na sidhyati . maṅktā maṅktum . iha ca nirgleyāt , nirglāyāt , nirmleyāt , nirmlāyāt : vā anyasya saṃyogādeḥ iti ettvam na prāpnoti . iha ca saṃsvariṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ na prāpnoti . iha ca saṃsvaryate iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ na prāpnoti . iha ca gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti . iha ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti . astu tarhi dvayoḥ dvayoḥ . dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam . dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam na sidhyati . indram icchati indrīyati . indrīyateḥ san : indidrīyiṣati . na ndrāḥ saṃyogādayaḥ iti dakārasya dvirvacanam na prāpnoti . na vā ajvidheḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ajvidheḥ . ndrāḥ saṃyogādayaḥ na dviḥ ucyante . ajādeḥ iti vartate . atha yadi eva bahūnām saṃyogasñjñā atha api dvayoḥ dvayoḥ kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . yada tāvat bahūnām saṃyogasñjñā tadā evam vigrahaḥ kariṣyate : avidyamānam antaram eṣām iti . yadā dvayoḥ dvayoḥ tadā evam vigrahaḥ kariṣyate : avidyamānāḥ antarā eṣām iti . dvayoḥ ca eva antarā kaḥ cit vidyate na vā . evam api bahūnām eva prāpnoti . yān hi bhavān ṣaṣṭhyā pratinirdiśati eteṣām anyena vyavāye na bhavitavyam . astu tarhi samudāye sañjñā . nanu ca uktam samudāye saṃyogādilopaḥ masjeḥ iti . na eṣaḥ doṣaḥ . vakṣyati etat . antyāt pūrvaḥ masjeḥ mit anuṣaṅgasaṃyogādilopārtham iti . atha vā aviśeṣeṇa saṃyogasañjñā vijñāsyate dvayoḥ api bahūnām api . tatra dvayoḥ yā saṃyogasñjñā tadāśrayaḥ lopaḥ bhaviṣyati . yat api ucyate iha ca nirgleyāt , nirglāyāt , nirmleyāt , nirmlāyāt : vā anyasya saṃyogādeḥ iti ettvam na prāpnoti iti aṅgena saṃyogādim viśeṣayiṣyāmaḥ . aṅgasya saṃyogādeḥ iti . evam tāvat sarvam āṅgam parihṛtam . yat api ucyate iha ca gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti iti padena saṃyogāntam viśeṣayiṣyāmaḥ . padasya saṃyogāntasya . yat api ucyate iha ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti iti dhātuna saṃyogādim viśeṣayiṣyāmaḥ . dhātoḥ saṃyogādeḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५९।३-२४ रो इ,१९०-१९२ स्वरानन्तर्हितवचनम् । स्वरैः अनन्तर्हिताः हलः संयोगसञ्ज्ञाः भवन्ति इति वक्तव्यम् । किम् प्रयोजनम् । व्यवहितानाम् मा भूत् । पचति पनसम् । ननु च अनन्तराः इति उच्यते । तेन व्यवहितानाम् न भविष्यति । दृष्टम् आनन्तर्यम् व्यवहिते । व्यवहिते अपि अनन्तरशब्दः दृश्यते । तत् यथा : अनन्तरौ इमौ ग्रामौ इति उच्यते । तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति । यदि तर्हि व्यवहिते अपि अनन्तरशब्दः भवति आनन्तर्यवचनम् इदानीम् किमर्थम् स्यात् । आनन्तर्यवचनम् किमर्थम् इति चेत् एकप्रतिषेधार्थम् । एकस्य हलः संयोगसञ्ज्ञा मा भूत् इति । किम् च स्यात् यदि एकस्य हलः संयोगसञ्ज्ञा स्यात् । इयेष , उवोष । इजादेः च गुरुमतः अनृच्छः इति आम् प्रसज्येत । न वा अतज्जातीयव्यवायात् । न वा एषः दोषः । किम् कारणम् । अतज्जातीयस्य व्यवायात् । अतज्जातीयकम् हि लोके व्यवधायकम् भवति । कथम् पुनः ज्ञायते अतज्जातीयकम् लोके व्यवधायकम् भवति इति । एवम् हि कम् चित् कः चित् पृच्छति । अनन्तरे* एते ब्राह्मणकुले* इति । सः आह । न अनन्तरे । वृषलकुलम् अनयोः अन्तरा इति । किम् पुनः कारणम् क्व चित् अतज्जातीयकम् व्यवधायकम् भवति क्व चित् न । सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति । कथम् अनन्तरौ इमौ ग्रामौ इति । ग्रामशब्दः अयम् बह्वर्थः । अस्ति एव शालासमुदाये वर्तते । तत् यथा ग्रामः दग्धः इति । अस्ति वाटपरिक्षेपे वर्तते । तत् यथा ग्रामम् प्रविष्टः । अस्ति मनुष्येषु वर्तते । तत् यथा ग्रामः गतः , ग्रामः आगतः इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते । तत् यथा ग्रामः लब्धः इति । तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : अनन्तरौ इमौ ग्रामौ इति । सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति ।

KA I,59.3-24 Ro I,190-192 svarānantarhitavacanam . svaraiḥ anantarhitāḥ halaḥ saṃyogasañjñāḥ bhavanti iti vaktavyam . kim prayojanam . vyavahitānām mā bhūt . pacati panasam . nanu ca anantarāḥ iti ucyate . tena vyavahitānām na bhaviṣyati . dṛṣṭam ānantaryam vyavahite . vyavahite api anantaraśabdaḥ dṛśyate . tat yathā : anantarau imau grāmau iti ucyate . tayoḥ ca eva antarā nadyaḥ ca parvatāḥ ca bhavanti . yadi tarhi vyavahite api anantaraśabdaḥ bhavati ānantaryavacanam idānīm kimartham syāt . ānantaryavacanam kimartham iti cet ekapratiṣedhārtham . ekasya halaḥ saṃyogasañjñā mā bhūt iti . kim ca syāt yadi ekasya halaḥ saṃyogasañjñā syāt . iyeṣa , uvoṣa . ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prasajyeta . na vā atajjātīyavyavāyāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . atajjātīyasya vyavāyāt . atajjātīyakam hi loke vyavadhāyakam bhavati . katham punaḥ jñāyate atajjātīyakam loke vyavadhāyakam bhavati iti . evam hi kam cit kaḥ cit pṛcchati . anantare* ete brāhmaṇakule* iti . saḥ āha . na anantare . vṛṣalakulam anayoḥ antarā iti . kim punaḥ kāraṇam kva cit atajjātīyakam vyavadhāyakam bhavati kva cit na . sarvatra eva hi atajjātīyakam vyavadhāyakam bhavati . katham anantarau imau grāmau iti . grāmaśabdaḥ ayam bahvarthaḥ . asti eva śālāsamudāye vartate . tat yathā grāmaḥ dagdhaḥ iti . asti vāṭaparikṣepe vartate . tat yathā grāmam praviṣṭaḥ . asti manuṣyeṣu vartate . tat yathā grāmaḥ gataḥ , grāmaḥ āgataḥ iti . asti sāraṇyake sasīmake sasthaṇḍilake vartate . tat yathā grāmaḥ labdhaḥ iti . tat yaḥ sāraṇyake sasīmake sasthaṇḍilake vartate tam abhisamīkṣya etat prayujyate : anantarau imau grāmau iti . sarvatra eva hi atajjātīyakam vyavadhāyakam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५९।२६-६०।५ रो इ,१९२-१९३ किम् इदम् मुखनासिकावचनः इति । मुखम् च नासिका च मुखनासिकम् । मुखनासिकम् वचनम् अस्य सः अयम् मुखनासिकावचनः । यदि एवम् मुखनासिकवचनः इति प्राप्नोति । निपातनात् दीर्घत्वम् भविष्यति । अथ वा मुखनासिकम् आवचनम् अस्य सः अयम् मुखनासिकावचनः । किम् इदम् आवचनम् इति । ईषद्वचनम् आवचनम् । किम् चित् मुखवचनम् किम् चित् नासिकावचनम् । मुखद्वितीया वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः । मुखोपसंहिता वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः ।

KA I,59.26-60.5 Ro I,192-193 kim idam mukhanāsikāvacanaḥ iti . mukham ca nāsikā ca mukhanāsikam . mukhanāsikam vacanam asya saḥ ayam mukhanāsikāvacanaḥ . yadi evam mukhanāsikavacanaḥ iti prāpnoti . nipātanāt dīrghatvam bhaviṣyati . atha vā mukhanāsikam āvacanam asya saḥ ayam mukhanāsikāvacanaḥ . kim idam āvacanam iti . īṣadvacanam āvacanam . kim cit mukhavacanam kim cit nāsikāvacanam . mukhadvitīyā vā nāsikā vacanam asya saḥ ayam mukhanāsikāvacanaḥ . mukhopasaṃhitā vā nāsikā vacanam asya saḥ ayam mukhanāsikāvacanaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६०।५-१६ रो इ,१९३-१९४ अथ मुखग्रहणम् किमर्थम् । नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणाम् एव प्रसज्येत । मुखग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ नासिकाग्रहणम् किमर्थम् । मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानाम् एव प्रसज्येत । नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति । मुखग्रहणम् शक्यम् अकर्तुम् । केन इदानीम् उभयवचनानाम् भविष्यति । प्रासादवासिन्यायेन । तत् यथा । के चित् प्रासादवासिनः के चित् भूमिवासिनः के चित् उभयवासिनः । ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन । ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन । ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च । एवम् इह अपि के चित् मुखवचनाः के चित् नासिकावचनाः के चित् उभयवचनाः । तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन । ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन । ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च। भवेत् उभयवचनानाम् सिद्धम् । यमानुस्वाराणाम् अपि प्राप्नोति । न एव दोषः न प्रयोजनम् ।

KA I,60.5-16 Ro I,193-194 atha mukhagrahaṇam kimartham . nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām eva prasajyeta . mukhagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha nāsikāgrahaṇam kimartham . mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām eva prasajyeta . nāsikāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . mukhagrahaṇam śakyam akartum . kena idānīm ubhayavacanānām bhaviṣyati . prāsādavāsinyāyena . tat yathā . ke cit prāsādavāsinaḥ ke cit bhūmivāsinaḥ ke cit ubhayavāsinaḥ . ye prāsādavāsinaḥ gṛhyante te prāsādavāsigrahaṇena . ye bhūmivāsinaḥ gṛhyante te bhūmivāsinyāyena . ye ubhayavāsinaḥ gṛhyante te prāsādavāsigrahaṇena bhūmivāsinyāyena ca . evam iha api ke cit mukhavacanāḥ ke cit nāsikāvacanāḥ ke cit ubhayavacanāḥ . tatra ye mukhavacanāḥ gṛhyante te mukhagrahaṇena . ye nāsikāvacanāḥ gṛhyante te nāsikāgrahaṇena . ye ubhayavacanāḥ gṛhyante eva te mukhagrahaṇena nāsikāgrahaṇena ca. bhavet ubhayavacanānām siddham . yamānusvārāṇām api prāpnoti . na eva doṣaḥ na prayojanam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६०।१७-२६ रो इ,१९४-१९५ इतरेतराश्रयम् तु भवति । का इतरेतराश्रयता । सतः अनुनासिकस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञया च नाम अनुनासिकः भाव्यते । तत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । अनुनासिकसञ्ज्ञायाम् इतरेतराश्रये उक्तम् । सिद्धम् तु नित्यशब्दत्वात् इति । नित्याः शब्दाः । नित्येषु शब्देषु सतः अनुनासिकस्य सञ्ज्ञा क्रियते । न सञ्ज्ञया अनुनासिकः भाव्यते । यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् । किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् । निवर्तकम् शास्त्रम् । कथम् । आङ् अस्मै अविशेषेण उपदिष्टः अननुनासिकः । तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता । तत्र अनेन निवृत्तिः क्रियते । छन्दसि अचि परतः आङः अननुनासिकस्य प्रसङ्गे अनुनासिकः साधुः भवति इति ।

KA I,60.17-26 Ro I,194-195 itaretarāśrayam tu bhavati . kā itaretarāśrayatā . sataḥ anunāsikasya sañjñayā bhavitavyam sañjñayā ca nāma anunāsikaḥ bhāvyate . tat itaretarāśrayam bhavati . itaretarāśrayāṇi ca kāryāṇi na prakalpante . anunāsikasañjñāyām itaretarāśraye uktam . siddham tu nityaśabdatvāt iti . nityāḥ śabdāḥ . nityeṣu śabdeṣu sataḥ anunāsikasya sañjñā kriyate . na sañjñayā anunāsikaḥ bhāvyate . yadi tarhi nityāḥ śabdāḥ kimartham śāstram . kimartham śāstram iti cet nivartakatvāt siddham . nivartakam śāstram . katham . āṅ asmai aviśeṣeṇa upadiṣṭaḥ ananunāsikaḥ . tasya sarvatra ananunāsikabuddhiḥ prasaktā . tatra anena nivṛttiḥ kriyate . chandasi aci parataḥ āṅaḥ ananunāsikasya prasaṅge anunāsikaḥ sādhuḥ bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६१।२-७ रो इ,१९५-१९७ तुलया सम्मितम् तुल्यम् । आस्यम् च प्रयत्नः च आस्यप्रयत्नम् । तुल्यास्यम् तुल्यप्रयत्नम् च सवर्णसञ्ज्ञम् भवति । किम् पुनः आस्यम् । लौकिकम् आस्यम् ओष्ठात् प्रभृति प्राक् काकलकात् । कथम् पुनः आस्यम् । अस्यन्ति अनेन वर्णान् इति आस्यम् । अन्नम् एतत् आस्यन्दते इति वा आस्यम् । अथ कः प्रयत्नः । प्रयतनम् प्रयत्नः । प्रपूर्वात् यततेः भावसाधनः नङ्प्रत्ययः । यदि लौकिकम् आस्यम् किम् आस्योपादाने प्रयोजनम् । सर्वेषाम् हि तत् तुल्यम् भवति । वक्ष्यति एतत् : प्रयत्नविशेषणम् आस्योपादानम् इति ।

KA I,61.2-7 Ro I,195-197 tulayā sammitam tulyam . āsyam ca prayatnaḥ ca āsyaprayatnam . tulyāsyam tulyaprayatnam ca savarṇasañjñam bhavati . kim punaḥ āsyam . laukikam āsyam oṣṭhāt prabhṛti prāk kākalakāt . katham punaḥ āsyam . asyanti anena varṇān iti āsyam . annam etat āsyandate iti vā āsyam . atha kaḥ prayatnaḥ . prayatanam prayatnaḥ . prapūrvāt yatateḥ bhāvasādhanaḥ naṅpratyayaḥ . yadi laukikam āsyam kim āsyopādāne prayojanam . sarveṣām hi tat tulyam bhavati . vakṣyati etat : prayatnaviśeṣaṇam āsyopādānam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६१।८-६२।१४ रो इ,१९७-२०२ सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् । सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः भवति जबगडदशाम् । किम् कारणम् । प्रयत्नसामान्यात् । एतेषाम् हि समानः प्रयत्नः । सिद्धम् तु आस्ये तुल्यदेशप्रयत्नम् सवर्णम् । सिद्धम् एतत्। कथम् । आस्ये येषाम् तुल्यः देशः यत्नः च ते सवर्णसञ्ज्ञाः भवन्ति इति वक्तव्यम् । एवम् अपि किम् आस्योपादाने प्रयोजनम् । सर्वेषाम् हि तत् तुल्यम् । प्रयत्नविशेषणम् आस्योपादानम् । सन्ति हि आस्यात् बाह्याः प्रयत्नाः । ते हापिताः भवन्ति । तेषु सत्सु असत्सु अपि सवर्णसञ्ज्ञा सिध्यति । के पुनः ते । विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति । तत्र वर्गाणाम् प्रथमद्वितीयाः विवृतकण्ठाः श्वासानुप्रदानाः अघोषाः । एके अल्पप्राणाः अपरे महाप्राणाः । तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः । एके अल्पप्राणाः अपरे महाप्राणाः । यथा तृतीयाः तथा पञ्चमाः आनुनासिक्यवर्जम् । आनुनासिक्यम् तेषाम् अधिकः गुणः । एवम् अपि अवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति । किम् कारणम् । बाह्यम् हि आस्यात् स्थानम् अवर्णस्य । सर्वमुखस्थानम् अवर्णम् एके इच्छन्ति । एवम् अपि व्यपदेशः न प्रकल्पते : आस्ये येषाम् तुल्यः देशः इति । व्यपदेशिवद्भावेन व्यपदेशः भविष्यति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् सवर्णसञ्ज्ञयाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् इति । न एषः दोषः । न हि लौकिकम् आस्यम् । किम् तर्हि । तद्धितान्तम् आस्यम् : आस्ये भवम् आस्यम् । शरीरावयवात् यत् । किम् पुनः आस्ये भवम् । स्थानम् करणम् च । एवम् अपि प्रयत्नः अविशेषितः भवति । प्रयत्नः च विशेषितः । कथम् । न हि प्रयतनम् प्रयत्नः । किम् तर्हि । प्रारम्भः यत्नस्य प्रयत्नः । यदि प्रारम्भः यत्नस्य प्रयत्नः एवम् अपि अवर्णस्य एङोः च सवर्णसञ्ज्ञा प्राप्नोति । प्रश्लिष्टवर्णौ एतौ । अवर्णस्य तर्हि ऐचोः च सवर्णसञ्ज्ञा प्राप्नोति । विवृततरावर्णौ एतौ । एतयोः एव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति । न एतौ तुल्यस्थानौ । उदात्तादीनाम् तर्हि सवर्णसञ्ज्ञा न प्राप्नोति । अभेदकाः उदात्तादयः । अथ वा किम् नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति ।प्रयतनम् एव प्रयत्नः । तत् एव च तद्धितान्तम् आस्यम् । यत् समानम् तत् आश्रयिष्यामः । किम् सति भेदे । सति इति आह । सति एव हि भेदे सवर्णसञ्ज्ञया भवितव्यम् । कुतः एतत् । भेदाधिष्ठाना हि सवर्णसञ्ज्ञा । यदि हि यत्र सर्वम् समानम् तत्र स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् । यदि तर्हि सति भेदे किम् चित् समानम् इति कृत्व सवर्णसञ्ज्ञा भविष्यति शकारछकारयोः षकारठकारहोः सकारथकारयोः सवर्णसञ्ज्ञा प्राप्नोति । एतेषाम् हि सर्वम् अन्यत् समानम् करणवर्जम् । एवम् तर्हि प्रयतनम् एव प्रयत्नः तत् एव तद्धितान्तम् आस्यम् न तु अयम् द्वन्द्वः : आस्यम् च प्रयत्नः च आस्यप्रयत्नम् इति । किम् तर्हि । त्रिपदः बहुव्रीहिः : तुल्यः आस्ये प्रयत्नः एषाम् इति । अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः : तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषाम् इति । अथ वा परः तत्पुरुषः ततः बहुव्रीहिः : आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषाम् इति ।

KA I,61.8-62.14 Ro I,197-202 savarṇasañjñāyām bhinnadeśeṣu atiprasaṅgaḥ prayatnasāmānyāt . savarṇasañjñāyām bhinnadeśeṣu atiprasaṅgaḥ bhavati jabagaḍadaśām . kim kāraṇam . prayatnasāmānyāt . eteṣām hi samānaḥ prayatnaḥ . siddham tu āsye tulyadeśaprayatnam savarṇam . siddham etat. katham . āsye yeṣām tulyaḥ deśaḥ yatnaḥ ca te savarṇasañjñāḥ bhavanti iti vaktavyam . evam api kim āsyopādāne prayojanam . sarveṣām hi tat tulyam . prayatnaviśeṣaṇam āsyopādānam . santi hi āsyāt bāhyāḥ prayatnāḥ . te hāpitāḥ bhavanti . teṣu satsu asatsu api savarṇasañjñā sidhyati . ke punaḥ te . vivārasaṃvārau śvāsanādau ghoṣavadaghoṣatā alpaprāṇatā mahāprāṇatā iti . tatra vargāṇām prathamadvitīyāḥ vivṛtakaṇṭhāḥ śvāsānupradānāḥ aghoṣāḥ . eke alpaprāṇāḥ apare mahāprāṇāḥ . tṛtīyacaturthāḥ saṃvṛtakaṇṭhāḥ nādānupradānāḥ ghoṣavantaḥ . eke alpaprāṇāḥ apare mahāprāṇāḥ . yathā tṛtīyāḥ tathā pañcamāḥ ānunāsikyavarjam . ānunāsikyam teṣām adhikaḥ guṇaḥ . evam api avarṇasya savarṇasañjñā na prāpnoti . kim kāraṇam . bāhyam hi āsyāt sthānam avarṇasya . sarvamukhasthānam avarṇam eke icchanti . evam api vyapadeśaḥ na prakalpate : āsye yeṣām tulyaḥ deśaḥ iti . vyapadeśivadbhāvena vyapadeśaḥ bhaviṣyati . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam savarṇasañjñayām bhinnadeśeṣu atiprasaṅgaḥ prayatnasāmānyāt iti . na eṣaḥ doṣaḥ . na hi laukikam āsyam . kim tarhi . taddhitāntam āsyam : āsye bhavam āsyam . śarīrāvayavāt yat . kim punaḥ āsye bhavam . sthānam karaṇam ca . evam api prayatnaḥ aviśeṣitaḥ bhavati . prayatnaḥ ca viśeṣitaḥ . katham . na hi prayatanam prayatnaḥ . kim tarhi . prārambhaḥ yatnasya prayatnaḥ . yadi prārambhaḥ yatnasya prayatnaḥ evam api avarṇasya eṅoḥ ca savarṇasañjñā prāpnoti . praśliṣṭavarṇau etau . avarṇasya tarhi aicoḥ ca savarṇasañjñā prāpnoti . vivṛtatarāvarṇau etau . etayoḥ eva tarhi mithaḥ savarṇasañjñā prāpnoti . na etau tulyasthānau . udāttādīnām tarhi savarṇasañjñā na prāpnoti . abhedakāḥ udāttādayaḥ . atha vā kim naḥ etena prārambhaḥ yatnasya prayatnaḥ iti .prayatanam eva prayatnaḥ . tat eva ca taddhitāntam āsyam . yat samānam tat āśrayiṣyāmaḥ . kim sati bhede . sati iti āha . sati eva hi bhede savarṇasañjñayā bhavitavyam . kutaḥ etat . bhedādhiṣṭhānā hi savarṇasañjñā . yadi hi yatra sarvam samānam tatra syāt savarṇasañjñāvacanam anarthakam syāt . yadi tarhi sati bhede kim cit samānam iti kṛtva savarṇasañjñā bhaviṣyati śakārachakārayoḥ ṣakāraṭhakārahoḥ sakārathakārayoḥ savarṇasañjñā prāpnoti . eteṣām hi sarvam anyat samānam karaṇavarjam . evam tarhi prayatanam eva prayatnaḥ tat eva taddhitāntam āsyam na tu ayam dvandvaḥ : āsyam ca prayatnaḥ ca āsyaprayatnam iti . kim tarhi . tripadaḥ bahuvrīhiḥ : tulyaḥ āsye prayatnaḥ eṣām iti . atha vā pūrvaḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : tulyaḥ āsye tulyāsyaḥ , tulyāsyaḥ prayatnaḥ eṣām iti . atha vā paraḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : āsye yatnaḥ āsyayatnaḥ , tulyaḥ āsyayatnaḥ eṣām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६२।१५-२६ रो इ,२०२-२०३ तस्य । तस्य इति तु वक्तव्यम् । किम् प्रयोजनम् । यः यस्य तुल्यास्यप्रयत्नः सः तस्य सवर्णसञ्ज्ञः यथा स्यात् । अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः मा भूत् । तस्य अवचनम् वचनप्रामाण्यात् । तस्य इति न वक्तव्यम् । अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः कस्मात् न भवति । वचनप्रामाण्यात् : सवर्णसञ्ज्ञावचनसामर्थ्यात् । यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य सवर्णसञ्ज्ञः स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् । सम्बन्धिशब्दैः वा तुल्यम् । सम्बन्धिशब्दैः वा पुनः तुल्यम् एतत् । तत् यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति । न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति । एवम् इह अपि तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र सम्बन्दिशब्दौ एतौ । तत्र सम्बन्धात् एतत् गन्तव्यम् : यत् प्रति यत् तुल्यास्यप्रयत्नम् तत् प्रति तत् सवर्णसञ्ज्ञम् भवति इति ।

KA I,62.15-26 Ro I,202-203 tasya . tasya iti tu vaktavyam . kim prayojanam . yaḥ yasya tulyāsyaprayatnaḥ saḥ tasya savarṇasañjñaḥ yathā syāt . anyasya tulyāsyaprayatnaḥ anyasya savarṇasañjñaḥ mā bhūt . tasya avacanam vacanaprāmāṇyāt . tasya iti na vaktavyam . anyasya tulyāsyaprayatnaḥ anyasya savarṇasañjñaḥ kasmāt na bhavati . vacanaprāmāṇyāt : savarṇasañjñāvacanasāmarthyāt . yadi hi anyasya tulyāsyaprayatnaḥ saḥ anyasya savarṇasañjñaḥ syāt savarṇasañjñāvacanam anarthakam syāt . sambandhiśabdaiḥ vā tulyam . sambandhiśabdaiḥ vā punaḥ tulyam etat . tat yathā sambandhiśabdāḥ : mātari vartitavyam , pitari śuśrūṣitavyam iti . na ca ucyate svasyām mātari svasmin vā pitari iti sambandhāt ca etat gamyate yā yasya mātā yaḥ ca yasya pitā iti . evam iha api tulyāsyaprayatnam savarṇam iti atra sambandiśabdau etau . tatra sambandhāt etat gantavyam : yat prati yat tulyāsyaprayatnam tat prati tat savarṇasañjñam bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६२।२७-६३।२३ रो इ,२०३-२०७ ऋकारऌकारयोः सवर्णविधिः । ऋकारऌकारयोः सवर्णसञ्ज्ञा विधेया । होतृ , ऌकारः , होतॄऌकारः । किम् प्रयोजनम् । अकः सवर्णे दीर्घः इति दीर्घत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । वक्ष्यति एतत् । सवर्णदीर्घत्वे ऋति , रृवावचनम् ऌति , लॢवावचनम् इति । तत् सवर्णे यथा स्यात् । इह मा भूत् : दधि , ऌकारः , मधु , ऌकारः इति । यत् एतत् सवर्णदीर्घत्वे ऋति इति एतत् ऋतः इति वक्ष्यामि । ततः ऌति । ऌति च वा लॢ भवति । ऋतः इति एव । तत् न वक्तव्यम् भवति । अवश्यम् तत् वक्तव्यम् । ऊकालः अच् ह्रस्वर्दीर्घप्लुतसञ्ज्ञः भवति इति उच्यते । न च रृकारः लॢकारः वा अच् अस्ति । रृकारस्य , लॢकारस्य च अच्त्वम् वक्ष्यामि । तत् च अवश्यम् वक्तव्यम् प्लुतः यथा स्यात् : होतृ , ऋकारः होतॄकारः , होतृ३कारः , होतृ , ऌकारः , होतॢकारः , होतॢ३कारः । किम् पुनः अत्र ज्यायः । सवर्णसञ्ज्ञावचनम् एव ज्यायः । दीर्घत्वम् च एव हि सिद्धम् भवति। अपि च ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति । यथा इह भवति : ऋति अकः: खट्व ऋश्यः , माल ऋश्यः इदम् अपि सङ्गृहीतम् बहवति : खट्व , ऌकारः, माल , ऌकारः इति । वा सुपि आपिशलेः : उपर्कारीयति , उपार्कारीयति , इदम् अपि सिद्धम् भवति : उपल्कारीयति, उपाल्कारीयति इति । यदि तर्हि ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति उः अण् रपरः , ऌकारस्य अपि रपरत्वम् प्राप्नोति । ऌकारस्य लपरत्वम् वक्ष्यामि । तत् च अवश्यम् वक्तव्यम् असत्याम् सवर्णसञ्ज्ञायाम् विध्यर्थम् । तत् एव सत्याम् रेफबाधनार्थम् भविष्यति । इह तर्हि रषाभ्याम् नः णः समानपदे इति ऋकारग्रहणम् चोदितम् मातॄणाम् , पितॄणाम् इति एवमर्थम् । तत् इह अपि प्राप्नोति : कॢप्यमानम् पश्य इति । अथ असत्याम् अपि सवर्णसञ्ज्ञायाम् इह कस्मात् न भवति : प्रकॢप्यमानम् पश्य इति । चुटुतुलशर्व्यवाये न इति वक्ष्यामि । अपरः आह : त्रिभिः च मध्यमैः वर्गैः लशसैः च व्यवाये न इति वक्ष्यामि इति । वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऌकारे लकारः तदाश्रयः प्रतिषेधः भविष्यति । यदि एवम् न अर्थः रषाभ्याम् णत्वे ऋकारग्रहणेन । वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति ।

KA I,62.27-63.23 Ro I,203-207 ṛkāraḷkārayoḥ savarṇavidhiḥ . ṛkāraḷkārayoḥ savarṇasañjñā vidheyā . hotṛ , ḷkāraḥ , hotṝḷkāraḥ . kim prayojanam . akaḥ savarṇe dīrghaḥ iti dīrghatvam yathā syāt . na etat asti prayojanam . vakṣyati etat . savarṇadīrghatve ṛti , rṛvāvacanam ḷti , lḷvāvacanam iti . tat savarṇe yathā syāt . iha mā bhūt : dadhi , ḷkāraḥ , madhu , ḷkāraḥ iti . yat etat savarṇadīrghatve ṛti iti etat ṛtaḥ iti vakṣyāmi . tataḥ ḷti . ḷti ca vā lḷ bhavati . ṛtaḥ iti eva . tat na vaktavyam bhavati . avaśyam tat vaktavyam . ūkālaḥ ac hrasvardīrghaplutasañjñaḥ bhavati iti ucyate . na ca rṛkāraḥ lḷkāraḥ vā ac asti . rṛkārasya , lḷkārasya ca actvam vakṣyāmi . tat ca avaśyam vaktavyam plutaḥ yathā syāt : hotṛ , ṛkāraḥ hotṝkāraḥ , hotṛ3kāraḥ , hotṛ , ḷkāraḥ , hotḷkāraḥ , hotḷ3kāraḥ . kim punaḥ atra jyāyaḥ . savarṇasañjñāvacanam eva jyāyaḥ . dīrghatvam ca eva hi siddham bhavati. api ca ṛkāragrahaṇe ḷkāragrahaṇam sannihitam bhavati . yathā iha bhavati : ṛti akaḥ: khaṭva ṛśyaḥ , māla ṛśyaḥ idam api saṅgṛhītam bahavati : khaṭva , ḷkāraḥ, māla , ḷkāraḥ iti . vā supi āpiśaleḥ : uparkārīyati , upārkārīyati , idam api siddham bhavati : upalkārīyati, upālkārīyati iti . yadi tarhi ṛkāragrahaṇe ḷkāragrahaṇam sannihitam bhavati uḥ aṇ raparaḥ , ḷkārasya api raparatvam prāpnoti . ḷkārasya laparatvam vakṣyāmi . tat ca avaśyam vaktavyam asatyām savarṇasañjñāyām vidhyartham . tat eva satyām rephabādhanārtham bhaviṣyati . iha tarhi raṣābhyām naḥ ṇaḥ samānapade iti ṛkāragrahaṇam coditam mātṝṇām , pitṝṇām iti evamartham . tat iha api prāpnoti : kḷpyamānam paśya iti . atha asatyām api savarṇasañjñāyām iha kasmāt na bhavati : prakḷpyamānam paśya iti . cuṭutulaśarvyavāye na iti vakṣyāmi . aparaḥ āha : tribhiḥ ca madhyamaiḥ vargaiḥ laśasaiḥ ca vyavāye na iti vakṣyāmi iti . varṇaikadeśāḥ ca varṇagrahaṇena gṛhyante iti yaḥ asau ḷkāre lakāraḥ tadāśrayaḥ pratiṣedhaḥ bhaviṣyati . yadi evam na arthaḥ raṣābhyām ṇatve ṛkāragrahaṇena . varṇaikadeśāḥ ca varṇagrahaṇena gṛhyante iti yaḥ asau ṛkāre rephaḥ tadāśrayam ṇatvam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६३।२५-६५।६ रो इ,२०७-२११ अज्झलोः प्रतिषेधे शकारप्रतिषेधः अज्झल्त्वात् । अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । किम् कारणम् । अज्झल्त्वात् । अच् च एव हि शकारः हल् च । कथम् तावत् अच्त्वम् । इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् । हल्षु उपदेशात् हल्त्वम् । तत्र कः दोषः । तत्र सवर्णलोपे दोषः । तत्र सवर्णलोपे दोषः भवति । परश्शतानि कार्याणि । झरः झरि सवर्णे इति लोपः न प्राप्नोति । सिद्धम् अनच्त्वात् । सिद्धम् एतत् । कथम् । अनच्त्वात् । कथम् अनच्त्वम् । स्पृष्टम् स्पर्शानाम् करणम् । ईषत्स्पृष्टम् अन्तःस्थानाम् । विवृतम् ऊष्मणाम् । ईषत् इति अनुवर्तते । स्वराणाम् विवृतम् । ईषत् इति निवृत्तम् । वाक्यापरिसमाप्तेः वा । वाक्यापरिसमाप्तेः वा सिद्धम् एतत् । किम् इदम् वाक्यापरिसमाप्तेः इति । वर्णानाम् उपदेशः तावत् । उपदेशोत्तरकाला इत्सञ्ज्ञा । इत्सञ्ज्ञोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा । सवर्णसञ्ज्ञोत्तरकालम् अण् उदित् सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणम् । एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानाम् ग्रहणम् भवति । च च अत्र इकारः शकारम् गृह्णाति । यथा एव तर्हि इकारः शकारम् न गृह्णाति एवम् ईकारम् अपि न गृह्णीयात् । तत्र कः दोषः । कुमारी , ईहते कुमारीहते । अकः सवर्णदीर्घत्वम् न प्राप्नोति । न एषः दोषः । यत् एतत् अकः सवर्णे दीर्घः इति प्रत्याहारग्रहणम् तत इकारः ईकारम् गृह्णाति । शकारम् न गृह्णाति । अपरः आह : अज्झलोः प्रतिषेधे शकारप्रतिषेधः अझल्त्वात् । अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । किम् कारणम् । अज्झल्त्वात् । अच् च एव शकारः हल् च । कथम् तावत् अच्त्वम् । इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् । हल्षु उपदेशात् हल्त्वम् । तत्र कः दोषः । तत्र सवर्णलोपे दोषः । तत्र सवर्णलोपे दोषः भवति । परश्शतानि कार्याणि । झरः झरि सवर्णे इति लोपः न प्राप्नोति । सिद्धम् अनच्त्वात् । सिद्धम् एतत् । कथम् । अनच्त्वात् । कथम् अनच्त्वम् । वाक्यापरिसमाप्तेः वा । उक्ता वाक्यापरिसमाप्तिः । अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति । एतत् च समर्थितम् । कथम् । अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत् । ननु च उक्तम् : परश्शतानि कार्याणि । झरः झरि सवर्णे इति लोपः न प्राप्नोति इति । मा भूत् लोपः । ननु च भेदः भवति । सति लोपे द्विशकारम् असति लोपे त्रिशकारम् । न अस्ति भेदः । असति अपि लोपे द्विशकारम् एव । कथम् । विभाषा द्विर्वचनम् । एवम् अपि भेदः । असति लोपे कदा चित् द्विशकारम् कदा चित् त्रिशकारम् सति लोपे द्विशकारम् एव । सः एषः कथम् भेदः न स्यात् । यदि नित्यः लोपः स्यात् । विभाषा तु सः लोपः । यथा अभेदः तथा अस्तु ।

KA I,63.25-65.6 Ro I,207-211 ajjhaloḥ pratiṣedhe śakārapratiṣedhaḥ ajjhaltvāt . ajjhaloḥ pratiṣedhe śakārasya śakāreṇa savarṇasañjñāyāḥ pratiṣedhaḥ prāpnoti . kim kāraṇam . ajjhaltvāt . ac ca eva hi śakāraḥ hal ca . katham tāvat actvam . ikāraḥ savarṇagrahaṇena śakāram api gṛhṇāti iti actvam . halṣu upadeśāt haltvam . tatra kaḥ doṣaḥ . tatra savarṇalope doṣaḥ . tatra savarṇalope doṣaḥ bhavati . paraśśatāni kāryāṇi . jharaḥ jhari savarṇe iti lopaḥ na prāpnoti . siddham anactvāt . siddham etat . katham . anactvāt . katham anactvam . spṛṣṭam sparśānām karaṇam . īṣatspṛṣṭam antaḥsthānām . vivṛtam ūṣmaṇām . īṣat iti anuvartate . svarāṇām vivṛtam . īṣat iti nivṛttam . vākyāparisamāpteḥ vā . vākyāparisamāpteḥ vā siddham etat . kim idam vākyāparisamāpteḥ iti . varṇānām upadeśaḥ tāvat . upadeśottarakālā itsañjñā . itsañjñottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ . pratyāhārottarakālā savarṇasañjñā . savarṇasañjñottarakālam aṇ udit savarṇasya ca apratyayaḥ iti savarṇagrahaṇam . etena sarveṇa samuditena vākyena anyatra savarṇānām grahaṇam bhavati . ca ca atra ikāraḥ śakāram gṛhṇāti . yathā eva tarhi ikāraḥ śakāram na gṛhṇāti evam īkāram api na gṛhṇīyāt . tatra kaḥ doṣaḥ . kumārī , īhate kumārīhate . akaḥ savarṇadīrghatvam na prāpnoti . na eṣaḥ doṣaḥ . yat etat akaḥ savarṇe dīrghaḥ iti pratyāhāragrahaṇam tata ikāraḥ īkāram gṛhṇāti . śakāram na gṛhṇāti . aparaḥ āha : ajjhaloḥ pratiṣedhe śakārapratiṣedhaḥ ajhaltvāt . ajjhaloḥ pratiṣedhe śakārasya śakāreṇa savarṇasañjñāyāḥ pratiṣedhaḥ prāpnoti . kim kāraṇam . ajjhaltvāt . ac ca eva śakāraḥ hal ca . katham tāvat actvam . ikāraḥ savarṇagrahaṇena śakāram api gṛhṇāti iti actvam . halṣu upadeśāt haltvam . tatra kaḥ doṣaḥ . tatra savarṇalope doṣaḥ . tatra savarṇalope doṣaḥ bhavati . paraśśatāni kāryāṇi . jharaḥ jhari savarṇe iti lopaḥ na prāpnoti . siddham anactvāt . siddham etat . katham . anactvāt . katham anactvam . vākyāparisamāpteḥ vā . uktā vākyāparisamāptiḥ . asmin pakṣe vā iti etat asamarthitam bhavati . etat ca samarthitam . katham . astu vā śakārasya śakāreṇa savarṇasañjñā mā vā bhūt . nanu ca uktam : paraśśatāni kāryāṇi . jharaḥ jhari savarṇe iti lopaḥ na prāpnoti iti . mā bhūt lopaḥ . nanu ca bhedaḥ bhavati . sati lope dviśakāram asati lope triśakāram . na asti bhedaḥ . asati api lope dviśakāram eva . katham . vibhāṣā dvirvacanam . evam api bhedaḥ . asati lope kadā cit dviśakāram kadā cit triśakāram sati lope dviśakāram eva . saḥ eṣaḥ katham bhedaḥ na syāt . yadi nityaḥ lopaḥ syāt . vibhāṣā tu saḥ lopaḥ . yathā abhedaḥ tathā astu .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६६।२-६७।२ रो इ,२१३-२१७ किमर्थम् ईदादीनाम् तपराणाम् प्रगृह्यसञ्ज्ञा उच्यते । तपरः तत्कालस्य इति तत्कालानाम् सवर्णानाम् ग्रहणम् यथा स्यात् । केषाम् । उदात्तानुदात्तस्वरितानाम् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । प्लुतानाम् तु प्रगृह्यसञ्ज्ञा न प्राप्नोति । किम् कारणम् । अतत्कालत्वात् । न हि प्लुताः तत्कालाः । असिद्धः प्लुतः । तस्यासिद्धत्वात् तत्कालाः एव भवन्ति । सिद्धः प्लुतः स्वरसन्धिषु । कथम् ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति । यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति । कथम् कृत्वा ज्ञापकम् । सतः हि कार्यिणः कार्येण भवितव्यम् । किम् एतस्य ज्ञापने प्रयोजनम् । अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति । किम् अतः यत् सिद्धः प्लुतः स्वरसन्धिषु । सञ्ज्ञाविधौ असिद्धः । तस्य असिद्धत्वात् तत्कालाः एव भवन्ति । सञ्ज्ञाविधौ च सिद्धः । कथम् । कार्यकालम् सञ्ज्ञापरिभाषम् । यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् । प्रगृह्यः प्रकृत्या इति उपस्थितम् इदम् भवति ईदूदेत् द्विवचनम् प्रगृह्यम् इति । किम् पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् । प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् । मा भूत् एवम् । प्लुतः प्रकृत्या इति एवम् भविष्यति । न एवम् शक्यम् । उपस्थिते हि दोषः स्यात् । अप्लुतवत् उपस्थिथे इति अत्र पठिष्यति हि आचार्यः : वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् इति । तस्मात् प्लुतस्य प्रगृह्यसञ्ज्ञा एषितव्या प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् । यदि पुनः दीर्घाणाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत । एवम् अपि एकारः एव एकः सवर्णान् गृह्णीयात् । ईकारोकारौ न गृह्णीयाताम् । किम् कारणम् । अनण्त्वात् । यदि पुनः ह्रस्वानाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत । न एवम् शक्यम् । इह अपि प्रसज्येत : अकुर्वहि , अत्र अकुर्वहि अत्र इति । तस्मात् दीर्घाणाम् एव तपराणाम् प्रगृह्यसञ्ज्ञा वक्तव्या । दीर्घाणाम् च उच्यमाना प्लुतानाम् न प्राप्नोति । एवम् तर्हि किम् नः एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति । असिद्धः प्लुतः । तस्य असिद्धत्वात् तत्कालाः एव भवन्ति इति । कथम् यत् तत् ज्ञापकम् उक्तम् प्लुतप्रगृह्याः अचि इति। प्लुतभावी प्रकृत्या इति एवम् एतत् विज्ञायते । कथम् यत् तत् प्रयोजनम् उक्तम् । क्रियते तत् न्यासे एव अप्लुतात् अप्लुते इति । एवम् अपि यत् सिद्धे प्रगृह्यकार्यम् तत् प्लुतस्य न प्राप्नोति । अणः अप्रगृह्यस्य अनुनासिकः इति । एवम् तर्हि किम् नः एतेन कार्यकालम् सञ्ज्ञापरिभाषम् इति । यथोद्देशम् एव सञ्ज्ञापरिभाषम् । तत्र च असौ असिद्धः । तस्यासिद्धत्वात् तत्कालाः एव भवन्ति ।

KA I,66.2-67.2 Ro I,213-217 kimartham īdādīnām taparāṇām pragṛhyasañjñā ucyate . taparaḥ tatkālasya iti tatkālānām savarṇānām grahaṇam yathā syāt . keṣām . udāttānudāttasvaritānām . asti prayojanam etat . kim tarhi iti . plutānām tu pragṛhyasañjñā na prāpnoti . kim kāraṇam . atatkālatvāt . na hi plutāḥ tatkālāḥ . asiddhaḥ plutaḥ . tasyāsiddhatvāt tatkālāḥ eva bhavanti . siddhaḥ plutaḥ svarasandhiṣu . katham jñāyate siddhaḥ plutaḥ svarasandhiṣu iti . yat ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti . katham kṛtvā jñāpakam . sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . kim etasya jñāpane prayojanam . aplutāt aplute iti etat na vaktavyam bhavati . kim ataḥ yat siddhaḥ plutaḥ svarasandhiṣu . sañjñāvidhau asiddhaḥ . tasya asiddhatvāt tatkālāḥ eva bhavanti . sañjñāvidhau ca siddhaḥ . katham . kāryakālam sañjñāparibhāṣam . yatra kāryam tatra upasthitam draṣṭavyam . pragṛhyaḥ prakṛtyā iti upasthitam idam bhavati īdūdet dvivacanam pragṛhyam iti . kim punaḥ plutasya pragṛhyasañjñāvacane prayojanam . pragṛhyāśrayaḥ prakṛtibhāvaḥ yathā syāt . mā bhūt evam . plutaḥ prakṛtyā iti evam bhaviṣyati . na evam śakyam . upasthite hi doṣaḥ syāt . aplutavat upasthithe iti atra paṭhiṣyati hi ācāryaḥ : vadvacanam plutakāryapratiṣedhārtham , plutapratiṣedhe hi pragṛhyplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt iti . tasmāt plutasya pragṛhyasañjñā eṣitavyā pragṛhyāśrayaḥ prakṛtibhāvaḥ yathā syāt . yadi punaḥ dīrghāṇām ataparāṇām pragṛhyasañjñā ucyeta . evam api ekāraḥ eva ekaḥ savarṇān gṛhṇīyāt . īkārokārau na gṛhṇīyātām . kim kāraṇam . anaṇtvāt . yadi punaḥ hrasvānām ataparāṇām pragṛhyasañjñā ucyeta . na evam śakyam . iha api prasajyeta : akurvahi , atra akurvahi atra iti . tasmāt dīrghāṇām eva taparāṇām pragṛhyasañjñā vaktavyā . dīrghāṇām ca ucyamānā plutānām na prāpnoti . evam tarhi kim naḥ etena yatnena yat siddhaḥ plutaḥ svarasandhiṣu iti . asiddhaḥ plutaḥ . tasya asiddhatvāt tatkālāḥ eva bhavanti iti . katham yat tat jñāpakam uktam plutapragṛhyāḥ aci iti. plutabhāvī prakṛtyā iti evam etat vijñāyate . katham yat tat prayojanam uktam . kriyate tat nyāse eva aplutāt aplute iti . evam api yat siddhe pragṛhyakāryam tat plutasya na prāpnoti . aṇaḥ apragṛhyasya anunāsikaḥ iti . evam tarhi kim naḥ etena kāryakālam sañjñāparibhāṣam iti . yathoddeśam eva sañjñāparibhāṣam . tatra ca asau asiddhaḥ . tasyāsiddhatvāt tatkālāḥ eva bhavanti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६७।३-६८।७ रो इ,२१७-२२० कथम् पुनः इदम् विज्ञायते : ईदादयः यत् द्विवचनम् इति आहोस्वित् ईदाद्यन्तम् यत् द्विवचनम् इति । कः च अत्र विशेषः । ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य विधिः । ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया । पचेते* इति , पचेथे* इति । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । खट्वे* इति , माले* इति । अस्तु तर्हि ईदाद्यन्तम् यत् द्विवचनम् इति । ईदाद्यन्तम् इति चेत् एकस्य विधिः । ईदाद्यन्तम् इति चेत् एकस्य प्रगृह्यसञ्ज्ञा विधेया । खट्वे* इति , माले* इति । न वा आद्यन्तत्वात् । न वा एषः दोषः । किम् कारणम् । आद्यन्तत्वात् । आद्यन्तवत् एकस्मिन् इति एकस्य अपि भविष्यति । अथ वा एवम् वक्ष्यामि : ईदाद्यन्तम् यत् द्विवचनान्तम् इति । ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः । ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः वक्तव्यः । कुमार्योः अगारम् , कुमार्यगारम् वध्वोः अगारम् , वध्वगारम् । एतत् हि ईदाद्यन्तम् च श्रूयते द्विवचनान्तम् च भवति प्रत्ययलक्षणेन । सप्तम्याम् अर्थग्रहणम् ज्ञापकम् प्रत्ययलक्षणप्रतिषेधस्य । यत् अयम् ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति । तत् तर्हि ज्ञाप्कार्थम् अर्थग्रहणम् कर्तव्यम् । न कर्तव्यम् । ईदादिभिः द्विवचनम् विशेषयिष्यामः ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिः भविष्यति । ईदाद्यन्तम् यत् द्विवचनम् तदन्तम् ईदाद्यन्तम् इति । एवम् अपि अशुक्ले वस्त्रे शुक्ले सम्पद्येताम् , शुक्ली आस्ताम् वस्त्रे* इति अत्र प्राप्नोति । अत्र हि ईदादि द्विवचनम् तदन्तम् च भवति प्रत्ययलक्षणेन । अत्र अपि अकृते शीभावे लुक् भविष्यति । इदम् इह सम्प्रधार्यम् । लुक् क्रियताम् शीभावः इति किम् अत्र कर्तव्यम् । परत्वात् शीभावः । नित्यः लुक् । कृते अपि शीभावे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः लुक् । अन्यस्य कृते शीभावे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।शीभावः अपि अनित्यः । न हि कृते लुकि प्राप्नोति । उभयोः अनित्ययोः परत्वात् शीभावः शीभावे कृते लुक् । अथ अपि कथम् चित् नित्यः लुक् स्यात् एवम् अपि दोषः । वक्ष्यति एतत् । पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति। इदम् च अपि प्रत्ययग्रहणम् अयम् च अपि सञ्ज्ञाविधिः । अवश्यम् खलु एतस्मिन् अपि पक्षे आद्यन्तवद्भावः एषितव्यः । तस्मात् अस्तु सः एव मध्यमः पक्षः ।

KA I,67.3-68.7 Ro I,217-220 katham punaḥ idam vijñāyate : īdādayaḥ yat dvivacanam iti āhosvit īdādyantam yat dvivacanam iti . kaḥ ca atra viśeṣaḥ . īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya vidhiḥ . īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya pragṛhyasañjñā vidheyā . pacete* iti , pacethe* iti . vacanāt bhaviṣyati . asti vacane prayojanam . kim . khaṭve* iti , māle* iti . astu tarhi īdādyantam yat dvivacanam iti . īdādyantam iti cet ekasya vidhiḥ . īdādyantam iti cet ekasya pragṛhyasañjñā vidheyā . khaṭve* iti , māle* iti . na vā ādyantatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . ādyantatvāt . ādyantavat ekasmin iti ekasya api bhaviṣyati . atha vā evam vakṣyāmi : īdādyantam yat dvivacanāntam iti . īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ . īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ vaktavyaḥ . kumāryoḥ agāram , kumāryagāram vadhvoḥ agāram , vadhvagāram . etat hi īdādyantam ca śrūyate dvivacanāntam ca bhavati pratyayalakṣaṇena . saptamyām arthagrahaṇam jñāpakam pratyayalakṣaṇapratiṣedhasya . yat ayam īdūtau ca saptamyarthe iti arthagrahaṇam karoti tat jñāpayati ācāryaḥ na pragṛhyasañjñāyām pratyayalakṣaṇam bhavati iti . tat tarhi jñāpkārtham arthagrahaṇam kartavyam . na kartavyam . īdādibhiḥ dvivacanam viśeṣayiṣyāmaḥ īdādiviśiṣṭena ca dvivacanena tadantavidhiḥ bhaviṣyati . īdādyantam yat dvivacanam tadantam īdādyantam iti . evam api aśukle vastre śukle sampadyetām , śuklī āstām vastre* iti atra prāpnoti . atra hi īdādi dvivacanam tadantam ca bhavati pratyayalakṣaṇena . atra api akṛte śībhāve luk bhaviṣyati . idam iha sampradhāryam . luk kriyatām śībhāvaḥ iti kim atra kartavyam . paratvāt śībhāvaḥ . nityaḥ luk . kṛte api śībhāve prāpnoti akṛte api prāpnoti . anityaḥ luk . anyasya kṛte śībhāve prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .śībhāvaḥ api anityaḥ . na hi kṛte luki prāpnoti . ubhayoḥ anityayoḥ paratvāt śībhāvaḥ śībhāve kṛte luk . atha api katham cit nityaḥ luk syāt evam api doṣaḥ . vakṣyati etat . padasañjñāyām antavacanam anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhipratiṣedhārtham iti. idam ca api pratyayagrahaṇam ayam ca api sañjñāvidhiḥ . avaśyam khalu etasmin api pakṣe ādyantavadbhāvaḥ eṣitavyaḥ . tasmāt astu saḥ eva madhyamaḥ pakṣaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,६८। ९-७०।३ रो इ,२२०-२२६ मात् प्रगृह्यसञ्ज्ञायाम् तस्य असिद्धत्वात् अयावेकादेशप्रतिषेधः । मात् प्रगृह्यसञ्ज्ञायाम् तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वात् अयावेकादेशाः प्राप्नुवन्ति । तेषाम् प्रतिषेधः वक्तव्यः । अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते । ननु च प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः न भविष्यन्ति । वचनार्थः हि सिद्धे । न इदम् वचनात् लभ्यम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । यत् सिद्धे प्रगृह्यसञ्ज्ञाकार्यम् तदर्थम् एतत् स्यात् । अणः अप्रगृह्यस्य अनुनासिकः इति । न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति । यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अणः अप्रगृह्यस्य अनुनासिकः अदसः न इति । विप्रतिषेधात् वा । अथ वा प्रगृह्यसञ्ज्ञा क्रियताम् अयादयः वा । प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । विप्रतिषेधे परम् इति उच्यते । पूर्वा च प्रगृह्यसञ्ज्ञा परे अयादयः । परा प्रगृह्यसञ्ज्ञा करिष्यते । सूत्रविपर्यासः कृतः भवति । एवम् तर्हि परा एव प्रगृह्यसञ्ज्ञा । कथम् । कार्यकालम् हि सञ्ज्ञापरिभाषम् । यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् । प्रगृह्यः प्रकृत्या इति एतत् उपस्थितम् भवति अदसः मात् इति । एवम् अपि अयुक्तः विप्रतिषेधः । कथम् । द्विकार्ययोगः हि विप्रतिषेधः । न च अत्र एकः द्विकार्ययुक्तः । एचाम् अयादयः । ईदूतोः प्रगृह्यस्ञ्ज्ञा । न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः । किम् तर्हि । असम्भवः अपि । सः च अस्ति अत्र असम्भवः । कः असौ असम्भवः । प्रगृह्यसञ्ज्ञा अभिनिर्वर्तमाना अयादीन् बाधते , अयादयः अभिनिर्वर्तमनाः प्रगृह्यसञ्ज्ञानिमित्तम् विघ्नन्ति इति एषः असम्भवः । सति असम्भवे युक्तः विप्रतिषेधः । एवम् अपि अयुक्तः विप्रतिषेधः । सतोः हि विप्रतिषेधः भवति । न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः । उभयम् असिद्धम् । आश्रयात् सिद्धत्वम् च यथा रोः उत्त्वे । आश्रयात् सिद्धत्वम् भविष्यति । तत् यथा रुः उत्त्वे आश्रयात् सिद्धः भवति । किम् पुनः कारणम् रुः उत्त्वे आश्रयात् सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वम् अपि उच्यते । न एवम् शक्यम् । असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः । असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात् । वृक्षः अत्र , प्लक्षः अत्र । तस्मात् तत्र आश्रयात् सिद्धत्वम् एषितव्यम् । तत्र यथा आश्रयात् सिद्धम् भवति एवम् इह अपि भविष्यति । अथ वा प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः आदेशाः न भविष्यन्ति । अथ वा योगविभागः करिष्यते । अदसः । अदसः ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति । ततः मात् । मात् च परे ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति । अदसः इति एव । किमर्थः योगविभागः । एकः यत् तत् सिद्धे प्रगृह्यकार्यम् तदर्थः । अपरः यत् असिद्धे । इह अपि तर्हि प्राप्नोति : अमुया , अमुयोः इति । किम् च स्यात् यदि प्रगृह्यसञ्ज्ञा स्यात् । प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत । न एषः दोषः । पदान्तप्रकरणे प्रकृतिभावः । न च एषः पदान्तः । एवम् अपि अमुके अत्र अत्र अपि प्राप्नोति । द्विवचनम् इति वर्तते । यदि द्विवचनम् इति वर्तते अमी* अत्र इति न प्राप्नोति । एवम् तर्हि एदन्तम् इति निवृत्तम् । अथ वा आह अयम् अदसः मात् इति । न च ईत्त्वोत्त्वे स्तः न अपि मकारः । ते एवम् विज्ञास्यामः मार्थात् ईदाद्यर्थानाम् इति । उक्तम् वा । किम् उक्तम् । अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे प्रगृह्यसञ्जायाम् च सिद्धे वक्तव्ये इति । तत्र सकि दोषः । तत्र सककारे दोषः भवति । अमुके अत्र । न वा ग्रहणविशेषणत्वात् । न वा एषः दोषः । किम् कारणम् । ग्रहणविशेषणत्वात् । न माद्ग्रहणेन ईदाद्यन्तम् विशेष्यते । किम् तर्हि । ईदादयः विशेष्यन्ते । मात् परे ये ईदादयः इति ।

KA I,68. 9-70.3 Ro I,220-226 māt pragṛhyasañjñāyām tasya asiddhatvāt ayāvekādeśapratiṣedhaḥ . māt pragṛhyasañjñāyām tasya īttvasya ūttvasya ca asiddhatvāt ayāvekādeśāḥ prāpnuvanti . teṣām pratiṣedhaḥ vaktavyaḥ . amī* atra , amī* āsate , amū* atra , amū* āsāte . nanu ca pragṛhyasañjñāvacanasāmarthyāt ayādayaḥ na bhaviṣyanti . vacanārthaḥ hi siddhe . na idam vacanāt labhyam . asti hi anyat etasya vacane prayojanam . kim . yat siddhe pragṛhyasañjñākāryam tadartham etat syāt . aṇaḥ apragṛhyasya anunāsikaḥ iti . na ekam prayojanam yogārambham prayojayati . yadi etāvat prayojanam syāt tatra eva ayam brūyāt aṇaḥ apragṛhyasya anunāsikaḥ adasaḥ na iti . vipratiṣedhāt vā . atha vā pragṛhyasañjñā kriyatām ayādayaḥ vā . pragṛhyasañjñā bhaviṣyati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . vipratiṣedhe param iti ucyate . pūrvā ca pragṛhyasañjñā pare ayādayaḥ . parā pragṛhyasañjñā kariṣyate . sūtraviparyāsaḥ kṛtaḥ bhavati . evam tarhi parā eva pragṛhyasañjñā . katham . kāryakālam hi sañjñāparibhāṣam . yatra kāryam tatra upasthitam draṣṭavyam . pragṛhyaḥ prakṛtyā iti etat upasthitam bhavati adasaḥ māt iti . evam api ayuktaḥ vipratiṣedhaḥ . katham . dvikāryayogaḥ hi vipratiṣedhaḥ . na ca atra ekaḥ dvikāryayuktaḥ . ecām ayādayaḥ . īdūtoḥ pragṛhyasñjñā . na avaśyam dvikāryayogaḥ eva vipratiṣedhaḥ . kim tarhi . asambhavaḥ api . saḥ ca asti atra asambhavaḥ . kaḥ asau asambhavaḥ . pragṛhyasañjñā abhinirvartamānā ayādīn bādhate , ayādayaḥ abhinirvartamanāḥ pragṛhyasañjñānimittam vighnanti iti eṣaḥ asambhavaḥ . sati asambhave yuktaḥ vipratiṣedhaḥ . evam api ayuktaḥ vipratiṣedhaḥ . satoḥ hi vipratiṣedhaḥ bhavati . na ca atra īttvottve staḥ na api makāraḥ . ubhayam asiddham . āśrayāt siddhatvam ca yathā roḥ uttve . āśrayāt siddhatvam bhaviṣyati . tat yathā ruḥ uttve āśrayāt siddhaḥ bhavati . kim punaḥ kāraṇam ruḥ uttve āśrayāt siddhaḥ bhavati na punaḥ yatra eva ruḥ siddhaḥ tatra eva uttvam api ucyate . na evam śakyam . asiddhe hi uttve ādguṇāprasiddhiḥ . asiddhe hi uttve ādguṇāprasiddhiḥ syāt . vṛkṣaḥ atra , plakṣaḥ atra . tasmāt tatra āśrayāt siddhatvam eṣitavyam . tatra yathā āśrayāt siddham bhavati evam iha api bhaviṣyati . atha vā pragṛhyasañjñāvacanasāmarthyāt ayādayaḥ ādeśāḥ na bhaviṣyanti . atha vā yogavibhāgaḥ kariṣyate . adasaḥ . adasaḥ īdādayaḥ pragṛhyasañjñāḥ bhavanti . tataḥ māt . māt ca pare īdādayaḥ pragṛhyasañjñāḥ bhavanti . adasaḥ iti eva . kimarthaḥ yogavibhāgaḥ . ekaḥ yat tat siddhe pragṛhyakāryam tadarthaḥ . aparaḥ yat asiddhe . iha api tarhi prāpnoti : amuyā , amuyoḥ iti . kim ca syāt yadi pragṛhyasañjñā syāt . pragṛhyāśrayaḥ prakṛtibhāvaḥ prasajyeta . na eṣaḥ doṣaḥ . padāntaprakaraṇe prakṛtibhāvaḥ . na ca eṣaḥ padāntaḥ . evam api amuke atra atra api prāpnoti . dvivacanam iti vartate . yadi dvivacanam iti vartate amī* atra iti na prāpnoti . evam tarhi edantam iti nivṛttam . atha vā āha ayam adasaḥ māt iti . na ca īttvottve staḥ na api makāraḥ . te evam vijñāsyāmaḥ mārthāt īdādyarthānām iti . uktam vā . kim uktam . adasaḥ īttvottve svare bahiṣpadalakṣaṇe pragṛhyasañjāyām ca siddhe vaktavye iti . tatra saki doṣaḥ . tatra sakakāre doṣaḥ bhavati . amuke atra . na vā grahaṇaviśeṣaṇatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . grahaṇaviśeṣaṇatvāt . na mādgrahaṇena īdādyantam viśeṣyate . kim tarhi . īdādayaḥ viśeṣyante . māt pare ye īdādayaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७०।५-१० रो इ,२२६-२२७ इह कस्मात् न भवति : काशे कुशे वंशे इति । शे अर्थवद्ग्रहणात् । अर्थवतः शेशब्दस्य ग्रहणम् । न च अयम् अर्थवान् । एवम् अपि हरिशे बभ्रुशे इति अत्र प्राप्नोति । एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति । अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति । कथम् हरिशे बभ्रुशे इति । एकः अत्र विभक्त्यर्थेन अर्थवान् अपरः तद्धितार्थेन । समुदायः अनर्थकः ।

KA I,70.5-10 Ro I,226-227 iha kasmāt na bhavati : kāśe kuśe vaṃśe iti . śe arthavadgrahaṇāt . arthavataḥ śeśabdasya grahaṇam . na ca ayam arthavān . evam api hariśe babhruśe iti atra prāpnoti . evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . atha vā punaḥ astu arthavadgrahaṇe na anarthakasya iti . katham hariśe babhruśe iti . ekaḥ atra vibhaktyarthena arthavān aparaḥ taddhitārthena . samudāyaḥ anarthakaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७०।१२-७१।७ रो इ,२२७-२३० निपातः इति किमर्थम् । चकार अत्र , जहार अत्र । एकाच् इति किमर्थम् । प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् । एकाच् इति अपि उच्यमाने अत्र अपि प्राप्नोति । एषः अपि हि एकाच् । एकाच् इति न अयम् बहुव्रीहिः : एकः अच् अस्मिन् सः अयम् एकाच् इति । किम् तर्हि । तत्पुरुषः अयम् समानाधिकरणः : एकः अच् एकाच् । यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन । इह कस्मात् न भवति : प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् । अच् एव यः निपातः इति एवम् विज्ञास्यते । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अज्ग्रहणसामर्थ्यात् । यदि हि यत् च अच् च अन्यत् च तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् । अस्ति अन्यत् अज्ग्रहणस्य प्रयोजनम् । किम्। अजन्तस्य यथा स्यात् । हलन्तस्य मा भूत् । न एव दोषः न प्रयोजनम् । एवम् अपि कुतः एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः आद्यन्तवत् एकस्मिन् इति च येन विधिः तदन्तस्य इति च इयम् इह परिभाषा भविष्यति आद्यन्तवत् एकस्मिन् इति इयम् न भविष्यति येन विधिः तदन्तस्य इति । आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति आद्यन्तवत् एकस्मिन् इति इयम् न भवति येन विधिः तदन्तस्य इति यत् अयम् अनाङ् इति प्रतिषेधम् शास्ति । एवम् तर्हि सिद्धे सति यत् अज्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यत् उक्तम् तत् उपपन्नम् भवति । अनाङ् इति किमर्थम् । आ , उदकान्तात् ओदकान्तात् । इह कस्मात् न भवति: आ* एवम् नु मन्यसे , आ* एवम् किल तत् इति । सानुबन्धकस्य ग्रहणम् अननुबन्धकः च अत्र आकारः । क्व पुनः अयम् सानुबन्धकः क्व निरनुबन्धकः । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतम् आतम् ङितम् विद्यात् वाक्यस्मरणयोः अङित् ।

KA I,70.12-71.7 Ro I,227-230 nipātaḥ iti kimartham . cakāra atra , jahāra atra . ekāc iti kimartham . pra idam brahma , pra idam kṣatram . ekāc iti api ucyamāne atra api prāpnoti . eṣaḥ api hi ekāc . ekāc iti na ayam bahuvrīhiḥ : ekaḥ ac asmin saḥ ayam ekāc iti . kim tarhi . tatpuruṣaḥ ayam samānādhikaraṇaḥ : ekaḥ ac ekāc . yadi tatpuruṣaḥ samānādhikaraṇaḥ na arthaḥ ekagrahaṇena . iha kasmāt na bhavati : pra idam brahma , pra idam kṣatram . ac eva yaḥ nipātaḥ iti evam vijñāsyate . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ajgrahaṇasāmarthyāt . yadi hi yat ca ac ca anyat ca tatra syāt ajgrahaṇam anarthakam syāt . asti anyat ajgrahaṇasya prayojanam . kim. ajantasya yathā syāt . halantasya mā bhūt . na eva doṣaḥ na prayojanam . evam api kutaḥ etat dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ ādyantavat ekasmin iti ca yena vidhiḥ tadantasya iti ca iyam iha paribhāṣā bhaviṣyati ādyantavat ekasmin iti iyam na bhaviṣyati yena vidhiḥ tadantasya iti . ācāryapravṛttiḥ jñāpayati iyam iha paribhāṣā bhavati ādyantavat ekasmin iti iyam na bhavati yena vidhiḥ tadantasya iti yat ayam anāṅ iti pratiṣedham śāsti . evam tarhi siddhe sati yat ajgrahaṇe kriyamāṇe ekagrahaṇam karoti tat jñāpayati ācāryaḥ anyatra varṇagrahaṇe jātigrahaṇam bhavati iti . kim etasya jñāpane prayojanam . dambheḥ halgrahaṇasya jātivācakatvāt siddham iti yat uktam tat upapannam bhavati . anāṅ iti kimartham . ā , udakāntāt odakāntāt . iha kasmāt na bhavati: ā* evam nu manyase , ā* evam kila tat iti . sānubandhakasya grahaṇam ananubandhakaḥ ca atra ākāraḥ . kva punaḥ ayam sānubandhakaḥ kva niranubandhakaḥ . īṣadarthe kriyāyoge maryādābhividhau ca yaḥ etam ātam ṅitam vidyāt vākyasmaraṇayoḥ aṅit .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७१।९-१३ रो इ,२३०-२३१ किम् उदाहरणम् । आहो* इति , उताहो* इति । न एतत् अस्ति प्रयोजनम् । निपातसमाहारः अयम् : आह , उ : आहो* इति, उत , आह , उ : उताहो* इति । तत्र निपातः एकाच् अनाङ् इति एव सिद्धम् । एवम् तर्हि एकनिपाताः इमे । अथ वा प्रतिषिद्धार्थः अयम् आरम्भः : ओ षु यातम् मरुतः , ओषु यातम् बृहती शक्वरी च , ओ चित् सखायम् सख्य ववृत्याम् ।

KA I,71.9-13 Ro I,230-231 kim udāharaṇam . āho* iti , utāho* iti . na etat asti prayojanam . nipātasamāhāraḥ ayam : āha , u : āho* iti, uta , āha , u : utāho* iti . tatra nipātaḥ ekāc anāṅ iti eva siddham . evam tarhi ekanipātāḥ ime . atha vā pratiṣiddhārthaḥ ayam ārambhaḥ : o ṣu yātam marutaḥ , oṣu yātam bṛhatī śakvarī ca , o cit sakhāyam sakhya vavṛtyām .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७१।१४-२१ रो इ,२३१-२३३ ओतः च्विप्रतिषेधः । ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः । अनदः , अदः , अभवत् : अदोभवत् , तिरोभवत् । न वक्तव्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति । एवम् अपि अगौः गौः सम्पद्यते गोभवत् : अत्र प्राप्नोति । एवम् तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति । तत् यथा : गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते । कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः : गौः तिष्थति । गाम् आनय इति । अर्थाश्रये एतत् एवम् भवति । यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति । शब्दाश्रये च वृद्ध्यात्त्वे ।

KA I,71.14-21 Ro I,231-233 otaḥ cvipratiṣedhaḥ . odantaḥ nipātaḥ iti atra cvyantasya pratiṣedhaḥ vaktavyaḥ . anadaḥ , adaḥ , abhavat : adobhavat , tirobhavat . na vaktavyam . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . evam api agauḥ gauḥ sampadyate gobhavat : atra prāpnoti . evam tarhi gauṇamukhyayoḥ mukhye kāryasamprayayaḥ iti . tat yathā : gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate . katham tarhi bāhīke vṛddhyāttve bhavataḥ : gauḥ tiṣthati . gām ānaya iti . arthāśraye etat evam bhavati . yat hi śabdāśrayam śabdamātre tat bhavati . śabdāśraye ca vṛddhyāttve .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७२।१५-७३।१८ रो इ,२३५-२३८ ईदूतौ सप्तमी इति एव । ईदूतौ सप्तमी इति एव सिद्धम् । न अर्थः अर्थग्रहणेन । लुप्ते अर्थग्रहणात् भवेत् । लुप्तायम् सप्तम्याम् प्रगृह्यसञ्ज्ञा न प्राप्नोति । क्व । सोमो गौरी अधि श्रितः । इष्यते च अत्र अपि स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अर्थग्रहणम् । न अत्र सप्तमी लुप्यते । किम् तर्हि । पूर्वसवर्णः अत्र भवति । पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते । यदि पूर्वसवर्णः आट् आम्भावः च प्राप्नोति । एवम् तर्हि आह अयम् ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ । तत्र वचनात् भविष्यति । वचनात् यत्र दीर्घत्वम् । न इदम् वचनात् लभ्यम्। अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । यत्र सप्तम्याः दीर्घत्वम् उच्यते : दृतिम् न शुष्कम् सरसी शयानम् इति । सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि श्रितः इति । तत्र अपि सरसी यदि । तत्र अपि सिद्धम् । कथम् । यदि सरसीशब्दस्य प्रवृत्तिः अस्ति । अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः । कथम् । दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते । ज्ञापकम् स्यात् तदन्तत्वे । एवम् तर्हि ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । कुमार्योः अगारम् कुमार्यगारम् , वध्वोः अगारम् वध्वगारम् । प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति । मा वा पूर्वपदस्य भूत् । अथ वा पूर्वपदस्य मा भूत् इति एवमर्थम् अर्थग्रहणम् : वाप्याम् अश्वः वाप्यश्वः , नद्याम् आतिः नद्यातिः । अथ क्रियमाणे अपि अर्थग्रहणे कस्मात् एव अत्र न भवति । जहत्स्वार्था वृत्तिः इति । अथ अजहत्स्वार्थायाम् वृत्तौ दोषः एव । अजहत्स्वार्थायाम् च न दोषः । समुदायार्थः अभिधीयते । ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात् भवेत् पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते वचनात् यत्र दीर्घत्वम् तत्र अपि सरसी यदि ज्ञापकम् स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् ।

KA I,72.15-73.18 Ro I,235-238 īdūtau saptamī iti eva . īdūtau saptamī iti eva siddham . na arthaḥ arthagrahaṇena . lupte arthagrahaṇāt bhavet . luptāyam saptamyām pragṛhyasañjñā na prāpnoti . kva . somo gaurī adhi śritaḥ . iṣyate ca atra api syāt iti . tat ca antareṇa yatnam na sidhyati iti evamartham arthagrahaṇam . na atra saptamī lupyate . kim tarhi . pūrvasavarṇaḥ atra bhavati . pūrvasya cet savarṇaḥ asau āḍāmbhāvaḥ prasajyate . yadi pūrvasavarṇaḥ āṭ āmbhāvaḥ ca prāpnoti . evam tarhi āha ayam īdūtau saptamī iti na sa asti saptamī īdūtau . tatra vacanāt bhaviṣyati . vacanāt yatra dīrghatvam . na idam vacanāt labhyam. asti hi anyat etasya vacane prayojanam . kim . yatra saptamyāḥ dīrghatvam ucyate : dṛtim na śuṣkam sarasī śayānam iti . sati prayojane iha na prāpnoti somo gaurī adhi śritaḥ iti . tatra api sarasī yadi . tatra api siddham . katham . yadi sarasīśabdasya pravṛttiḥ asti . asti ca loke sarasīśabdasya pravṛttiḥ . katham . dakṣiṇāpathe hi mahānti sarāṃsi sarasyaḥ iti ucyante . jñāpakam syāt tadantatve . evam tarhi jñāpayati ācāryaḥ na pragṛhyasañjñāyām pratyayalakṣaṇam bhavati iti . kim etasya jñāpane prayojanam . kumāryoḥ agāram kumāryagāram , vadhvoḥ agāram vadhvagāram . pratyayalakṣaṇena pragṛhyasañjñā na bhavati . mā vā pūrvapadasya bhūt . atha vā pūrvapadasya mā bhūt iti evamartham arthagrahaṇam : vāpyām aśvaḥ vāpyaśvaḥ , nadyām ātiḥ nadyātiḥ . atha kriyamāṇe api arthagrahaṇe kasmāt eva atra na bhavati . jahatsvārthā vṛttiḥ iti . atha ajahatsvārthāyām vṛttau doṣaḥ eva . ajahatsvārthāyām ca na doṣaḥ . samudāyārthaḥ abhidhīyate . īdutau saptamī iti eva lupte arthagrahaṇāt bhavet pūrvasya cet savarṇaḥ asau āḍāmbhāvaḥ prasajyate vacanāt yatra dīrghatvam tatra api sarasī yadi jñāpakam syāt tadantatve mā vā pūrvapadasya bhūt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७३।२०-७४।२२ रो इ,२३९-२४१ घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिदर्थम्। घुसञ्ज्ञायाम् प्रकृतिग्रहणम् कर्तव्यम् । दाधाप्रकृतयः घुसञ्ज्ञा भवन्ति इति वक्तव्यम् । किम् प्रयोजनम् । आत्त्वभूतानाम् इयम् सञ्ज्ञा क्रियते । सा आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् । ननु च भूयिष्थानि घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र च एते आत्त्वभूताः दृश्यन्ते । शिदर्थम् । शिदर्थम् प्रकृतिग्रहणम् कर्तव्यम् । शिति आत्त्वम् प्रतिषिध्यते तदर्थम् : प्रणिदयते प्रणिधयति इति । भारद्वाजीयाः पठन्ति घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिद्विकृतार्थम् । घुसञ्ज्ञायाम् प्रकृतिग्रहणम् क्रियते । किम् प्रयोजनम् । शिदर्थम् विकृतार्थम् च । शिति उदाहृतम् । विकृतार्थम् खलु अपि : प्रणिदाता प्रणिधाता । किम् पुनः कारणम् न सिध्यति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् ये आत्त्वभूताः तेषाम् एव स्यात् । लक्षणेन ये आत्त्वभूताः तेषाम् न स्यात् । अथ क्रियमाणे अपि प्रकृतिग्रहणे कथम् इदम् विज्ञायते । दाधाः प्रकृतयः आहोस्वित् दाधाम् प्रकृतयः इति । किम् च अतः । यदि विज्ञायते दाधाः प्रकृतयः इति सः एव दोषः । आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् । अथ विज्ञायते दाधाम् प्रकृतयः इति अनात्त्वभूतानाम् एव स्यात् आत्त्वभूतानाम् न स्यात् । एवम् तर्हि न एवम् विज्ञायते दाधाः प्रकृतयः इति न अपि दाधाम् प्रकृतयः इति । कथम् तर्हि । दाधाः घुसञ्ज्ञाः भवन्ति प्रकृतयः च एषाम् इति । तत् तर्हि प्रकृतिग्रहणम् कर्तव्यम् । न कर्तव्यम् । इदम् प्रकृतम् अर्थग्रहणम् अनुवर्तते । क्व प्रकृतम् । ईदूतौ च सप्तम्यर्थे इति । ततः वक्ष्यामि दाधाः घु अदाप् । अर्थे इति । न एवम् शक्यम् । ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीन् आहुः । एतेषाम् अपि घुसञ्ज्ञा प्राप्नोति । तस्मात् न एवम् शक्यम् । न चेत् एवम् प्रकृतिग्रहणम् कर्तव्यम् । शिदर्थेन तावत् न अर्थः प्रकृतिग्रहणेन । अवश्यम् तत्र मार्थम् प्रकृतिग्रहणम् कर्तव्यम् प्रणिमयते प्रण्यमयत इति एवमर्थम् । तत् पुरस्तात् अपक्रक्ष्यते : घुप्रकृतौ माप्रकृतौ च इति । यदि प्रकृतिग्रहणम् क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति । अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात् न भवति : प्रनिमाता प्रनिमातुम् इति । आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते । यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञायते एवम् क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते । विकृतार्थेन च अपि न अर्थः । दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु अविशेषः इति ।

KA I,73.20-74.22 Ro I,239-241 ghusañjñāyām prakṛtigrahaṇam śidartham. ghusañjñāyām prakṛtigrahaṇam kartavyam . dādhāprakṛtayaḥ ghusañjñā bhavanti iti vaktavyam . kim prayojanam . āttvabhūtānām iyam sañjñā kriyate . sā āttvabhūtānām eva syāt anāttvabhūtānām na syāt . nanu ca bhūyiṣthāni ghusañjñākāryāṇi ārdhadhātuke tatra ca ete āttvabhūtāḥ dṛśyante . śidartham . śidartham prakṛtigrahaṇam kartavyam . śiti āttvam pratiṣidhyate tadartham : praṇidayate praṇidhayati iti . bhāradvājīyāḥ paṭhanti ghusañjñāyām prakṛtigrahaṇam śidvikṛtārtham . ghusañjñāyām prakṛtigrahaṇam kriyate . kim prayojanam . śidartham vikṛtārtham ca . śiti udāhṛtam . vikṛtārtham khalu api : praṇidātā praṇidhātā . kim punaḥ kāraṇam na sidhyati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam ye āttvabhūtāḥ teṣām eva syāt . lakṣaṇena ye āttvabhūtāḥ teṣām na syāt . atha kriyamāṇe api prakṛtigrahaṇe katham idam vijñāyate . dādhāḥ prakṛtayaḥ āhosvit dādhām prakṛtayaḥ iti . kim ca ataḥ . yadi vijñāyate dādhāḥ prakṛtayaḥ iti saḥ eva doṣaḥ . āttvabhūtānām eva syāt anāttvabhūtānām na syāt . atha vijñāyate dādhām prakṛtayaḥ iti anāttvabhūtānām eva syāt āttvabhūtānām na syāt . evam tarhi na evam vijñāyate dādhāḥ prakṛtayaḥ iti na api dādhām prakṛtayaḥ iti . katham tarhi . dādhāḥ ghusañjñāḥ bhavanti prakṛtayaḥ ca eṣām iti . tat tarhi prakṛtigrahaṇam kartavyam . na kartavyam . idam prakṛtam arthagrahaṇam anuvartate . kva prakṛtam . īdūtau ca saptamyarthe iti . tataḥ vakṣyāmi dādhāḥ ghu adāp . arthe iti . na evam śakyam . dadātinā samānārthān rātirāsatidāśatimaṃhatiprīṇātiprabhṛtīn āhuḥ . eteṣām api ghusañjñā prāpnoti . tasmāt na evam śakyam . na cet evam prakṛtigrahaṇam kartavyam . śidarthena tāvat na arthaḥ prakṛtigrahaṇena . avaśyam tatra mārtham prakṛtigrahaṇam kartavyam praṇimayate praṇyamayata iti evamartham . tat purastāt apakrakṣyate : ghuprakṛtau māprakṛtau ca iti . yadi prakṛtigrahaṇam kriyate praniminoti pranimīnāti atra api prāpnoti . atha akriyamāṇe api prakṛtigrahaṇe iha kasmāt na bhavati : pranimātā pranimātum iti . ākārāntasya ṅitaḥ grahaṇam vijñāsyate . yathā eva tarhi akriyamāṇe prakṛtigrahaṇe ākārāntasya ṅitaḥ grahaṇam vijñāyate evam kriyamāṇe api prakṛtigrahaṇe ākārāntasya ṅitaḥ grahaṇam vijñāsyate . vikṛtārthena ca api na arthaḥ . doṣaḥ eva etasyāḥ paribhāṣāyāḥ lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti gāmādāgrahaṇeṣu aviśeṣaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७४।२३-७५।१४ रो इ,२४२-२४४ समानशब्दप्रतिषेधः । समानशब्दानाम् प्रतिषेधः वक्तव्यः : प्रनिदारयति प्रनिधारयति । दाधाः घुसञ्ज्ञाः भवन्ति इति घुसञ्ज्ञा प्राप्नोति । समानशब्दाप्रतिषेधः अर्थवद्ग्रहणात् । समानशब्दानाम् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । घुसञ्ज्ञा कस्मात् न भवति । अर्थवद्ग्रहणात् । अर्थवतोः दाधोः ग्रहणम् । न च एतौ अर्थवन्तौ । अनुपसर्गात् वा । अथ वा यत्क्रियायुक्तास् प्रादयः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः । न च एतौ दाधौ प्रति क्रियायोगः । यदि एवम् इह अपि तर्हि न प्राप्नोति प्रणिदापयति प्रणिधापयति । अत्र अपि न एतौ दाधौ अर्थवन्तौ न अपि एतौ दाधौ प्रति क्रियायोगः । न वा अर्थवतः हि आगमः तद्गुणीभूतः तद्ग्रहणेन गृह्यते यथा अन्यत्र । न वा एषः दोषः । किम् कारणम् । अर्थवतः आगमः तद्गुणीभूतः अर्थवद्ग्रहणेन गृह्यते यथा अन्यत्र । तत् यथा । अन्यत्र अपि अर्थवतः आगमः अर्थवद्ग्रहणेन गृह्यते । क्व अन्यत्र । लविता चिकीर्षिता इति । युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः । आगमः च नाम अपूर्वः शब्दोपजनः । अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः । बाढम् युक्तम् । शब्दान्तरैः इह भवितव्यम् । तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता । आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः । तत् कथम् । सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वम् न उपपद्यते ।

KA I,74.23-75.14 Ro I,242-244 samānaśabdapratiṣedhaḥ . samānaśabdānām pratiṣedhaḥ vaktavyaḥ : pranidārayati pranidhārayati . dādhāḥ ghusañjñāḥ bhavanti iti ghusañjñā prāpnoti . samānaśabdāpratiṣedhaḥ arthavadgrahaṇāt . samānaśabdānām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . ghusañjñā kasmāt na bhavati . arthavadgrahaṇāt . arthavatoḥ dādhoḥ grahaṇam . na ca etau arthavantau . anupasargāt vā . atha vā yatkriyāyuktās prādayaḥ tam prati gatyupasargasañjñe bhavataḥ . na ca etau dādhau prati kriyāyogaḥ . yadi evam iha api tarhi na prāpnoti praṇidāpayati praṇidhāpayati . atra api na etau dādhau arthavantau na api etau dādhau prati kriyāyogaḥ . na vā arthavataḥ hi āgamaḥ tadguṇībhūtaḥ tadgrahaṇena gṛhyate yathā anyatra . na vā eṣaḥ doṣaḥ . kim kāraṇam . arthavataḥ āgamaḥ tadguṇībhūtaḥ arthavadgrahaṇena gṛhyate yathā anyatra . tat yathā . anyatra api arthavataḥ āgamaḥ arthavadgrahaṇena gṛhyate . kva anyatra . lavitā cikīrṣitā iti . yuktam punaḥ yat nityeṣu nāma śabdeṣu āgamaśāsanam syāt na nityeṣu śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . āgamaḥ ca nāma apūrvaḥ śabdopajanaḥ . atha yuktam yat nityeṣu śabdeṣu ādeśāḥ syuḥ . bāḍham yuktam . śabdāntaraiḥ iha bhavitavyam . tatra śabdāntarāt śabdāntarasya pratipattiḥ yuktā . ādeśāḥ tarhi ime bhaviṣyanti anāgamakānām sāgamakāḥ . tat katham . sarve sarvapadādeśāḥ dākṣīputrasya pāṇineḥ ekadeśavikāre hi nityatvam na upapadyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७५।१५-२३ रो इ,२४५-२४६ दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे । दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे वक्तव्यः । उपादास्त अस्य स्वरः शिक्षकस्य इति । मीनातिमिनोति इति आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति । कुतः पुनः अयम् दोषः जायते । किम् प्रकृतिग्रहणात् आहोस्वित् रूपग्रहणात् । रूपग्रहणात् इति आह । इह खलु प्रकृतिग्रहणात् दोषः जायते : उपदिदीषते । सनि मीमाघुरभलभ इति । न एषः दोषः । दाप्रकृतिः इति उच्यते । न च इयम् दाप्रकृतिः । आकारान्तानाम् एजन्ताः प्रकृतयः एजन्तानाम् अपि ईकारान्ताः । न च प्रकृतिप्रकृतिः प्रकृतिग्रहणेन गृह्यते । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । घुसञ्ज्ञा कस्मात् न भवति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एवम् न भविष्यति ।

KA I,75.15-23 Ro I,245-246 dīṅaḥ pratiṣedhaḥ sthāghvoḥ ittve . dīṅaḥ pratiṣedhaḥ sthāghvoḥ ittve vaktavyaḥ . upādāsta asya svaraḥ śikṣakasya iti . mīnātiminoti iti āttve kṛte sthāghvoḥ it ca iti ittvam prāpnoti . kutaḥ punaḥ ayam doṣaḥ jāyate . kim prakṛtigrahaṇāt āhosvit rūpagrahaṇāt . rūpagrahaṇāt iti āha . iha khalu prakṛtigrahaṇāt doṣaḥ jāyate : upadidīṣate . sani mīmāghurabhalabha iti . na eṣaḥ doṣaḥ . dāprakṛtiḥ iti ucyate . na ca iyam dāprakṛtiḥ . ākārāntānām ejantāḥ prakṛtayaḥ ejantānām api īkārāntāḥ . na ca prakṛtiprakṛtiḥ prakṛtigrahaṇena gṛhyate . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . ghusañjñā kasmāt na bhavati . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti evam na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७५।२४-७६।१४ रो इ,२४६-२४७ दाप्प्रतिषेधे न दैपि अनेजन्तत्वात् । दाप्प्रतिषेधे दैपि प्रतिषेधः न प्राप्नोति : अवदातम् मुखम् । ननु च आत्त्वे कृते भविष्यति । तत् हि आत्त्वम् न प्राप्नोति । किम् कारणम् । अनेजन्तत्वात् । सिद्धम् अनुबन्धस्य अनेकान्तत्वात् । सिद्धम् एतत् । कथम् । अनुबन्धस्य अनेकान्तत्वात् । अनेकान्ताः अनुबन्धाः । पित्प्रतिषेधात् वा । अथ वा दाधाः घु अपित् इति वक्ष्यामि । तत् च अवश्यम् वक्तव्यम् । अदाप् इति हि उच्यमाने इह अपि प्रसज्येत : प्रणिदापयति इति । शक्यम् तावत् अनेन अदाप् इति ब्रुवता बान्तस्य प्रतिषेधः विज्ञातुम् । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् दप्प्रतिषेधे न दैपि इति । परिहृतम् एतत् सिद्धम् अनुबन्धस्य अनेकान्तत्वात् इति । अथ एकान्तेषु दोषः एव । एकान्तेषु च न दोषः । आत्त्वे कृते भविष्यति । ननु च उक्तम् तत् हि आत्त्वम् न प्राप्नोति । किम् कारणम् । अनेजन्तत्वात् इति । पकारलोपे कृते भविष्यति । न हि अयम् तदा दाप् भवति । भूतपूर्वगत्या भविष्यति । एतत् च अत्र युक्तम् यत् सर्वेषु एव सानुबन्धकग्रहणेषु भूतपूर्वगतिः विज्ञायते । अनैमित्तिकः हि अनुबन्धलोपः तावति एव भवति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति । अथ वा दाप् एव अयम् न दैप् अस्ति । कथम् अवदाययति इति । श्यन् विकरणः भविष्यति ।

KA I,75.24-76.14 Ro I,246-247 dāppratiṣedhe na daipi anejantatvāt . dāppratiṣedhe daipi pratiṣedhaḥ na prāpnoti : avadātam mukham . nanu ca āttve kṛte bhaviṣyati . tat hi āttvam na prāpnoti . kim kāraṇam . anejantatvāt . siddham anubandhasya anekāntatvāt . siddham etat . katham . anubandhasya anekāntatvāt . anekāntāḥ anubandhāḥ . pitpratiṣedhāt vā . atha vā dādhāḥ ghu apit iti vakṣyāmi . tat ca avaśyam vaktavyam . adāp iti hi ucyamāne iha api prasajyeta : praṇidāpayati iti . śakyam tāvat anena adāp iti bruvatā bāntasya pratiṣedhaḥ vijñātum . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam dappratiṣedhe na daipi iti . parihṛtam etat siddham anubandhasya anekāntatvāt iti . atha ekānteṣu doṣaḥ eva . ekānteṣu ca na doṣaḥ . āttve kṛte bhaviṣyati . nanu ca uktam tat hi āttvam na prāpnoti . kim kāraṇam . anejantatvāt iti . pakāralope kṛte bhaviṣyati . na hi ayam tadā dāp bhavati . bhūtapūrvagatyā bhaviṣyati . etat ca atra yuktam yat sarveṣu eva sānubandhakagrahaṇeṣu bhūtapūrvagatiḥ vijñāyate . anaimittikaḥ hi anubandhalopaḥ tāvati eva bhavati . atha vā ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anejantatvam iti yat ayam udīcām māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti . atha vā dāp eva ayam na daip asti . katham avadāyayati iti . śyan vikaraṇaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७६।१६-७८।२ रो इ,२४७-२५२ किमर्थम् इदम् उच्यते । सति अन्यस्मिन् आद्यन्तवद्भावात् एकस्मिन् आद्यन्तवद्वचनम् । सति अन्यस्मिन् यस्मात् पूर्वम् न अस्ति परम् अस्ति सः आदिः इति उच्यते । सति अन्यस्मिन् यस्मात् परम् न अस्ति पूर्वम् अस्ति सः अन्तः इति उच्यते । सति अन्यस्मिन् आद्यन्तवद्भावात् एतस्मात् कारणात् एकस्मिन् आद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति । इष्यन्ते च स्युः इति । तानि अन्तरेण यत्नम् न सिध्यन्ति इति एकस्मिन् आद्यन्तवद्वचनम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र व्यपदेशिवद्वचनम् । तत्र व्यपदेशिवद्भावः वक्तव्यः । व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् । किम् प्रयोजनम् । एकाचः द्वे प्रथमार्थम् । वक्ष्यति एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः इति । तस्मिन् क्रियमाणे इह एव : स्यात् पपाच पपाठ । इयाय , आर इति अत्र न स्यात् । व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति । षत्वे च आदेशसम्प्रत्ययार्थम् । वक्ष्यति आदेशप्रत्यययोः इति अवयवषष्ठी एव इति । एतस्मिन् क्रियमाणे इह एव स्यात् : करिष्यति हरिष्यति । इह न स्यात् : इन्द्रः मा वक्षत् , सः देवन् यक्षत् । व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति । सः तर्हि व्यपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । अवचनात् लोकविज्ञानात् सिद्धम् । अन्तरेण एव वचनम् लोकविज्ञानात् सिद्धम् एतत् । तत् यथा : लोके शालासमुदायः ग्रामः इति उच्यते । भवति च एतत् एकस्मिन् अपि एकशालः ग्रामः इति । विषमः उपन्यासः । ग्रामशब्दः अयम् बह्वर्थः । अस्ति एव शालासमुदाये वर्तते । तत् यथा ग्रामः दग्धः इति । अस्ति वाटपरिक्षेपे वर्तते । तत् यथा ग्रामम् प्रविष्टः । अस्ति मनुष्येषु वर्तते । तत् यथा । ग्रामः गतः , ग्रामः आगतः इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते । तत् यथा ग्रामः लब्धः इति । तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : एकशालः ग्रामः इति । यथा तर्हि वर्णसमुदायः पदम् पदसमुदायः ऋक् ऋक्समुदायः सूक्तम् इति उच्यते । भवति च एतत् एकस्मिन् अपि एकवर्णम् पदम् एकपदा ऋक् एकर्चम् सूक्तम् इति । अत्र अपि अर्थेन युक्तः व्यपदेशः । पदम् नाम अर्थः सूक्तम् नम अर्थः । यथा तर्हि बहुषु पुत्रेषु एतत् उपपन्नम् : भवति अयम् मे ज्येष्ठः अयम् एव मे मध्यमः अयम् एव मे कनीयान् इति । भवति च एतत् एकस्मिन् अपि अयम् एव मे ज्येष्ठः अयम् मे मध्यमः अयम् मे कनीयान् इति । तथा असूतायाम् असोष्यमाणायाम् च भवति प्रथमगर्भेण हता इति । तथा अनेत्य अनाजिगमिषुः आह इदम् मे प्रथमम् आगमनम् इति । आद्यन्तवद्भावः च शक्यः अवक्तुम् । कथम् । अपूर्वानुत्तरलक्षणत्वात् आद्यन्तयोः सिद्धम् एकस्मिन् । अपूर्वलक्षणः आदिः अनुत्तरलक्षणः अन्तः । एतत् च एकस्मिन् अपि भवति । अपूर्वानुत्तरलक्षणत्वात् एतस्मात् कारणात् एकस्मिन् अपि आद्यन्तापदिष्टनि कार्याणि भविष्यन्ति । न अर्थः आद्यन्तवद्भावेन । गोनर्दीयः तु आह सत्यम् एतत् सति तु अन्यस्मिन् इति ।

KA I,76.16-78.2 Ro I,247-252 kimartham idam ucyate . sati anyasmin ādyantavadbhāvāt ekasmin ādyantavadvacanam . sati anyasmin yasmāt pūrvam na asti param asti saḥ ādiḥ iti ucyate . sati anyasmin yasmāt param na asti pūrvam asti saḥ antaḥ iti ucyate . sati anyasmin ādyantavadbhāvāt etasmāt kāraṇāt ekasmin ādyantāpadiṣṭāni kāryāṇi na sidhyanti . iṣyante ca syuḥ iti . tāni antareṇa yatnam na sidhyanti iti ekasmin ādyantavadvacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra vyapadeśivadvacanam . tatra vyapadeśivadbhāvaḥ vaktavyaḥ . vyapadeśivat ekasmin kāryam bhavati iti vaktavyam . kim prayojanam . ekācaḥ dve prathamārtham . vakṣyati ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ iti . tasmin kriyamāṇe iha eva : syāt papāca papāṭha . iyāya , āra iti atra na syāt . vyapdeśivat ekasmin kāryam bhavati iti atra api siddham bhavati . ṣatve ca ādeśasampratyayārtham . vakṣyati ādeśapratyayayoḥ iti avayavaṣaṣṭhī eva iti . etasmin kriyamāṇe iha eva syāt : kariṣyati hariṣyati . iha na syāt : indraḥ mā vakṣat , saḥ devan yakṣat . vyapdeśivat ekasmin kāryam bhavati iti atra api siddham bhavati . saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . avacanāt lokavijñānāt siddham . antareṇa eva vacanam lokavijñānāt siddham etat . tat yathā : loke śālāsamudāyaḥ grāmaḥ iti ucyate . bhavati ca etat ekasmin api ekaśālaḥ grāmaḥ iti . viṣamaḥ upanyāsaḥ . grāmaśabdaḥ ayam bahvarthaḥ . asti eva śālāsamudāye vartate . tat yathā grāmaḥ dagdhaḥ iti . asti vāṭaparikṣepe vartate . tat yathā grāmam praviṣṭaḥ . asti manuṣyeṣu vartate . tat yathā . grāmaḥ gataḥ , grāmaḥ āgataḥ iti . asti sāraṇyake sasīmake sasthaṇḍilake vartate . tat yathā grāmaḥ labdhaḥ iti . tat yaḥ sāraṇyake sasīmake sasthaṇḍilake vartate tam abhisamīkṣya etat prayujyate : ekaśālaḥ grāmaḥ iti . yathā tarhi varṇasamudāyaḥ padam padasamudāyaḥ ṛk ṛksamudāyaḥ sūktam iti ucyate . bhavati ca etat ekasmin api ekavarṇam padam ekapadā ṛk ekarcam sūktam iti . atra api arthena yuktaḥ vyapadeśaḥ . padam nāma arthaḥ sūktam nama arthaḥ . yathā tarhi bahuṣu putreṣu etat upapannam : bhavati ayam me jyeṣṭhaḥ ayam eva me madhyamaḥ ayam eva me kanīyān iti . bhavati ca etat ekasmin api ayam eva me jyeṣṭhaḥ ayam me madhyamaḥ ayam me kanīyān iti . tathā asūtāyām asoṣyamāṇāyām ca bhavati prathamagarbheṇa hatā iti . tathā anetya anājigamiṣuḥ āha idam me prathamam āgamanam iti . ādyantavadbhāvaḥ ca śakyaḥ avaktum . katham . apūrvānuttaralakṣaṇatvāt ādyantayoḥ siddham ekasmin . apūrvalakṣaṇaḥ ādiḥ anuttaralakṣaṇaḥ antaḥ . etat ca ekasmin api bhavati . apūrvānuttaralakṣaṇatvāt etasmāt kāraṇāt ekasmin api ādyantāpadiṣṭani kāryāṇi bhaviṣyanti . na arthaḥ ādyantavadbhāvena . gonardīyaḥ tu āha satyam etat sati tu anyasmin iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७८।३-७९।१० रो इ,२५२-२५४ कानि पुनः अस्य योगस्य प्रयोजनानि । आदिवत्त्वे प्रयोजनम् प्रत्ययञ्निदाद्युदात्तत्वे । प्रत्ययस्य आदिः उदात्तः भवति इति इह एव स्यात् : कर्तव्यम् , तैत्तिरीयः । औपगवः , कापटवः इति अत्र न स्यात् । ञ्निति आदिः नित्यम् इति इह एव स्यात् : अहिचुम्बकायनिः , अग्निवेश्यः । गर्ग्यः , कृतिः इति अत्र न स्यात् । वलादेः आर्धधातुकस्य इट् । वलादेः आर्धधातुकस्य इट् प्रयोजनम् । आर्धधातुकस्य इट् वलादेः इह एव : स्यात् करिष्यति हरिष्यति । जोषिषत् , मनिद्षत् इति अत्र न स्यात् । यस्मिन् विधिः तदादित्वे । यस्मिन् विधिः तदादित्वे प्रयोजनम् । वक्ष्यति यस्मिन् विधिः तदादौ अल्ग्रहणे इति । तस्मिन् क्रियमाणे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इह एव स्यात् : श्रियः , भ्रुवः । श्रियौ भ्रुवौ इति अत्र न स्यात् । अजाद्याट्त्वे । अजाद्याट्त्वे प्रयोजनम् । आट् अजादीनाम् इह एव स्यात् : ऐहिष्ट , ऐक्षिष्ट । ऐत् , अध्यैष्ट इति अत्र न स्यात् । अथ अन्तवत्त्वे कानि प्रयोजनानि । अन्तवत् द्विवचनान्तप्रगृह्यत्वे । अन्तवत् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम् । ईदूदेत् द्विवचनम् प्रगृह्यम् इह एव स्यात् : पचेते* इति पचेथे* इति । खट्वे* इति माले* इति इति अत्र न स्यात् । मित् अचः अन्त्यात् परः । मित् अचः अन्त्यात् परः प्रयोजनम् । इह एव स्यात् : कुण्डानि वनानि । तानि यानि इति अत्र न स्यात् । अचः अन्त्यादि टि । अचः अन्त्यादि टि प्रयोजनम् । टितः आत्मनेपदानाम् टेः ए इति इह एव स्यात् : कुर्वाते कुर्वाथे । कुरुते कुर्वे इति अत्र न स्यात् । अलः अन्त्यस्य । अलः अन्त्यस्य प्रयोजनम् । अतः दीर्घः यञि सुपि च इह एव स्यात् : घटाभ्यम् , पटाभ्याम् । आभ्याम् इति अत्र न स्यात् । येन विदिः तदन्तत्वे । येन विदिः तदन्तत्वे प्रयोजनम् । अचः यत् इह एव स्यात् : चेयम् , जेयम् । एयम् अध्येयम् इति अत्र न स्यात् । आद्यन्तवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

KA I,78.3-79.10 Ro I,252-254 kāni punaḥ asya yogasya prayojanāni . ādivattve prayojanam pratyayañnidādyudāttatve . pratyayasya ādiḥ udāttaḥ bhavati iti iha eva syāt : kartavyam , taittirīyaḥ . aupagavaḥ , kāpaṭavaḥ iti atra na syāt . ñniti ādiḥ nityam iti iha eva syāt : ahicumbakāyaniḥ , agniveśyaḥ . gargyaḥ , kṛtiḥ iti atra na syāt . valādeḥ ārdhadhātukasya iṭ . valādeḥ ārdhadhātukasya iṭ prayojanam . ārdhadhātukasya iṭ valādeḥ iha eva : syāt kariṣyati hariṣyati . joṣiṣat , manidṣat iti atra na syāt . yasmin vidhiḥ tadāditve . yasmin vidhiḥ tadāditve prayojanam . vakṣyati yasmin vidhiḥ tadādau algrahaṇe iti . tasmin kriyamāṇe aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iha eva syāt : śriyaḥ , bhruvaḥ . śriyau bhruvau iti atra na syāt . ajādyāṭtve . ajādyāṭtve prayojanam . āṭ ajādīnām iha eva syāt : aihiṣṭa , aikṣiṣṭa . ait , adhyaiṣṭa iti atra na syāt . atha antavattve kāni prayojanāni . antavat dvivacanāntapragṛhyatve . antavat dvivacanāntapragṛhyatve prayojanam . īdūdet dvivacanam pragṛhyam iha eva syāt : pacete* iti pacethe* iti . khaṭve* iti māle* iti iti atra na syāt . mit acaḥ antyāt paraḥ . mit acaḥ antyāt paraḥ prayojanam . iha eva syāt : kuṇḍāni vanāni . tāni yāni iti atra na syāt . acaḥ antyādi ṭi . acaḥ antyādi ṭi prayojanam . ṭitaḥ ātmanepadānām ṭeḥ e iti iha eva syāt : kurvāte kurvāthe . kurute kurve iti atra na syāt . alaḥ antyasya . alaḥ antyasya prayojanam . ataḥ dīrghaḥ yañi supi ca iha eva syāt : ghaṭābhyam , paṭābhyām . ābhyām iti atra na syāt . yena vidiḥ tadantatve . yena vidiḥ tadantatve prayojanam . acaḥ yat iha eva syāt : ceyam , jeyam . eyam adhyeyam iti atra na syāt . ādyantavat ekasmin kāryam bhavati iti atra api siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,७९।१२-८०।२ रो इ,२५५-२५६ घसञ्ज्ञायाम् नदीतरे प्रतिषेधः । घसञ्ज्ञायाम् नदीतरे प्रतिषेधः वक्तव्यः । नद्याः तरः नदीतरः इति । घसञ्ज्ञायाम् नदीतरे अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । घसञ्ज्ञा कस्मात् न भवति । तरब्ग्रहणम् हि औपदेशिकम् । औपदेशिकस्य तरपः ग्रहणम् । न च एषः उपदेशे तरप्शब्दः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । इह हि व्याकरणे सर्वेषु एव सानुबन्धकेषु ग्रहणेषु रूपम् आश्रीयते : यत्र एतत् रूपम् इति । रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् । तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते । कः असौ । उपदेशः नाम । न च एषः उपदेशे तरप्शब्दः । अथ वा अस्तु अस्य घसञ्ज्ञा । कः दोषः । घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत । समानाधिकरणेषु घादिषु इति एवम् तत् । यदा तर्हि सा एव नदी सः एव तरः तदा प्राप्नोति । स्त्रीलिङ्गेषु एव घादिषु इति एवम् तत् । अवश्यम् च एतत् एवम् विज्ञेयम् । समानाधिकरणेषु घादिषु इति उच्यमाने इह प्रसज्येत महिषी रूपम् इव ब्राह्मणी रूपम् इव ।

KA I,79.12-80.2 Ro I,255-256 ghasañjñāyām nadītare pratiṣedhaḥ . ghasañjñāyām nadītare pratiṣedhaḥ vaktavyaḥ . nadyāḥ taraḥ nadītaraḥ iti . ghasañjñāyām nadītare apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . ghasañjñā kasmāt na bhavati . tarabgrahaṇam hi aupadeśikam . aupadeśikasya tarapaḥ grahaṇam . na ca eṣaḥ upadeśe tarapśabdaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . iha hi vyākaraṇe sarveṣu eva sānubandhakeṣu grahaṇeṣu rūpam āśrīyate : yatra etat rūpam iti . rūpanirgrahaḥ ca na antareṇa laukikam prayogam . tasmin ca laukike prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate . kaḥ asau . upadeśaḥ nāma . na ca eṣaḥ upadeśe tarapśabdaḥ . atha vā astu asya ghasañjñā . kaḥ doṣaḥ . ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta . samānādhikaraṇeṣu ghādiṣu iti evam tat . yadā tarhi sā eva nadī saḥ eva taraḥ tadā prāpnoti . strīliṅgeṣu eva ghādiṣu iti evam tat . avaśyam ca etat evam vijñeyam . samānādhikaraṇeṣu ghādiṣu iti ucyamāne iha prasajyeta mahiṣī rūpam iva brāhmaṇī rūpam iva .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८०।४-८२।९ रो इ,२५६-२६३ सङ्ख्यासञ्ज्ञायाम् सङ्ख्याग्रहणम् । सङ्ख्यासञ्ज्ञायाम् सङ्ख्याग्रहणम् कर्तव्यम् । बहुगण्वतुडतयः सङ्ख्यासञ्ज्ञाः भवन्ति । सङ्ख्या च सङ्ख्यासञ्ज्ञा भवति इति वक्तव्व्यम् । किम् प्रयोजनम् । सङ्ख्यासम्प्रत्ययार्थम् । एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्या इति एषः सम्प्रत्ययः यथा स्यात् । ननु च एकादिका सङ्ख्या लोके सङ्ख्या इति प्रतीता । तेन अस्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः भविष्यति । एवम् अपि कर्तव्यम् । इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके । अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्या इति सम्प्रत्ययः न स्यात् । किम् कारणम् । अकृत्रिमत्वात् । बह्वादीनाम् कृत्रिमा सञ्ज्ञा । कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः भवति यथा लोके । तत् यथा लोके गोपालकम् आनय कटजकम् आनय इति यस्य एषा सञ्ज्ञा भवति सः आनीयते न यः गाः पालयति यः वा कटे जातः । यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति नदीपौर्णमास्याग्रहायणीभ्यः इति अत्र अपि प्रसज्येत । पौर्णमास्याग्रहायणीग्रहणसामर्थ्यात् न भविष्यति । तद्विशेषेभ्यः तर्हि प्राप्नोति : गङ्गा यमुना इति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न तद्विशेषेभ्यः भवति इति यत् अयम् विपाट्शब्दम् शरत्प्रभृतिषु पठति । इह तर्हि प्राप्नोति : नदीभिः च इति । बहुवचननिर्देशात् न भविष्यति । स्वरूपविधिः तर्हि प्राप्नोति । बहुवचननिर्देशात् एव न भविष्यति । एवम् न च इदम् अकृतम् भवति कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः इति न च कः चित् दोषः । उत्तरार्थम् च । उत्तरार्थम् च सङ्ख्याग्रहणम् कर्तव्यम् । ष्णान्ता षट् । षकारनकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञा यथा स्यात् । इह मा भूत् : पामानः , विप्रुषः इति । इहार्थेन तावत् न अर्थः सङ्ख्याग्रहणेन । ननु च उक्तम् इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके इति । न एषः दोषः । अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति । अर्थः वा अस्य एवंसङ्ज्ञकेन भवति प्रकृतम् वा तत्र भवति इदम् एवंसङ्ज्ञकेन कर्तव्यम् इति। आतः च अर्थात् प्रकरणात् वा । अङ्ग हि भवान् ग्राम्यम् पांसुरपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु गोपालकम् आनय कटजकम् आनय इति । उभयगतिः तस्य भवति साधीयः वा यष्टिहस्तम् गमिष्यति । यथा एव तर्हि अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति एवम् इह अपि प्राप्नोति । जानाति हि असौ बह्वादीनाम् इयम् सञ्ज्ञा कृता इति । न यथा लोके तथा व्याकरणे । उभयगतिः पुनः इह भवति । अन्यत्र अपि न अवश्यम् इह एव । तत् यथा : कर्तुः ईप्सिततमम् कर्म इति कृत्रिमा सञ्ज्ञा । कर्मप्रदेशेषु च उभयगतिः भवति । कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम् कर्तरि कर्मव्यतिहारे इति अकृत्रिमस्य । तथा साधकतमम् करणम् इति कृत्रिमा करणसञ्ज्ञा । करणप्रदेशेषु च उभयगतिः भवति । कर्तृकरणयोः तृतीया इति कृत्रिमस्य ग्रहणम् शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे इति अकृत्रिमस्य । तथा आधारः अधिकरणम् इति कृत्रिमा अधिकरणसञ्ज्ञा । अधिकरणेप्रदेशेषु च उभयगतिः भवति । सप्तमी अधिकरणे च इति कृत्रिमस्य ग्रहणम् विप्रतिषिद्धम् च अनधिकरणवाचि इति अकृत्रिमस्य । अथ वा न इदम् सञ्ज्ञाकरणम् । तद्वदतिदेशः अयम् : बहुगणवतुडतयः सङ्ख्यावत् भवन्ति इति । सः तर्हि वतिनिर्देशः कर्तव्यः । न हि अन्तरेण वतिम् अतिदेशः गम्यते । अन्तरेण अपि वतिम् अतिदेशः गम्यते । तत् यथा : एषः ब्रह्मदत्तः । अब्रह्मदत्तम् ब्रह्मदत्तः इति आह । ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति । एवम् इह अपि असङ्ख्याम् सङ्ख्या इति आह । सङ्ख्यावत् इति गम्यते । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः इति यत् अयम् सङ्ख्यायाः अतिशदन्तायाः कन् इति तिशदन्तायाः प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । न हि कृत्रिमा त्यन्ता शदन्ता वा सङ्ख्या अस्ति । ननु च इयम् अस्ति डतिः । यत् तर्हि शदन्तायाः प्रतिषेधम् शास्ति । यत् च अपि त्यन्तायाः प्रतिषेधम् शास्ति । ननु च उक्तम् डत्यर्थम् एतत् स्यात् इति । अर्थवद्ग्रहणे न अनर्थकस्य इति अर्थवतः तिशब्दस्य ग्रहणम् । न च डतेः तिशब्दः अर्थवान्। अथ वा महती इयम् सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत् । लघ्वर्थम्

KA I,80.4-82.9 Ro I,256-263 saṅkhyāsañjñāyām saṅkhyāgrahaṇam . saṅkhyāsañjñāyām saṅkhyāgrahaṇam kartavyam . bahugaṇvatuḍatayaḥ saṅkhyāsañjñāḥ bhavanti . saṅkhyā ca saṅkhyāsañjñā bhavati iti vaktavvyam . kim prayojanam . saṅkhyāsampratyayārtham . ekādikāyāḥ saṅkhyāyāḥ saṅkhyāpradeśeṣu saṅkhyā iti eṣaḥ sampratyayaḥ yathā syāt . nanu ca ekādikā saṅkhyā loke saṅkhyā iti pratītā . tena asyāḥ saṅkhyāpradeśeṣu saṅkhyāsampratyayaḥ bhaviṣyati . evam api kartavyam . itarathā hi asampratyayaḥ akṛtrimatvāt yathā loke . akriyamāṇe hi saṅkhyāgrahaṇe ekādikāyāḥ saṅkhyāyāḥ saṅkhyā iti sampratyayaḥ na syāt . kim kāraṇam . akṛtrimatvāt . bahvādīnām kṛtrimā sañjñā . kṛtrimākṛtrimayoḥ kṛtrime kāryasampratyayaḥ bhavati yathā loke . tat yathā loke gopālakam ānaya kaṭajakam ānaya iti yasya eṣā sañjñā bhavati saḥ ānīyate na yaḥ gāḥ pālayati yaḥ vā kaṭe jātaḥ . yadi tarhi kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati nadīpaurṇamāsyāgrahāyaṇībhyaḥ iti atra api prasajyeta . paurṇamāsyāgrahāyaṇīgrahaṇasāmarthyāt na bhaviṣyati . tadviśeṣebhyaḥ tarhi prāpnoti : gaṅgā yamunā iti . evam tarhi ācāryapravṛttiḥ jñāpayati na tadviśeṣebhyaḥ bhavati iti yat ayam vipāṭśabdam śaratprabhṛtiṣu paṭhati . iha tarhi prāpnoti : nadībhiḥ ca iti . bahuvacananirdeśāt na bhaviṣyati . svarūpavidhiḥ tarhi prāpnoti . bahuvacananirdeśāt eva na bhaviṣyati . evam na ca idam akṛtam bhavati kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ iti na ca kaḥ cit doṣaḥ . uttarārtham ca . uttarārtham ca saṅkhyāgrahaṇam kartavyam . ṣṇāntā ṣaṭ . ṣakāranakārāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñā yathā syāt . iha mā bhūt : pāmānaḥ , vipruṣaḥ iti . ihārthena tāvat na arthaḥ saṅkhyāgrahaṇena . nanu ca uktam itarathā hi asampratyayaḥ akṛtrimatvāt yathā loke iti . na eṣaḥ doṣaḥ . arthāt prakaraṇāt vā loke kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati . arthaḥ vā asya evaṃsaṅjñakena bhavati prakṛtam vā tatra bhavati idam evaṃsaṅjñakena kartavyam iti. ātaḥ ca arthāt prakaraṇāt vā . aṅga hi bhavān grāmyam pāṃsurapādam aprakaraṇajñam āgatam bravītu gopālakam ānaya kaṭajakam ānaya iti . ubhayagatiḥ tasya bhavati sādhīyaḥ vā yaṣṭihastam gamiṣyati . yathā eva tarhi arthāt prakaraṇāt vā loke kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati evam iha api prāpnoti . jānāti hi asau bahvādīnām iyam sañjñā kṛtā iti . na yathā loke tathā vyākaraṇe . ubhayagatiḥ punaḥ iha bhavati . anyatra api na avaśyam iha eva . tat yathā : kartuḥ īpsitatamam karma iti kṛtrimā sañjñā . karmapradeśeṣu ca ubhayagatiḥ bhavati . karmaṇi dvitīyā iti kṛtrimasya grahaṇam kartari karmavyatihāre iti akṛtrimasya . tathā sādhakatamam karaṇam iti kṛtrimā karaṇasañjñā . karaṇapradeśeṣu ca ubhayagatiḥ bhavati . kartṛkaraṇayoḥ tṛtīyā iti kṛtrimasya grahaṇam śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe iti akṛtrimasya . tathā ādhāraḥ adhikaraṇam iti kṛtrimā adhikaraṇasañjñā . adhikaraṇepradeśeṣu ca ubhayagatiḥ bhavati . saptamī adhikaraṇe ca iti kṛtrimasya grahaṇam vipratiṣiddham ca anadhikaraṇavāci iti akṛtrimasya . atha vā na idam sañjñākaraṇam . tadvadatideśaḥ ayam : bahugaṇavatuḍatayaḥ saṅkhyāvat bhavanti iti . saḥ tarhi vatinirdeśaḥ kartavyaḥ . na hi antareṇa vatim atideśaḥ gamyate . antareṇa api vatim atideśaḥ gamyate . tat yathā : eṣaḥ brahmadattaḥ . abrahmadattam brahmadattaḥ iti āha . te manyāmahe : brahmadattavat ayam bhavati iti . evam iha api asaṅkhyām saṅkhyā iti āha . saṅkhyāvat iti gamyate . atha vā ācāryapravṛttiḥ jñāpayati bhavati ekādikāyāḥ saṅkhyāyāḥ saṅkhyāpradeśeṣu saṅkhyāsampratyayaḥ iti yat ayam saṅkhyāyāḥ atiśadantāyāḥ kan iti tiśadantāyāḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . na hi kṛtrimā tyantā śadantā vā saṅkhyā asti . nanu ca iyam asti ḍatiḥ . yat tarhi śadantāyāḥ pratiṣedham śāsti . yat ca api tyantāyāḥ pratiṣedham śāsti . nanu ca uktam ḍatyartham etat syāt iti . arthavadgrahaṇe na anarthakasya iti arthavataḥ tiśabdasya grahaṇam . na ca ḍateḥ tiśabdaḥ arthavān. atha vā mahatī iyam sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham

Sanskrit only: no published translation is held for this verse.

क्अ इ,८२।१०-८३।८ रो इ,२६३-२६५ अध्यर्धग्रहणम् च समासकन्विध्यर्थम् । अध्यर्धग्रहणम् च कर्तव्यम् । किम् प्रयोजनम् । समासकन्विध्यर्थम् । समासविध्यर्थम् कन्द्विध्यर्थम् च । समासविध्यर्थम् तावत् : अध्यर्धशूर्पम् । कन्विध्यर्थम् : अध्यर्धकम् । लुकि च अग्रहणम् । लुकि च अध्यर्धग्रहणम् न कर्तव्यम् भवति : अध्यर्धपूर्वद्विगोः लुक् असञ्ज्ञायाम् इति । द्विगोः इति एव सिद्धम् । अर्धपूर्वपदः च पूरणप्रत्ययान्तः । अर्धपूर्वपदः च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञः भवति इति वक्तव्यम् । किम् प्रयोजनम् । समासकन्विध्यर्थम् । समासविध्यर्थम् कन्द्विध्यर्थम् च । समासविध्यर्थम् तावत् : अर्धपञ्चमशूर्पम् । कन्विध्यर्थम् : अर्धपञ्चमकम् । अधिकग्रहणम् च अलुकि समासोत्तरपदवृद्ध्यर्थम् । अधिकग्रहणम् च अलुकि कर्तव्यम् । किम् प्रयोजनम् । समासोत्तरपदवृद्ध्यर्थम् । समासवृद्ध्यर्थम् उत्तरवृद्ध्यर्तम् च । समासवृद्ध्यर्थम् तावत् : अधिकषाष्ठिकः , अधिकसाप्ततिकः । उत्तरपदवृद्ध्यर्थम् अधिकषाष्ठिकः , अधिकसाप्ततिकः । अलुकि इति किम् अर्थम् । अधिकषाष्ठिकः , अधिकसाप्ततिकः । बहुव्रीहौ च अग्रहणम् । बहुव्रीहौ च अधिकशब्दस्य ग्रहणम् न कर्तव्यम् भवति : सङ्ख्यया अव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति । सङ्ख्या इति एव सिद्धम् । बह्वादीनाम् अग्रहणम् । बह्वादीनाम् ग्रहणम् शक्यम् अकर्तुम् । केन इदानीम् सङ्ख्याप्रदेशेषु सङ्ख्यसम्प्रत्ययः भविष्यति । ज्ञापकात् सिद्धम् । किम् ज्ञापकम् । यत् अयम् वतोः इट् वा इति सङ्ख्यायाः विहितस्य कनः वत्वन्तात् इटम् शास्ति । वतोः एव तत् ज्ञापकम् स्यात् । न इति आह । योगापेक्षम् ज्ञापकम् ।

KA I,82.10-83.8 Ro I,263-265 adhyardhagrahaṇam ca samāsakanvidhyartham . adhyardhagrahaṇam ca kartavyam . kim prayojanam . samāsakanvidhyartham . samāsavidhyartham kandvidhyartham ca . samāsavidhyartham tāvat : adhyardhaśūrpam . kanvidhyartham : adhyardhakam . luki ca agrahaṇam . luki ca adhyardhagrahaṇam na kartavyam bhavati : adhyardhapūrvadvigoḥ luk asañjñāyām iti . dvigoḥ iti eva siddham . ardhapūrvapadaḥ ca pūraṇapratyayāntaḥ . ardhapūrvapadaḥ ca pūraṇapratyayāntaḥ saṅkhyāsañjñaḥ bhavati iti vaktavyam . kim prayojanam . samāsakanvidhyartham . samāsavidhyartham kandvidhyartham ca . samāsavidhyartham tāvat : ardhapañcamaśūrpam . kanvidhyartham : ardhapañcamakam . adhikagrahaṇam ca aluki samāsottarapadavṛddhyartham . adhikagrahaṇam ca aluki kartavyam . kim prayojanam . samāsottarapadavṛddhyartham . samāsavṛddhyartham uttaravṛddhyartam ca . samāsavṛddhyartham tāvat : adhikaṣāṣṭhikaḥ , adhikasāptatikaḥ . uttarapadavṛddhyartham adhikaṣāṣṭhikaḥ , adhikasāptatikaḥ . aluki iti kim artham . adhikaṣāṣṭhikaḥ , adhikasāptatikaḥ . bahuvrīhau ca agrahaṇam . bahuvrīhau ca adhikaśabdasya grahaṇam na kartavyam bhavati : saṅkhyayā avyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti . saṅkhyā iti eva siddham . bahvādīnām agrahaṇam . bahvādīnām grahaṇam śakyam akartum . kena idānīm saṅkhyāpradeśeṣu saṅkhyasampratyayaḥ bhaviṣyati . jñāpakāt siddham . kim jñāpakam . yat ayam vatoḥ iṭ vā iti saṅkhyāyāḥ vihitasya kanaḥ vatvantāt iṭam śāsti . vatoḥ eva tat jñāpakam syāt . na iti āha . yogāpekṣam jñāpakam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८३।१०-८४।७ रो इ,२६५-२६९ षट्सञ्ज्ञायाम् उपदेशवचनम् । षट्सञ्ज्ञायाम् उपदेशग्रहणम् कर्तव्यम् । उपदेशे षकारनकारान्ता सङ्ख्या षट्सञ्ज्ञा भवति इति वक्तव्यम् । किम् प्रयोजनम् । शताद्यष्टनोः नुम्नुडर्थम् । शतानि सहस्राणि । नुमि कृते ष्णान्ता षट् इति षट्सञ्ज्ञा प्राप्नोति । उपदेशग्रहणात् न भवति । अष्टानाम् इति अत्र आत्वे कृते षट्सञ्ज्ञा न प्राप्नोति । उपदेशग्रहणात् भवति । उक्तम् वा । किम् उक्तम् । इह तावत् शतानि सहस्राणि इति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति । अष्टनः अपि उक्तम् । किम् उक्तम् । अष्टनः दीर्घग्रहणम् षट्सञ्ज्ञाज्ञापकम् आकारान्तस्य नुडर्थम् इति । अथ वा आकारः अपि अत्र निर्दिश्यते । षकारान्ता नकारान्ता आकारान्ता च सङ्ख्या षट्सञ्ज्ञा भवति इति । इह अपि तर्हि प्राप्नोति : सधमधः द्युम्नः एकाः तः एकाः इति । न एषः दोषः । एकशब्दः अयम् बह्वर्थः । अस्ति एव सङ्ख्यापदम् । तत् यथा : एकः , द्वौ , बहवः इति । अस्ति असहायवाची । तत् यथा : एकाग्नयः , एकहलानि , एकाकिभिः क्षुद्रकैः जितम् इति । असहायैः इति अर्थः । अस्ति अन्यार्थे वर्तते । तत् यथा : प्रजम् एका रक्षति उर्जम् एका इति । अन्या इति अर्थः । सधमदः द्युम्नः एकाः तः । अन्याः इति अर्थः । तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः । इह तर्हि प्राप्नोति : द्वभ्याम् इष्टये विंशत्य च इति । एवम् तर्हि सप्तमे योगविभागः करिष्यते । अष्टाभ्यः औश् । ततः षड्भ्यः : षड्भ्यः च यत् उक्तम् अष्टाभ्यः अपि तत् भवति । ततः लुक् : लुक् च भवति षड्भ्यः इति । अथ वा उपरिष्टात् योगविभागः करिष्यते । अष्टनः आ विभक्तौ । ततः रायः : रायः च विभक्तौ आकारादेशः भवति । हलि इति उभयोः शेषः । यदि एवम् प्रियाष्टौ प्रियाष्टाः इति न सिध्यति प्रियाष्टानौ प्रियाष्टानः इति च प्राप्नोति । यथालक्षणम् अप्रयुक्ते ।

KA I,83.10-84.7 Ro I,265-269 ṣaṭsañjñāyām upadeśavacanam . ṣaṭsañjñāyām upadeśagrahaṇam kartavyam . upadeśe ṣakāranakārāntā saṅkhyā ṣaṭsañjñā bhavati iti vaktavyam . kim prayojanam . śatādyaṣṭanoḥ numnuḍartham . śatāni sahasrāṇi . numi kṛte ṣṇāntā ṣaṭ iti ṣaṭsañjñā prāpnoti . upadeśagrahaṇāt na bhavati . aṣṭānām iti atra ātve kṛte ṣaṭsañjñā na prāpnoti . upadeśagrahaṇāt bhavati . uktam vā . kim uktam . iha tāvat śatāni sahasrāṇi iti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . aṣṭanaḥ api uktam . kim uktam . aṣṭanaḥ dīrghagrahaṇam ṣaṭsañjñājñāpakam ākārāntasya nuḍartham iti . atha vā ākāraḥ api atra nirdiśyate . ṣakārāntā nakārāntā ākārāntā ca saṅkhyā ṣaṭsañjñā bhavati iti . iha api tarhi prāpnoti : sadhamadhaḥ dyumnaḥ ekāḥ taḥ ekāḥ iti . na eṣaḥ doṣaḥ . ekaśabdaḥ ayam bahvarthaḥ . asti eva saṅkhyāpadam . tat yathā : ekaḥ , dvau , bahavaḥ iti . asti asahāyavācī . tat yathā : ekāgnayaḥ , ekahalāni , ekākibhiḥ kṣudrakaiḥ jitam iti . asahāyaiḥ iti arthaḥ . asti anyārthe vartate . tat yathā : prajam ekā rakṣati urjam ekā iti . anyā iti arthaḥ . sadhamadaḥ dyumnaḥ ekāḥ taḥ . anyāḥ iti arthaḥ . tat yaḥ anyārthe vartate tasya eṣaḥ prayogaḥ . iha tarhi prāpnoti : dvabhyām iṣṭaye viṃśatya ca iti . evam tarhi saptame yogavibhāgaḥ kariṣyate . aṣṭābhyaḥ auś . tataḥ ṣaḍbhyaḥ : ṣaḍbhyaḥ ca yat uktam aṣṭābhyaḥ api tat bhavati . tataḥ luk : luk ca bhavati ṣaḍbhyaḥ iti . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . aṣṭanaḥ ā vibhaktau . tataḥ rāyaḥ : rāyaḥ ca vibhaktau ākārādeśaḥ bhavati . hali iti ubhayoḥ śeṣaḥ . yadi evam priyāṣṭau priyāṣṭāḥ iti na sidhyati priyāṣṭānau priyāṣṭānaḥ iti ca prāpnoti . yathālakṣaṇam aprayukte .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८४।९-१२ रो इ,२६९ इदम् डतिग्रहणम् द्विः क्रियते सङ्ख्यासञ्ज्ञायाम् षट्सञ्ज्ञायाम् च । एकम् शक्यम् अकर्तुम् । कथम् । यदि तावत् सङ्ख्यासञ्ज्ञायाम् क्रियते षट्सञ्ज्ञायाम् न करिष्यते । कथम् । ष्णान्ता षट् इति अत्र डति इति अनुवर्तिष्यते । अथ षट्सञ्ज्ञायाम् क्रियते सङ्ख्यासञ्ज्ञायाम् न करिष्यते । डति च इति अत्र सङ्ख्यासञ्ज्ञा अनुवर्तिष्यते ।

KA I,84.9-12 Ro I,269 idam ḍatigrahaṇam dviḥ kriyate saṅkhyāsañjñāyām ṣaṭsañjñāyām ca . ekam śakyam akartum . katham . yadi tāvat saṅkhyāsañjñāyām kriyate ṣaṭsañjñāyām na kariṣyate . katham . ṣṇāntā ṣaṭ iti atra ḍati iti anuvartiṣyate . atha ṣaṭsañjñāyām kriyate saṅkhyāsañjñāyām na kariṣyate . ḍati ca iti atra saṅkhyāsañjñā anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८४।१४-८५।१७ रो इ,२७०-२७२ निष्ठासञ्ज्ञायाम् समानशब्दप्रतिषेधः । निष्ठासञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः कर्तव्यः । लोतः गर्तः इति । निष्ठासञ्ज्ञायाम् समानशब्दाप्रतिषेधः । निष्ठासञ्ज्ञायाम् समानशब्दप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । निष्ठासञ्ज्ञा कस्मात् न भवति । अनुबन्धः अन्यत्वकरः । अनुबन्धः क्रियते । सः अन्यत्वम् करिष्यति । अनुबन्धः अन्यत्वकरः इति चेत् न लोपात् । अनुबन्धः अन्यत्वकरः इति चेत् तत् न । किम् कारणम् । लोपात् । लुप्यते अत्र अनुबन्धः । लुप्ते अत्र अनुबन्धे न अन्यत्वम् भविष्यति । तत् यथा : कतरत् देवदत्तस्य गृहम् । अदः यत्र असौ काकः इति । उत्पतिते काके नष्टम् तत् गृहम् भवति । एवम् इह अपि लुप्ते अनुबन्धे नष्टः प्रत्ययः भवति । यदि अपि लुप्यते जानाति तु असौ सानुबन्धकस्य इयम् सञ्ज्ञा कृता इति । तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् । अदः यत्र असौ काकः इति । उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति । सिद्धविपर्यासः च । सिद्धः च विपर्यासः । यदि अपि जानाति सन्देहः तस्य भवति : अयम् सः तशब्दः लोतः गर्तः इति अयम् सः तशब्दः लूनः गीर्णः इति । तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् । अदः यत्र असौ काकः इति । उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति । सन्देहः तु तस्य भवति : इदम् तत् गृहम् इदम् तत् गृहम् इति । एवम् तर्हि । कारककालविशेषात् सिद्धम् । कारककालविशेषौ उपादेयौ । भूते यः तशब्दः कर्तरि कर्मणि भावे च इति । तत् यथा इतरत्र अपि । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः अध्रुवेण निमित्तेन ध्रुवम् निमित्तम् उपादत्ते वेदिकाम् पुण्डरीकम् वा । एवम् अपि प्राकीर्ष्ट इति अत्र प्राप्नोति । लुङि सिजादिदर्शनात् । लुङि सिजादिदर्शनात् न भविष्यति । यत्र तर्हि सिजादयः न दृश्यन्ते प्राभित्त इति । दृश्यन्ते अत्र अपि सिजादयः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । यथा एव अयम् अनुपदिष्टान् कारककालविशेषान् अवगच्छति एवम् एतत् अपि अवगन्तुम् अर्हति : यत्र सिजादयः न इति ।

KA I,84.14-85.17 Ro I,270-272 niṣṭhāsañjñāyām samānaśabdapratiṣedhaḥ . niṣṭhāsañjñāyām samānaśabdānām pratiṣedhaḥ kartavyaḥ . lotaḥ gartaḥ iti . niṣṭhāsañjñāyām samānaśabdāpratiṣedhaḥ . niṣṭhāsañjñāyām samānaśabdapratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . niṣṭhāsañjñā kasmāt na bhavati . anubandhaḥ anyatvakaraḥ . anubandhaḥ kriyate . saḥ anyatvam kariṣyati . anubandhaḥ anyatvakaraḥ iti cet na lopāt . anubandhaḥ anyatvakaraḥ iti cet tat na . kim kāraṇam . lopāt . lupyate atra anubandhaḥ . lupte atra anubandhe na anyatvam bhaviṣyati . tat yathā : katarat devadattasya gṛham . adaḥ yatra asau kākaḥ iti . utpatite kāke naṣṭam tat gṛham bhavati . evam iha api lupte anubandhe naṣṭaḥ pratyayaḥ bhavati . yadi api lupyate jānāti tu asau sānubandhakasya iyam sañjñā kṛtā iti . tat yathā itaratra api : katarat devadattasya gṛham . adaḥ yatra asau kākaḥ iti . utpatite kāke yadi api naṣṭam tat gṛham bhavati antataḥ tam uddeśam jānāti . siddhaviparyāsaḥ ca . siddhaḥ ca viparyāsaḥ . yadi api jānāti sandehaḥ tasya bhavati : ayam saḥ taśabdaḥ lotaḥ gartaḥ iti ayam saḥ taśabdaḥ lūnaḥ gīrṇaḥ iti . tat yathā itaratra api : katarat devadattasya gṛham . adaḥ yatra asau kākaḥ iti . utpatite kāke yadi api naṣṭam tat gṛham bhavati antataḥ tam uddeśam jānāti . sandehaḥ tu tasya bhavati : idam tat gṛham idam tat gṛham iti . evam tarhi . kārakakālaviśeṣāt siddham . kārakakālaviśeṣau upādeyau . bhūte yaḥ taśabdaḥ kartari karmaṇi bhāve ca iti . tat yathā itaratra api . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ adhruveṇa nimittena dhruvam nimittam upādatte vedikām puṇḍarīkam vā . evam api prākīrṣṭa iti atra prāpnoti . luṅi sijādidarśanāt . luṅi sijādidarśanāt na bhaviṣyati . yatra tarhi sijādayaḥ na dṛśyante prābhitta iti . dṛśyante atra api sijādayaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . yathā eva ayam anupadiṣṭān kārakakālaviśeṣān avagacchati evam etat api avagantum arhati : yatra sijādayaḥ na iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८६।२-८ रो इ,२७३-२७४ सर्वादीनि इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । सर्वशब्दः आदिः येषाम् तानि इमानि इति । यदि एवम् सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति । किम् कारणम् । अन्यपदार्थत्वात् बहुव्रीहेः । बहुव्रीहिः अयम् अन्यपदार्थे वर्तते । तेन यत् अन्यत् सर्वशब्दात् तस्य सर्वनामस्ञ्ज्ञा प्राप्नोति । तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः भवन्ति स आनीयते न गावः । न एषः दोषः । भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि । तत् यथा : चित्रवासम् आनय । लोहितोष्णीषाः ऋत्विजः प्रचरन्ति । तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

KA I,86.2-8 Ro I,273-274 sarvādīni iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . sarvaśabdaḥ ādiḥ yeṣām tāni imāni iti . yadi evam sarvaśabdasya sarvanāmasañjñā na prāpnoti . kim kāraṇam . anyapadārthatvāt bahuvrīheḥ . bahuvrīhiḥ ayam anyapadārthe vartate . tena yat anyat sarvaśabdāt tasya sarvanāmasñjñā prāpnoti . tat yathā citraguḥ ānīyatām iti ukte yasya tāḥ gāvaḥ bhavanti sa ānīyate na gāvaḥ . na eṣaḥ doṣaḥ . bhavati bahuvrīhau tadguṇasaṃvijñānam api . tat yathā : citravāsam ānaya . lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti . tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८६।९-८७।६ रो इ,२७४-२७७ इह सर्वनामानि इति पूर्वपदात् सञ्ज्ञायाम् अगः इति णत्वम् प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः । सर्वनामसञ्ज्ञायाम् निपातनात् णत्वम् न भविष्यति । किम् एतत् निपातनम् नाम । अथ कः प्रतिषेधः नाम । अविशेषेण किम् चित् उक्त्वा विशेषेण न इति उच्यते । तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति । निपातनम् अपि एवञ्जातीयकम् एव । अविशेषेण णत्वम् उक्त्वा विशेषेण निपातनम् क्रियते । तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति । ननु च निपातनात् च अणत्वम् स्यात् यथाप्राप्तम् च णत्वम् । किम् अन्ये अपि एवम् विधयः भवन्ति । इह इकः यण् अचि इति वचनात् च यण् स्यात् यथाप्राप्तः च इक् श्रूयेत । न एषः दोषः । अस्ति अत्र विशेषः । षष्ठ्या अत्र निर्देशः क्रियते । षष्ठी च पुनः स्थानिनम् निवर्तयति । इह तर्हि : कर्तरि शप् दिवादिभ्यः श्यन् इति वचनात् च श्यन् स्यात् यथाप्राप्तः च शप् श्रूयेत । न एषः दोषः । शबादेशाः श्यनादयः करिष्यन्ते । तत् तर्हि शपः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । कर्तरि शप् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मात् इति उत्तरस्य । प्रत्ययविधिः अयम् । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । इह तर्हि : अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति । वचनात् च अकच् स्यात् यथाप्राप्तः च कः श्रूयेत । न एषः दोषः । न अप्राप्ते हि के अकच् आरभ्यते । सः बाधकः भविष्यति । निपातनम् अपि एवञ्जातीयकम् एव । न अप्राप्ते णत्वे निपातनम् आरभ्यते । तत् बाधकम् भविष्यति । यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति समः तते दोषः भवति । इह अन्ये वैयाकरणाः समः तते विभाषा लोपम् आरभन्ते : समः हि ततयोः वा इति । सततम् , सन्ततम् , सहितम् , संहितम् इति । इह पुनः भवान् निपातनात् च मलोपम् इच्छति अपरस्पराः क्रियासातत्ये इति यथाप्राप्तम् च अलोपम् सन्ततम् इति । एतत् न सिध्यति । कर्तव्यः अत्र यत्नः । बाधकानि एव हि निपातनानि भवन्ति ।

KA I,86.9-87.6 Ro I,274-277 iha sarvanāmāni iti pūrvapadāt sañjñāyām agaḥ iti ṇatvam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ . sarvanāmasañjñāyām nipātanāt ṇatvam na bhaviṣyati . kim etat nipātanam nāma . atha kaḥ pratiṣedhaḥ nāma . aviśeṣeṇa kim cit uktvā viśeṣeṇa na iti ucyate . tatra vyaktam ācāryasya abhiprāyaḥ gamyate : idam na bhavati iti . nipātanam api evañjātīyakam eva . aviśeṣeṇa ṇatvam uktvā viśeṣeṇa nipātanam kriyate . tatra vyaktam ācāryasya abhiprāyaḥ gamyate : idam na bhavati iti . nanu ca nipātanāt ca aṇatvam syāt yathāprāptam ca ṇatvam . kim anye api evam vidhayaḥ bhavanti . iha ikaḥ yaṇ aci iti vacanāt ca yaṇ syāt yathāprāptaḥ ca ik śrūyeta . na eṣaḥ doṣaḥ . asti atra viśeṣaḥ . ṣaṣṭhyā atra nirdeśaḥ kriyate . ṣaṣṭhī ca punaḥ sthāninam nivartayati . iha tarhi : kartari śap divādibhyaḥ śyan iti vacanāt ca śyan syāt yathāprāptaḥ ca śap śrūyeta . na eṣaḥ doṣaḥ . śabādeśāḥ śyanādayaḥ kariṣyante . tat tarhi śapaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . kartari śap iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati : tasmāt iti uttarasya . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . iha tarhi : avyayasarvanāmnām akac prāk ṭeḥ iti . vacanāt ca akac syāt yathāprāptaḥ ca kaḥ śrūyeta . na eṣaḥ doṣaḥ . na aprāpte hi ke akac ārabhyate . saḥ bādhakaḥ bhaviṣyati . nipātanam api evañjātīyakam eva . na aprāpte ṇatve nipātanam ārabhyate . tat bādhakam bhaviṣyati . yadi tarhi nipātanāni api evañjātīyakāni bhavanti samaḥ tate doṣaḥ bhavati . iha anye vaiyākaraṇāḥ samaḥ tate vibhāṣā lopam ārabhante : samaḥ hi tatayoḥ vā iti . satatam , santatam , sahitam , saṃhitam iti . iha punaḥ bhavān nipātanāt ca malopam icchati aparasparāḥ kriyāsātatye iti yathāprāptam ca alopam santatam iti . etat na sidhyati . kartavyaḥ atra yatnaḥ . bādhakāni eva hi nipātanāni bhavanti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८७।७-८९।३ रो इ,२७८-२८५ सञ्ज्ञोपसर्जनप्रतिषेधः । सञ्ज्ञोपसर्जनीभूतानाम् सर्वादीनाम् प्रतिषेधः वक्तव्यः । सर्वः नाम कः चित् । तस्मै सर्वाय देहि । अतिसर्वाय देहि । सः कथम् कर्तव्यः । पाठात् पर्युदासः पठितानाम् सञ्ज्ञाकरणम् । पाठात् एव पर्युदासः कर्तव्यः । शुद्धानाम् पठितानाम् सञ्ज्ञा कर्तव्या । सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति । सञ्ज्ञोपसर्जनीभूतानि न सर्वादीनि । किम् अविशेषेण । न इति आह । विशेषेण च । किम् प्रयोजनम् । सर्वाद्यानन्तर्यकार्यार्थम् । सर्वादीनाम् आनन्तर्येण यत् उच्यते कार्यम् तत् अपि सञ्ज्ञोपसर्जनीभूतानाम् मा भूत् इति । किम् प्रयोजनम् । प्रयोजनम् डतरादीनाम् अद्भावे । डतरादीनाम् अद्भावे प्रयोजनम् । अतिक्रान्तम् इदम् बृआह्मणकुलम् कतरत् , अतिकतरम् ब्राह्मणकुलम् इति । त्यदादिविधौ च । त्यदादिविधौ च प्रयोजनम् । अतिक्रान्तः अयम् ब्राह्मणः तम् अतितत् ब्राह्मणः इति । सञ्जाप्रतिषेधः तावत् न वक्तव्यः । उपरिष्टात् योगविभागः करिष्यते । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् । ततः असञ्ज्ञायाम् इति । सर्वादीनि इति एवम् यानि अनुक्रान्तानि असञ्ज्ञायाम् तानि द्रष्टव्यानि । उपसर्जनप्रतिषेधः च न कर्तव्यः । अनुपसर्जनात् इति एषः योगः प्रत्याख्यायते । तम् एवम् अभिसम्भन्त्स्यामः : अनुपसर्जन* अ* अत् इति । किम् इदम् अ* अत् इति । अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ । यदि एवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति । प्रश्लिष्टनिर्देशः अयम् : अनुपसर्जन* अ* अ* अत् इति । अकारान्तात् अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ । अथ वा अङ्गाधिकारे यत् उच्यते गृह्यमाणविभक्तेः तत् भवति । यदि एवम् परमपञ्च परमसप्त षड्भ्यः लुक् इति लुक् न प्राप्नोति । न एषः दोषः । षट्प्रधानः एषः समासः । इह तर्हि प्रियसक्थ्ना ब्राह्मणेन अनङ् न प्राप्नोति । सप्तमीनिर्दिष्टे यत् उच्यते प्रकृतविभक्तौ तत् भवति । यदि एवम् अतितत् , अतितदौ , अतितदः इति अत्वम् प्राप्नोति । तत् च अपि वक्तव्यम् । न वक्तव्यम् । इह तावत् अद्ड् डतरादिभ्यः पञ्चभ्यः इति पञ्चमी अङ्गस्य इति षष्ठी । तत्र अशक्यम् विविभक्तित्वात् डतरादिभ्यः इति पञ्चम्या अङ्गम् विशेषयितुम् । तत्र किम् अन्यत् शक्यम् विशेषयितुम् अन्यत् अतः विहितात् प्रत्ययात् । डतरादिभ्यः यः विहितः इति । इह इदानीम् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति त्यदादीनाम् अः भवति इति अस्थ्यादीनाम् इति एषा षष्ठी अङ्गस्य इति अपि त्यदादीनाम् इति अपि षष्ठी अङ्गस्य इति अपि । तत्र कामचारः : गृह्यमाणेन वा विभक्तिम् विशेषयितुम् अङ्गेन वा । यावता कामचारः इह तावत् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति अङ्गेन विभक्तिम् विशेषयिष्यामः अस्थ्यादिभिः अनङम् : अङ्गस्य विभक्तौ अनङ् भवति अस्थ्यादीनाम् इति । इह इदानीम् त्यदादीनाम् अः भवति इति गृह्यमाणेन विभक्तिम् विशेषयिष्यामः अङ्गेन अकारम् : त्यदादीनाम् विभक्तौ अः भवति अङ्गस्य इति । यदि एवम् अतिसः : अत्वम् न प्राप्नोति । न एषः दोषः । त्यदादिप्रधानः एषः समासः । अथ वा न इदम् सञ्ज्ञाकरणम् । पाठविशेषणम् इदम् : सर्वेषाम् यानि नामानि तानि सर्वादीनि । सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते । यदि एवम् सञ्ज्ञाश्रयम् यत् कार्यम् तत् न सिध्यति : सर्वनाम्नः स्मै , आमि सर्वनाम्नः सुट् इति । अन्वर्थग्रहणम् तत्र विज्ञास्यते : सर्वेषाम् यत् नाम तत् सर्वनाम । सर्वनाम्नः उत्तरस्य ङेः स्मै भवति । सर्वनाम्नः उत्तरस्य आमः सुट् भवति । यदि एवम् सकलम् , कृत्स्नम् , जगत् इति अत्र अपि प्राप्नोति । एतेषाम् च अपि शब्दानाम् एकैकस्य सः सः विषयः । तस्मिन् तस्मिन् विषये यः यः शब्दः वर्तते तस्य तस्य तस्मिन् तस्मिन् वर्तमानस्य सर्वनामकार्यम् प्राप्नोति । एवम् तर्हि उभयम् अनेन क्रियते । पाठः च एव विशेष्यते सञ्ज्ञा च । कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् । लभ्यम् इति आह । कथम्। एकशेषनिर्देशात् । एकशेषनिर्देशः अयम् : सर्वादीनि च सर्वादीनि च सर्वादीनि । सर्वनामानि च सर्वनामानि च सर्वनामानि । सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति । सर्वेषाम् यानि च नामानि तानि सर्वादीनि ।

KA I,87.7-89.3 Ro I,278-285 sañjñopasarjanapratiṣedhaḥ . sañjñopasarjanībhūtānām sarvādīnām pratiṣedhaḥ vaktavyaḥ . sarvaḥ nāma kaḥ cit . tasmai sarvāya dehi . atisarvāya dehi . saḥ katham kartavyaḥ . pāṭhāt paryudāsaḥ paṭhitānām sañjñākaraṇam . pāṭhāt eva paryudāsaḥ kartavyaḥ . śuddhānām paṭhitānām sañjñā kartavyā . sarvādīni sarvanāmasañjñāni bhavanti . sañjñopasarjanībhūtāni na sarvādīni . kim aviśeṣeṇa . na iti āha . viśeṣeṇa ca . kim prayojanam . sarvādyānantaryakāryārtham . sarvādīnām ānantaryeṇa yat ucyate kāryam tat api sañjñopasarjanībhūtānām mā bhūt iti . kim prayojanam . prayojanam ḍatarādīnām adbhāve . ḍatarādīnām adbhāve prayojanam . atikrāntam idam bṛāhmaṇakulam katarat , atikataram brāhmaṇakulam iti . tyadādividhau ca . tyadādividhau ca prayojanam . atikrāntaḥ ayam brāhmaṇaḥ tam atitat brāhmaṇaḥ iti . sañjāpratiṣedhaḥ tāvat na vaktavyaḥ . upariṣṭāt yogavibhāgaḥ kariṣyate . pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām . tataḥ asañjñāyām iti . sarvādīni iti evam yāni anukrāntāni asañjñāyām tāni draṣṭavyāni . upasarjanapratiṣedhaḥ ca na kartavyaḥ . anupasarjanāt iti eṣaḥ yogaḥ pratyākhyāyate . tam evam abhisambhantsyāmaḥ : anupasarjana* a* at iti . kim idam a* at iti . akārātkārau śiṣyamāṇau anupasarjanasya draṣṭavyau . yadi evam atiyuṣmat atyasmat iti na sidhyati . praśliṣṭanirdeśaḥ ayam : anupasarjana* a* a* at iti . akārāntāt akārātkārau śiṣyamāṇau anupasarjanasya draṣṭavyau . atha vā aṅgādhikāre yat ucyate gṛhyamāṇavibhakteḥ tat bhavati . yadi evam paramapañca paramasapta ṣaḍbhyaḥ luk iti luk na prāpnoti . na eṣaḥ doṣaḥ . ṣaṭpradhānaḥ eṣaḥ samāsaḥ . iha tarhi priyasakthnā brāhmaṇena anaṅ na prāpnoti . saptamīnirdiṣṭe yat ucyate prakṛtavibhaktau tat bhavati . yadi evam atitat , atitadau , atitadaḥ iti atvam prāpnoti . tat ca api vaktavyam . na vaktavyam . iha tāvat adḍ ḍatarādibhyaḥ pañcabhyaḥ iti pañcamī aṅgasya iti ṣaṣṭhī . tatra aśakyam vivibhaktitvāt ḍatarādibhyaḥ iti pañcamyā aṅgam viśeṣayitum . tatra kim anyat śakyam viśeṣayitum anyat ataḥ vihitāt pratyayāt . ḍatarādibhyaḥ yaḥ vihitaḥ iti . iha idānīm asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti tyadādīnām aḥ bhavati iti asthyādīnām iti eṣā ṣaṣṭhī aṅgasya iti api tyadādīnām iti api ṣaṣṭhī aṅgasya iti api . tatra kāmacāraḥ : gṛhyamāṇena vā vibhaktim viśeṣayitum aṅgena vā . yāvatā kāmacāraḥ iha tāvat asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti aṅgena vibhaktim viśeṣayiṣyāmaḥ asthyādibhiḥ anaṅam : aṅgasya vibhaktau anaṅ bhavati asthyādīnām iti . iha idānīm tyadādīnām aḥ bhavati iti gṛhyamāṇena vibhaktim viśeṣayiṣyāmaḥ aṅgena akāram : tyadādīnām vibhaktau aḥ bhavati aṅgasya iti . yadi evam atisaḥ : atvam na prāpnoti . na eṣaḥ doṣaḥ . tyadādipradhānaḥ eṣaḥ samāsaḥ . atha vā na idam sañjñākaraṇam . pāṭhaviśeṣaṇam idam : sarveṣām yāni nāmāni tāni sarvādīni . sañjñopasarjane ca viśeṣe avatiṣṭhete . yadi evam sañjñāśrayam yat kāryam tat na sidhyati : sarvanāmnaḥ smai , āmi sarvanāmnaḥ suṭ iti . anvarthagrahaṇam tatra vijñāsyate : sarveṣām yat nāma tat sarvanāma . sarvanāmnaḥ uttarasya ṅeḥ smai bhavati . sarvanāmnaḥ uttarasya āmaḥ suṭ bhavati . yadi evam sakalam , kṛtsnam , jagat iti atra api prāpnoti . eteṣām ca api śabdānām ekaikasya saḥ saḥ viṣayaḥ . tasmin tasmin viṣaye yaḥ yaḥ śabdaḥ vartate tasya tasya tasmin tasmin vartamānasya sarvanāmakāryam prāpnoti . evam tarhi ubhayam anena kriyate . pāṭhaḥ ca eva viśeṣyate sañjñā ca . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham. ekaśeṣanirdeśāt . ekaśeṣanirdeśaḥ ayam : sarvādīni ca sarvādīni ca sarvādīni . sarvanāmāni ca sarvanāmāni ca sarvanāmāni . sarvādīni sarvanānasañjñāni bhavanti . sarveṣām yāni ca nāmāni tāni sarvādīni .

Sanskrit only: no published translation is held for this verse.

क्अ इ,८९।४-९०।३ रो इ,२८६-२८९ अथ उभस्य सर्वनामत्वे कः अर्थः । उभस्य सर्वनामत्वे अकजर्थः । उभस्य सर्वनामत्वे अकजर्थः पाठः क्रियते : उभकौ । किम् उच्यते अकजर्थः इति न पुनः अन्यानि अपि सर्वनामकार्याणि । अन्याभावः द्विवचनटाब्विषयत्वात् । अन्येषाम् सर्वनाम्कार्याणाम् अभावः । किम् कारणम् । द्विवचनटाब्विषयत्वात् । उभशब्दः अयम् द्विवचनटाब्विषयः । अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषु उच्यन्ते । यदा पुनः अयम् उभशब्दः द्विवचनटाब्विषयः कः इदानीम् अस्य अन्यत्र भवति । उभयः अन्यत्र । उभयशब्दः अस्य अन्यत्र बह्वति । उभये देवमनुष्याः , उभयः मणिः इति । किम् च स्यात् यदि अत्र अकच् न स्यात् । कः प्रसज्येत । कः च इदानीम् काकचोः विशेषः । उभशब्दः अयम् द्विवचनटाब्विषयः इति उक्तम् । तत्र अकचि सति अकचः तन्मध्यपतितत्वात् शक्यते एतत् वक्तुम् : द्विवचनपरः अयम् इति । के पुनः सति न अयम् द्विवचनपरः स्यात् । तत्र द्विवचनपरता वक्तव्या । यथा एव तर्हि के सति न अयम् द्विवचनपरः एवम् आपि अपि सति न अयम् द्विवचनपरः स्यात् । तत्र अपि द्विवचनपरता वक्तव्या । अवचनात् अपि तत्परविज्ञानम् । अन्तरेण अपि वचनम् आपि द्विवचनपरः अयम् भविष्यति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । एकादेशे कृते द्विवचनपरः अयम् अन्तादिवद्भावेन । अवचनात् आपि तत्परविज्ञानम् इति चेत् के अपि तुल्यम् । अवचनात् आपि तत्परविज्ञानम् इति चेत् के अपि अन्तरेण वचनम् द्विवचनपरः भविष्यति । कथम् । स्वार्थिकाः प्रत्ययाः प्रकृतितः अविशिष्टाः भवन्ति इति प्रकृतिग्रहणेन स्वार्थिकानाम् अपि ग्रहणम् भवति । अथ भवतः सर्वनामत्वे कानि प्रोजनानि । भवतः अकच्छेषात्वानि । भवतः अकच्छेषात्वानि प्रयोजनानि । अकच् : भवकान् । शेषः : सः च भवान् च भवन्तौ । आत्वम् : भवादृक् इति । किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् । उदाहरणमात्रम् इति आह । तृतीयादयः अपि हि इष्यन्ते । सर्वनाम्नः तृतीया च : भवता हेतुना , भवतः हेतोः इति ।

KA I,89.4-90.3 Ro I,286-289 atha ubhasya sarvanāmatve kaḥ arthaḥ . ubhasya sarvanāmatve akajarthaḥ . ubhasya sarvanāmatve akajarthaḥ pāṭhaḥ kriyate : ubhakau . kim ucyate akajarthaḥ iti na punaḥ anyāni api sarvanāmakāryāṇi . anyābhāvaḥ dvivacanaṭābviṣayatvāt . anyeṣām sarvanāmkāryāṇām abhāvaḥ . kim kāraṇam . dvivacanaṭābviṣayatvāt . ubhaśabdaḥ ayam dvivacanaṭābviṣayaḥ . anyāni ca sarvanāmakāryāṇi ekavacanabahuvacaneṣu ucyante . yadā punaḥ ayam ubhaśabdaḥ dvivacanaṭābviṣayaḥ kaḥ idānīm asya anyatra bhavati . ubhayaḥ anyatra . ubhayaśabdaḥ asya anyatra bahvati . ubhaye devamanuṣyāḥ , ubhayaḥ maṇiḥ iti . kim ca syāt yadi atra akac na syāt . kaḥ prasajyeta . kaḥ ca idānīm kākacoḥ viśeṣaḥ . ubhaśabdaḥ ayam dvivacanaṭābviṣayaḥ iti uktam . tatra akaci sati akacaḥ tanmadhyapatitatvāt śakyate etat vaktum : dvivacanaparaḥ ayam iti . ke punaḥ sati na ayam dvivacanaparaḥ syāt . tatra dvivacanaparatā vaktavyā . yathā eva tarhi ke sati na ayam dvivacanaparaḥ evam āpi api sati na ayam dvivacanaparaḥ syāt . tatra api dvivacanaparatā vaktavyā . avacanāt api tatparavijñānam . antareṇa api vacanam āpi dvivacanaparaḥ ayam bhaviṣyati . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ekādeśe kṛte dvivacanaparaḥ ayam antādivadbhāvena . avacanāt āpi tatparavijñānam iti cet ke api tulyam . avacanāt āpi tatparavijñānam iti cet ke api antareṇa vacanam dvivacanaparaḥ bhaviṣyati . katham . svārthikāḥ pratyayāḥ prakṛtitaḥ aviśiṣṭāḥ bhavanti iti prakṛtigrahaṇena svārthikānām api grahaṇam bhavati . atha bhavataḥ sarvanāmatve kāni projanāni . bhavataḥ akaccheṣātvāni . bhavataḥ akaccheṣātvāni prayojanāni . akac : bhavakān . śeṣaḥ : saḥ ca bhavān ca bhavantau . ātvam : bhavādṛk iti . kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram . udāharaṇamātram iti āha . tṛtīyādayaḥ api hi iṣyante . sarvanāmnaḥ tṛtīyā ca : bhavatā hetunā , bhavataḥ hetoḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९०।५-२६ रो इ,२८९-२९१ दिग्ग्रहणम् किमर्थम् । न बहुव्रीहौ इति प्रतिषेधम् वक्ष्यति । तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेधः इति । दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति । दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः । अथ समासग्रहणम् किमर्थम्। समासः एव यः बहुव्रीहिः तत्र यथा स्यात् । बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : दक्षिणदक्षिणस्यै देहि इति । अथ बहुव्रीहिग्रहणम् किमर्थम् । द्वन्द्वे मा भूत् दक्षिणोत्तरपूर्वाणाम् इति । न एतत् अस्ति प्रयोजनम् । द्वन्द्वे च इति प्रतिषेधः भविष्यति । न अप्राप्ते प्रतिषेधे इयम् परिभाषा आरभ्यते । सा यथा एव बहुव्रीहौ इति एतम् प्रतिषेधम् बाधते एवम् द्वन्द्वे च इति एतम् अपि बाधेत । न बाधते । किम् कारणम् । येन न अप्राप्ते तस्य बाधनम् भवति । न च अप्राप्ते न बहुव्रीहौ इति एतस्मिन् प्रतिषेधे इयम् परिभाषा आरभ्यते । द्वन्द्वे च इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च । अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इयम् विभाषा न बहुव्रीहौ इति एतम् प्रतिषेधम् बाधिष्यते द्वन्द्वे च इति एतम् प्रतिषेधम् न बाधिष्यते । अथ वा इदम् तावत् अयम् प्रष्टव्यः । इह कस्मात् न भवति : या पूर्वा सा उत्तरा अस्य उन्मुग्धस्य सः अयम् पूर्वोत्तरः उन्मुग्धः , तस्मै पूर्वोत्तराय देहि । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । यदि एवम् न अर्थः बहुव्रीहिग्रहणेन । द्वन्द्वे कस्मात् न भवति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । उत्तरार्थम् तर्हि बहुव्रीहिग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते तत्र एव बहुव्रीहौ इति । द्वितीयम् कर्तव्यम् । बहुव्रीहिः एव यः बहुव्रीहिः तत्र यथा स्यात् । बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : एकैकस्मै देहि । एतत् अपि न अस्ति प्रयोजनम्। समासे इति वर्तते । तेन बहुव्रीहिम् विशेषयिष्यामः : समासः यः बहुव्रीहिः इति । इदम् तर्हि प्रयोजनम् । अवयवभूतस्य अपि बहुव्रीहेः प्रतिषेधः यथा स्यात् । इह मा भूत् वस्त्रम् अन्तरम् एषाम् ते इमे वस्त्रान्तराः वसनम् अन्तरम् एषाम् ते इमे वसनान्तराः वस्त्रान्तराः च वसनान्तराः च वस्त्रान्तरवसनान्तराः ।

KA I,90.5-26 Ro I,289-291 diggrahaṇam kimartham . na bahuvrīhau iti pratiṣedham vakṣyati . tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti . diggrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . digupadiṣṭe vibhāṣā anyatra pratiṣedhaḥ . atha samāsagrahaṇam kimartham. samāsaḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt . bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti : dakṣiṇadakṣiṇasyai dehi iti . atha bahuvrīhigrahaṇam kimartham . dvandve mā bhūt dakṣiṇottarapūrvāṇām iti . na etat asti prayojanam . dvandve ca iti pratiṣedhaḥ bhaviṣyati . na aprāpte pratiṣedhe iyam paribhāṣā ārabhyate . sā yathā eva bahuvrīhau iti etam pratiṣedham bādhate evam dvandve ca iti etam api bādheta . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati . na ca aprāpte na bahuvrīhau iti etasmin pratiṣedhe iyam paribhāṣā ārabhyate . dvandve ca iti etasmin punaḥ prāpte ca aprāpte ca . atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam iyam vibhāṣā na bahuvrīhau iti etam pratiṣedham bādhiṣyate dvandve ca iti etam pratiṣedham na bādhiṣyate . atha vā idam tāvat ayam praṣṭavyaḥ . iha kasmāt na bhavati : yā pūrvā sā uttarā asya unmugdhasya saḥ ayam pūrvottaraḥ unmugdhaḥ , tasmai pūrvottarāya dehi . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . yadi evam na arthaḥ bahuvrīhigrahaṇena . dvandve kasmāt na bhavati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . uttarārtham tarhi bahuvrīhigrahaṇam kartavyam . na kartavyam . kriyate tatra eva bahuvrīhau iti . dvitīyam kartavyam . bahuvrīhiḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt . bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti : ekaikasmai dehi . etat api na asti prayojanam. samāse iti vartate . tena bahuvrīhim viśeṣayiṣyāmaḥ : samāsaḥ yaḥ bahuvrīhiḥ iti . idam tarhi prayojanam . avayavabhūtasya api bahuvrīheḥ pratiṣedhaḥ yathā syāt . iha mā bhūt vastram antaram eṣām te ime vastrāntarāḥ vasanam antaram eṣām te ime vasanāntarāḥ vastrāntarāḥ ca vasanāntarāḥ ca vastrāntaravasanāntarāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९१।२-२१ रो इ,२९१-२९३ किम् उदाहरणम् । प्रियविश्वाय । न एतत् अस्ति प्रयोजनम् । सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम् । वक्ष्यति च एतत् : बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् इति । तत्र विश्वप्रियाय इति भवितव्यम् । इदम् तर्हि : द्व्यन्याय त्र्यन्याय । ननु च अत्र अपि सर्वनाम्नः एव पूर्वनिपातेन भवितव्यम् । न एषः दोषः । वक्ष्यति एतत् : सङ्ख्यासर्वनाम्नोः यः बहुव्रीहिः परत्वात् तत्र सङ्ख्यायाः पूर्वनिपातः भवति इति । इदम् च अपि उदाहरणम् प्रियविश्वाय । ननु च उक्तम् विश्वप्रियाय इति भवितव्यम् इति । वक्ष्यति एतत् : वा प्रियस्य इति । न खलु अपि अवश्यम् सर्वाद्यन्तस्य एव बहुव्रीहेः प्रतिषेधेन भवितव्यम् । किम् तर्हि । असर्वाद्यन्तस्य अपि भवितव्यम् । किम् प्रयोजनम् । अकच् मा भूत् । किम् च स्यात् यदि अकच् स्यात् । कः न स्यात् । कः च इदानीम् काकचोः विशेषः । व्यञ्जनान्तेषु विशेषः । अहकम् पिता अस्य मकत्पितृकः , त्वकम् पिता अस्य त्वकत्पितृकः इति प्राप्नोति , मत्कपितृकः त्वत्कपितृकः इति च इष्यते । कथम् पुनः इच्छता अपि भवता बहिरङ्गेन प्रतिषेधेन अन्तरङ्गः विधिः शख्यः बाधितुम् । अन्तरङ्गान् अपि विधीन् बहिरङ्गः विधिः बाधते गोमत्प्रियः इति यथा । क्रियते तत्र यत्नः : प्रत्ययोत्तरपदयोः च इति । ननु च इह अपि क्रियते : न बहुव्रीहौ इति । अस्ति अन्यत् एतस्य वचने प्रयोजनम् । किम् । प्रियविश्वाय । उपसर्जनप्रतिषेधेन अपि एतत् सिद्धम् । अयम् खलु अपि बहुव्रीहिः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च । अस्ति तादर्थ्यात् ताच्छब्द्यम् : बहुव्रीह्यर्थानि पदानि बहुव्रीहिः इति । तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् । गोनर्दीयः आह अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गम् मुक्तसंशयौ । त्वकत्पितृकः मकत्पितृकः इति एव भवितव्यम् इति ।

KA I,91.2-21 Ro I,291-293 kim udāharaṇam . priyaviśvāya . na etat asti prayojanam . sarvādyantasya bahuvrīheḥ pratiṣedhena bhavitavyam . vakṣyati ca etat : bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam iti . tatra viśvapriyāya iti bhavitavyam . idam tarhi : dvyanyāya tryanyāya . nanu ca atra api sarvanāmnaḥ eva pūrvanipātena bhavitavyam . na eṣaḥ doṣaḥ . vakṣyati etat : saṅkhyāsarvanāmnoḥ yaḥ bahuvrīhiḥ paratvāt tatra saṅkhyāyāḥ pūrvanipātaḥ bhavati iti . idam ca api udāharaṇam priyaviśvāya . nanu ca uktam viśvapriyāya iti bhavitavyam iti . vakṣyati etat : vā priyasya iti . na khalu api avaśyam sarvādyantasya eva bahuvrīheḥ pratiṣedhena bhavitavyam . kim tarhi . asarvādyantasya api bhavitavyam . kim prayojanam . akac mā bhūt . kim ca syāt yadi akac syāt . kaḥ na syāt . kaḥ ca idānīm kākacoḥ viśeṣaḥ . vyañjanānteṣu viśeṣaḥ . ahakam pitā asya makatpitṛkaḥ , tvakam pitā asya tvakatpitṛkaḥ iti prāpnoti , matkapitṛkaḥ tvatkapitṛkaḥ iti ca iṣyate . katham punaḥ icchatā api bhavatā bahiraṅgena pratiṣedhena antaraṅgaḥ vidhiḥ śakhyaḥ bādhitum . antaraṅgān api vidhīn bahiraṅgaḥ vidhiḥ bādhate gomatpriyaḥ iti yathā . kriyate tatra yatnaḥ : pratyayottarapadayoḥ ca iti . nanu ca iha api kriyate : na bahuvrīhau iti . asti anyat etasya vacane prayojanam . kim . priyaviśvāya . upasarjanapratiṣedhena api etat siddham . ayam khalu api bahuvrīhiḥ asti eva prāthamakalpikaḥ yasmin aikapadyam aikasvaryam aikavibhaktikatvam ca . asti tādarthyāt tācchabdyam : bahuvrīhyarthāni padāni bahuvrīhiḥ iti . tat yat tādarthyāt tācchabdyam tasya idam grahaṇam . gonardīyaḥ āha akacsvarau tu kartavyau pratyaṅgam muktasaṃśayau . tvakatpitṛkaḥ makatpitṛkaḥ iti eva bhavitavyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९१।२२-९२।५ रो इ,२९३-२९४ प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् । प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् कर्तव्यम् । आढ्यः भूतपूर्वः आढ्यपूर्वः , आढ्यपूर्वाय देहि इति । प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानानर्थक्यम् पूर्वादीनाम् व्यवस्थायाम् इति वचनात् । प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् नर्थकम् । किम् कारणम् । पूर्वादीनाम् व्यवस्थायाम् इति वचनात् । पूर्वादीनाम् व्यवस्थायाम् सर्वनामस्ञ्ज्ञा उच्यते । न च अत्र व्यवस्था गम्यते ।

KA I,91.22-92.5 Ro I,293-294 pratiṣedhe bhūtapūrvasya upasaṅkhyānam . pratiṣedhe bhūtapūrvasya upasaṅkhyānam kartavyam . āḍhyaḥ bhūtapūrvaḥ āḍhyapūrvaḥ , āḍhyapūrvāya dehi iti . pratiṣedhe bhūtapūrvasya upasaṅkhyānānarthakyam pūrvādīnām vyavasthāyām iti vacanāt . pratiṣedhe bhūtapūrvasya upasaṅkhyānam narthakam . kim kāraṇam . pūrvādīnām vyavasthāyām iti vacanāt . pūrvādīnām vyavasthāyām sarvanāmasñjñā ucyate . na ca atra vyavasthā gamyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९२। ७-१४ रो इ,२९४ समासे इति वर्तमाने पुनः समासग्रहणम् किमर्थम् । अयम् तृतीयासमासः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च । अस्ति तादर्थ्यात् ताच्छब्द्यम् : तृतीयासमासार्थानि पदानि तृतीयासमासः इति । तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् । अथ वा समसे इति वर्तमाने पुनः समासग्रहणस्य एतत् प्रयोजनम् : योगाङ्गम् यथा उपजायेत । सति योगाङ्गे योगविभागः करिष्यते । तृतीया । तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । मासपूर्वाय देहि संवत्सरपूर्वाय देहि । ततः असमासे । असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । मासेन पूर्वाय इति ।

KA I,92. 7-14 Ro I,294 samāse iti vartamāne punaḥ samāsagrahaṇam kimartham . ayam tṛtīyāsamāsaḥ asti eva prāthamakalpikaḥ yasmin aikapadyam aikasvaryam aikavibhaktikatvam ca . asti tādarthyāt tācchabdyam : tṛtīyāsamāsārthāni padāni tṛtīyāsamāsaḥ iti . tat yat tādarthyāt tācchabdyam tasya idam grahaṇam . atha vā samase iti vartamāne punaḥ samāsagrahaṇasya etat prayojanam : yogāṅgam yathā upajāyeta . sati yogāṅge yogavibhāgaḥ kariṣyate . tṛtīyā . tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti . māsapūrvāya dehi saṃvatsarapūrvāya dehi . tataḥ asamāse . asamāse ca tṛtīyāyāḥ sarvādīni sarvanāmasañjñāni na bhavanti . māsena pūrvāya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९२।१६ रो इ,२९५ जसः कार्यम् प्रति विभाषा , अकच् हि न भवति ।

KA I,92.16 Ro I,295 jasaḥ kāryam prati vibhāṣā , akac hi na bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९२।१९-९३।६ रो इ,२९५-२९७ अवरादीनाम् च पुनः सूत्रपाठे ग्रहणानर्थक्यम् गणे पठितत्वात् । अवरादीनाम् च पुनः सूत्रपाठे ग्रहणम् अनर्थकम् । किम् कारणम् । गणे पठितत्वात् । गणे हि एतानि पठ्यन्ते । कथम् पुनः ज्ञायते सः पूर्वः पाठः अयम् पुनः पाठः इति । तानि हि पूर्वादीनि इमानि अवरादीनि । इमानि अपि पूर्वादीनि । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति सः पूर्वः पाठः अयम् पुनः पाठः इति यत् अयम् पूर्वादिभ्यः नवभ्यः वा इति नवग्रहणम् करोति । नव एव पूर्वादीनि । इदम् तर्हि प्रयोजनम् : व्यवस्थायाम् असञ्ज्ञायाम् इति वक्ष्यामि इति । एतत् अपि न अस्ति प्रयोजनम् । एवंविशिष्टानि एव एतानि गणे पठ्यन्ते । इदम् तर्हि प्रयोजनम् द्व्यादिपर्युदासेन पर्युदासः मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति न एषाम् द्व्यादिपर्युदासेन पर्युदासः भवति इति यत् अयम् पूर्वत्र असिद्धम् इति निपातनम् करोति । वार्त्तिककारः च पठति : जश्भावात् इति चेत् उत्तरत्र अभावात् अपवादप्रसङ्गः इति । इदम् तर्हि प्रयोजनम् जसि विभाषाम् वक्ष्यामि इति ।

KA I,92.19-93.6 Ro I,295-297 avarādīnām ca punaḥ sūtrapāṭhe grahaṇānarthakyam gaṇe paṭhitatvāt . avarādīnām ca punaḥ sūtrapāṭhe grahaṇam anarthakam . kim kāraṇam . gaṇe paṭhitatvāt . gaṇe hi etāni paṭhyante . katham punaḥ jñāyate saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti . tāni hi pūrvādīni imāni avarādīni . imāni api pūrvādīni . evam tarhi ācāryapravṛttiḥ jñāpayati saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti yat ayam pūrvādibhyaḥ navabhyaḥ vā iti navagrahaṇam karoti . nava eva pūrvādīni . idam tarhi prayojanam : vyavasthāyām asañjñāyām iti vakṣyāmi iti . etat api na asti prayojanam . evaṃviśiṣṭāni eva etāni gaṇe paṭhyante . idam tarhi prayojanam dvyādiparyudāsena paryudāsaḥ mā bhūt iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati na eṣām dvyādiparyudāsena paryudāsaḥ bhavati iti yat ayam pūrvatra asiddham iti nipātanam karoti . vārttikakāraḥ ca paṭhati : jaśbhāvāt iti cet uttaratra abhāvāt apavādaprasaṅgaḥ iti . idam tarhi prayojanam jasi vibhāṣām vakṣyāmi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९३।८-९ रो इ,२९७-२९८ आख्याग्रहणम् किमर्थम् । ज्ञातिधनपर्यायवाची यः स्वशब्दः तस्य यथा स्यात् । इह मा भूत् : स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः ।

KA I,93.8-9 Ro I,297-298 ākhyāgrahaṇam kimartham . jñātidhanaparyāyavācī yaḥ svaśabdaḥ tasya yathā syāt . iha mā bhūt : sve putrāḥ svāḥ putrāḥ sve gāvaḥ svāḥ gāvaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९३।११-१७ रो इ,२९८-२९९ उपसंव्यानग्रहणम् अनर्थकम् बहिर्योगेण कृतत्वात् । उपसंव्यानग्रहणम् अनर्थकम् । किम् कारणम् । बहिर्योगेण कृतत्वात् । बहिर्योगे इति एव सिद्धम् । न वा शाटकयुगाद्यर्थम् । न वा अनर्थकम् । किम् कारणम् । शाटकयुगाद्यर्थम् । शाटकयुगाद्यर्थम् तर्हि इदम् वक्तव्यम् यत्र एतत् न ज्ञायते किम् अन्तरीयम् किम् उत्तरीयम् इति। अत्र अपि यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातम् तस्य भवति इदम् अन्तरीयम् इदम् उत्तरीयम् इति ।

KA I,93.11-17 Ro I,298-299 upasaṃvyānagrahaṇam anarthakam bahiryogeṇa kṛtatvāt . upasaṃvyānagrahaṇam anarthakam . kim kāraṇam . bahiryogeṇa kṛtatvāt . bahiryoge iti eva siddham . na vā śāṭakayugādyartham . na vā anarthakam . kim kāraṇam . śāṭakayugādyartham . śāṭakayugādyartham tarhi idam vaktavyam yatra etat na jñāyate kim antarīyam kim uttarīyam iti. atra api yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati nirjñātam tasya bhavati idam antarīyam idam uttarīyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९३।१८-२३ रो इ,२९९ अपुरि इति वक्तव्यम् । इह मा भूत् : अन्तरायाम् पुरि वसति इति । वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानम् । वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानम् कर्तव्यम् : द्वितीयायै द्वितीयस्यै तृतीयायै तृतीयस्यै । विभाषा द्वितीयातृतीयाभ्याम् इति एतत् न वक्तव्यम् भवति । किम् पुनः अत्र ज्यायः । उपसङ्ख्यानम् एव अत्र ज्यायः । इदम् अपि सिद्धम् भवति : द्वितीयाय द्वितीयस्मै तृतीयाय तृतीयस्मै ।

KA I,93.18-23 Ro I,299 apuri iti vaktavyam . iha mā bhūt : antarāyām puri vasati iti . vāprakaraṇe tīyasya ṅitsu upasaṅkhyānam . vāprakaraṇe tīyasya ṅitsu upasaṅkhyānam kartavyam : dvitīyāyai dvitīyasyai tṛtīyāyai tṛtīyasyai . vibhāṣā dvitīyātṛtīyābhyām iti etat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . upasaṅkhyānam eva atra jyāyaḥ . idam api siddham bhavati : dvitīyāya dvitīyasmai tṛtīyāya tṛtīyasmai .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९४।२-८ रो इ,२९९-३०० किमर्थम् पृथक् ग्रहणम् स्वरादीनाम् क्रियते न चादिषु एव पठ्येरन् । चादीनाम् वै असत्त्ववचनानाम् निपातसञ्ज्ञा स्वरादीनाम् पुनः सत्त्ववचनानाम् असत्त्ववचनानाम् च । अथ किमर्थम् उभे सञ्ज्ञे क्रियेते न निपात्सञ्ज्ञा एव स्यात् । न एवम् शक्यम् । निपातः एकाच् अनाङ् इति प्रगृह्यसञ्ज्ञा उक्ता । सा स्वरादीनाम् अपि एकाचाम् प्रसज्येत । एवम् तर्हि अव्ययसञ्ज्ञा एव अस्तु । तत् च अशक्यम् । वक्ष्यति एतत् : अव्यये नञ्कुनिपातानाम् इति । तत् गरीयसा न्यासेन परिगणनम् कर्तव्यम् स्यात् । तस्मात् पृथक् ग्रहणम् कर्तव्यम् उभे च सञ्ज्ञे कर्तव्ये ।

KA I,94.2-8 Ro I,299-300 kimartham pṛthak grahaṇam svarādīnām kriyate na cādiṣu eva paṭhyeran . cādīnām vai asattvavacanānām nipātasañjñā svarādīnām punaḥ sattvavacanānām asattvavacanānām ca . atha kimartham ubhe sañjñe kriyete na nipātsañjñā eva syāt . na evam śakyam . nipātaḥ ekāc anāṅ iti pragṛhyasañjñā uktā . sā svarādīnām api ekācām prasajyeta . evam tarhi avyayasañjñā eva astu . tat ca aśakyam . vakṣyati etat : avyaye nañkunipātānām iti . tat garīyasā nyāsena parigaṇanam kartavyam syāt . tasmāt pṛthak grahaṇam kartavyam ubhe ca sañjñe kartavye .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९४।१०-१९ रो इ,३००-३०१ असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम् । असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम् कर्तव्यम् : नाना विना । किम् पुनः कारणम् न सिध्यति । सर्वविभक्तिः हि अविशेषात्। सर्वविभक्तिः हि एषः भवति । किम् कारणम् । अविशेषात् । अविशेषेण विहितत्वात् । त्रलादीनाम् च उपसङ्ख्यानम् । त्रलादीनाम् च उपसङ्ख्यानम् कर्तव्यम् । तत्र यत्र ततः यतः । ननु च विशेषेण एते विधीयन्ते : पञ्चम्याः तसिल् सप्तम्याः त्रल् इति । वक्ष्यति एतत् : इतराभ्यः अपि दृश्यन्ते इति ।

KA I,94.10-19 Ro I,300-301 asarvavibhaktau avibhaktinimittasya upasaṅkhyānam . asarvavibhaktau avibhaktinimittasya upasaṅkhyānam kartavyam : nānā vinā . kim punaḥ kāraṇam na sidhyati . sarvavibhaktiḥ hi aviśeṣāt. sarvavibhaktiḥ hi eṣaḥ bhavati . kim kāraṇam . aviśeṣāt . aviśeṣeṇa vihitatvāt . tralādīnām ca upasaṅkhyānam . tralādīnām ca upasaṅkhyānam kartavyam . tatra yatra tataḥ yataḥ . nanu ca viśeṣeṇa ete vidhīyante : pañcamyāḥ tasil saptamyāḥ tral iti . vakṣyati etat : itarābhyaḥ api dṛśyante iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९४।१८-९५।११ रो इ,३०२-३०३ यदि पुनः अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति उच्येत । अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः । अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः सञ्ज्ञायाः । का इतरेतराश्रयता । सति अविभक्तित्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अविभक्तित्वम् भाव्यते । तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । अलिङ्गम् असङ्ख्यम् इति वा । अथ वा अलिङ्गम् असङ्ख्यम् अव्ययम् इति वक्तव्यम् । एवम् अपि इतरेतराश्रयम् एव भवति । का इतरेतराश्रयता । सति अलिङ्गासङ्ख्यत्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अलिङ्गासङ्ख्यत्वम् भाव्यते । तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता च । किम् तर्हि । स्वाभाविकम् एतत् । तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । तत्र किम् अस्माभिः कर्तुम् शक्यम् । स्वाभाविकम् एतत् । तत् तर्हि वक्तव्यम् अलिङ्गम् असङ्ख्यम् इति । न वक्तव्यम् । सिद्धम् तु पाठात् । पाठात् वा सिद्धम् एतत्। कथम् पाठः कर्तव्यः । तसिलादयः प्राक् पासपः , शस्प्रभृतयः प्राक् समासान्तेभ्यः , मान्तः , कृत्वोर्थः , तसिवती , नानाञौ इति ।

KA I,94.18-95.11 Ro I,302-303 yadi punaḥ avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti ucyeta . avibhaktau itaretarāśrayatvāt aprasiddhiḥ . avibhaktau itaretarāśrayatvāt aprasiddhiḥ sañjñāyāḥ . kā itaretarāśrayatā . sati avibhaktitve sañjñayā bhavitavyam sañjñayā ca avibhaktitvam bhāvyate . tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . aliṅgam asaṅkhyam iti vā . atha vā aliṅgam asaṅkhyam avyayam iti vaktavyam . evam api itaretarāśrayam eva bhavati . kā itaretarāśrayatā . sati aliṅgāsaṅkhyatve sañjñayā bhavitavyam sañjñayā ca aliṅgāsaṅkhyatvam bhāvyate . tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . na idam vācanikam aliṅgatā asaṅkhyatā ca . kim tarhi . svābhāvikam etat . tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . tatra kim asmābhiḥ kartum śakyam . svābhāvikam etat . tat tarhi vaktavyam aliṅgam asaṅkhyam iti . na vaktavyam . siddham tu pāṭhāt . pāṭhāt vā siddham etat. katham pāṭhaḥ kartavyaḥ . tasilādayaḥ prāk pāsapaḥ , śasprabhṛtayaḥ prāk samāsāntebhyaḥ , māntaḥ , kṛtvorthaḥ , tasivatī , nānāñau iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९५।१२-२२ रो इ,३०३-३०४ अथ वा पुनः अस्तु अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति एव । ननु च उक्तम् अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः इति । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः । यदि अपि वैयाकरणाः विभक्तिलोपम् आरभमाणाः अविभक्तिकान् शब्दाञ् प्रयुञ्जते ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथम् ते अविभक्तिकान् शब्दान् प्रयुञ्जते इति । अभिज्ञाः च पुनः लौकिकाः एकत्वादीनाम् अर्थानाम् । आतः च अभिज्ञाः : अन्येन हि वस्नेन एकम् गाम् क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन् । अभिज्ञाः च न च प्रयुञ्जते । तत् एतत् एवम् सन्दृश्यताम् : अर्थरूपम् एतत् एवञ्जातीयकम् येन अत्र विभक्तिः न भवति इति । तत् च अपि एतत् एवम् अनुगम्यमानम् दृश्यताम् : किम् चित् अव्ययम् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् । उच्चैः , नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् । तद्धितः च अपि कः चित् विभक्त्यर्थप्रधानः कः चित् क्रियाप्रधानः । तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः । न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

KA I,95.12-22 Ro I,303-304 atha vā punaḥ astu avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti eva . nanu ca uktam avibhaktau itaretarāśrayatvāt aprasiddhiḥ iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . yadi api vaiyākaraṇāḥ vibhaktilopam ārabhamāṇāḥ avibhaktikān śabdāñ prayuñjate ye tu ete vaiyākaraṇebhyaḥ anye manuṣyāḥ katham te avibhaktikān śabdān prayuñjate iti . abhijñāḥ ca punaḥ laukikāḥ ekatvādīnām arthānām . ātaḥ ca abhijñāḥ : anyena hi vasnena ekam gām krīṇanti , anyena dvau , anyena trīn . abhijñāḥ ca na ca prayuñjate . tat etat evam sandṛśyatām : artharūpam etat evañjātīyakam yena atra vibhaktiḥ na bhavati iti . tat ca api etat evam anugamyamānam dṛśyatām : kim cit avyayam vibhaktyarthapradhānam kim cit kriyāpradhānam . uccaiḥ , nīcaiḥ iti vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam . taddhitaḥ ca api kaḥ cit vibhaktyarthapradhānaḥ kaḥ cit kriyāpradhānaḥ . tatra yatra iti vibhaktyarthapradhānaḥ , nānā vina iti kriyāpradhānaḥ . na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām yogaḥ asti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९५।२३-९६।५ रो इ,३०४-३०७ अथ अपि असर्वविभक्तिः इति उच्यते एवम् अपि न दोषः । कथम् । इदम् च अपि अद्यत्वे अतिबहु क्रियते : एकस्मिन् एकवचनम् , द्वयोः द्विवचनम् , बहुषु बहुवचनम् इति । कथम् तर्हि । एकवचनम् उत्सर्गः करिष्यते । तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः । न च अपि एवम् विग्रहः करिष्यते : न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मात् इति । कथम् तर्हि । न सर्वा असर्वा , असर्वा विभक्तिः अस्मात् इति । त्रिकम् पुनः विभक्तिसञ्ज्ञम् । एवम् गते कृति अपि तुल्यम् एतत् मान्तस्य कार्यम् ग्रहणम् न तत्र । ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः । कृत्तद्धितानाम् ग्रहणम् तु कार्यम् सङ्ख्याविशेषम् हि अभिनिश्रिताः ये । तेषाम् प्रतिषेधः भवति इति वक्तव्यम् । इह मा भूत् : एकः , द्वौ , बहवः इति । तस्मात् स्वरादिग्रहणम् च कार्यम् कृत्तद्धितानाम् च पाठे ।

KA I,95.23-96.5 Ro I,304-307 atha api asarvavibhaktiḥ iti ucyate evam api na doṣaḥ . katham . idam ca api adyatve atibahu kriyate : ekasmin ekavacanam , dvayoḥ dvivacanam , bahuṣu bahuvacanam iti . katham tarhi . ekavacanam utsargaḥ kariṣyate . tasya dvibahvoḥ arthayoḥ dvivacanabahuvacane bādhake bhaviṣyataḥ . na ca api evam vigrahaḥ kariṣyate : na sarvāḥ asarvāḥ , asarvāḥ vibhaktayaḥ asmāt iti . katham tarhi . na sarvā asarvā , asarvā vibhaktiḥ asmāt iti . trikam punaḥ vibhaktisañjñam . evam gate kṛti api tulyam etat māntasya kāryam grahaṇam na tatra . tataḥ pare ca abhimatāḥ kāryāḥ trayaḥ kṛdarthāḥ grahaṇena yogāḥ . kṛttaddhitānām grahaṇam tu kāryam saṅkhyāviśeṣam hi abhiniśritāḥ ye . teṣām pratiṣedhaḥ bhavati iti vaktavyam . iha mā bhūt : ekaḥ , dvau , bahavaḥ iti . tasmāt svarādigrahaṇam ca kāryam kṛttaddhitānām ca pāṭhe .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९६।६-१७ रो इ,३०७-३०८ पाठेन इयम् अव्ययसञ्ज्ञा क्रियते । सा इह न प्राप्नोति : परमोच्चैः , परमनीचैः इति । तदन्तविधिना भविष्यति । इह अपि तर्हि प्राप्नोति : अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति । उपसर्जनस्य न इति प्रतिषेधः भविष्यति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । सर्वनामसञ्ज्ञायाम् प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते । सः वै तत्र प्रत्याख्यायते । यथा सः तत्र प्रत्याख्यायते इह अपि तथा शक्यः प्रत्याख्यातुम् । कथम् सः तत्र प्रत्याख्यायते । महती इयम् सञ्ज्ञा क्रियते । इयम् अपि च महती सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत् । लघ्वर्थम् हि सञ्ज्ञाकरणम् । तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत : न व्येति इति अव्ययम् इति । क्व पुनः न व्येति । स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च । एतान् अर्थान् के चित् वियन्ति के चित् न वियन्ति । ये न वियन्ति तद् अव्ययम् । सदृशम् त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् ।

KA I,96.6-17 Ro I,307-308 pāṭhena iyam avyayasañjñā kriyate . sā iha na prāpnoti : paramoccaiḥ , paramanīcaiḥ iti . tadantavidhinā bhaviṣyati . iha api tarhi prāpnoti : atyuccaiḥ atyuccaisau atyuccaisaḥ iti . upasarjanasya na iti pratiṣedhaḥ bhaviṣyati . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . sarvanāmasañjñāyām prakṛtaḥ pratiṣedhaḥ iha anuvartiṣyate . saḥ vai tatra pratyākhyāyate . yathā saḥ tatra pratyākhyāyate iha api tathā śakyaḥ pratyākhyātum . katham saḥ tatra pratyākhyāyate . mahatī iyam sañjñā kriyate . iyam api ca mahatī sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta : na vyeti iti avyayam iti . kva punaḥ na vyeti . strīpuṃnapuṃsakāni sattvaguṇāḥ ekatvadvitvabahutvāni ca . etān arthān ke cit viyanti ke cit na viyanti . ye na viyanti tad avyayam . sadṛśam triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yat na vyeti tat avyayam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९६।१९-९७।२ रो इ,३०८-३१० कथम् इदम् विज्ञायते : कृत् यः मान्तः इति आहोस्वित् कृदन्तम् यत् मान्तम् इति । किम् च अतः । यदि विज्ञायते कृत् यः मान्तः इति कारयाम् चकार हारयाम् चकार इति अत्र न प्राप्नोति । अथ विज्ञायते कृदन्तम् यत् मान्तम् इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत् कृत् यः मान्तः इति । कथम् कारयाम् चकार हारयाम् चकार इति । किम् पुनः अत्र अव्ययसञ्ज्ञया प्रार्थ्यते । अव्ययात् इति लुक् यथा स्यात् । मा भूत् एवम् । आमः इति एवम् भविष्यति । न सिध्यति । लिग्रहणम् तत्र अनुवर्तते । लिग्रहणम् निवर्तिष्यते । यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति । इष्यते च प्रत्ययमात्रस्य । आतः च इष्यते । एवम् हि आह : कृञ् च अनुप्रयुज्यते लिटि इति । यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति । अथ वा पुनः अस्तु कृदन्तम् यत् मान्तम् इति । कथम् प्रतामौ प्रतामः इति । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन अव्ययसञ्ज्ञा भवति इति यत् अयम् प्रशान्शब्दम् स्वरादिषु पठति ।

KA I,96.19-97.2 Ro I,308-310 katham idam vijñāyate : kṛt yaḥ māntaḥ iti āhosvit kṛdantam yat māntam iti . kim ca ataḥ . yadi vijñāyate kṛt yaḥ māntaḥ iti kārayām cakāra hārayām cakāra iti atra na prāpnoti . atha vijñāyate kṛdantam yat māntam iti pratāmau pratāmaḥ iti atra api prāpnoti . yathā icchasi tathā astu . astu tāvat kṛt yaḥ māntaḥ iti . katham kārayām cakāra hārayām cakāra iti . kim punaḥ atra avyayasañjñayā prārthyate . avyayāt iti luk yathā syāt . mā bhūt evam . āmaḥ iti evam bhaviṣyati . na sidhyati . ligrahaṇam tatra anuvartate . ligrahaṇam nivartiṣyate . yadi nivartate pratyayamātrasya luk prāpnoti . iṣyate ca pratyayamātrasya . ātaḥ ca iṣyate . evam hi āha : kṛñ ca anuprayujyate liṭi iti . yadi ca pratyayamātrasya luk bhavati tataḥ etat upapannam bhavati . atha vā punaḥ astu kṛdantam yat māntam iti . katham pratāmau pratāmaḥ iti . ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena avyayasañjñā bhavati iti yat ayam praśānśabdam svarādiṣu paṭhati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,९७।३-१००।४ रो इ,३१०-३१८ कृत् मेजन्तः च अनिकारोकारप्रकृतिः । कृत् मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यम् । इह मा भूत् : आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति । अनन्यप्रकृतिः इति वा । अथ वा अनन्यप्रकृतिः कृत् अव्ययसञ्ज्ञः भवति इति वक्तव्यम् । किम् पुनः अत्र ज्यायः । अनन्यप्रकृतिवचनम् एव ज्यायः । इदम् अपि सिद्धम् भवति : कुम्भकारेभ्यः , नगरकारेभ्यः इति । तत् तर्हि वक्तव्यम् । न वा सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य । न वा वक्तव्यम् । किम् कारणम् । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत । अवश्यम् एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि पुनः तानि । प्रयोजनम् ह्रस्वतम् तुग्विधेः ग्रामणिकुलम् । ग्रामणिकुलम् , सेनानिकुलम् इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति । न एतत् अस्ति प्रयोजनम् । बहिरङ्गम् ह्रस्वत्वम् । अन्तरङ्गः तुक् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । नलोपः वृत्रहभिः । वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । असिद्धः नलोपः । तस्य असिद्धत्वात् न भविष्यति । उदुपधत्वम् अकित्त्वस्य निकुचिते । उदुपधत्वम् अकित्त्वस्य अनिमित्तम् । क्व । निकुचिते । निकुचितः इति अत्र नलोपे कृते उदुपधात् भावादिकर्मणोः अन्यतरस्याम् इति अकित्त्वम् प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । अस्तु अत्र अकित्त्वम् । न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति । नाभावः यञि दीर्घत्वस्य अमुना । नाभावः यञि दीर्घत्वस्य अस्निमित्तम् । क्व । अमुना । नाभावे कृते अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति एतत् : न मु टादेशे इति । आत्त्वम् कित्त्वस्य उपादास्त । आत्त्वम् कित्त्वस्य अनिमित्तम् । क्व । उपादास्त अस्य स्वरः शिक्षकस्य इति । आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । उक्तम् एतत् : दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे इति । तिसृचतसृत्वम् ङीब्विधेः । तिसृचतसृत्वम् ङीब्विधेः अनिमित्तम् । तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति । तिसृचतसृभावे कृते ऋन्नेभ्यः ङीप् इति ङीप् प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवति इति यत् अयम् न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधम् शास्ति । इमानि तर्हि प्रयोजनानि : शतानि सहस्राणि । नुमि कृते ष्णान्ता षट् इत् षट्सञ्ज्ञा प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति । शकटौ पद्धतौ । अत्त्वे कृते अतः इति टाप् प्राप्नोति ।

KA I,97.3-100.4 Ro I,310-318 kṛt mejantaḥ ca anikārokāraprakṛtiḥ . kṛt mejantaḥ ca anikārokāraprakṛtiḥ iti vaktavyam . iha mā bhūt : ādhaye , ādheḥ , cikīrṣave , cikīrṣoḥ iti . ananyaprakṛtiḥ iti vā . atha vā ananyaprakṛtiḥ kṛt avyayasañjñaḥ bhavati iti vaktavyam . kim punaḥ atra jyāyaḥ . ananyaprakṛtivacanam eva jyāyaḥ . idam api siddham bhavati : kumbhakārebhyaḥ , nagarakārebhyaḥ iti . tat tarhi vaktavyam . na vā sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya . na vā vaktavyam . kim kāraṇam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti eṣā paribhāṣā kartavyā . kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta ananyaprakṛtiḥ iti vā ucyeta . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . kāni punaḥ tāni . prayojanam hrasvatam tugvidheḥ grāmaṇikulam . grāmaṇikulam , senānikulam iti atra hrasvatve kṛte hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . na etat asti prayojanam . bahiraṅgam hrasvatvam . antaraṅgaḥ tuk . asiddham bahiraṅgam antaraṅge . nalopaḥ vṛtrahabhiḥ . vṛtrhabhiḥ , bhrūṇhabhiḥ iti atra nalope kṛte hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . asiddhaḥ nalopaḥ . tasya asiddhatvāt na bhaviṣyati . udupadhatvam akittvasya nikucite . udupadhatvam akittvasya animittam . kva . nikucite . nikucitaḥ iti atra nalope kṛte udupadhāt bhāvādikarmaṇoḥ anyatarasyām iti akittvam prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . astu atra akittvam . na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati . nābhāvaḥ yañi dīrghatvasya amunā . nābhāvaḥ yañi dīrghatvasya asnimittam . kva . amunā . nābhāve kṛte ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . vakṣyati etat : na mu ṭādeśe iti . āttvam kittvasya upādāsta . āttvam kittvasya animittam . kva . upādāsta asya svaraḥ śikṣakasya iti . āttve kṛte sthāghvoḥ it ca iti ittvam prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . uktam etat : dīṅaḥ pratiṣedhaḥ sthāghvoḥ ittve iti . tisṛcatasṛtvam ṅībvidheḥ . tisṛcatasṛtvam ṅībvidheḥ animittam . tisraḥ tiṣṭhanti catasraḥ tiṣṭhanti . tisṛcatasṛbhāve kṛte ṛnnebhyaḥ ṅīp iti ṅīp prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati na tisṛcatasṛbhāve kṛte ṅīp bhavati iti yat ayam na tisṛcatasṛ iti nāmi dīrghatvapratiṣedham śāsti . imāni tarhi prayojanāni : śatāni sahasrāṇi . numi kṛte ṣṇāntā ṣaṭ it ṣaṭsañjñā prāpnoti . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti na doṣaḥ bhavati . śakaṭau paddhatau . attve kṛte ataḥ iti ṭāp prāpnoti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१००।६-२६ रो इ,३१८-३२० अव्ययीभावस्य अव्ययत्वे प्रयोजनम् लुग्मुख्स्वरोपचाराः । अव्ययीभावस्य अव्ययत्वे प्रयोजनम् किम् । लुग्मुख्स्वरोपचाराः । लुक् : उपाग्नि प्रत्यग्नि । अव्ययात् इति लुक् सिद्धः भवति । मुखस्वरः । उपाग्निमुखः , प्रत्यग्निमुखः । न अव्ययदिक्शब्द्गोमहत्स्थूलपृथुवत्सेभ्यः इति प्रतिषेधः सिद्धः भवति । उपचारः : उपपयःकारः , उपपयःकामः इति । अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य इति प्रतिषेधः सिद्धः भवति । किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् । परिगणनम् इति आह । अपि खलु अपि आहुः । यत् अन्यत् अव्ययीभावस्य अव्ययकृतम् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति । किम् पुनः तत् । पराङ्गवद्भावः । पराङ्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थम् । सः इह अपि प्राप्नोति : उपाग्नि अधीयान प्रत्यग्नि अधीयान । अकचि अव्ययग्रहणम् क्रियते उच्चकैः , नीचकैः इति एवमर्थम् । तत् इह अपि प्राप्नोति : उपाग्निकम् , प्रत्यग्निकम् इति । मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यम् अहः , दिवामन्या रात्रिः इति एवमर्थम् । सः इह अपि प्राप्नोति : औपकुम्भम्मन्यः , उपमणिकम्मन्यः । अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतम् अहः , दिवाभूता रात्रिः इति एवमर्थम् । सः इह अपि प्राप्नोति : उपकुम्भीभूतम् उपमणिकीभूतम् । यदि परिगणनम् क्रियते न अर्थः अव्ययीभावस्य अव्ययसञ्ज्ञया । कथम् यानि अव्ययीभावस्य अव्ययत्वे प्रयोजनानि । न एतानि सन्ति । यत् तावत् उच्यते लुक् इति : आचार्यप्रवृत्तिः ज्ञापयति भवति अव्ययीभावात् लुक् इति यद् अयम् न अव्ययीभावात् अतः इति प्रतिषेधम् शास्ति । उपचारः : अनुत्तरपदस्थस्य इति वर्तते । तत्र मुखस्वरः एकः प्रयोजयति । न च एकम् प्रयोजनम् योगारम्भम् प्रयोजयति । यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् नाव्ययात् अव्ययीभावात् च इति ।

KA I,100.6-26 Ro I,318-320 avyayībhāvasya avyayatve prayojanam lugmukhsvaropacārāḥ . avyayībhāvasya avyayatve prayojanam kim . lugmukhsvaropacārāḥ . luk : upāgni pratyagni . avyayāt iti luk siddhaḥ bhavati . mukhasvaraḥ . upāgnimukhaḥ , pratyagnimukhaḥ . na avyayadikśabdgomahatsthūlapṛthuvatsebhyaḥ iti pratiṣedhaḥ siddhaḥ bhavati . upacāraḥ : upapayaḥkāraḥ , upapayaḥkāmaḥ iti . ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣu anavyayasya iti pratiṣedhaḥ siddhaḥ bhavati . kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram . parigaṇanam iti āha . api khalu api āhuḥ . yat anyat avyayībhāvasya avyayakṛtam prāpnoti tasya pratiṣedhaḥ vaktavyaḥ iti . kim punaḥ tat . parāṅgavadbhāvaḥ . parāṅgavadbhāve avyayapratiṣedhaḥ coditaḥ uccaiḥ adhīyāna nīcaiḥ adhīyāna iti evamartham . saḥ iha api prāpnoti : upāgni adhīyāna pratyagni adhīyāna . akaci avyayagrahaṇam kriyate uccakaiḥ , nīcakaiḥ iti evamartham . tat iha api prāpnoti : upāgnikam , pratyagnikam iti . mumi avyayapratiṣedhaḥ ucyate doṣāmanyam ahaḥ , divāmanyā rātriḥ iti evamartham . saḥ iha api prāpnoti : aupakumbhammanyaḥ , upamaṇikammanyaḥ . asya cvau avyayapratiṣedhaḥ ucyate doṣābhūtam ahaḥ , divābhūtā rātriḥ iti evamartham . saḥ iha api prāpnoti : upakumbhībhūtam upamaṇikībhūtam . yadi parigaṇanam kriyate na arthaḥ avyayībhāvasya avyayasañjñayā . katham yāni avyayībhāvasya avyayatve prayojanāni . na etāni santi . yat tāvat ucyate luk iti : ācāryapravṛttiḥ jñāpayati bhavati avyayībhāvāt luk iti yad ayam na avyayībhāvāt ataḥ iti pratiṣedham śāsti . upacāraḥ : anuttarapadasthasya iti vartate . tatra mukhasvaraḥ ekaḥ prayojayati . na ca ekam prayojanam yogārambham prayojayati . yadi etāvat prayojanam syāt tatra eva ayam brūyāt nāvyayāt avyayībhāvāt ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०१।२-१६ रो इ,३२०-३२२ शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः । शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति : कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति । असमर्थसमासः च अयम् द्रष्टव्यः अनपुंसकस्य इति । न हि नञः नपुंसकेन सामर्थ्यम्। केन तर्हि । भवतिना : न भवति नपुंसकस्य इति । यत् तावत् उच्यते शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः इति । न अप्रतिषेधात् । न अयम् प्रसज्यप्रतिषेधः : नपुंसकस्य न इति । किम् तर्हि । पर्युदासः अयम् : यत् अन्यत् नपुंसकात् इति । नपुंसके अव्यापारः । यदि केन चित् प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति । अप्राप्तेः वा । अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः एतत् । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा । तया भविष्यति । ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुम् । यत् अपि उच्यते । असमर्थसमासः च अयम् द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि । कानि । असूर्यम्पश्यानि मुखानि , अपुनर्गेयाः श्लोकाः , अश्राद्धभोजी ब्राह्मणः इति ।

KA I,101.2-16 Ro I,320-322 śi sarvanāmasthānam suṭ anapuṃsakasya iti cet jasi śipratiṣedhaḥ . śi sarvanāmasthānam suṭ anapuṃsakasya iti cet jasi śeḥ pratiṣedhaḥ prāpnoti : kuṇḍāni tiṣṭhanti vanāni tiṣṭhanti . asamarthasamāsaḥ ca ayam draṣṭavyaḥ anapuṃsakasya iti . na hi nañaḥ napuṃsakena sāmarthyam. kena tarhi . bhavatinā : na bhavati napuṃsakasya iti . yat tāvat ucyate śi sarvanāmasthānam suṭ anapuṃsakasya iti cet jasi śipratiṣedhaḥ iti . na apratiṣedhāt . na ayam prasajyapratiṣedhaḥ : napuṃsakasya na iti . kim tarhi . paryudāsaḥ ayam : yat anyat napuṃsakāt iti . napuṃsake avyāpāraḥ . yadi kena cit prāpnoti tena bhaviṣyati . pūrveṇa ca prāpnoti . aprāpteḥ vā . atha vā anantarā yā prāptiḥ sā pratiṣidhyate . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā . tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . yat api ucyate . asamarthasamāsaḥ ca ayam draṣṭavyaḥ iti yadi api vaktavyaḥ atha vā etarhi bahūni prayojanāni . kāni . asūryampaśyāni mukhāni , apunargeyāḥ ślokāḥ , aśrāddhabhojī brāhmaṇaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०१।१८-१०२।१० रो इ,३२२-३२३ न वा इति विभाषायाम् अर्थसञ्ज्ञाकरणम् । न वा इति विभाषायाम् अर्थस्य सञ्ज्ञा कर्तव्या । नवाशब्दस्य यः अर्थः तस्य सञ्ज्ञा भवति इति वक्तव्यम् । किम् प्रयोजनम् । शब्दसञ्ज्ञायाम् हि अर्थासम्प्रत्ययः यथा अन्यत्र । शब्दसञ्ज्ञायाम् हि सत्याम् अर्थस्य असम्प्रत्ययः स्यात् यथा अन्यत्र । अन्यत्र अपि शब्दसञ्ज्ञायाम् शब्दस्य सम्प्रत्ययः भवति न अर्थस्य । क्व अन्यत्र । दाधाः घु अदाप् तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययः भवति न अर्थस्य । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इतिकरणः अर्थनिर्देशार्थः । इतिकरणः क्रियते । सः अर्थनिर्देशार्थः भविष्यति । किम् गतम् एतत् इतिना आहोस्वित् शबाधिक्यात् अर्थाधिक्यम् । गतम् इति आह । कुतः । लोकतः । तत् यथा लोके गौः अयम् इति आह इति गोशब्दात् इतिकरणः परः प्रयुज्यमानः गोशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति । सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ अर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते । एवम् इह अपि नवाशब्दात् इतिकरणः परः प्रयुज्यमानः नवाशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति । सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ शब्दपदार्थकता तस्याः लौकिकम् अर्थम् सम्प्रत्याययति । न वा इति यत् गम्यते न वा इति यत् प्रतीयते इति ।

KA I,101.18-102.10 Ro I,322-323 na vā iti vibhāṣāyām arthasañjñākaraṇam . na vā iti vibhāṣāyām arthasya sañjñā kartavyā . navāśabdasya yaḥ arthaḥ tasya sañjñā bhavati iti vaktavyam . kim prayojanam . śabdasañjñāyām hi arthāsampratyayaḥ yathā anyatra . śabdasañjñāyām hi satyām arthasya asampratyayaḥ syāt yathā anyatra . anyatra api śabdasañjñāyām śabdasya sampratyayaḥ bhavati na arthasya . kva anyatra . dādhāḥ ghu adāp taraptamapau ghaḥ iti ghugrahaṇeṣu ghagrahaṇeṣu ca śabdasya sampratyayaḥ bhavati na arthasya . tat tarhi vaktavyam . na vaktavyam . itikaraṇaḥ arthanirdeśārthaḥ . itikaraṇaḥ kriyate . saḥ arthanirdeśārthaḥ bhaviṣyati . kim gatam etat itinā āhosvit śabādhikyāt arthādhikyam . gatam iti āha . kutaḥ . lokataḥ . tat yathā loke gauḥ ayam iti āha iti gośabdāt itikaraṇaḥ paraḥ prayujyamānaḥ gośabdam svasmāt padārthāt pracyāvayati . saḥ asau svasmāt padārthāt pracyutaḥ yā asau arthapadārthakatā tasyāḥ śabdapadārthakaḥ sampadyate . evam iha api navāśabdāt itikaraṇaḥ paraḥ prayujyamānaḥ navāśabdam svasmāt padārthāt pracyāvayati . saḥ asau svasmāt padārthāt pracyutaḥ yā asau śabdapadārthakatā tasyāḥ laukikam artham sampratyāyayati . na vā iti yat gamyate na vā iti yat pratīyate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०२।११-१०३।२ रो इ,३२४-३२५ समानशब्दप्रतिषेधः । समानशब्दानाम् प्रतिषेधः वक्तव्यः : नवा कुण्डिका नवा घटिका इति । किम् च स्यात् यदि एतेषाम् अपि विभाषासञ्ज्ञा स्यात् । विभाषा दिक्समासे बहुव्रीहौ : दक्षिणपूर्वस्याम् शालायाम् । अचिरकृतायाम् सम्प्रत्ययः स्यात् । न वा विधिपूर्वकत्वात् प्रतिषेधसमप्रत्ययः यथा लोके । न वा एषः दोषः । किम् कारणम् । विधिपूर्वकत्वात् । विधाय किम् चित् न वा इति उच्यते । तेन प्रतिषेधवाचिनः समप्रत्ययः भवति । तत् यथा लोके : ग्रामः भवता गन्तव्यः न वा । न इति गम्यते । अस्ति कार्णम् येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति । किम् कारणम् । विलिङ्गम् हि भवान् लोके निर्देशम् करोति । आङ्ग हि समानलिङ्गः निर्देशः क्रियताम् प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति । तत् यथा : ग्रामः भवता गन्तव्यः नवः । प्रत्यग्रः इति गम्यते । एतत् च एव न जानीमः : क्व चित् व्याकरणे समानलिङ्गः निर्देशः क्रियते इति । अपि च कामचारः प्रयोक्तुः शब्दानाम् अभिसम्बन्धे । तत् यथा : यवागूः भवता भोक्तव्या नवा । यदा यवागूशब्दः भुजिना अभिसम्बध्यते भुजिः नवाशब्देन तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति : यवागूः भवता भोक्तव्या नवा । न इति गम्यते । यदा यवागूशब्दः नवाशब्देन अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति : यवागूः नवा भवता भोक्तव्या । प्रत्यग्रा इति गम्यते । न च इह वयम् विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः : दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति । किम् तर्हि । भवतिः अभिसम्बध्यते : दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति ।

KA I,102.11-103.2 Ro I,324-325 samānaśabdapratiṣedhaḥ . samānaśabdānām pratiṣedhaḥ vaktavyaḥ : navā kuṇḍikā navā ghaṭikā iti . kim ca syāt yadi eteṣām api vibhāṣāsañjñā syāt . vibhāṣā diksamāse bahuvrīhau : dakṣiṇapūrvasyām śālāyām . acirakṛtāyām sampratyayaḥ syāt . na vā vidhipūrvakatvāt pratiṣedhasamapratyayaḥ yathā loke . na vā eṣaḥ doṣaḥ . kim kāraṇam . vidhipūrvakatvāt . vidhāya kim cit na vā iti ucyate . tena pratiṣedhavācinaḥ samapratyayaḥ bhavati . tat yathā loke : grāmaḥ bhavatā gantavyaḥ na vā . na iti gamyate . asti kārṇam yena loke pratiṣedhavācinaḥ samapratyayaḥ bhavati . kim kāraṇam . viliṅgam hi bhavān loke nirdeśam karoti . āṅga hi samānaliṅgaḥ nirdeśaḥ kriyatām pratyagravācinaḥ sampratyayaḥ bhaviṣyati . tat yathā : grāmaḥ bhavatā gantavyaḥ navaḥ . pratyagraḥ iti gamyate . etat ca eva na jānīmaḥ : kva cit vyākaraṇe samānaliṅgaḥ nirdeśaḥ kriyate iti . api ca kāmacāraḥ prayoktuḥ śabdānām abhisambandhe . tat yathā : yavāgūḥ bhavatā bhoktavyā navā . yadā yavāgūśabdaḥ bhujinā abhisambadhyate bhujiḥ navāśabdena tadā pratiṣedhavācinaḥ sampratyayaḥ bhavati : yavāgūḥ bhavatā bhoktavyā navā . na iti gamyate . yadā yavāgūśabdaḥ navāśabdena abhisambadhyate na bhujinā tadā pratyagravācinaḥ sampratyayaḥ bhavati : yavāgūḥ navā bhavatā bhoktavyā . pratyagrā iti gamyate . na ca iha vayam vibhāṣāgrahaṇena sarvādīni abhisambadhnīmaḥ : diksamāse bahuvrīhau sarvādīni vibhāṣā bhavanti iti . kim tarhi . bhavatiḥ abhisambadhyate : diksamāse bahuvrīhau sarvādīni bhavanti vibhāṣā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०३।३-१०४।७ रो इ,३२५-३२८ विध्यनित्यत्वम् अनुपपन्नम् प्रतिषेधसञ्ज्ञाकरणात् । विध्यनित्यत्वम् न उपपद्यते : शुशाव , शुशुवतुः , शुशुवुः , शिश्वाय , शिश्वियतुः , शिश्वियुः । किम् कारणम् । प्रतिषेधसञ्ज्ञाकरणात् । प्रतिषेधस्य इयम् सञ्ज्ञा क्रियते । तेन विभाषाप्रदेशेषु प्रतिषेधस्य एव सम्प्रत्ययः स्यात् । सिद्धम् तु प्रसज्यप्रतिषेधात् । सिद्धम् एतत् । कथम् । प्रसज्यप्रतिषेधात् । प्रसज्य किम् चित् न वा इति उच्यते । तेन उभयम् भविष्यति । विप्रतिषिद्धम् तु । विप्रतिषिद्धम् तु भवति । अत्र न ज्ञायते : केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति । न वा प्रसङ्गसामर्थ्यात् अन्यत्र प्रतिषेधविषयात् । न वा एषः दोषः । किम् कारणम् । प्रसङ्गसामर्थ्यात् । प्रसङ्गसामर्थ्यात् च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात् प्रतिषेधसामर्थ्यात् च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात् । तत् एतत् क्व सिद्धम् भवति । या अप्राप्ते विभाषा । या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात् । एतत् अपि सिद्धम् । कथम् । विभाषा इति महतीसञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत् । लघ्वर्थम् हि सञ्ज्ञाकरणम् । तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् उभयोः सञ्ज्ञा यथा विज्ञायेत : न इति च वा इति च । तत्र या तावत् अप्राप्ते विभाषा तत्र प्रतिषेध्यम् न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति । या हि प्राप्ते विभाषा तत्र उभयम् उपस्थितम् भवति : न इति च वा इति च । तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति । एवम् अपि विप्रतिषेधयोः युगपद्वचनानुपपत्तिः । विप्रतिषेधयोः युगपद्वचनम् न उपपद्यते : शुशाव शुशुवतुः शुशुवुः शिश्वाय शिश्वियतुः शिश्वियुः । किम् कारणम् । भवति इति चेत् न प्रतिषेधः । भवति इति चेत् प्रतिषेधः न प्राप्नोति । न इति चेत् न विधिः । न इत् चेत् विधिः न सिध्यति । सिद्धम् तु पूर्वस्य उत्तरेण बाधितत्वात् । सिद्धम् एतत्। कथम् । पूर्वविधिम् उत्तर्विधिः बाधते । इतिकरणः अर्थनिर्देशाऋथः इति उक्तम् ।

KA I,103.3-104.7 Ro I,325-328 vidhyanityatvam anupapannam pratiṣedhasañjñākaraṇāt . vidhyanityatvam na upapadyate : śuśāva , śuśuvatuḥ , śuśuvuḥ , śiśvāya , śiśviyatuḥ , śiśviyuḥ . kim kāraṇam . pratiṣedhasañjñākaraṇāt . pratiṣedhasya iyam sañjñā kriyate . tena vibhāṣāpradeśeṣu pratiṣedhasya eva sampratyayaḥ syāt . siddham tu prasajyapratiṣedhāt . siddham etat . katham . prasajyapratiṣedhāt . prasajya kim cit na vā iti ucyate . tena ubhayam bhaviṣyati . vipratiṣiddham tu . vipratiṣiddham tu bhavati . atra na jñāyate : kena abhiprāyeṇa prasajati kena nivṛttim karoti iti . na vā prasaṅgasāmarthyāt anyatra pratiṣedhaviṣayāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . prasaṅgasāmarthyāt . prasaṅgasāmarthyāt ca vidhiḥ bhaviṣyati anyatra pratiṣedhaviṣayāt pratiṣedhasāmarthyāt ca pratiṣedhaḥ bhaviṣyati anyatra vidhiviṣayāt . tat etat kva siddham bhavati . yā aprāpte vibhāṣā . yā hi prāpte kṛtasāmarthyaḥ tatra pūrveṇa vidhiḥ iti kṛtvā pratiṣedhasya eva sampratyayaḥ syāt . etat api siddham . katham . vibhāṣā iti mahatīsañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam ubhayoḥ sañjñā yathā vijñāyeta : na iti ca vā iti ca . tatra yā tāvat aprāpte vibhāṣā tatra pratiṣedhyam na asti iti kṛtvā vā iti anena vikalpaḥ bhaviṣyati . yā hi prāpte vibhāṣā tatra ubhayam upasthitam bhavati : na iti ca vā iti ca . tatra na iti anena pratiṣiddhe vā iti anena vikalpaḥ bhaviṣyati . evam api vipratiṣedhayoḥ yugapadvacanānupapattiḥ . vipratiṣedhayoḥ yugapadvacanam na upapadyate : śuśāva śuśuvatuḥ śuśuvuḥ śiśvāya śiśviyatuḥ śiśviyuḥ . kim kāraṇam . bhavati iti cet na pratiṣedhaḥ . bhavati iti cet pratiṣedhaḥ na prāpnoti . na iti cet na vidhiḥ . na it cet vidhiḥ na sidhyati . siddham tu pūrvasya uttareṇa bādhitatvāt . siddham etat. katham . pūrvavidhim uttarvidhiḥ bādhate . itikaraṇaḥ arthanirdeśāṛthaḥ iti uktam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०४।८-१०५।१३ रो इ,३२८-३३२ साध्वनुशासने अस्मिन् यस्य विभाषा तस्य साधुत्वम् । साध्वनुशासने अस्मिन् शास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात् । समासः च एव हि विभाषा । तेन समासस्य एव विभाषा साधुत्वम् स्यात् । अस्तु । यः साधुः सः प्रयोक्ष्यते। असाधुः न प्रयोक्ष्यते । न च एव हि कदा चित् राजपुरुषः इति अस्याम् अवस्थायाम् असाधुत्वम् इष्यते । अपि च द्वेधाप्रतिपत्तिः । द्वैधम् शब्दानाम् अप्रतिपत्तिः । इच्छामः च पुनः विभाषाप्रदेशेषु द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति । यस्य पुनः कार्याः शब्दाः विभाषा असौ समासम् निर्वर्तयति । यस्य अपि नित्याः शब्दाः तस्य अपि एषः न दोषः । कथम् । न विभाषाग्रहणेन साधुत्वम् अभिसम्बध्यते । किम् तर्हि । समाससञ्ज्ञा अभिसम्बध्यते : समासः इति एषा सञ्ज्ञा विभाषा भवति इति । तत् यथा : मेध्यः पशुः विभाषितः । मेध्यः अनड्वान् विभाषितः इति । न एतत् विचार्यते : अनड्वान् न अनड्वान् इति । किम् तर्हि आलब्धव्यः न आलब्धव्यः इति । कार्ये युगपदन्वाचययौगपद्यम् । कार्येषु शब्देषु युगपत् अन्वाचयेन च यत् उच्यते तस्य युगपद्वचनता प्राप्नोति : तव्यत्तव्यानीयरः , ढक् च मण्डूकात् इति । यस्य पुनः नित्याः शब्दाः प्रयुक्तानाम् असौ साधुत्वम् अन्वाचष्टे । ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः । कथम् । प्रत्ययः परः भवति इति उच्यते । न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत् परत्वेन सम्भवः अस्ति । न अपि ब्रूमः प्रत्ययमाला प्राप्नोति । किम् तर्हि । कर्तव्यम् इति प्रयोक्तव्ये युगपत् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति । न एषः दोषः । अर्थगत्यर्थः शब्दप्रयोगः । अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति । आचार्यदेशशीलने च तद्विषयता । आचार्यदेशशीलनेन यत् उच्यते तस्य तद्विषयता प्राप्नोति । इकः ह्रस्वः अङ्यः गालवस्य प्राचाम् अवृद्धात् फिन् बहुलम् इति गालवाः एव ह्रस्वान् प्रयुञ्जीरन् प्राक्षु च एव हि फिन् स्यात् । तत् यथा : जमदग्निः वै एतत् पञ्चमम् अवदानम् अवाद्यत् तस्मात् न अजामदग्न्यः पञ्चावत्तम् जुहोति । यस्य पुनः नित्याः शब्दाः गालवग्रहणम् तस्य पूजार्थम् देशग्रहणम् च कीर्त्यर्थम् । ननु च यस्य अपि कार्याः तस्य अपि पूजार्थम् गालवग्रहणम् स्यात् देशग्रहम् च कीर्त्यर्थम् । तत्कीर्तने च द्वेधाप्रतिपत्तिः । तत्कीर्तने च द्वैधम् शब्दानाम् अप्रतिपत्तिः स्यात् । इच्छामः च पुनः आचार्यग्रहणेषु देशग्रहणेषु च द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति ।

KA I,104.8-105.13 Ro I,328-332 sādhvanuśāsane asmin yasya vibhāṣā tasya sādhutvam . sādhvanuśāsane asmin śāstre yasya vibhāṣā kriyate saḥ vibhāṣā sādhuḥ syāt . samāsaḥ ca eva hi vibhāṣā . tena samāsasya eva vibhāṣā sādhutvam syāt . astu . yaḥ sādhuḥ saḥ prayokṣyate. asādhuḥ na prayokṣyate . na ca eva hi kadā cit rājapuruṣaḥ iti asyām avasthāyām asādhutvam iṣyate . api ca dvedhāpratipattiḥ . dvaidham śabdānām apratipattiḥ . icchāmaḥ ca punaḥ vibhāṣāpradeśeṣu dvaidham śabdānām pratipattiḥ syāt iti tat ca na sidhyati . yasya punaḥ kāryāḥ śabdāḥ vibhāṣā asau samāsam nirvartayati . yasya api nityāḥ śabdāḥ tasya api eṣaḥ na doṣaḥ . katham . na vibhāṣāgrahaṇena sādhutvam abhisambadhyate . kim tarhi . samāsasañjñā abhisambadhyate : samāsaḥ iti eṣā sañjñā vibhāṣā bhavati iti . tat yathā : medhyaḥ paśuḥ vibhāṣitaḥ . medhyaḥ anaḍvān vibhāṣitaḥ iti . na etat vicāryate : anaḍvān na anaḍvān iti . kim tarhi ālabdhavyaḥ na ālabdhavyaḥ iti . kārye yugapadanvācayayaugapadyam . kāryeṣu śabdeṣu yugapat anvācayena ca yat ucyate tasya yugapadvacanatā prāpnoti : tavyattavyānīyaraḥ , ḍhak ca maṇḍūkāt iti . yasya punaḥ nityāḥ śabdāḥ prayuktānām asau sādhutvam anvācaṣṭe . nanu ca yasya api kāryāḥ tasya api eṣaḥ na doṣaḥ . katham . pratyayaḥ paraḥ bhavati iti ucyate . na ca ekasyāḥ prakṛteḥ anekasya pratyayasya yugapat paratvena sambhavaḥ asti . na api brūmaḥ pratyayamālā prāpnoti . kim tarhi . kartavyam iti prayoktavye yugapat dvitīyasya tṛtīyasya ca prayogaḥ prāpnoti . na eṣaḥ doṣaḥ . arthagatyarthaḥ śabdaprayogaḥ . artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti . ācāryadeśaśīlane ca tadviṣayatā . ācāryadeśaśīlanena yat ucyate tasya tadviṣayatā prāpnoti . ikaḥ hrasvaḥ aṅyaḥ gālavasya prācām avṛddhāt phin bahulam iti gālavāḥ eva hrasvān prayuñjīran prākṣu ca eva hi phin syāt . tat yathā : jamadagniḥ vai etat pañcamam avadānam avādyat tasmāt na ajāmadagnyaḥ pañcāvattam juhoti . yasya punaḥ nityāḥ śabdāḥ gālavagrahaṇam tasya pūjārtham deśagrahaṇam ca kīrtyartham . nanu ca yasya api kāryāḥ tasya api pūjārtham gālavagrahaṇam syāt deśagraham ca kīrtyartham . tatkīrtane ca dvedhāpratipattiḥ . tatkīrtane ca dvaidham śabdānām apratipattiḥ syāt . icchāmaḥ ca punaḥ ācāryagrahaṇeṣu deśagrahaṇeṣu ca dvaidham śabdānām pratipattiḥ syāt iti tat ca na sidhyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०५।१४-२० रो इ,३३२-३३३ अशिष्यः वा विदितत्वात् । अशिष्यः वा पुनः अयम् योगः । किम् कारणम् । विदितत्वात् । यत् अनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात् । ये अपि हि एताम् सञ्ज्ञाम् न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति । याज्ञिकाः खलु अपि सञ्ज्ञाम् अनारभमाणाः विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति । तत् यथा । मेध्यः पशुः विभाषितः । मेध्यः अनड्वान् विभाषितः इति । आलब्धव्यः न आलब्धव्यः इति गम्यते । आचार्यः खलु अपि सञ्ज्ञाम् आरभमाणः भूयिष्ठम् अन्यैः अपि शब्दैः एतम् अर्थम् सम्प्रत्याययति बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।

KA I,105.14-20 Ro I,332-333 aśiṣyaḥ vā viditatvāt . aśiṣyaḥ vā punaḥ ayam yogaḥ . kim kāraṇam . viditatvāt . yat anena yogena prārthyate tasya arthasya viditatvāt . ye api hi etām sañjñām na ārabhante te api vibhāṣā iti ukte anityatvam avagacchanti . yājñikāḥ khalu api sañjñām anārabhamāṇāḥ vibhāṣā iti ukte anityatvam avagacchanti . tat yathā . medhyaḥ paśuḥ vibhāṣitaḥ . medhyaḥ anaḍvān vibhāṣitaḥ iti . ālabdhavyaḥ na ālabdhavyaḥ iti gamyate . ācāryaḥ khalu api sañjñām ārabhamāṇaḥ bhūyiṣṭham anyaiḥ api śabdaiḥ etam artham sampratyāyayati bahulam anyatarasyām ubhayathā vā ekeṣām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०५।२१-१०८।७ रो इ,३३३-३३९ अप्राप्ते त्रिसंशयाः । इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः । त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति । द्वन्द्वे च विभाषा जसि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । उभयशब्दः सर्वादिषु पठ्यते तयपः च अयजादेशः क्रियते । तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । अयच् प्रत्ययान्तरम् । यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति । मा भूत् एवम् । मात्रचः इति एवम् भविष्यति । कथम् । मात्रच् इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । मात्रशब्दात् प्रभृति आ आयचः चकारात् । यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति : अत्र अपि प्राप्नोति । अतः इति वर्तते । एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति । सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् । ऊर्णोः विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । असंयोगात् लिट् कित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । अन्यत् हि कित्त्वम् अन्यत् ङित्त्वम् । एकम् चेत् ङित्कितौ । यदि एकम् ङित्कितौ ततः अस्ति सन्देहः । अथ हि नाना न अस्ति सन्देहः । यदि अपि नाना एवम् अपि सन्देहः । कथम् । प्रौर्णुवि इति । सार्वधातुकम् अपित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । विभाषा उपयमने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । गन्धने इति निवृत्तम् । अनुपसर्गात् वा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । वृत्त्यादिषु इति निवृत्तम् । विभाषा वृक्षमृगादीनाम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । जातिः अप्राणिनाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । जातिः अप्राणिनाम् इति निवृत्तम् । उषविदजागृभ्यः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । प्रत्ययान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । प्रत्ययान्ताः धात्वन्तराणि । दीपादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । कर्तरि इति वर्तते । एवम् अपि सन्देहः : न्याय्ये वा कर्तरि कर्मकर्तरि वा इति । न अस्ति सन्देहः । सकर्मकस्य कर्ता कर्मवत् भवति अकर्मकाः च दीपादयः । अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति । कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् च भवन्ति कर्तृस्थभावकाः च दीपादयः । विभाषा अग्रेप्रथमपूर्वेषु : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । आभीक्ष्ण्ये इति निवृत्तम् । तृनादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । आक्रोशे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । आक्रोशे इति निवृत्तम् । एकहलादौ पूरयितव्ये अन्यतरस्याम् । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । उदकस्य उदः सञ्ज्ञायाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । सञ्ज्ञायाम् इति निवृत्तम् । श्वादेः इञि पदान्तस्य अन्यतरस्याम् । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । इञि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । इञि इति निवृत्तम् । सपूर्वायाः प्रथमायाः विभाषा । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । चादिभिः योगे इति निवृत्तम् । ग्रः यङि अचि विभाषा । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

KA I,105.21-108.7 Ro I,333-339 aprāpte trisaṃśayāḥ . itaḥ uttaram yāḥ vibhāṣāḥ anukramiṣyāmaḥ aprāpte tāḥ draṣṭavyāḥ . trisaṃśayāḥ tu bhavanti : prāpte aprāpte ubhayatra vā iti . dvandve ca vibhāṣā jasi : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ubhayaśabdaḥ sarvādiṣu paṭhyate tayapaḥ ca ayajādeśaḥ kriyate . tena vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . ayac pratyayāntaram . yadi pratyayāntaram ubhayī iti īkāraḥ na prāpnoti . mā bhūt evam . mātracaḥ iti evam bhaviṣyati . katham . mātrac iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . mātraśabdāt prabhṛti ā āyacaḥ cakārāt . yadi pratyāhāragrahaṇam kati tiṣṭhanti : atra api prāpnoti . ataḥ iti vartate . evam api tailamātrā ghrtamātrā iti atra api prāpnoti . sadṛśasya api asanniviṣṭasya na bhaviṣyati pratyāhāreṇa grahaṇam . ūrṇoḥ vibhāṣā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . asaṃyogāt liṭ kit iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . anyat hi kittvam anyat ṅittvam . ekam cet ṅitkitau . yadi ekam ṅitkitau tataḥ asti sandehaḥ . atha hi nānā na asti sandehaḥ . yadi api nānā evam api sandehaḥ . katham . praurṇuvi iti . sārvadhātukam apit iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . vibhāṣā upayamane : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . gandhane iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . gandhane iti nivṛttam . anupasargāt vā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . vṛttisargatāyaneṣu kramaḥ iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . vṛttyādiṣu iti nivṛttam . vibhāṣā vṛkṣamṛgādīnām : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . jātiḥ aprāṇinām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . jātiḥ aprāṇinām iti nivṛttam . uṣavidajāgṛbhyaḥ anyatarasyām : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . pratyayāntāt iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . pratyayāntāḥ dhātvantarāṇi . dīpādīnām vibhāṣā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . bhāvakarmaṇoḥ iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . kartari iti vartate . evam api sandehaḥ : nyāyye vā kartari karmakartari vā iti . na asti sandehaḥ . sakarmakasya kartā karmavat bhavati akarmakāḥ ca dīpādayaḥ . akarmakāḥ api vai sopasargāḥ sakarmakāḥ bhavanti . karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇām ca bhavanti kartṛsthabhāvakāḥ ca dīpādayaḥ . vibhāṣā agreprathamapūrveṣu : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ābhīkṣṇye iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . ābhīkṣṇye iti nivṛttam . tṛnādīnām vibhāṣā : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ākrośe iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . ākrośe iti nivṛttam . ekahalādau pūrayitavye anyatarasyām . prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . udakasya udaḥ sañjñāyām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . sañjñāyām iti nivṛttam . śvādeḥ iñi padāntasya anyatarasyām . prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . iñi iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . iñi iti nivṛttam . sapūrvāyāḥ prathamāyāḥ vibhāṣā . prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . cādibhiḥ yoge iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . aprāpte . cādibhiḥ yoge iti nivṛttam . graḥ yaṅi aci vibhāṣā . prāpte aprāpte ubhayatra vā iti sandehaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०८।८-१०९।३ रो इ,३३९-४० प्राप्ते च । इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः । त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति । विभाषा विप्रलापे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । व्यक्तवाचाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । व्यक्तवाचाम् इति हि वर्तते । विभाषा उपपदेन प्रतीयमाने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । स्वरितञितः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । स्वरितञितः इति हि वर्तते । तिरः अन्तर्धौ विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । अन्तर्धौ इति हि वर्तते । अधिः ईश्वरे विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । ईश्वरे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । ईश्वरे इति हि वर्तते । दिवः तदर्थस्य विभाषा उपसर्गे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । तदर्थस्य इति वर्तते

KA I,108.8-109.3 Ro I,339-40 prāpte ca . itaḥ uttaram yāḥ vibhāṣāḥ anukramiṣyāmaḥ prāpte tāḥ draṣṭavyāḥ . trisaṃśayāḥ tu bhavanti : prāpte aprāpte ubhayatra vā iti . vibhāṣā vipralāpe : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . vyaktavācām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . vyaktavācām iti hi vartate . vibhāṣā upapadena pratīyamāne : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . svaritañitaḥ iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . svaritañitaḥ iti hi vartate . tiraḥ antardhau vibhāṣā kṛñi : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . antardhau iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . antardhau iti hi vartate . adhiḥ īśvare vibhāṣā kṛñi : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . īśvare iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . īśvare iti hi vartate . divaḥ tadarthasya vibhāṣā upasarge : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . tadarthasya iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . prāpte . tadarthasya iti vartate

Sanskrit only: no published translation is held for this verse.

क्अ इ,१०९।४-११०।८ रो इ,३४०-३४१ उभयत्र च । इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः । त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति । हृक्रोः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावत् : अभ्यवहारयति सैन्धवान् , अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान् , विकारयति सैन्धवैः । अप्राप्ते : हरति भारम् देवदत्तः । हारयति भारम् देवदत्तम् , हारयति भारम् देवदत्तेन । करोति कटम् देवदत्तः । कारयति कटम् देवदत्तम् , कारयति कटम् देवदत्तेन । न यदि विभाषा साकाङ्क्षे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावत् : अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः , यत् कश्मीरेषु अवसाम , यत् तत्र ओदनान् भोक्ष्यामहे , यत् तत्र ओदनान् अभुञ्ज्महि । अप्राप्ते : अभिजानासि देवदत्त कश्मीरान् गमिष्यामः , कश्मीरान् अगच्छाम , तत्र ओदनाम् भोक्ष्यामहे , तत्र ओदनान् अभुञ्ज्महि । विभाषा श्वेः : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावत् : शुशुवतुः , शुशुवुः , शिश्वियतुः , शिश्वियुः । अप्राप्ते : शुशाव शुशविथ शिश्वाय शिश्वयिथ । विभाषा सङ्घुषास्वनाम् : सम्पूर्वात् घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । घुषिः अविशब्दने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावत् : सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः । अप्राप्ते : सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् । आङ्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र । मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावत् : आस्वान्तम् मनः , आस्वनितम् मनः । अप्राप्ते : आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति ।

KA I,109.4-110.8 Ro I,340-341 ubhayatra ca . itaḥ uttaram yāḥ vibhāṣāḥ anukramiṣyāmaḥ ubhayatra tāḥ draṣṭavyāḥ . trisaṃśayāḥ tu bhavanti : prāpte aprāpte ubhayatra vā iti . hṛkroḥ anyatarasyām : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . gatibuddhipratyavasānārthaśabdakarmākarmakāṇām iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : abhyavahārayati saindhavān , abhyavahārayati saindhavaiḥ , vikārayati saindhavān , vikārayati saindhavaiḥ . aprāpte : harati bhāram devadattaḥ . hārayati bhāram devadattam , hārayati bhāram devadattena . karoti kaṭam devadattaḥ . kārayati kaṭam devadattam , kārayati kaṭam devadattena . na yadi vibhāṣā sākāṅkṣe : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra .yadi iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ , yat kaśmīreṣu avasāma , yat tatra odanān bhokṣyāmahe , yat tatra odanān abhuñjmahi . aprāpte : abhijānāsi devadatta kaśmīrān gamiṣyāmaḥ , kaśmīrān agacchāma , tatra odanām bhokṣyāmahe , tatra odanān abhuñjmahi . vibhāṣā śveḥ : prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra .kiti iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : śuśuvatuḥ , śuśuvuḥ , śiśviyatuḥ , śiśviyuḥ . aprāpte : śuśāva śuśavitha śiśvāya śiśvayitha . vibhāṣā saṅghuṣāsvanām : sampūrvāt ghuṣeḥ prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . ghuṣiḥ aviśabdane iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : saṅghuṣṭā rajjuḥ , saṅghuṣitā rajjuḥ . aprāpte : saṅghuṣṭam vākyam , saṅghuṣitam vākyam . āṅpūrvāt svaneḥ prāpte aprāpte ubhayatra vā iti sandehaḥ . katham ca prāpte katham vā aprāpte katham vā ubhayatra . manasi iti vā nitye prāpte anyatra vā aprāpte ubhayatra vā iti . ubhayatra . prāpte tāvat : āsvāntam manaḥ , āsvanitam manaḥ . aprāpte : āsvāntaḥ devadattaḥ , āsvanitaḥ devadattaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१११।२-११२।१७ रो इ,३४२-३४६ फ़्किम् इयम् वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते : इक् यणः इति एतत् वाक्यम् सम्प्रसारणसञ्ज्ञम् भवति इति , आहोस्वित् वर्णस्य : इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति । कः च अत्र विशेषः । सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः । सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः न सिध्यति : सम्प्रसारणात् परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति । न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति । अस्तु तर्हि वर्णस्य । वर्णसञ्ज्ञा चेत् निर्वृत्तिः । वर्णसञ्ज्ञा चेत् निर्वृत्तिः न सिध्यति : ष्यङः सम्प्रसारणम् इति । सः एव हि तावत् इक् दुर्लभः यस्य सञ्ज्ञा क्रियते । अथ अपि कथम् चित् लभ्येत केन असु यणः स्थाने स्यात् । अनेन एव हि असौ व्यवस्थाप्यते । तत् एतत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । विभक्तिविशेषनिर्देशः तु ज्ञापकः उभयसञ्ज्ञात्वस्य । यत् अयम् विभक्तिविशेषैः निर्देशम् करोति सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्यङः सम्प्रसारणम् इति तेन ज्ञायते उभयोः सञ्ज्ञा भवति इति । यत् तावत् आह सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन ज्ञायते वर्णस्य भवति इति । यत् अपि आह ष्यङः सम्प्रसारणम् इति तेन ज्ञायते वाक्यस्य अपि सञ्ज्ञा भवति इति । अथ वा पुनः अस्तु वाक्यस्य एव । ननु च उक्तम् सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः इति । न एषः दोषः । यथा काकात् जातः काकः , श्येनात् जातः श्येनः एवम् सम्प्रसारणात् जातम् सम्प्रसारणम् । यत् तत् सम्प्रसारणात् जातम् सम्प्रसारणम् तस्मात् परः पूर्वः भवति तस्य दीर्घः भवति इति । अथ वा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः पदेषु च पदैकदेशान् । वाक्येषु तावत् वाक्यैकदेशान् : प्रविश पिण्डीम् , प्रविश तर्पर्णम् । पदेषु पदैकदेशान् : देवदत्तः दत्तः , सत्यभामा भामा इति । एवम् इह अपि सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात् सम्प्रसारणस्य इति वाक्यैकदेशः प्रयुज्यते । तेन निर्वृत्तस्य विधिम् विज्ञास्यामः । सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति । अथ वा आह अयम् सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति । न च वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति । तत्र वचनात् भविष्यति । अथ वा पुनः अस्तु वर्णस्य । ननु च उक्तम् वर्णसञ्ज्ञा चेत् निर्वृत्तिः इति । न एषः दोषः । इतरेतराश्रयमात्रम् एतत् चोदितम् । सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति । न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः । न हि तत्र किम् चित् उच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते वृद्धिसञ्ज्ञाः भवन्ति इति । इह पुनः उच्यते इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति । एवम् तर्हि भाविनी इयम् सञ्ज्ञा विज्ञास्यते । तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति । सः पश्यति : यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः इति विप्रतिषिद्धम् । भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति । एवम् इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणम् इति एषा सञ्ज्ञा भविष्यति । अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते । यजाद्युपदेशात् तु इजादिनिवृत्तिः प्रसक्ता । प्रयुञ्जते च पुनः लोकाः इष्टम् उप्तम् इति । ते मन्यामहे : अस्य यणः स्थाने इमम् इकम् प्रयुञ्जते इति । तत्र तस्य असाध्वभिमतस्य शास्त्रेण साधुत्वम् अवस्थाप्यते : किति साधुः भवति ङिति साधुः भवति इति ।

KA I,111.2-112.17 Ro I,342-346 fkim iyam vākyasya samprasāraṇasañjñā kriyate : ik yaṇaḥ iti etat vākyam samprasāraṇasañjñam bhavati iti , āhosvit varṇasya : ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ bhavati iti . kaḥ ca atra viśeṣaḥ . samprasāraṇasañjñāyām vākyasañjñā cet varṇavidhiḥ . samprasāraṇasañjñāyām vākyasañjñā cet varṇavidhiḥ na sidhyati : samprasāraṇāt paraḥ pūrvaḥ bhavati , samprasāraṇasya dīrghaḥ bhavati iti . na hi vākyasya samprasāraṇasañjñāyām satyām eṣaḥ nirdeśaḥ upapadyate na api etayoḥ kāryayoḥ sambhavaḥ asti . astu tarhi varṇasya . varṇasañjñā cet nirvṛttiḥ . varṇasañjñā cet nirvṛttiḥ na sidhyati : ṣyaṅaḥ samprasāraṇam iti . saḥ eva hi tāvat ik durlabhaḥ yasya sañjñā kriyate . atha api katham cit labhyeta kena asu yaṇaḥ sthāne syāt . anena eva hi asau vyavasthāpyate . tat etat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante . vibhaktiviśeṣanirdeśaḥ tu jñāpakaḥ ubhayasañjñātvasya . yat ayam vibhaktiviśeṣaiḥ nirdeśam karoti samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati ṣyaṅaḥ samprasāraṇam iti tena jñāyate ubhayoḥ sañjñā bhavati iti . yat tāvat āha samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati iti tena jñāyate varṇasya bhavati iti . yat api āha ṣyaṅaḥ samprasāraṇam iti tena jñāyate vākyasya api sañjñā bhavati iti . atha vā punaḥ astu vākyasya eva . nanu ca uktam samprasāraṇasañjñāyām vākyasañjñā cet varṇavidhiḥ iti . na eṣaḥ doṣaḥ . yathā kākāt jātaḥ kākaḥ , śyenāt jātaḥ śyenaḥ evam samprasāraṇāt jātam samprasāraṇam . yat tat samprasāraṇāt jātam samprasāraṇam tasmāt paraḥ pūrvaḥ bhavati tasya dīrghaḥ bhavati iti . atha vā dṛśyante hi vākyeṣu vākyaikadeśān prayuñjānāḥ padeṣu ca padaikadeśān . vākyeṣu tāvat vākyaikadeśān : praviśa piṇḍīm , praviśa tarparṇam . padeṣu padaikadeśān : devadattaḥ dattaḥ , satyabhāmā bhāmā iti . evam iha api samprasāraṇanirvṛttāt samprasāraṇanirvṛttasya iti etasya vākyasya arthe samprasāraṇāt samprasāraṇasya iti vākyaikadeśaḥ prayujyate . tena nirvṛttasya vidhim vijñāsyāmaḥ . samprasāraṇanirvṛttāt samprasāraṇanirvṛttasya iti . atha vā āha ayam samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati iti . na ca vākyasya samprasāraṇasañjñāyām satyām eṣaḥ nirdeśaḥ upapadyate na api etayoḥ kāryayoḥ sambhavaḥ asti . tatra vacanāt bhaviṣyati . atha vā punaḥ astu varṇasya . nanu ca uktam varṇasañjñā cet nirvṛttiḥ iti . na eṣaḥ doṣaḥ . itaretarāśrayamātram etat coditam . sarvāṇi ca itaretarāśrayāṇi ekatvena parihṛtāni siddham tu nityaśabdatvāt iti . na idam tulyam anyaiḥ itaretarāśrayaiḥ . na hi tatra kim cit ucyate asya sthāne ye ākāraikāraukārāḥ bhāvyante te vṛddhisañjñāḥ bhavanti iti . iha punaḥ ucyate ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ bhavati iti . evam tarhi bhāvinī iyam sañjñā vijñāsyate . tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . saḥ paśyati : yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . śāṭakaḥ vātavyaḥ iti vipratiṣiddham . bhāvinī khalu asya sañjñā abhipretā . saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . evam iha api saḥ yaṇaḥ sthāne bhavati yasya abhinirvṛttasya samprasāraṇam iti eṣā sañjñā bhaviṣyati . atha vā ijādiyajādipravṛttiḥ ca eva hi loke lakṣyate . yajādyupadeśāt tu ijādinivṛttiḥ prasaktā . prayuñjate ca punaḥ lokāḥ iṣṭam uptam iti . te manyāmahe : asya yaṇaḥ sthāne imam ikam prayuñjate iti . tatra tasya asādhvabhimatasya śāstreṇa sādhutvam avasthāpyate : kiti sādhuḥ bhavati ṅiti sādhuḥ bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११२।१९-२२ रो इ, ३४६ समासनिर्देशः अयम् । तत्र न ज्ञायते कः आदिः कः अन्तः इति । तत् यथा : अजाविधनौ देवदत्तयज्ञदत्तौ इति उक्ते न ज्ञायते कस्य अजाः धनम् कस्य अवयः इति । यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति । अस्ति च इह कः चित् पुरुषारम्भः । अस्ति इति आह । कः । सङ्ख्यातनुदेशः नाम ।

KA I,112.19-22 Ro I, 346 samāsanirdeśaḥ ayam . tatra na jñāyate kaḥ ādiḥ kaḥ antaḥ iti . tat yathā : ajāvidhanau devadattayajñadattau iti ukte na jñāyate kasya ajāḥ dhanam kasya avayaḥ iti . yadi api tāvat loke eṣaḥ dṛṣṭāntaḥ dṛṣṭāntasya api puruṣārambhaḥ nivartakaḥ bhavati . asti ca iha kaḥ cit puruṣārambhaḥ . asti iti āha . kaḥ . saṅkhyātanudeśaḥ nāma .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११२।२३-११३।१५ रो इ,३४६-३४९ कौ पुनः टकितौ आद्यन्तौ भवतः । आगमौ इति आह । युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः । आगमः च नाम अपूर्वः शब्दोपजनः । अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः । बाढम् युक्तम् । शब्दान्तरैः इह भवितव्यम् । तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता । आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः । तत् कथम् । सञ्ज्ञाधिकारः अयम् । आद्यन्तौ च इह सङ्कीर्त्येते । टकार्ककारौ इतौ उदाह्रियेते । तत्र आद्यन्तयोः टकारककारौ इतौ सञ्ज्ञे भविष्यतः । तत्र आर्धधातुकस्य इट् वलादेः इति उपस्थितम् इदम् भवति : आदिः इति । तेन इकारादिः आदेशः भविष्यति । एतावत् इह सूत्रम् इट् इति । कथम् पुनः इयता सूत्रेण इकारादिः आदेशः लभ्यः । लभ्यः इति आह । कथम्। बहुव्रीहिनिर्देशात् । बहुव्रीहिनिर्देशः अयम् : इकारः आदिः अस्य इति । यदि अपि तावत् अत्र एतत् शक्यते वकुत्म् इह कथम् : लुङ्लङ्लृङ्क्षु अट् उदात्तः इति यत्र अशक्यम् उदात्तग्रहणेन अकारः विशेषयितुम् । तत्र कः दोषः । अङ्गस्य उदात्तत्वम् प्रसज्येत । न एषः दोषः । त्रिपदः अयम् बहुव्रीहिः । तत्र वाक्ये एव उदात्तग्रहणेन अकारः विशेष्यते : अकारः उदात्तः आदिः अस्य इति । यत्र तर्हि अनुवृत्त्या एतत् भवति : आट् अजादीनाम् इति । वक्ष्यति एतत् : अजादीनाम् अटा सिद्धम् इति । अथ वा यत् तावत् अयम् सामान्येन शक्नोति उपदेष्टुम् तत् तावत् उपदिशति प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् । तेन अयम् विशेषेण शब्दान्तरम् समुदायम् प्रतिपद्यते । तत् यथा खदिरबुर्बुरयोः : खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ । ततः पश्चात् आह कण्टकवान् खदिरः इति । तेन असौ विशेषेण द्रव्यान्तरम् समुदायम् प्रतिपद्यते । अथ वा एतया आनुपूर्व्या अयम् शब्दान्तरम् उपदिशति : प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् यस्मिन् तस्य आगमबुद्धिः भवति ।

KA I,112.23-113.15 Ro I,346-349 kau punaḥ ṭakitau ādyantau bhavataḥ . āgamau iti āha . yuktam punaḥ yat nityeṣu nāma śabdeṣu āgamaśāsanam syāt na nityeṣu śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . āgamaḥ ca nāma apūrvaḥ śabdopajanaḥ . atha yuktam yat nityeṣu śabdeṣu ādeśāḥ syuḥ . bāḍham yuktam . śabdāntaraiḥ iha bhavitavyam . tatra śabdāntarāt śabdāntarasya pratipattiḥ yuktā . ādeśāḥ tarhi ime bhaviṣyanti anāgamakānām sāgamakāḥ . tat katham . sañjñādhikāraḥ ayam . ādyantau ca iha saṅkīrtyete . ṭakārkakārau itau udāhriyete . tatra ādyantayoḥ ṭakārakakārau itau sañjñe bhaviṣyataḥ . tatra ārdhadhātukasya iṭ valādeḥ iti upasthitam idam bhavati : ādiḥ iti . tena ikārādiḥ ādeśaḥ bhaviṣyati . etāvat iha sūtram iṭ iti . katham punaḥ iyatā sūtreṇa ikārādiḥ ādeśaḥ labhyaḥ . labhyaḥ iti āha . katham. bahuvrīhinirdeśāt . bahuvrīhinirdeśaḥ ayam : ikāraḥ ādiḥ asya iti . yadi api tāvat atra etat śakyate vakutm iha katham : luṅlaṅlṛṅkṣu aṭ udāttaḥ iti yatra aśakyam udāttagrahaṇena akāraḥ viśeṣayitum . tatra kaḥ doṣaḥ . aṅgasya udāttatvam prasajyeta . na eṣaḥ doṣaḥ . tripadaḥ ayam bahuvrīhiḥ . tatra vākye eva udāttagrahaṇena akāraḥ viśeṣyate : akāraḥ udāttaḥ ādiḥ asya iti . yatra tarhi anuvṛttyā etat bhavati : āṭ ajādīnām iti . vakṣyati etat : ajādīnām aṭā siddham iti . atha vā yat tāvat ayam sāmānyena śaknoti upadeṣṭum tat tāvat upadiśati prakṛtim tataḥ valādi ārdhadhātukam tataḥ paścāt ikāram . tena ayam viśeṣeṇa śabdāntaram samudāyam pratipadyate . tat yathā khadiraburburayoḥ : khadiraburburau gaurakāṇḍau sūkṣmaparṇau . tataḥ paścāt āha kaṇṭakavān khadiraḥ iti . tena asau viśeṣeṇa dravyāntaram samudāyam pratipadyate . atha vā etayā ānupūrvyā ayam śabdāntaram upadiśati : prakṛtim tataḥ valādi ārdhadhātukam tataḥ paścāt ikāram yasmin tasya āgamabuddhiḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११३।१६-११४।१६ रो इ,३४९-३५१ टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः । टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः । प्रत्ययः आदिः अन्तः वा मा भूत् : चरेः टः आतः अनुपसर्गे कः इति । परवचनात् सिद्धम् । परवचनात् प्रत्ययः आदिः अन्तः वा न भविष्यति । परवचनात् सिद्धम् इति चेत् न अपवादत्वात् । परवचनात् सिद्धम् इति चेत् न । किम् कारणम् । अपवादत्वात् । अपवादः अयम् योगः । तत् यथा मित् अचः अन्त्यात् परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः । विषमः उपन्यासः । युक्तम् तत्र यत् अनवकाशम् मित्करणम् स्थानेयोगत्वम् प्रत्ययपरत्वम् च बाधते । इह पुनः उभयम् सावकासम् । कः अवकाशः । टित्करणस्य अवकाशः : टितः इति ईकारः यथा स्यात् । कित्करणस्य अवकाशः : किति इति आकारलोपः यथा स्यात् । प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् । यदि च अयम् नियोगतः परः स्यात् ततः एतत् प्रयोजनम् स्यात् । कुतः नु खलु एतत् टित्करणात् अयम् परः भविष्यति न पुनः आदिः इति कित्करणात् च परः भविष्यति न पुनः अन्तः इति । टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत् परः च स्यात् आदिः च । कितः तु अपरिहारः । अस्ति हि सम्भवः यत् परः च स्यात् अन्तः च । तत्र कः दोषः । उपसर्गे घोः किः : आध्योः , प्रध्योः । नोङ्धात्वोः इति प्रतिषेधः प्रसज्येत । टितः च अपि अपरिहारः । स्यात् एव हि अयम् टित्करणात् आदिः न पुनः परः । क्व तर्हि इदानीम् इदम् स्यात् : टितः ईकारः भवति इति । यः उभयवान् : गापोः टक् इति । सिद्धम् तु षष्ठ्यधिकारे वचनात् । सिद्धम् एतत् । कथम् । षष्ठ्यधिकारे अयम् योगः करत्व्यः : आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति । आद्यन्तयोः वा षष्थ्यर्थत्वात् तदभावे असम्प्रत्ययः । आद्यन्तयोः वा षष्थ्यर्थत्वात् षष्ठ्याः अभावे असम्प्रत्ययः । आदिः अन्तः वा न भविष्यति । युक्तम् पुनः यत् शब्दनिमित्तकः नाम अर्थः स्यात् न अर्थनिमित्तकेन शब्देन भवितव्यम् । अर्थनिमित्तकः एव शब्दः । तत् कथम् । आद्यन्तौ षष्ठ्यर्थौ । न च अत्र षष्ठीम् पश्यामः । ते मन्यामहे : आद्यन्तौ एव अत्र न स्तः । तयोः अभावे षष्ठी अपि न भवति इति ।

KA I,113.16-114.16 Ro I,349-351 ṭakitoḥ ādyantavidhāne pratyayapratiṣedhaḥ . ṭakitoḥ ādyantavidhāne pratyayasya pratiṣedhaḥ vaktavyaḥ . pratyayaḥ ādiḥ antaḥ vā mā bhūt : careḥ ṭaḥ ātaḥ anupasarge kaḥ iti . paravacanāt siddham . paravacanāt pratyayaḥ ādiḥ antaḥ vā na bhaviṣyati . paravacanāt siddham iti cet na apavādatvāt . paravacanāt siddham iti cet na . kim kāraṇam . apavādatvāt . apavādaḥ ayam yogaḥ . tat yathā mit acaḥ antyāt paraḥ iti eṣaḥ yogaḥ sthāneyogatvasya pratyayaparatvasya ca apavādaḥ . viṣamaḥ upanyāsaḥ . yuktam tatra yat anavakāśam mitkaraṇam sthāneyogatvam pratyayaparatvam ca bādhate . iha punaḥ ubhayam sāvakāsam . kaḥ avakāśaḥ . ṭitkaraṇasya avakāśaḥ : ṭitaḥ iti īkāraḥ yathā syāt . kitkaraṇasya avakāśaḥ : kiti iti ākāralopaḥ yathā syāt . prayojanam nāma tat vaktavyam yat niyogataḥ syāt . yadi ca ayam niyogataḥ paraḥ syāt tataḥ etat prayojanam syāt . kutaḥ nu khalu etat ṭitkaraṇāt ayam paraḥ bhaviṣyati na punaḥ ādiḥ iti kitkaraṇāt ca paraḥ bhaviṣyati na punaḥ antaḥ iti . ṭitaḥ khalu api eṣaḥ parihāraḥ yatra na asti sambhavaḥ yat paraḥ ca syāt ādiḥ ca . kitaḥ tu aparihāraḥ . asti hi sambhavaḥ yat paraḥ ca syāt antaḥ ca . tatra kaḥ doṣaḥ . upasarge ghoḥ kiḥ : ādhyoḥ , pradhyoḥ . noṅdhātvoḥ iti pratiṣedhaḥ prasajyeta . ṭitaḥ ca api aparihāraḥ . syāt eva hi ayam ṭitkaraṇāt ādiḥ na punaḥ paraḥ . kva tarhi idānīm idam syāt : ṭitaḥ īkāraḥ bhavati iti . yaḥ ubhayavān : gāpoḥ ṭak iti . siddham tu ṣaṣṭhyadhikāre vacanāt . siddham etat . katham . ṣaṣṭhyadhikāre ayam yogaḥ karatvyaḥ : ādyantau ṭakitau ṣaṣṭhīnirdiṣṭasya iti . ādyantayoḥ vā ṣaṣthyarthatvāt tadabhāve asampratyayaḥ . ādyantayoḥ vā ṣaṣthyarthatvāt ṣaṣṭhyāḥ abhāve asampratyayaḥ . ādiḥ antaḥ vā na bhaviṣyati . yuktam punaḥ yat śabdanimittakaḥ nāma arthaḥ syāt na arthanimittakena śabdena bhavitavyam . arthanimittakaḥ eva śabdaḥ . tat katham . ādyantau ṣaṣṭhyarthau . na ca atra ṣaṣṭhīm paśyāmaḥ . te manyāmahe : ādyantau eva atra na staḥ . tayoḥ abhāve ṣaṣṭhī api na bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११४।१८-११५।४ रो इ,३५२ किमर्थम् इदम् उच्यते । मित् अचः अन्त्यात् परः इति स्थानपरप्रत्ययापवादः । मित् अचः अन्त्यात् परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः । स्थानेयोगत्वस्य तावत् : कुण्डानि वनानि पयांसि यशांसि । प्रत्ययपरत्वस्य : भिनत्ति छिनत्ति । भवेत् इदम् युक्तम् उदाहरणम् कुण्डानि वनानि यत्र न अस्ति सम्भवः यत् अयम् अचः अन्य्तात् परः च स्यात् स्थाने च इति । इदम् तु अयुक्तम् पयांसि यशांसि । अस्ति हि सम्भवः यत् अचः अन्य्तात् परः च स्यात् स्थाने च । एतत् अपि युक्तम् । कथम् । न एव ईश्वरः आज्ञापयति न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्ताम् इति । किम् तर्हि । लौकिकः अयम् दृष्टान्तः । लोके हि सति अपि सम्भवे बाधनम् भवति । तत् यथा : दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति । एवम् इह अपि सति अपि सम्भवे अचाम् अन्त्यात् परत्वम् षष्ठीस्थानेयोगत्वम् बाधिष्यते ।

KA I,114.18-115.4 Ro I,352 kimartham idam ucyate . mit acaḥ antyāt paraḥ iti sthānaparapratyayāpavādaḥ . mit acaḥ antyāt paraḥ iti ucyate sthāneyogatvasya pratyayaparatvasya ca apavādaḥ . sthāneyogatvasya tāvat : kuṇḍāni vanāni payāṃsi yaśāṃsi . pratyayaparatvasya : bhinatti chinatti . bhavet idam yuktam udāharaṇam kuṇḍāni vanāni yatra na asti sambhavaḥ yat ayam acaḥ anytāt paraḥ ca syāt sthāne ca iti . idam tu ayuktam payāṃsi yaśāṃsi . asti hi sambhavaḥ yat acaḥ anytāt paraḥ ca syāt sthāne ca . etat api yuktam . katham . na eva īśvaraḥ ājñāpayati na api dharmasūtrakārāḥ paṭhanti apavādaiḥ utsargāḥ bādhyantām iti . kim tarhi . laukikaḥ ayam dṛṣṭāntaḥ . loke hi sati api sambhave bādhanam bhavati . tat yathā : dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . evam iha api sati api sambhave acām antyāt paratvam ṣaṣṭhīsthāneyogatvam bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११५।५-१२ रो इ,३५२-३५३ अन्त्यात् पूर्वः मस्जेः अनुषङ्गसंयोगादिलोपार्थम् । अन्त्यात् पूर्वः मस्जेः मित् वक्तव्यः । किम् प्रयोजनम् । अनुषङ्गसंयोगादिलोपार्थम् । अनुषङ्गलोपार्थम् संयोगादिलोपार्थम् च । अनुषङ्गलोपार्थम् तावत् : मग्नः , मग्नवान् । संयोगादिलोपार्थम् मङ्क्ता मङ्क्तुम् , मङ्क्तव्यम् । भर्जिमर्च्योः च । भर्जिमर्च्योः च अन्त्यात् पूर्वः मित् वक्तव्यः । भरूजा मरीचयः इति । सः तर्हि वक्तव्यः । न वक्तव्यः । निपातनात् सिद्धम् । किम् निपातनम् । भरूजाशब्दः अङ्गुल्यादिषु पठ्यते मरीचिशब्दः बाह्वादिषु ।

KA I,115.5-12 Ro I,352-353 antyāt pūrvaḥ masjeḥ anuṣaṅgasaṃyogādilopārtham . antyāt pūrvaḥ masjeḥ mit vaktavyaḥ . kim prayojanam . anuṣaṅgasaṃyogādilopārtham . anuṣaṅgalopārtham saṃyogādilopārtham ca . anuṣaṅgalopārtham tāvat : magnaḥ , magnavān . saṃyogādilopārtham maṅktā maṅktum , maṅktavyam . bharjimarcyoḥ ca . bharjimarcyoḥ ca antyāt pūrvaḥ mit vaktavyaḥ . bharūjā marīcayaḥ iti . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . nipātanāt siddham . kim nipātanam . bharūjāśabdaḥ aṅgulyādiṣu paṭhyate marīciśabdaḥ bāhvādiṣu .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११५।१३-११७।२ रो इ,३५३-३५७ किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः । कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः । यदि अन्तः इति वर्तते ततः पूर्वान्तः । अथ आदिः इति वर्तते ततः परादिः । अथ उभयम् निवृत्तम् ततः अभक्तः । कः च अत्र विशेषः । अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः । यदि अभक्तः दीर्घत्वम् न प्राप्नोति : कुण्डानि वनानि । नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति । दीर्घ । नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् । नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति । नलोप । स्वर : स्वरः च न सिध्यति : सर्वाणि ज्योतींषि । सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति । स्वर । णत्व : णत्वम् च न सिध्यति : माषवापाणि व्रीहिवापाणि । पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धम् , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते न्यासे एव : प्रातिपदिकान्तनुम्विभक्तिषु इति । णत्व । अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः । मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति । मा भूत् एवम् । नः च अपदान्तस्य झलि इति एवम् भविष्यति । यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः । अनुस्वार । शीभाव : शीभावः च न सिध्यति : त्रपुणी जतुनी तुम्बुरुणी । नपुंसकात् उत्तरस्य औङः शीभावः भवति इति शीभावः न प्राप्नोति । शीभाव । एवम् तर्हि परादिः करिष्यते । परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वारशीभावेनकारप्रतिषेधः । यदि परादिः गुणः प्रतिषेध्यः : त्रपुणे जतुने तुम्बुरुणे । घेः ङिति इति गुणः प्राप्नोति । गुण । वृद्धि : वृद्धिः प्रतिषेध्या : अतिसखीनि ब्राह्मणकुलानि । सख्युः असम्बुद्धौ इति णित्त्वे अचः ञ्णिति इति वृद्धिः प्राप्नोति । वृद्धि । औत्त्व : औत्त्वम् च प्रतिषेध्यम् : त्रपुणि जतुनि तुम्बुरुणि । इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति । औत्त्व । दीर्घ : दीर्घत्वम् च न सिध्यति : कुण्डानि वनानि । नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति । मा भूत् एवम् । अतः दीर्घः यञि सुपि च इति एवम् भविष्यति । इह तर्हि : अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि । दीर्घ । नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् । नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति । नलोप । अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः । मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति । मा भूत् एवम् । नः च अपदान्तस्य झलि इति एवम् भविष्यति । यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः । अनुस्वार । शीभावेनकारप्रतिषेधः : शीभावे नकारस्य प्रतिषेधः वक्तव्यः : त्रपुणी जतुनी तुम्बुरुणी । सनुम्कस्य शीभावः प्राप्नोति । न एषः दोषः । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति । यः तर्हि निर्दिश्यते तस्य न प्राप्नोति । कस्मात् । नुमा व्यवहितत्वात् । एवम् तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च । यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति । नपुंसकोपसर्जनह्रस्वत्वम् : आराशस्त्रिणी धानाशष्कुलिनी निष्कौशाम्बिनी निर्वाराणसिनी । द्विगुस्वर : पञ्चारत्निनी दशारत्निनी । नुमि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुन्वन्ति । न वा बहिरङ्गलक्षणत्वात् । न वा एषः दोषः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गः नुम् , अन्तरङ्गाः एते विधयः । असिद्धम्

KA I,115.13-117.2 Ro I,353-357 kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ āhosvit abhaktaḥ . katham ca ayam pūrvāntaḥ syāt katham vā parādiḥ katham vā abhaktaḥ . yadi antaḥ iti vartate tataḥ pūrvāntaḥ . atha ādiḥ iti vartate tataḥ parādiḥ . atha ubhayam nivṛttam tataḥ abhaktaḥ . kaḥ ca atra viśeṣaḥ . abhakte dīrghanalopasvaraṇatvānusvāraśībhāvāḥ . yadi abhaktaḥ dīrghatvam na prāpnoti : kuṇḍāni vanāni . nopadhāyāḥ sarvanāmasthāne ca asambuddhau iti dīrghatvam na prāpnoti . dīrgha . nalopa : nalopaḥ ca na sidhyati : agne trī te vajinā trī sadhasthā , ta tā piṇḍānām . nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti . nalopa . svara : svaraḥ ca na sidhyati : sarvāṇi jyotīṃṣi . sarvasya supi iti ādyudāttatvam na prāpnoti . svara . ṇatva : ṇatvam ca na sidhyati : māṣavāpāṇi vrīhivāpāṇi . pūrvānte prātipadikāntanakārasya iti siddham , parādau vibhaktinakārasya , abhakte numaḥ grahaṇam kartavyam . na kartavyam . kriyate nyāse eva : prātipadikāntanumvibhaktiṣu iti . ṇatva . anusvāra : anusvāraḥ ca na sidhyati : dviṣantapaḥ , parantapaḥ . maḥ anusvāraḥ hali iti anusvāraḥ na prāpnoti . mā bhūt evam . naḥ ca apadāntasya jhali iti evam bhaviṣyati . yaḥ tarhi na jhalparaḥ : vahaṃlihaḥ gauḥ , abhraṃlihaḥ vāyuḥ . anusvāra . śībhāva : śībhāvaḥ ca na sidhyati : trapuṇī jatunī tumburuṇī . napuṃsakāt uttarasya auṅaḥ śībhāvaḥ bhavati iti śībhāvaḥ na prāpnoti . śībhāva . evam tarhi parādiḥ kariṣyate . parādau guṇavṛddhyauttvadīrghanalopānusvāraśībhāvenakārapratiṣedhaḥ . yadi parādiḥ guṇaḥ pratiṣedhyaḥ : trapuṇe jatune tumburuṇe . gheḥ ṅiti iti guṇaḥ prāpnoti . guṇa . vṛddhi : vṛddhiḥ pratiṣedhyā : atisakhīni brāhmaṇakulāni . sakhyuḥ asambuddhau iti ṇittve acaḥ ñṇiti iti vṛddhiḥ prāpnoti . vṛddhi . auttva : auttvam ca pratiṣedhyam : trapuṇi jatuni tumburuṇi . idudbhyām aut at ca gheḥ iti auttvam prāpnoti . auttva . dīrgha : dīrghatvam ca na sidhyati : kuṇḍāni vanāni . nopadhāyāḥ sarvanāmasthāne ca asambuddhau iti dīrghatvam na prāpnoti . mā bhūt evam . ataḥ dīrghaḥ yañi supi ca iti evam bhaviṣyati . iha tarhi : asthīni dadhīni priyasakhīni brāhmaṇakulāni . dīrgha . nalopa : nalopaḥ ca na sidhyati : agne trī te vajinā trī sadhasthā , ta tā piṇḍānām . nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti . nalopa . anusvāra : anusvāraḥ ca na sidhyati : dviṣantapaḥ , parantapaḥ . maḥ anusvāraḥ hali iti anusvāraḥ na prāpnoti . mā bhūt evam . naḥ ca apadāntasya jhali iti evam bhaviṣyati . yaḥ tarhi na jhalparaḥ : vahaṃlihaḥ gauḥ , abhraṃlihaḥ vāyuḥ . anusvāra . śībhāvenakārapratiṣedhaḥ : śībhāve nakārasya pratiṣedhaḥ vaktavyaḥ : trapuṇī jatunī tumburuṇī . sanumkasya śībhāvaḥ prāpnoti . na eṣaḥ doṣaḥ . nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . yaḥ tarhi nirdiśyate tasya na prāpnoti . kasmāt . numā vyavahitatvāt . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte napuṃsakopasarjanahrasvatvam dvigusvaraḥ ca . yadi pūrvantaḥ kriyate napuṃsakopasarjanahrasvatvam dvigusvaraḥ ca na sidhyati . napuṃsakopasarjanahrasvatvam : ārāśastriṇī dhānāśaṣkulinī niṣkauśāmbinī nirvārāṇasinī . dvigusvara : pañcāratninī daśāratninī . numi kṛte anantyatvāt ete vidhayaḥ na prāpnunvanti . na vā bahiraṅgalakṣaṇatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ num , antaraṅgāḥ ete vidhayaḥ . asiddham

Sanskrit only: no published translation is held for this verse.

क्अ इ,११७।४-११८।४ रो इ,३५७-३५९ किमर्थम् इदम् उच्यते । एचः इक् सवर्णाकारनिवृत्त्यर्थम् । एचः इक् भवति इति उच्यते सवर्णनिवृत्त्यर्थम् अकारनिवृत्त्यर्थम् च । सवर्ण्निवृत्त्यर्थम् तावत् : एङः ह्रस्वशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति । अकारनिवृत्त्यर्थम् च । इमौ ऐचौ समाहारवर्णौ । मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः । तयोः ह्रस्वशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ । मा कदा चित् अवर्णम् भूत् इति एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । दीर्घप्रसङ्गः । दीर्घाः तु इकः प्राप्नुवन्ति । किम् कारणम् । स्थाने अन्तरतमः भवति इति । ननु च ह्रस्वादेशे इति उच्यते । तेन दीर्घाः न भविष्यन्ति । विष्यार्थम् एतत् स्यात् । एचः ह्रस्वप्रसङ्गे इक् भवति इति । दीर्घाप्रसङ्गः तु निवर्तकत्वात् । दीर्घाणाम् तु इकाम् अप्रसङ्गः । किम् कारणम् । निवर्तकत्वात् । न अनेन इकः निर्वर्त्यन्ते । किम् तर्हि । अनिकः निवर्त्यन्ते । सिद्धाः एव ह्रस्वाः इकः च अनिकः च । तत्र अनेन अनिकः निवर्त्यन्ते । सवर्णनिवृत्त्यर्थेन तावत् न अर्थः । सिद्धम् एङः सस्थानत्वात् । सिद्धम् एतत् । कथम् । एङः सस्थानत्वात् इकारोकारौ भविष्यतः । अर्धः एकारः अरधः ओकारः वा न भविष्यति । ननु च एङः सस्थानतरौ अर्धः एकारौकारौ । न तौ स्तः । यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् । ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति । पार्षदकृतिः एषा तत्रभवताम् । न एव लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति । अकारनिवृत्त्यर्थेन अपि न अर्थः । ऐचोः च उत्तरभूयस्त्वात् । ऐचोः च उत्तरभूयस्त्वात् अवर्णः न भविष्यति । भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य । भूयसः एव ग्रहणानि भविष्यन्ति । तत् यथा ब्राह्मणग्रामः आनीयताम् इति उच्यते तत्र च अवरतः पञ्चकारुकी भवति ।

KA I,117.4-118.4 Ro I,357-359 kimartham idam ucyate . ecaḥ ik savarṇākāranivṛttyartham . ecaḥ ik bhavati iti ucyate savarṇanivṛttyartham akāranivṛttyartham ca . savarṇnivṛttyartham tāvat : eṅaḥ hrasvaśāsaneṣu ardhaḥ ekāraḥ ardhaḥ okāraḥ vā mā bhūt iti . akāranivṛttyartham ca . imau aicau samāhāravarṇau . mātrā avarṇasya mātrā ivarṇovarṇayoḥ . tayoḥ hrasvaśāsaneṣu kadā cit avarṇaḥ syāt kadā cit ivarṇovarṇau . mā kadā cit avarṇam bhūt iti evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . dīrghaprasaṅgaḥ . dīrghāḥ tu ikaḥ prāpnuvanti . kim kāraṇam . sthāne antaratamaḥ bhavati iti . nanu ca hrasvādeśe iti ucyate . tena dīrghāḥ na bhaviṣyanti . viṣyārtham etat syāt . ecaḥ hrasvaprasaṅge ik bhavati iti . dīrghāprasaṅgaḥ tu nivartakatvāt . dīrghāṇām tu ikām aprasaṅgaḥ . kim kāraṇam . nivartakatvāt . na anena ikaḥ nirvartyante . kim tarhi . anikaḥ nivartyante . siddhāḥ eva hrasvāḥ ikaḥ ca anikaḥ ca . tatra anena anikaḥ nivartyante . savarṇanivṛttyarthena tāvat na arthaḥ . siddham eṅaḥ sasthānatvāt . siddham etat . katham . eṅaḥ sasthānatvāt ikārokārau bhaviṣyataḥ . ardhaḥ ekāraḥ aradhaḥ okāraḥ vā na bhaviṣyati . nanu ca eṅaḥ sasthānatarau ardhaḥ ekāraukārau . na tau staḥ . yadi hi tau syātām tau eva ayam upadiśet . nanu ca bhoḥ chandogānām sātyamugrirāṇāyanīyāḥ ardham ekāram ardham okāram ca adhīyate : sujāte eśvasūnṛte , adhvaryo odribhiḥ sutam , śukram te enyat yajatam te enyat iti . pārṣadakṛtiḥ eṣā tatrabhavatām . na eva loke na anyasmin vede ardhaḥ ekāraḥ ardhaḥ okāraḥ vā asti . akāranivṛttyarthena api na arthaḥ . aicoḥ ca uttarabhūyastvāt . aicoḥ ca uttarabhūyastvāt avarṇaḥ na bhaviṣyati . bhūyasī mātrā ivarṇovarṇayoḥ alpīyasī avarṇasya . bhūyasaḥ eva grahaṇāni bhaviṣyanti . tat yathā brāhmaṇagrāmaḥ ānīyatām iti ucyate tatra ca avarataḥ pañcakārukī bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११८।६-७ रो इ,३६० किम् इदम् स्थानेयोगा इति । स्थाने योगः अस्याः सा इयम् स्थानेयोगा । सप्तम्यलोपः निपातनात् । तृतियाया वा एत्वम् : स्थानेन योगः अस्याः सा इयम् स्थानेयोगा ।

KA I,118.6-7 Ro I,360 kim idam sthāneyogā iti . sthāne yogaḥ asyāḥ sā iyam sthāneyogā . saptamyalopaḥ nipātanāt . tṛtiyāyā vā etvam : sthānena yogaḥ asyāḥ sā iyam sthāneyogā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,११८।८-११९।२८ रो इ,३६०-३६४ किमर्थम् पुनः इदम् उच्यते । षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् । नियमाऋथः अयम् आरम्भः । एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति । इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । अवयवषष्ठ्यादिषु अतिप्रसङ्गः शासः गोहः इति । अवयवषष्ठ्यादयः तु न सिध्यन्ति । तत्र कः दोषः । शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च । ऊत् उपधायाः गोहः इति गोहः च अन्त्यस्य स्यात् उपधामात्रस्य च । अवयवषष्ठ्यादीनाम् च अप्राप्तिः योगस्य असन्दिग्धत्वात् । अवयवषष्ठ्यादीनाम् च नियमस्य अप्राप्तिः । किम् कारणम् । योगस्य असन्दिग्धत्वात् । सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते। लौकिकः अयम् दृष्टाण्तः । तत् यथा लोके : कम् चित् कः चित् पृच्छति : ग्रामान्तरम् गमिष्यामि पन्थानम् मे भवान् उपदिशतु इति । सः तस्मै आचष्टे । अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः अमुष्मिन् अवकाशे हस्तवामः इति । यः तु अत्र तिर्यक्पथः भवति न तस्मिन् सन्देहः इति कृत्वा न असौ उपदिश्यते । एवम् इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः । अथ वा स्थाने अयोगा स्थानेयोगा किम् इदम् अयोगा इति । अव्यक्तयोगा अयोगा । अथ वा योगवती योगा । का पुनः योगवती । यस्याः बहवः योगाः । कुतः एतत् । भूम्नि हि मतुप् भवति । विशिष्टा वा षष्ठी स्थानेयोगा । अथ वा किम् चिद् लिङ्गम् आसज्य वक्ष्यामि : इत्थंलिङ्गा षष्ठी स्थानेयोगा भवति इति । न तत् लिङ्गम् अवयवषष्ठ्यादिषु करिष्यते । यदि एवम् शासः इत् अङ्हलोः शा हौ शासिग्रहणम् कर्तव्यम् स्थानेयोगार्थम् लिङ्गम् आसङ्क्ष्यामि इति । न कर्तव्यम् । यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकृतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति । कथम् । अधिकारः नाम त्रिप्रकारः । कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वम् वेश्म अभिज्वलयति । अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् अनुकृष्यते चकारेण । अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकऋतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति । सम्प्रत्ययमात्रम् एतत् भवति । न हि अनुच्चार्य शब्दम् लिङ्गम् शक्यम् आसङ्क्तुम् । एवम् तर्हि आदेशे तत् लिङ्गम् करिष्यते तत् प्रकृतिम् आस्कन्त्स्यति । यदि नियमः क्रियते यत्र एका षष्ठी अनेकम् च विशेष्यम् तत्र न सिध्यति : अङ्गस्य , हलः , अणः , सम्प्रसारणस्य इति । हल् अपि विशेष्यः अण् अपि विशेष्यः सम्प्रसारणम् अपि विशेष्यम् । असति पुनः नियमे कामचारः एकया षष्थ्या अनेकम् विशेषयितुम् । तत् यथा । देवदत्तस्य पुत्रः पाणिः कम्बलः इति । तस्मात् न अर्थः नियमेन । ननु च उक्तम् एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति इति । न एषः दोषः । यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च शब्दस्य तु शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः स्थानात् । शब्दस्य अपि शब्देन अनन्तरादयः अभिसम्बन्धाः । अस्तेः भूः भवति इति सन्देहः : स्थाने अनन्तरे समीपे इति । सन्देहमात्रम् एतत् भवति । सर्वसन्देहेषु च इदम् उपतिष्ठते : व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति । स्थाने इति व्याख्यास्यामः । न तर्हि इदानीम् अयम् योगः वक्तव्यः । वक्तव्यः च । किम् प्रयोजनम् । षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता । किम् कृतम् भवति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा न कर्तव्या भवति ।

KA I,118.8-119.28 Ro I,360-364 kimartham punaḥ idam ucyate . ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham . niyamāṛthaḥ ayam ārambhaḥ . ekaśatam ṣaṣṭhyarthāḥ yāvantaḥ vā te sarve ṣaṣṭhyām uccāritāyām prāpnuvanti . iṣyate ca vyākaraṇe yā ṣaṣṭhī sā sthāneyogā eva syāt iti . tat ca antareṇa yatnam na sidhyati iti ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . avayavaṣaṣṭhyādiṣu atiprasaṅgaḥ śāsaḥ gohaḥ iti . avayavaṣaṣṭhyādayaḥ tu na sidhyanti . tatra kaḥ doṣaḥ . śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya ca . ūt upadhāyāḥ gohaḥ iti gohaḥ ca antyasya syāt upadhāmātrasya ca . avayavaṣaṣṭhyādīnām ca aprāptiḥ yogasya asandigdhatvāt . avayavaṣaṣṭhyādīnām ca niyamasya aprāptiḥ . kim kāraṇam . yogasya asandigdhatvāt . sandehe niyamaḥ na ca avayavaṣaṣṭhyādiṣu sandehaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate. laukikaḥ ayam dṛṣṭāṇtaḥ . tat yathā loke : kam cit kaḥ cit pṛcchati : grāmāntaram gamiṣyāmi panthānam me bhavān upadiśatu iti . saḥ tasmai ācaṣṭe . amuṣmin avakāśe hastadakṣiṇaḥ grahītavyaḥ amuṣmin avakāśe hastavāmaḥ iti . yaḥ tu atra tiryakpathaḥ bhavati na tasmin sandehaḥ iti kṛtvā na asau upadiśyate . evam iha api sandehe niyamaḥ na ca avayavaṣaṣṭhyādiṣu sandehaḥ . atha vā sthāne ayogā sthāneyogā kim idam ayogā iti . avyaktayogā ayogā . atha vā yogavatī yogā . kā punaḥ yogavatī . yasyāḥ bahavaḥ yogāḥ . kutaḥ etat . bhūmni hi matup bhavati . viśiṣṭā vā ṣaṣṭhī sthāneyogā . atha vā kim cid liṅgam āsajya vakṣyāmi : itthaṃliṅgā ṣaṣṭhī sthāneyogā bhavati iti . na tat liṅgam avayavaṣaṣṭhyādiṣu kariṣyate . yadi evam śāsaḥ it aṅhaloḥ śā hau śāsigrahaṇam kartavyam sthāneyogārtham liṅgam āsaṅkṣyāmi iti . na kartavyam . yat eva adaḥ purastāt avayavaṣaṣṭhyartham prakṛtam etat uttaratra anuvṛttam sat sthāneyogārtham bhaviṣyati . katham . adhikāraḥ nāma triprakāraḥ . kaḥ cit ekadeśasthaḥ sarvam śāstram abhijvalayati yathā pradīpaḥ supravijvalitaḥ sarvam veśma abhijvalayati . aparaḥ adhikāraḥ yathā rajjvā ayasā vā baddham kāṣṭham anukṛṣyate tadvat anukṛṣyate cakāreṇa . aparaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti tadā hi yat eva adaḥ purastāt avayavaṣaṣṭhyartham prakaṛtam etat uttaratra anuvṛttam sat sthāneyogārtham bhaviṣyati . sampratyayamātram etat bhavati . na hi anuccārya śabdam liṅgam śakyam āsaṅktum . evam tarhi ādeśe tat liṅgam kariṣyate tat prakṛtim āskantsyati . yadi niyamaḥ kriyate yatra ekā ṣaṣṭhī anekam ca viśeṣyam tatra na sidhyati : aṅgasya , halaḥ , aṇaḥ , samprasāraṇasya iti . hal api viśeṣyaḥ aṇ api viśeṣyaḥ samprasāraṇam api viśeṣyam . asati punaḥ niyame kāmacāraḥ ekayā ṣaṣthyā anekam viśeṣayitum . tat yathā . devadattasya putraḥ pāṇiḥ kambalaḥ iti . tasmāt na arthaḥ niyamena . nanu ca uktam ekaśatam ṣaṣṭhyarthāḥ yāvantaḥ vā te sarve ṣaṣṭhyām uccāritāyām prāpnuvanti iti . na eṣaḥ doṣaḥ . yadi api loke bahavaḥ abhisambandhāḥ ārthāḥ yaunāḥ maukhāḥ srauvāḥ ca śabdasya tu śabdena kaḥ anyaḥ abhisambandhaḥ bhavitum arhati anyat ataḥ sthānāt . śabdasya api śabdena anantarādayaḥ abhisambandhāḥ . asteḥ bhūḥ bhavati iti sandehaḥ : sthāne anantare samīpe iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate : vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . sthāne iti vyākhyāsyāmaḥ . na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . ṣaṣṭhyantam sthānena yathā yujyeta yataḥ ṣaṣṭhī uccāritā . kim kṛtam bhavati . nirdiśyamānasya ādeśāḥ bhavanti iti eṣā paribhāṣā na kartavyā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२०।२-१३ रो इ,३६४-३६६ किम् उदाहरणम् । इकः यण् अचि : दधि अत्र मधु अत्र : तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात् । न एतत् अस्ति । सङ्ख्यातानुदेशेन अपि एतत् सिद्धम् । इदम् तर्हि : तस्थस्थमिपाम् ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात् । ननु च एतत् अपि सङ्ख्यातानुदेशेन एव सिद्धम् । इदम् तर्हि : अकः सवर्णे दीर्घः इति : दण्डाग्रम् , क्षुपाग्रम् , दधि इन्द्रः , मधु उष्ट्रः इति : कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यात् इति । अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणम् किमर्थम् । यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् । किम् पुनः तत् । चेता स्तोता : प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ । पुनः स्थानग्रहणात् एकारौकारौ भवतः । अथ तमब्ग्रहणम् किमर्थम् । झयः हः अन्यतरस्याम् इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः । तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः : वाग् घसति त्रिष्टुब् भसति इति ।

KA I,120.2-13 Ro I,364-366 kim udāharaṇam . ikaḥ yaṇ aci : dadhi atra madhu atra : tālusthānasya tālusthānaḥ oṣṭhasthānasya oṣṭhasthānaḥ yathā syāt . na etat asti . saṅkhyātānudeśena api etat siddham . idam tarhi : tasthasthamipām tāmtamtāmaḥ iti ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahuvarthaḥ yathā syāt . nanu ca etat api saṅkhyātānudeśena eva siddham . idam tarhi : akaḥ savarṇe dīrghaḥ iti : daṇḍāgram , kṣupāgram , dadhi indraḥ , madhu uṣṭraḥ iti : kaṇṭhasthānayoḥ kaṇṭhasthānaḥ tālusthānayoḥ tālusthānaḥ oṣṭhasthānayoḥ oṣṭhasthānaḥ yathā syāt iti . atha sthāne iti vartamāne punaḥ sthānagrahaṇam kimartham . yatra anekavidham āntaryam tatra sthānataḥ eva āntaryam balīyaḥ yathā syāt . kim punaḥ tat . cetā stotā : pramāṇataḥ akāraḥ guṇaḥ prāpnoti sthānataḥ ekāraukārau . punaḥ sthānagrahaṇāt ekāraukārau bhavataḥ . atha tamabgrahaṇam kimartham . jhayaḥ haḥ anyatarasyām iti atra soṣmaṇaḥ soṣmāṇaḥ iti dvitīyāḥ prasaktāḥ nādavataḥ nādavantaḥ iti tṛtīyāḥ . tamapgrahaṇena soṣmāṇaḥ nādavantaḥ ca te bhavanti caturthāḥ : vāg ghasati triṣṭub bhasati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२०।१४-१२१।२९ रो इ,३६६-३७० किमर्थम् पुनः इदम् उच्यते । स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः तस्मात् स्थानेन्तरतमवचनम् । स्थानी एकत्वेन निर्दिश्यते : अकः इति , अनेकः च पुनः आदेशः प्रतिनिर्दिश्यते : दीर्घः इति । स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः । सर्वे सर्वत्र प्राप्नुवन्ति । इष्यते च अन्तरतमाः एव स्युः इति । तत् च अन्तरेण यत्नम् न सिध्यति । तस्मात् स्थाने अन्तरतमः इति वचनम् नियमार्थम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । यथा पुनः इयम् अन्तरतमनिर्वृत्त्तिः सा किम् प्रकृतितः भवति : स्थानिनि अन्तरतमे षष्ठी , आहोस्वित् आदेशतः : स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति इति । कुतः पुनः इयम् विचारणा । उभयथा अपि तुल्या संहिता : स्थानेन्तरतम , उरण् रपरः इति । किम् च अतः । यदि प्रकृतितः : इकः यण् अचि : यणाम् ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : दधि अत्र मधु अत्र । कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति अत्र न स्यात् । आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति । तथा इकः गुणवृद्धी : गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : नेता लविता नायकः लावकः । चेता स्तोता चायकः स्तावकः इति अत्र न स्यात् । आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति । तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योः यत् अन्तरतमम् ऋवर्णम् तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : कर्ता हर्ता , आस्तारकः , निपारकः । आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात् । आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति । अथ आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् अयम् दोषः : वान्तः यि प्रत्यये : स्थानिनिर्देशः कर्तव्यः । ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति । प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् वान्तादेशस्य या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण स्थानिनिर्देशम् सिद्धम् भवति । आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः । कथम् । वान्तग्रहणम् न करिष्यते । यि प्रत्यये एचः अयादयः भवन्ति इति एव। यदि न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति । क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति : क्षिज्योः एव एचः इति । तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति : क्षेयम् पापम् जेयः वृषलः इति । उभयतः नियमः विज्ञास्यते : क्षिज्योः एव एचः अनयोः च शक्याऋथे एव इति । इह अपि तर्हि नियमात् न प्राप्नोति : लव्यम् , पव्यम् अवश्यलाव्यम् अवश्यपाव्यम् इति । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकः क्षिज्योः एच् । कथञ्जातीयकः क्षिज्योः एच् । एकारः । एवम् अपि रायम् इच्छति रैयति अत्र अपि प्राप्नोति । रायिः छान्दसः । दृष्टानुविधिः छन्दसि भवति । ऊदुपधयाः गोहः : आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् उपधाग्रहणम् कर्तव्यम् । प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण उपधाग्रहणम् सिद्धम् भवति । आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः । क्रियते एतत् न्यासे एव । रदाभ्याम् निष्ठातः नः पूर्वस्य च दः : आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् तकारग्रहणम् कर्तव्यम् । प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् नकारस्य निष्ठायाम् या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण तकारग्रहणम् सिद्धम् भवति । आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः । क्रियते एतत् न्यासे एव ।

KA I,120.14-121.29 Ro I,366-370 kimartham punaḥ idam ucyate . sthāninaḥ ekatvanirdeśāt anekādeśanirdeśāt ca sarvaprasaṅgaḥ tasmāt sthānentaratamavacanam . sthānī ekatvena nirdiśyate : akaḥ iti , anekaḥ ca punaḥ ādeśaḥ pratinirdiśyate : dīrghaḥ iti . sthāninaḥ ekatvanirdeśāt anekādeśanirdeśāt ca sarvaprasaṅgaḥ . sarve sarvatra prāpnuvanti . iṣyate ca antaratamāḥ eva syuḥ iti . tat ca antareṇa yatnam na sidhyati . tasmāt sthāne antaratamaḥ iti vacanam niyamārtham . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . yathā punaḥ iyam antaratamanirvṛtttiḥ sā kim prakṛtitaḥ bhavati : sthānini antaratame ṣaṣṭhī , āhosvit ādeśataḥ : sthāne prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati iti . kutaḥ punaḥ iyam vicāraṇā . ubhayathā api tulyā saṃhitā : sthānentaratama , uraṇ raparaḥ iti . kim ca ataḥ . yadi prakṛtitaḥ : ikaḥ yaṇ aci : yaṇām ye antaratamāḥ ikaḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : dadhi atra madhu atra . kumārī atra brahmabandhvartham iti atra na syāt . ādeśataḥ punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati . tathā ikaḥ guṇavṛddhī : guṇavṛddhyoḥ ye antaratamāḥ ikaḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : netā lavitā nāyakaḥ lāvakaḥ . cetā stotā cāyakaḥ stāvakaḥ iti atra na syāt . ādeśataḥ punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati . tathā ṛvarṇasya guṇavṛddhiprasaṅge guṇavṛddhyoḥ yat antaratamam ṛvarṇam tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : kartā hartā , āstārakaḥ , nipārakaḥ . āstaritā niparitā kārakaḥ , hārakaḥ iti atra na syāt . ādeśataḥ punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati . atha ādeśataḥ antaratamanirvṛttau satyām ayam doṣaḥ : vāntaḥ yi pratyaye : sthāninirdeśaḥ kartavyaḥ . okāraukārayoḥ iti vaktavyam ekāraikārayoḥ mā bhūt iti . prakṛtitaḥ punaḥ antaratamanirvṛttau satyām vāntādeśasya yā antaratamā prakṛtiḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa sthāninirdeśam siddham bhavati . ādeśataḥ api antaratamanirvṛttau satyām na doṣaḥ . katham . vāntagrahaṇam na kariṣyate . yi pratyaye ecaḥ ayādayaḥ bhavanti iti eva. yadi na kriyate ceyam , jeyam iti atra api prāpnoti . kṣayyajayyau śakyārthe iti etat niyamārtham bhaviṣyati : kṣijyoḥ eva ecaḥ iti . tayoḥ tarhi śakyārthāt anyatra api prāpnoti : kṣeyam pāpam jeyaḥ vṛṣalaḥ iti . ubhayataḥ niyamaḥ vijñāsyate : kṣijyoḥ eva ecaḥ anayoḥ ca śakyāṛthe eva iti . iha api tarhi niyamāt na prāpnoti : lavyam , pavyam avaśyalāvyam avaśyapāvyam iti . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yathājātīyakaḥ kṣijyoḥ ec . kathañjātīyakaḥ kṣijyoḥ ec . ekāraḥ . evam api rāyam icchati raiyati atra api prāpnoti . rāyiḥ chāndasaḥ . dṛṣṭānuvidhiḥ chandasi bhavati . ūdupadhayāḥ gohaḥ : ādeśataḥ antaratamanirvṛttau satyām upadhāgrahaṇam kartavyam . prakṛtitaḥ punaḥ antaratamanirvṛttau satyām ūkārasya gohaḥ yā antaratamā prakṛtiḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa upadhāgrahaṇam siddham bhavati . ādeśataḥ api antaratamanirvṛttau satyām na doṣaḥ . kriyate etat nyāse eva . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ : ādeśataḥ antaratamanirvṛttau satyām takāragrahaṇam kartavyam . prakṛtitaḥ punaḥ antaratamanirvṛttau satyām nakārasya niṣṭhāyām yā antaratamā prakṛtiḥ tatra ṣaṣṭhī , yatra ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa takāragrahaṇam siddham bhavati . ādeśataḥ api antaratamanirvṛttau satyām na doṣaḥ . kriyate etat nyāse eva .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२२।१-२० रो इ,३७०-३७२ किम् पुनः इदम् निर्वर्तकम् : अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित् प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः । कः च अत्र विशेषः । स्थाने अन्तरतमनिर्वतके स्थानिनिवृत्तिः । स्थाने अन्तरतमनिर्वतके सर्वस्थानिनाम् निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति : दधि मधु । अस्तु । न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते । तत्र आन्तर्यतः दधिशब्दस्य दधिशब्दः एव मधुशब्दस्य मधुशब्दः एव आदेशः भविष्यति । यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् : बिसम् बिसम् , मुसलम् मुसलम् । इण्कोः इति षत्वम् प्राप्नोति । अपि च इष्टा व्यवस्था न प्रकल्पेत । तत् यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तम् अपि न अवतिष्ठन्ते एवम् इमे वर्णाः मुहूर्तम् अपि न अवतिष्ठेरन् । अस्तु तर्हि प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः । निर्वृत्तप्रतिपत्तौ निर्वृत्तिः । निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति । सर्वे सर्वत्र प्राप्नुवन्ति । किम् तर्हि उच्यते निर्वृत्तिः न सिध्यति इति । न साधीयः निर्वृत्तिः सिद्धा भवति । न ब्रूमः निर्वृत्तिः न सिध्यति इति । किम् तर्हि । इष्टा व्यवस्था न प्रकल्पेत । न सर्वे सर्वत्र इष्यन्ते । इदम् इदानीम् किमर्थम् स्यात् । अनर्थकम् च । अनर्थकम् एतत् स्यात् । यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् । उक्तम् वा । किम् उक्तम् । सिद्धम् तु षष्ठ्यधिकारे वचनात् इति । षष्ठ्यधिकारे अयम् योगः कर्त्व्यः : स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य ।

KA I,122.1-20 Ro I,370-372 kim punaḥ idam nirvartakam : antaratamāḥ anena nirvartyante , āhosvit pratipādakam : anyena nirvṛttānām anena pratipattiḥ . kaḥ ca atra viśeṣaḥ . sthāne antaratamanirvatake sthāninivṛttiḥ . sthāne antaratamanirvatake sarvasthāninām nivṛttiḥ prāpnoti . asya api prāpnoti : dadhi madhu . astu . na kaḥ cit anyaḥ ādeśaḥ pratinirdiśyate . tatra āntaryataḥ dadhiśabdasya dadhiśabdaḥ eva madhuśabdasya madhuśabdaḥ eva ādeśaḥ bhaviṣyati . yadi ca evam kva cit vairūpyam tatra doṣaḥ syāt : bisam bisam , musalam musalam . iṇkoḥ iti ṣatvam prāpnoti . api ca iṣṭā vyavasthā na prakalpeta . tat yathā tapte bhrāṣṭre tilāḥ kṣiptāḥ muhūrtam api na avatiṣṭhante evam ime varṇāḥ muhūrtam api na avatiṣṭheran . astu tarhi pratipādakam : anyena nirvṛttānām anena pratipattiḥ . nirvṛttapratipattau nirvṛttiḥ . nirvṛttapratipattau nirvṛttiḥ na sidhyati . sarve sarvatra prāpnuvanti . kim tarhi ucyate nirvṛttiḥ na sidhyati iti . na sādhīyaḥ nirvṛttiḥ siddhā bhavati . na brūmaḥ nirvṛttiḥ na sidhyati iti . kim tarhi . iṣṭā vyavasthā na prakalpeta . na sarve sarvatra iṣyante . idam idānīm kimartham syāt . anarthakam ca . anarthakam etat syāt . yaḥ hi bhuktavantam brūyāt mā bhukthāḥ iti kim tena kṛtam syāt . uktam vā . kim uktam . siddham tu ṣaṣṭhyadhikāre vacanāt iti . ṣaṣṭhyadhikāre ayam yogaḥ kartvyaḥ : sthāne antaratamaḥ ṣaṣṭhīnirdiṣṭasya .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२२।२१-१२३।१६ रो इ,३७२-३७३ प्रत्यात्मवचनम् च । प्रत्यात्मम् इति च वक्तव्यम् । किम् प्रयोजनम् । यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यात् अन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूत् इति । प्रत्यात्मवचनम् अशिष्यम् स्वभावसिद्धत्वात् । प्रत्यात्मवचनम् अशिष्यम् । किम् कारणम् । स्वभावसिद्धत्वात् । स्वभावतः एतत् सिद्धम् । तत् यथा : समाजेषु समाशेषु समवायेषु च आस्यताम् इति उच्यते । न च उच्यते प्रत्यात्मम् इति प्रत्यात्मम् च आसते । अन्तरतमवचनम् च । अन्तरतमवचनम् च अशिष्यम् । योगः च अपि अयम् अशिष्यः । कुतः । स्वभावसिद्धत्वात् एव । तत् यथा : समाजेषु समाशेषु समवायेषु च आस्यताम् इति उक्ते न एव कृशाः कृशैः सह आसत न पाण्डवः पाण्डुभिः । येषाम् एव किम् चित् अर्थकृतम् आन्तर्यम् तैः एव सः आसते । तथा गावः दिवसम् चरितवत्यः यः यस्याः प्रसवः भवति तेन सह शेरते । तथा यानि एतानि गोयुक्तकानि सङ्घुष्टकानि भवन्ति तानि अन्योन्यम् पश्यन्ति सब्दम् कुर्वन्ति । एवम् तावत् चेतनावत्सु । अचेतनेषु अपि । लोष्टः क्षिप्तः बाहुवेगम् गत्वा न एव तिर्यक् गच्छति न ऊर्ध्वम् आरोहति पृथिवीविकारः पृथिवीम् गच्छति आन्तर्यतः । तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासाम् विकारः धूमः सः आकाशदेशे निवाते न एव तिर्यक् गच्छति न अवाक् अवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः । तथा ज्योतिषः विकारः अर्चिः आकाशदेशे निवाते सुप्रज्वलितः न एव तिर्यक् गच्छति न अवाक् अवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः ।

KA I,122.21-123.16 Ro I,372-373 pratyātmavacanam ca . pratyātmam iti ca vaktavyam . kim prayojanam . yaḥ yasya antaratamaḥ sa tasya sthāne yathā syāt anyasya antaratamaḥ anyasya sthāne mā bhūt iti . pratyātmavacanam aśiṣyam svabhāvasiddhatvāt . pratyātmavacanam aśiṣyam . kim kāraṇam . svabhāvasiddhatvāt . svabhāvataḥ etat siddham . tat yathā : samājeṣu samāśeṣu samavāyeṣu ca āsyatām iti ucyate . na ca ucyate pratyātmam iti pratyātmam ca āsate . antaratamavacanam ca . antaratamavacanam ca aśiṣyam . yogaḥ ca api ayam aśiṣyaḥ . kutaḥ . svabhāvasiddhatvāt eva . tat yathā : samājeṣu samāśeṣu samavāyeṣu ca āsyatām iti ukte na eva kṛśāḥ kṛśaiḥ saha āsata na pāṇḍavaḥ pāṇḍubhiḥ . yeṣām eva kim cit arthakṛtam āntaryam taiḥ eva saḥ āsate . tathā gāvaḥ divasam caritavatyaḥ yaḥ yasyāḥ prasavaḥ bhavati tena saha śerate . tathā yāni etāni goyuktakāni saṅghuṣṭakāni bhavanti tāni anyonyam paśyanti sabdam kurvanti . evam tāvat cetanāvatsu . acetaneṣu api . loṣṭaḥ kṣiptaḥ bāhuvegam gatvā na eva tiryak gacchati na ūrdhvam ārohati pṛthivīvikāraḥ pṛthivīm gacchati āntaryataḥ . tathā yā etāḥ āntarikṣyaḥ sūkṣmāḥ āpaḥ tāsām vikāraḥ dhūmaḥ saḥ ākāśadeśe nivāte na eva tiryak gacchati na avāk avarohati abvikāraḥ apaḥ eva gacchati āntaryataḥ . tathā jyotiṣaḥ vikāraḥ arciḥ ākāśadeśe nivāte suprajvalitaḥ na eva tiryak gacchati na avāk avarohati jyotiṣaḥ vikāraḥ jyotiḥ eva gacchati āntaryataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२३।१७-१२५।१५ रो इ, ३७३-३७७ व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः । व्यञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति । व्यञ्जनव्यतिक्रमे : इष्टम् उप्तम् । आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य अर्धमात्रिकः इक् प्राप्नोति । न एव लोके न च वेदे अर्धमात्रिकः इक् अस्ति । कः तर्हि । मात्रिकः । यः अस्ति सः भविष्यति । स्वरव्यतिक्रमे : दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति । आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण् प्राप्नोति । न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यण् अस्ति ।कः तर्हि । अर्धमात्रिकः । यः अस्ति सः भविष्यति । अक्षु च अनेकवर्णादेशेषु । अक्षु च अनेकवर्णादेशेषु तत्कालता प्राप्नोति । इदमः इश् : आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रम् इवर्णम् प्राप्नोति । न एषः दोषः । भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति । गुणवृद्ध्येज्भावेषु च । गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति : खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकम् खट्वोदकम् खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति । आन्तर्यतः त्रिमात्र्चतुर्मात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः प्राप्नुवन्ति । न एषः दोषाः । तपरे गुणवृद्धी । ननु च तः परः यस्मात् सः अयम् तपरः । न इति आह । तात् अपि परः तपरः । यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् : यवः , स्तवः । लवः , पवः इति अत्र न स्यात् । न एषः तकारः । कः तर्हि । दकारः । किम् दकारे प्रयोजनम् । अथ किम् तकारे प्रयोजनम् । यदि असन्देहार्थः तकारः दकारः अपि । अथ मुखसुखार्थः तकारः दकारः अपि । एज्भावे : कुर्वाते कुर्वाथे । आन्तर्यतः अर्धतृतीयमात्रस्य टिसञ्ज्ञकस्य अर्धतृतीयमात्रः एः प्राप्नोति । न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति । ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः अविशेषात् । ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः । सर्वे गुणवृद्धिसञ्ज्ञकाः ऋवर्णस्य स्थाने प्राप्नुवन्ति । किम् कारणम् । अविशेषात् । न हि कः चित् विशेषः उपादीयते एवञ्जातीयकः गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य स्थाने भवति इति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । न वा ऋवर्णस्य स्थाने रपरप्रसङ्गात् अवर्णस्य आन्तर्यम् । न वा एषः दोषः । किम् कारणम् । ऋवर्णस्य स्थाने रपरप्रसङ्गात् । उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते । तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवान् अकारः एव अन्तरतमः भवति । सर्वादेशप्रसङ्गः तु अनेकाल्त्वात् । सर्वादेशप्रसङ्गः तु गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य प्राप्नोति । किम् कारणम् । अनेकाल्त्वात् । अनेकाल् शित् सर्वस्य इति । न वा अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य अविघातः । न वा एषः दोषः । किम् कारणम् । अनेकाल्त्वस्य तदाश्रयत्वात् । यदा अयम् उः स्थाने तदा अनेकाल् । अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य विघातः न भविष्यति । अथवा अनान्तर्यम् एव एतयोः आन्तर्यम् । एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः आदेशः न अस्ति । एतत् एव एतयोः आन्तर्यम् । सम्प्रयोगः वा नष्टाश्वदग्धरथवत् । अथ वा नष्टाश्वदग्धरथवत् सम्प्रयोगः भवति । तत् यथा : तव अश्वः नष्टः मम अपि रथः दग्धः । उभौ सम्प्रयुज्यावहै इति । एवम् इह अपि : तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः आदेशः न अस्ति । अस्तु नौ सम्प्रयोगः इति । विषमः उपन्यासः । चेतनावत्सु अर्थात् प्रकरणात् वा लोके सम्प्रयोगः भवति । वर्णाः च पुनः अचेतनाः । तत्र किङ्कृतः सम्प्रयोगः । यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयुङ्क्ते सः चेतनावान् । एजवर्णयोः आदेशे अवर्णम् स्थानिनः अवर्णप्रधानत्वात् । एजवर्णयोः आदेशे अवर्णम् प्राप्नोति :खट्वा एलका , माला औपगवः । किम् कारणम् । स्थानिनः अवर्णप्रधानत्वात् । स्थानी हि अत्र अवर्णप्रधानः । सिद्धम् तु उभयान्तर्यात् । सिद्धम् एतत् । कथम् । उभयोः यः अन्तरतमः तेन भवितव्यम् । न च अवर्णम् उभयोः अन्तरतमम् ।

KA I,123.17-125.15 Ro I, 373-377 vyañjanasvaravyatikrame ca tatkālaprasaṅgaḥ . vyañjanavyatikrame svaravyatikrame ca tatkālatā prāpnoti . vyañjanavyatikrame : iṣṭam uptam . āntaryataḥ ardhamātrikasya vyañjanasya ardhamātrikaḥ ik prāpnoti . na eva loke na ca vede ardhamātrikaḥ ik asti . kaḥ tarhi . mātrikaḥ . yaḥ asti saḥ bhaviṣyati . svaravyatikrame : dadhi atra madhu atra kumārī atra brahmabandhvartham iti . āntaryataḥ mātrikasya dvimātrikasya ikaḥ mātrikaḥ dvimātrikaḥ vā yaṇ prāpnoti . na eva loke na ca vede mātrikaḥ dvimātrikaḥ vā yaṇ asti .kaḥ tarhi . ardhamātrikaḥ . yaḥ asti saḥ bhaviṣyati . akṣu ca anekavarṇādeśeṣu . akṣu ca anekavarṇādeśeṣu tatkālatā prāpnoti . idamaḥ iś : āntaryataḥ ardhtṛtīyamātrasya idamaḥ sthāne ardhtṛtīyamātram ivarṇam prāpnoti . na eṣaḥ doṣaḥ . bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati . guṇavṛddhyejbhāveṣu ca . guṇavṛddhyejbhāveṣu ca tatkālatā prāpnoti : khaṭvā indraḥ khaṭvendraḥ khaṭvā udakam khaṭvodakam khaṭvā īṣā khaṭveṣā khaṭvā ūḍhā khaṭvoḍhā khaṭvā elakā khaṭvailakā khaṭvā odanaḥ khaṭvaudanaḥ , khaṭvā aitikayanaḥ khaṭvaitikāyanaḥ , khaṭvā aupagavaḥ khaṭvaupagavaḥ iti . āntaryataḥ trimātrcaturmātrāṇām sthāninām trimātracaturmātrāḥ ādeśāḥ prāpnuvanti . na eṣaḥ doṣāḥ . tapare guṇavṛddhī . nanu ca taḥ paraḥ yasmāt saḥ ayam taparaḥ . na iti āha . tāt api paraḥ taparaḥ . yadi tāt api paraḥ taparaḥ ṝdoḥ ap iti iha eva syāt : yavaḥ , stavaḥ . lavaḥ , pavaḥ iti atra na syāt . na eṣaḥ takāraḥ . kaḥ tarhi . dakāraḥ . kim dakāre prayojanam . atha kim takāre prayojanam . yadi asandehārthaḥ takāraḥ dakāraḥ api . atha mukhasukhārthaḥ takāraḥ dakāraḥ api . ejbhāve : kurvāte kurvāthe . āntaryataḥ ardhatṛtīyamātrasya ṭisañjñakasya ardhatṛtīyamātraḥ eḥ prāpnoti . na eva loke na ca vede ardhatṛtīyamātraḥ eḥ asti . ṛvarṇasya guṇavṛddhiprasaṅge sarvaprasaṅgaḥ aviśeṣāt . ṛvarṇasya guṇavṛddhiprasaṅge sarvaprasaṅgaḥ . sarve guṇavṛddhisañjñakāḥ ṛvarṇasya sthāne prāpnuvanti . kim kāraṇam . aviśeṣāt . na hi kaḥ cit viśeṣaḥ upādīyate evañjātīyakaḥ guṇavṛddhisañjñakaḥ ṛvarṇasya sthāne bhavati iti . anupādīyamāne viśeṣe sarvaprasaṅgaḥ . na vā ṛvarṇasya sthāne raparaprasaṅgāt avarṇasya āntaryam . na vā eṣaḥ doṣaḥ . kim kāraṇam . ṛvarṇasya sthāne raparaprasaṅgāt . uḥ sthāne aṇ prasajyamānaḥ eva raparaḥ bhavati iti ucyate . tatra ṛvarṇasya āntaryataḥ rephavataḥ rephavān akāraḥ eva antaratamaḥ bhavati . sarvādeśaprasaṅgaḥ tu anekāltvāt . sarvādeśaprasaṅgaḥ tu guṇavṛddhisañjñakaḥ ṛvarṇasya prāpnoti . kim kāraṇam . anekāltvāt . anekāl śit sarvasya iti . na vā anekāltvasya tadāśrayatvāt ṛvarṇādeśasya avighātaḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . anekāltvasya tadāśrayatvāt . yadā ayam uḥ sthāne tadā anekāl . anekāltvasya tadāśrayatvāt ṛvarṇādeśasya vighātaḥ na bhaviṣyati . athavā anāntaryam eva etayoḥ āntaryam . ekasya api antaratamā prakṛtiḥ na asti aparasya api antaratamaḥ ādeśaḥ na asti . etat eva etayoḥ āntaryam . samprayogaḥ vā naṣṭāśvadagdharathavat . atha vā naṣṭāśvadagdharathavat samprayogaḥ bhavati . tat yathā : tava aśvaḥ naṣṭaḥ mama api rathaḥ dagdhaḥ . ubhau samprayujyāvahai iti . evam iha api : tava api antaratamā prakṛtiḥ na asti mama api antaratamaḥ ādeśaḥ na asti . astu nau samprayogaḥ iti . viṣamaḥ upanyāsaḥ . cetanāvatsu arthāt prakaraṇāt vā loke samprayogaḥ bhavati . varṇāḥ ca punaḥ acetanāḥ . tatra kiṅkṛtaḥ samprayogaḥ . yadi api varṇāḥ acetanāḥ yaḥ tu asau prayuṅkte saḥ cetanāvān . ejavarṇayoḥ ādeśe avarṇam sthāninaḥ avarṇapradhānatvāt . ejavarṇayoḥ ādeśe avarṇam prāpnoti :khaṭvā elakā , mālā aupagavaḥ . kim kāraṇam . sthāninaḥ avarṇapradhānatvāt . sthānī hi atra avarṇapradhānaḥ . siddham tu ubhayāntaryāt . siddham etat . katham . ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam . na ca avarṇam ubhayoḥ antaratamam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२५।१७-१२६।१९ रो इ,३७८-३८१ किम् इदम् उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् : उः स्थाने अण् एव भवति रपरः च इति , आहोस्वित् रपरत्वम् अनेन विधीयते : उः स्थाने अण् च अनण् च अण् तु रपरः एव । कः च अत्र विशेषः । उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः । उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः भवति । के पुनः उदात्तादयः । उदात्तानुदात्तस्वरितानुनासिकाः । कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नॄंः पाहि । अस्तु तर्हि उः स्थाने अण् च अनण् च अण् तु रपरः इति । यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः । यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः । कर्ता हर्ता वार्षगण्यः । किम् हि साधीयः ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः एङैचौ । पूर्वस्मिन् अपि पक्षे एषः दोषः । किम् हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः इवर्णोवर्णौ । अथ मतम् एतत् उः स्थाने अणः च अनणः च प्रसङ्गे अण् एव भवति रपरः च इति सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः । यत् तु तत् उक्तम् उदात्तादिषु दोषः भवति इति इह सः दोषः जायते । न जायते । जायते सः दोषः । कथम् । उदात्तः इति अनेन अणः अपि प्रतिनिर्दिश्यन्ते अनणः अपि । यदि अपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति । किम् कारणम् । स्थाने अन्तरतमः भवति । कुतः नु खलु द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थाने अन्तरतमः उः अण् रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण् रपरः इति । अतः किम् । अतः एषः दोषः जायते : उदात्तादिषु दोषः इति । ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदम् आदेशाः उच्यन्ते तेषु रपरत्वम् न प्राप्नोति : ॠतः इत् धातोः उत् ओष्ठ्यपूर्वस्य इति । सिद्धम् तु प्रसङ्गे रपरत्वात् । सिद्धम् एतत् । कथम् । प्रसङ्गे रपरत्वात् । उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । स्थाने इति वर्तते स्थानशब्दः च प्रसङ्गवाची । यदि एवम् आदेशः अविशेषितः भवति । आदेशः च विशेषितः । कथम् । द्वितीयम् स्थानग्रहणम् प्रकृतम् अनुवर्तते। तत्र एवम् अभिसम्बन्धः करिष्यते : उः स्थाने अण् स्थाने इति । उः प्रसङ्गे अण् प्रसज्यमानः एव रपरः भवति ।

KA I,125.17-126.19 Ro I,378-381 kim idam uraṇraparavacanam anyanivṛttyartham : uḥ sthāne aṇ eva bhavati raparaḥ ca iti , āhosvit raparatvam anena vidhīyate : uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ eva . kaḥ ca atra viśeṣaḥ . uraṇraparavacanam anyanivṛttyartham cet udāttādiṣu doṣaḥ . uraṇraparavacanam anyanivṛttyartham cet udāttādiṣu doṣaḥ bhavati . ke punaḥ udāttādayaḥ . udāttānudāttasvaritānunāsikāḥ . kṛtiḥ , hṛtiḥ , kṛtam , hṛtam , prakṛtam , prahṛtam nṝṃḥ pāhi . astu tarhi uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ iti . yaḥ uḥ sthāne saḥ raparaḥ iti cet guṇavṛddhyoḥ avarṇāpratipattiḥ . yaḥ uḥ sthāne saḥ raparaḥ iti cet guṇavṛddhyoḥ avarṇāpratipattiḥ . kartā hartā vārṣagaṇyaḥ . kim hi sādhīyaḥ ṛvarṇasya asavarṇe yat avarṇam syāt na punaḥ eṅaicau . pūrvasmin api pakṣe eṣaḥ doṣaḥ . kim hi sādhīyaḥ tatra api ṛvarṇasya asavarṇe yat avarṇam syāt na punaḥ ivarṇovarṇau . atha matam etat uḥ sthāne aṇaḥ ca anaṇaḥ ca prasaṅge aṇ eva bhavati raparaḥ ca iti siddhā pūrvasmin pakṣe avarṇasya pratipattiḥ . yat tu tat uktam udāttādiṣu doṣaḥ bhavati iti iha saḥ doṣaḥ jāyate . na jāyate . jāyate saḥ doṣaḥ . katham . udāttaḥ iti anena aṇaḥ api pratinirdiśyante anaṇaḥ api . yadi api pratinirdiśyante na tu prāpnuvanti . kim kāraṇam . sthāne antaratamaḥ bhavati . kutaḥ nu khalu dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ sthāne antaratamaḥ uḥ aṇ raparaḥ iti ca sthāne antaratamaḥ iti anayā paribhāṣayā vyavasthā bhaviṣyati na punaḥ uḥ aṇ raparaḥ iti . ataḥ kim . ataḥ eṣaḥ doṣaḥ jāyate : udāttādiṣu doṣaḥ iti . ye ca api ete ṛvarṇasya sthāne pratipadam ādeśāḥ ucyante teṣu raparatvam na prāpnoti : ṝtaḥ it dhātoḥ ut oṣṭhyapūrvasya iti . siddham tu prasaṅge raparatvāt . siddham etat . katham . prasaṅge raparatvāt . uḥ sthāne aṇ prasajyamānaḥ eva raparaḥ bhavati iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . sthāne iti vartate sthānaśabdaḥ ca prasaṅgavācī . yadi evam ādeśaḥ aviśeṣitaḥ bhavati . ādeśaḥ ca viśeṣitaḥ . katham . dvitīyam sthānagrahaṇam prakṛtam anuvartate. tatra evam abhisambandhaḥ kariṣyate : uḥ sthāne aṇ sthāne iti . uḥ prasaṅge aṇ prasajyamānaḥ eva raparaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२६।२०-१२७।३ रो इ,३८२ अथ अण्ग्रहणम् किमर्थम् न उः रपरः इति एव उच्येत । उः रपरः इति इयति उच्यमाने कः इदानीम् रपरः स्यात् । यः उः स्थाने भवति । कः च उः स्थाने भवति । आदेशः । आदेशः रपरः इति चेत् रीरिविधिषु रपरप्रतिषेधः । आदेशः रपरः इति चेत् रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः । के पुनः रीरिविधयः । अकङ्लोपानङनङ्रीङ्रिङादेशाः । अकङ्: सौधातकिः । लोपः : पैतृष्वसेयः । आनङ् : होतापोतारौ । अनङ् : कर्ता हर्ता । रीङ् : मात्रीयति पित्रीयति । रिङ् : क्रियते ह्रियते । उदात्तादिषु च । किम् । रपरत्वस्य प्रतिषेधः वक्तव्यः । कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नॄंः पाहि । तस्मात् अण्ग्रहणम् कर्तव्यम् ।

KA I,126.20-127.3 Ro I,382 atha aṇgrahaṇam kimartham na uḥ raparaḥ iti eva ucyeta . uḥ raparaḥ iti iyati ucyamāne kaḥ idānīm raparaḥ syāt . yaḥ uḥ sthāne bhavati . kaḥ ca uḥ sthāne bhavati . ādeśaḥ . ādeśaḥ raparaḥ iti cet rīrividhiṣu raparapratiṣedhaḥ . ādeśaḥ raparaḥ iti cet rīrividhiṣu raparatvasya pratiṣedhaḥ vaktavyaḥ . ke punaḥ rīrividhayaḥ . akaṅlopānaṅanaṅrīṅriṅādeśāḥ . akaṅ: saudhātakiḥ . lopaḥ : paitṛṣvaseyaḥ . ānaṅ : hotāpotārau . anaṅ : kartā hartā . rīṅ : mātrīyati pitrīyati . riṅ : kriyate hriyate . udāttādiṣu ca . kim . raparatvasya pratiṣedhaḥ vaktavyaḥ . kṛtiḥ , hṛtiḥ , kṛtam , hṛtam , prakṛtam , prahṛtam nṝṃḥ pāhi . tasmāt aṇgrahaṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२७।४-२४ रो इ,३८२-३८५ एकादेशस्य उपसङ्ख्यानम् । एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् : खट्वर्श्यः , मालर्श्यः । किम् पुनः कारणम् न सिध्यति । उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयम् उः एव स्थाने अण् शिष्यते । किम् तर्हि । उः च अन्यस्य च । अवयवग्रहणात् सिद्धम् । यत् अत्र ऋवर्णम् तदाश्रयम् रपरत्वम् भविष्यति । तत् यथा माषाः न भोक्तव्याः इति मिश्राः अपि न भुज्यन्ते । अवयवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तप्रतिषेधः । अव्ययवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तस्य प्रतिषेधः वक्तव्यः : होतापोतारौ । यथा एव उः च अन्यस्य च स्थाने अण् रपरः भवति एवम् यः उः स्थाने अण् च अनण् च सः अपि रपरः स्यात् । यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वम् उच्येत : खट्वर्श्यः , मालर्श्यः । न एवम् शक्यम् । इह हि दोषः स्यात् : कर्ता हर्ता किरति गिरति । ऋवर्णान्तस्य इति उच्यते । न च एतत् ऋवर्णान्तम् । ननु च एतत् अपि व्यपदेशिवद्भावेन ऋवर्णान्तम् । अर्थवता व्यपदेशिवद्भावः न च एषः अर्थवान् । तस्मात् न एवम् शक्यम् । न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् । इह च रपरत्वप्रतिषेधः वक्तव्यः : मातुः , पितुः इति । उभयम् न वक्तव्यम् । कथम् । इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् । तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति । कथम् मातुः पितुः इति । अस्तु अत्र रपरत्वम् । का रूपसिद्दिः । रात् सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः । न एवम् शक्यम् । इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत । अप्रत्ययस्विसर्जनीयस्य इति उच्यते । प्रत्ययविसर्जनीयः च अयम् । लुप्यते अत्र प्रत्ययः रात् सस्य इति । एवम् तर्हि भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य । यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्त्तात् षत्वम् भवति इति।

KA I,127.4-24 Ro I,382-385 ekādeśasya upasaṅkhyānam . ekādeśasya upasaṅkhyānam kartavyam : khaṭvarśyaḥ , mālarśyaḥ . kim punaḥ kāraṇam na sidhyati . uḥ sthāne aṇ prasajyamānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ eva sthāne aṇ śiṣyate . kim tarhi . uḥ ca anyasya ca . avayavagrahaṇāt siddham . yat atra ṛvarṇam tadāśrayam raparatvam bhaviṣyati . tat yathā māṣāḥ na bhoktavyāḥ iti miśrāḥ api na bhujyante . avayavagrahaṇāt siddham iti cet ādeśe rāntapratiṣedhaḥ . avyayavagrahaṇāt siddham iti cet ādeśe rāntasya pratiṣedhaḥ vaktavyaḥ : hotāpotārau . yathā eva uḥ ca anyasya ca sthāne aṇ raparaḥ bhavati evam yaḥ uḥ sthāne aṇ ca anaṇ ca saḥ api raparaḥ syāt . yadi punaḥ ṛvarṇāntasya sthāninaḥ raparatvam ucyeta : khaṭvarśyaḥ , mālarśyaḥ . na evam śakyam . iha hi doṣaḥ syāt : kartā hartā kirati girati . ṛvarṇāntasya iti ucyate . na ca etat ṛvarṇāntam . nanu ca etat api vyapadeśivadbhāvena ṛvarṇāntam . arthavatā vyapadeśivadbhāvaḥ na ca eṣaḥ arthavān . tasmāt na evam śakyam . na cet evam upasaṅkhyānam kartavyam . iha ca raparatvapratiṣedhaḥ vaktavyaḥ : mātuḥ , pituḥ iti . ubhayam na vaktavyam . katham . iha yaḥ dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ prasaṅge bhavati labhate asau anyatarataḥ vyapadeśam . tat yathā devadattasya putraḥ , devadattāyāḥ putraḥ iti . katham mātuḥ pituḥ iti . astu atra raparatvam . kā rūpasiddiḥ . rāt sasya iti sakārasya lopaḥ rephasya visarjanīyaḥ . na evam śakyam . iha hi mātuḥ karoti , pituḥ karoti iti apratyayavisarjanīyasya iti ṣatvam prasajyeta . apratyayasvisarjanīyasya iti ucyate . pratyayavisarjanīyaḥ ca ayam . lupyate atra pratyayaḥ rāt sasya iti . evam tarhi bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya . yat ayam kaskādiṣu bhrātuṣputraśabdam paṭhati tat jñāpayati ācāryaḥ na ekādeśanimitttāt ṣatvam bhavati iti.

Sanskrit only: no published translation is held for this verse.

क्अ इ,१२७।२५-१३०।२ रो इ,३८५-३९१ किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः । कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः । यदि अन्तः इति वर्तते ततः पूर्वान्तः । अथ आदिः इति वर्तते ततः परादिः । अथ उभयम् निवृत्तम् ततः अभक्तः । कः च अत्र विशेषः । अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था च । यदि अभक्तः दीर्घत्वम् न प्राप्नोति : गीः , पूः । रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति । किम् पुनः कारणम् रेफवकाराभ्याम् धातुः विशेष्यते न पुनः पदम् विशेष्यते रेफवकारान्तस्य पदस्य इति । न एवम् शक्यम् । इह अपि प्रसज्येत : अग्निः , वायुः इति । एवम् तर्हि रेफवकाराभ्याम् पदम् विशेषयिष्यामः धातुना इकम् : रेफवकारान्तस्य पदस्य इकः धातोः इति । एवम् अपि प्रियम् ग्रामणि कुलम् अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति । तस्मात् धातुः एव विशेष्यते । धातौ च विशेष्यमाणे इह दीर्घत्वम् न प्राप्नोति : गीः , पूः । दीर्घ । लत्व : लत्वम् च न सिध्यति : निजेगिल्यते । ग्रः यङि इति लत्वम् न प्राप्नोति । न एषः दोषः । ग्रः इति अनन्तरयोगा एषा षष्ठी । एवम् अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति । एवम् तर्हि यङा आनन्तर्यम् विशेषयिष्यामः । अथ वा ग्रः इति पञ्चमी । लत्व । यक्स्वर : यक्स्वरः च न सिध्यति । गीर्यते स्वयम् एव , पुर्यते स्वयम् एव । अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् । न एषः दोषः । स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् । यक्स्वर । अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : म हि स्म ते पिपरुः , म हि स्म ते बिभरुः । अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् । न एषः दोषः । स्वरविधौ व्यञ्जमम् अविद्यमानवत् इति न अस्ति व्यवधानम् । अभ्यस्तस्वर । हलादिशेष : हलादिशेषः च न सिध्यति : ववृते ववृधे । अभ्यासस्य इति हलादिशेषः न प्राप्नोति । हलादिशेष । विसर्जनीय : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः । खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति । विसर्जनीय । प्रत्ययाव्यवस्था : प्रत्यये व्यवस्था न प्रकल्पते : किरतः , गिरतः । रेफः अपि अभक्तः प्रत्ययः अपि । तत्र व्यवस्था न प्रकल्पते । एवम् तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते र्ववधारणम् विसर्जनीयप्रतिषेधः यक्स्वरः च । यदि पूर्वान्तः रोः अवधारणम् कर्तव्यम् : रोः सुपि । रोः एव सुपि न अन्यस्य रेफस्य : सर्पिष्षु धनुष्षु । इह मा भूत् : गीर्षु पूर्षु । परादौ अपि सति अवधारणम् कर्तव्यम् चतुर्षु इति एवम् अर्थम् । विसर्जनीयप्रतिषेधः : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः । खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति । परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थम् । कल्पिपदसङ्घातभक्तः असौ न उत्सहते अवयवस्य पदान्तताम् विहन्तुम् इति कृत्वा विसर्जनीयः प्राप्नोति । यक्स्वरः : यक्स्वरः च न सिध्यति : गीर्यते स्वयम् एव , पुर्यते स्वयम् एव । अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति । न एषः दोषः । उपदेशे इति वर्तते । अथ वा पुनः अस्तु परादिः । परादौ अकारलोपौत्वपुक्प्रतिषेधः चङि उपधाह्रस्वत्वम् इटः अव्यवस्था अभ्यासलोपः अभ्यस्ततादिस्वरः दीर्घत्वम् च । यदि परादिः अकारलोपः प्रतिषेध्यः : कर्ता हर्ता : अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति । न एषः दोषः । उपदेशे इति वर्तते । यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति । न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते । किम् तर्हि । आर्धधातुकम् अभिसम्बध्यते । आर्धधातुकोपदेशे यत् अकारान्तम् इति । अकारलोप । औत्व : औत्वम् च प्रतिषेध्यम् : चकार जहार । आतः औ णलः इति औत्वम् प्राप्नोति । न एषः दोषः । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति । यः तर्हि

KA I,127.25-130.2 Ro I,385-391 kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ āhosvit abhaktaḥ . katham ca ayam pūrvāntaḥ syāt katham vā parādiḥ katham vā abhaktaḥ . yadi antaḥ iti vartate tataḥ pūrvāntaḥ . atha ādiḥ iti vartate tataḥ parādiḥ . atha ubhayam nivṛttam tataḥ abhaktaḥ . kaḥ ca atra viśeṣaḥ . abhakte dīrghalatvayagabhyastasvarahalādiśeṣavisarjanīyapratiṣedhaḥ pratyayāvyavasthā ca . yadi abhaktaḥ dīrghatvam na prāpnoti : gīḥ , pūḥ . rephavakārāntasya dhātoḥ iti dīrghatvam na prāpnoti . kim punaḥ kāraṇam rephavakārābhyām dhātuḥ viśeṣyate na punaḥ padam viśeṣyate rephavakārāntasya padasya iti . na evam śakyam . iha api prasajyeta : agniḥ , vāyuḥ iti . evam tarhi rephavakārābhyām padam viśeṣayiṣyāmaḥ dhātunā ikam : rephavakārāntasya padasya ikaḥ dhātoḥ iti . evam api priyam grāmaṇi kulam asya priyagrāmaṇiḥ , priyasenāniḥ atra api prāpnoti . tasmāt dhātuḥ eva viśeṣyate . dhātau ca viśeṣyamāṇe iha dīrghatvam na prāpnoti : gīḥ , pūḥ . dīrgha . latva : latvam ca na sidhyati : nijegilyate . graḥ yaṅi iti latvam na prāpnoti . na eṣaḥ doṣaḥ . graḥ iti anantarayogā eṣā ṣaṣṭhī . evam api svaḥ jegilyate iti atra api prāpnoti . evam tarhi yaṅā ānantaryam viśeṣayiṣyāmaḥ . atha vā graḥ iti pañcamī . latva . yaksvara : yaksvaraḥ ca na sidhyati . gīryate svayam eva , puryate svayam eva . acaḥ kartṛyaki iti eṣaḥ svaraḥ na prāpnoti repheṇa vyavahitatvāt . na eṣaḥ doṣaḥ . svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam . yaksvara . abhyastasvara : abhyastasvaraḥ ca na sidhyati : ma hi sma te piparuḥ , ma hi sma te bibharuḥ . abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti repheṇa vyavahitatvāt . na eṣaḥ doṣaḥ . svaravidhau vyañjamam avidyamānavat iti na asti vyavadhānam . abhyastasvara . halādiśeṣa : halādiśeṣaḥ ca na sidhyati : vavṛte vavṛdhe . abhyāsasya iti halādiśeṣaḥ na prāpnoti . halādiśeṣa . visarjanīya : visarjanīyasya ca pratiṣedhaḥ vaktavyaḥ : nārkuṭaḥ , nārpatyaḥ . kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti . visarjanīya . pratyayāvyavasthā : pratyaye vyavasthā na prakalpate : kirataḥ , girataḥ . rephaḥ api abhaktaḥ pratyayaḥ api . tatra vyavasthā na prakalpate . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte rvavadhāraṇam visarjanīyapratiṣedhaḥ yaksvaraḥ ca . yadi pūrvāntaḥ roḥ avadhāraṇam kartavyam : roḥ supi . roḥ eva supi na anyasya rephasya : sarpiṣṣu dhanuṣṣu . iha mā bhūt : gīrṣu pūrṣu . parādau api sati avadhāraṇam kartavyam caturṣu iti evam artham . visarjanīyapratiṣedhaḥ : visarjanīyasya ca pratiṣedhaḥ vaktavyaḥ : nārkuṭaḥ , nārpatyaḥ . kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti . parādau api visarjanīyasya pratiṣedhaḥ vaktavyaḥ nārkalpiḥ iti evamartham . kalpipadasaṅghātabhaktaḥ asau na utsahate avayavasya padāntatām vihantum iti kṛtvā visarjanīyaḥ prāpnoti . yaksvaraḥ : yaksvaraḥ ca na sidhyati : gīryate svayam eva , puryate svayam eva . acaḥ kartṛyaki iti eṣaḥ svaraḥ na prāpnoti . na eṣaḥ doṣaḥ . upadeśe iti vartate . atha vā punaḥ astu parādiḥ . parādau akāralopautvapukpratiṣedhaḥ caṅi upadhāhrasvatvam iṭaḥ avyavasthā abhyāsalopaḥ abhyastatādisvaraḥ dīrghatvam ca . yadi parādiḥ akāralopaḥ pratiṣedhyaḥ : kartā hartā : ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti . na eṣaḥ doṣaḥ . upadeśe iti vartate . yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ atra lopaḥ na prāpnoti . na upadeśagrahaṇena prakṛtiḥ abhisambadhyate . kim tarhi . ārdhadhātukam abhisambadhyate . ārdhadhātukopadeśe yat akārāntam iti . akāralopa . autva : autvam ca pratiṣedhyam : cakāra jahāra . ātaḥ au ṇalaḥ iti autvam prāpnoti . na eṣaḥ doṣaḥ . nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . yaḥ tarhi

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३०।४-११ रो इ,३९१-३९२ किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् आहोस्वित् आदेशविशेषणम् । किम् च अतः । यदि अन्त्यविशेषणम् आदेशः अविशेषितः भवति । तत्र कः दोषः । अनेकाल् अपि आदेशः अन्त्यस्य प्रसज्येत । यदि पुनः अल् अन्त्यस्य इति उच्येत । तत्र अयम् अपि अर्थः अनेकाल् शित् सर्वस्य इति एतत् न वक्तव्यम् भवति । इदम् नियमार्थम् भविष्यति : अल् एव अन्त्यस्य भवति न अन्यः इति । एवम् अपि अन्त्यः अविशेषितः भवति । तत्र कः दोषः । वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत । यदि खलु अपि एषः अभिप्रायः तत् न क्रियेत इति अन्त्यविशेषणे अपि सति तत् न करिष्यते । कथम् । ङित् च अलः अन्त्यस्य इति एतत् नियमार्थम् भविष्यति : ङित् एव अनेकाल् अन्त्यस्य भवति न अन्यः इति ।

KA I,130.4-11 Ro I,391-392 kim idam algrahaṇam antyaviśeṣaṇam āhosvit ādeśaviśeṣaṇam . kim ca ataḥ . yadi antyaviśeṣaṇam ādeśaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . anekāl api ādeśaḥ antyasya prasajyeta . yadi punaḥ al antyasya iti ucyeta . tatra ayam api arthaḥ anekāl śit sarvasya iti etat na vaktavyam bhavati . idam niyamārtham bhaviṣyati : al eva antyasya bhavati na anyaḥ iti . evam api antyaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . vākyasya api padasya api antyasya prasajyeta . yadi khalu api eṣaḥ abhiprāyaḥ tat na kriyeta iti antyaviśeṣaṇe api sati tat na kariṣyate . katham . ṅit ca alaḥ antyasya iti etat niyamārtham bhaviṣyati : ṅit eva anekāl antyasya bhavati na anyaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३०।१२-२० रो इ,३९२-३९४ किमर्थम् पुनः इदम् उच्यते । अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः । अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः क्रियते स्थाने प्रसक्तस्य । इतरथा हि अनिष्टप्रसङ्गः । इतरथा हि अनिष्टप्रसङ्गः प्रसज्येत । टित्किन्मितः अपि अन्त्यस्य स्युः । यदि पुनः अयम् योगशेषः विज्ञायेत । योगशेषे च । किम् । अनिष्टम् प्रसज्येते । टित्किन्मितः अपि अन्त्यस्य स्युः । तस्मात् सुष्ठु उच्यते : अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः इतरथा हि अनिष्टप्रसङ्गः इति ।

KA I,130.12-20 Ro I,392-394 kimartham punaḥ idam ucyate . alaḥ antyasya iti sthāne vijñātasya anusaṃhāraḥ . alaḥ antyasya iti sthāne vijñātasya anusaṃhāraḥ kriyate sthāne prasaktasya . itarathā hi aniṣṭaprasaṅgaḥ . itarathā hi aniṣṭaprasaṅgaḥ prasajyeta . ṭitkinmitaḥ api antyasya syuḥ . yadi punaḥ ayam yogaśeṣaḥ vijñāyeta . yogaśeṣe ca . kim . aniṣṭam prasajyete . ṭitkinmitaḥ api antyasya syuḥ . tasmāt suṣṭhu ucyate : alaḥ antyasya iti sthāne vijñātasya anusaṃhāraḥ itarathā hi aniṣṭaprasaṅgaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३०।२१-१३१।७ रो इ,३९४-३९५ तातङ् अन्त्यस्य कस्मात् न भवति । ङित् च अलः अन्त्यस्य इति प्राप्नोति । तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः । तातङि ङित्करणस्य सावकाशम् । कः अवकाशः । गुणवृद्धिप्रतिषेधार्थः ङकारः । तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः भविष्यति । प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् । यदि च अयम् नियोगतः सर्वादेशः स्यात् ततः एतत् प्रयोजनम् स्यात् । कुतः नु खलु एतत् ङित्करणात् अयम् सर्वादेशः भविष्यति न पुनः अन्त्यस्य स्यात् इति । एवम् तर्हि एतत् एव ज्ञापयति न तातङ् अन्त्यस्य स्थाने भवति इति यत् एतम् ङितम् करोति । इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात् तिह्योः तात् आशिषि अन्यतरस्याम् इति ।

KA I,130.21-131.7 Ro I,394-395 tātaṅ antyasya kasmāt na bhavati . ṅit ca alaḥ antyasya iti prāpnoti . tātaṅi ṅitkaraṇasya sāvakāśatvāt vipratiṣedhāt sarvādeśaḥ . tātaṅi ṅitkaraṇasya sāvakāśam . kaḥ avakāśaḥ . guṇavṛddhipratiṣedhārthaḥ ṅakāraḥ . tātaṅi ṅitkaraṇasya sāvakāśatvāt vipratiṣedhāt sarvādeśaḥ bhaviṣyati . prayojanam nāma tat vaktavyam yat niyogataḥ syāt . yadi ca ayam niyogataḥ sarvādeśaḥ syāt tataḥ etat prayojanam syāt . kutaḥ nu khalu etat ṅitkaraṇāt ayam sarvādeśaḥ bhaviṣyati na punaḥ antyasya syāt iti . evam tarhi etat eva jñāpayati na tātaṅ antyasya sthāne bhavati iti yat etam ṅitam karoti . itarathā hi loṭaḥ eruprakaraṇe eva brūyāt tihyoḥ tāt āśiṣi anyatarasyām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३१।९-१७ रो इ,३९५-३९६ अलः अन्त्यस्य अदेः परस्य अनेकाल् शित् सर्वस्य इति अपवादविप्रतिषेधात् सर्वादेशः । अलः अन्त्यस्य इति उत्सर्गः । तस्य आदेः परस्य अनेकाल्शित् सर्वस्य इति अपवादौ । अपवादविप्रतिषेधात् तु सर्वादेशः भविष्यति । आदेः परस्य इति अस्य अवकाशः द्व्यन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्वीपम् । अनेकाल्शित् सर्वस्य इति अस्य अवकाशः अस्तेः भूः : भविता भवितुम् । इह उभयम् प्राप्नोति : अतः भिसः ऐस् । अनेकाल्शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन । शित् सर्वस्य इति अस्य अवकाशः इदमः इश् : इतः , इह । आदेः परस्य इति अस्य अवकाशः सः एव । इह उभयम् प्राप्नोति : अष्टाभ्यः औश् । शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन ।

KA I,131.9-17 Ro I,395-396 alaḥ antyasya adeḥ parasya anekāl śit sarvasya iti apavādavipratiṣedhāt sarvādeśaḥ . alaḥ antyasya iti utsargaḥ . tasya ādeḥ parasya anekālśit sarvasya iti apavādau . apavādavipratiṣedhāt tu sarvādeśaḥ bhaviṣyati . ādeḥ parasya iti asya avakāśaḥ dvyantarupasargebhyaḥ apaḥ īt : dvīpam anvīpam . anekālśit sarvasya iti asya avakāśaḥ asteḥ bhūḥ : bhavitā bhavitum . iha ubhayam prāpnoti : ataḥ bhisaḥ ais . anekālśit sarvasya iti etat bhavati vipratiṣedhena . śit sarvasya iti asya avakāśaḥ idamaḥ iś : itaḥ , iha . ādeḥ parasya iti asya avakāśaḥ saḥ eva . iha ubhayam prāpnoti : aṣṭābhyaḥ auś . śit sarvasya iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३१।१९-१३२।७ रो इ,३९६-३९७ शित् सर्वस्य इति किम् उदाहरणम् । इदमः इश् : इतः , इह । न एतत् अस्ति प्रयोजनम् । शित्करणात् एव अत्र सर्वादेशः भविष्यति । इदम् तर्हि : अष्टाभ्यः औश् । ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति । इदम् तर्हि : जसः शी जश्शसोः शिः । ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति । अस्ति अन्यत् शित्करणे प्रयोजनम् । किम् । विशेषणार्थः । क्व विशेषणार्थेन अर्थः । शि सर्वनामस्थानम् विभाषा ङिश्योः इति । शित् सर्वस्य इति शक्यम् अकर्तुम् । कथम् । अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् । असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न स्यात् । असत्याम् इत्सञ्ज्ञायाम् लोपः न स्यात् । असति लोपे अनेकाल् । यदा अनेकाल् तदा सर्वादेशः । यदा सर्वादेशः तद प्रत्ययः । यदा प्रत्ययः तदा इत्सञ्ज्ञा । यदा इत्सञ्ज्ञा तदा लोपः । एवम् तर्हि सिद्धे सति यत् शित् सर्वस्य इति आह तत् ज्ञापयति आचार्यः अस्ति एषा परिभाषा : न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । तत्र असरूपसर्वादेशाप्प्रतिषेधेषु पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् । तत् न वक्तव्यम् भवति इति ।

KA I,131.19-132.7 Ro I,396-397 śit sarvasya iti kim udāharaṇam . idamaḥ iś : itaḥ , iha . na etat asti prayojanam . śitkaraṇāt eva atra sarvādeśaḥ bhaviṣyati . idam tarhi : aṣṭābhyaḥ auś . nanu ca atra api śitkaraṇāt eva sarvādeśaḥ bhaviṣyati . idam tarhi : jasaḥ śī jaśśasoḥ śiḥ . nanu ca atra api śitkaraṇāt eva sarvādeśaḥ bhaviṣyati . asti anyat śitkaraṇe prayojanam . kim . viśeṣaṇārthaḥ . kva viśeṣaṇārthena arthaḥ . śi sarvanāmasthānam vibhāṣā ṅiśyoḥ iti . śit sarvasya iti śakyam akartum . katham . antyasya ayam sthāne bhavan na pratyayaḥ syāt . asatyām pratyayasañjñāyām itsañjñā na syāt . asatyām itsañjñāyām lopaḥ na syāt . asati lope anekāl . yadā anekāl tadā sarvādeśaḥ . yadā sarvādeśaḥ tada pratyayaḥ . yadā pratyayaḥ tadā itsañjñā . yadā itsañjñā tadā lopaḥ . evam tarhi siddhe sati yat śit sarvasya iti āha tat jñāpayati ācāryaḥ asti eṣā paribhāṣā : na anubandhakṛtam anekāltvam bhavati iti . kim etasya jñāpane prayojanam . tatra asarūpasarvādeśāppratiṣedheṣu pṛthaktvanirdeśaḥ anākārāntatvāt iti uktam . tat na vaktavyam bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३३।२-१६ रो इ,३९८-४०१ वत्करणम् किमर्थम् । स्थानी आदेशः अनल्विधौ इति इयति उच्यमाने सञ्ज्ञाधिकरः अयम् तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात् । तत्र कः दोषः । आङः यमहनः आत्मनेपदम् भवति इति वधेः एव स्यात् । हन्तेः न स्यात् । वत्करणे पुनः क्रियमाणे न दोषः भवति । स्थानिकार्यम् आदेशे अतिदिश्यते गुरुवत् गुरुपुत्रः इति यथा । अथ आदेशग्रहणम् किमर्थम् । स्थानिवत् अनल्विधौ इति इयति उच्यमाने कः इदानीम् स्थानिवत् स्यात् । यः स्थाने भवति । कः च स्थाने भवति । आदेशः । इदम् तर्हि प्रयोजनम् आदेशमात्रम् स्थानिवत् यथा स्यात् । एकदेशविकृतस्य उपसङ्ख्यानम् चोदयिष्यति । तत् न वक्तव्यम् भवति । अथ विधिग्रहणम् किमर्थम्। सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति । न एतत् अस्ति प्रयोजनम् । प्रातिपदिकर्निर्देशः अयम् । प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति । न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति । तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या । इदम् तर्हि प्रयोजनम् : उत्तरपदलोपः यथा विज्ञायेत : अलम् आश्रयते अलाशृअयः , अलाश्रयः विधिः अल्विधिः इति । यत्र प्राधान्येन अल् आश्रीयते तत्र एव प्रतिषेधः स्यात् । यत्र विशेषणत्वेन अल् आश्रीयते तत्र प्रतिषेधः न स्यात् । किम् प्रयोजनम् । प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट् मा भूत् इति ।

KA I,133.2-16 Ro I,398-401 vatkaraṇam kimartham . sthānī ādeśaḥ analvidhau iti iyati ucyamāne sañjñādhikaraḥ ayam tatra sthānī ādeśasya sañjñā syāt . tatra kaḥ doṣaḥ . āṅaḥ yamahanaḥ ātmanepadam bhavati iti vadheḥ eva syāt . hanteḥ na syāt . vatkaraṇe punaḥ kriyamāṇe na doṣaḥ bhavati . sthānikāryam ādeśe atidiśyate guruvat guruputraḥ iti yathā . atha ādeśagrahaṇam kimartham . sthānivat analvidhau iti iyati ucyamāne kaḥ idānīm sthānivat syāt . yaḥ sthāne bhavati . kaḥ ca sthāne bhavati . ādeśaḥ . idam tarhi prayojanam ādeśamātram sthānivat yathā syāt . ekadeśavikṛtasya upasaṅkhyānam codayiṣyati . tat na vaktavyam bhavati . atha vidhigrahaṇam kimartham. sarvavibhaktyantaḥ samāsaḥ yathā vijñāyeta : alaḥ parasya vidhiḥ alvidhiḥ , alaḥ vidhiḥ alvidhiḥ , ali vidhiḥ alvidhiḥ , alā vidhiḥ alvidhiḥ iti . na etat asti prayojanam . prātipadikarnirdeśaḥ ayam . prātipadikarnirdeśāḥ ca arthatantrāḥ bhavanti . na kāṃ cit prādhānyena vibhaktim āśrayanti . tatra prātipadikārthe nirdiṣṭe yām yām vibhaktim āśrayitum buddhiḥ upajāyate sā sā āśrayitavyā . idam tarhi prayojanam : uttarapadalopaḥ yathā vijñāyeta : alam āśrayate alāśṛayaḥ , alāśrayaḥ vidhiḥ alvidhiḥ iti . yatra prādhānyena al āśrīyate tatra eva pratiṣedhaḥ syāt . yatra viśeṣaṇatvena al āśrīyate tatra pratiṣedhaḥ na syāt . kim prayojanam . pradīvya prasīvya iti valādilakṣaṇaḥ iṭ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३३।१७-१३४।९ रो इ,४०१-४०२ किमर्थम् पुनः इदम् उच्यते । स्थान्यादेशपृथक्त्वात् आदेशे स्थानिवदनुदेशः गुरुवत् गुरुपुत्रे इति यथा । अन्यः स्थानी अन्यः आदेशः । स्थान्यादेशपृथक्त्वात् एतस्मात् कारणात् स्थानिकार्यम् आदेशे न प्राप्नोति । तत्र कः दोषः । आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् । इष्यते च वधेः अपि स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति । तस्मात् । स्थानिवदनुदेशः । एवमर्थम् इदम् उच्यते । गुरुवत् गुरुपुत्रः इति यथा । तत् यथा गुरुवत् अस्मिन् गुरुपुत्रे वर्तितव्यम् इति गुरौ यत् कार्यम् तत् गुरुपुत्रे अतिदिश्यते , एवम् इह अपि स्थानिकार्यम् आदेशे अतिदिश्यते । न एतत् अस्ति प्रयोजनम् । लोकतः एतत् सिद्धम् । तत् यथा लोके यः यस्य प्रसङ्गे भवति लभते असौ तत्कार्याणि । तत् यथा उपाध्यायस्य शिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते । यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति । अस्ति च इह कः चित् पुरुषारम्भः । अस्ति इति आह । कः । स्वरूपविधिः । हन्तेः आत्मनेपदम् उच्यमानम् हन्तेः एव स्यात् वधेः न स्यात् । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति स्थानिवत् आदेशः भवति इति यत् अयम् युष्मदस्मदोः अनादेशे इति आदेशप्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । युष्मदस्मदोः विभक्तौ कार्यम् उच्यमानम् कः प्रसङ्गः यत् आदेशे स्यात् । पश्यति तु आचार्यः स्थानिवत् आदेशः भवति इति । अतः आदेशे प्रतिषेधम् शास्ति । इदम् तर्हि प्रयोजनम् : अनल्विधौ इति प्रतिषेधम् वक्ष्यामि इति , इह मा भूत् : द्यौः , पन्थाः , सः इति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति अल्विधौ स्थानिवद्भावः न भवति इति यत् अयम् अदः जग्धिः ल्यप् ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति । तस्मात् न अर्थः अनेन योगेन ।

KA I,133.17-134.9 Ro I,401-402 kimartham punaḥ idam ucyate . sthānyādeśapṛthaktvāt ādeśe sthānivadanudeśaḥ guruvat guruputre iti yathā . anyaḥ sthānī anyaḥ ādeśaḥ . sthānyādeśapṛthaktvāt etasmāt kāraṇāt sthānikāryam ādeśe na prāpnoti . tatra kaḥ doṣaḥ . āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na syāt . iṣyate ca vadheḥ api syāt iti . tat ca antareṇa yatnam na sidhyati . tasmāt . sthānivadanudeśaḥ . evamartham idam ucyate . guruvat guruputraḥ iti yathā . tat yathā guruvat asmin guruputre vartitavyam iti gurau yat kāryam tat guruputre atidiśyate , evam iha api sthānikāryam ādeśe atidiśyate . na etat asti prayojanam . lokataḥ etat siddham . tat yathā loke yaḥ yasya prasaṅge bhavati labhate asau tatkāryāṇi . tat yathā upādhyāyasya śiṣyaḥ yājyakulāni gatvā agrāsanādīni labhate . yadi api tāvat loke eṣaḥ dṛṣṭāntaḥ dṛṣṭāntasya api tu puruṣārambhaḥ nivartakaḥ bhavati . asti ca iha kaḥ cit puruṣārambhaḥ . asti iti āha . kaḥ . svarūpavidhiḥ . hanteḥ ātmanepadam ucyamānam hanteḥ eva syāt vadheḥ na syāt . evam tarhi ācāryapravṛttiḥ jñāpayati sthānivat ādeśaḥ bhavati iti yat ayam yuṣmadasmadoḥ anādeśe iti ādeśapratiṣedham śāsti . katham kṛtvā jñāpakam . yuṣmadasmadoḥ vibhaktau kāryam ucyamānam kaḥ prasaṅgaḥ yat ādeśe syāt . paśyati tu ācāryaḥ sthānivat ādeśaḥ bhavati iti . ataḥ ādeśe pratiṣedham śāsti . idam tarhi prayojanam : analvidhau iti pratiṣedham vakṣyāmi iti , iha mā bhūt : dyauḥ , panthāḥ , saḥ iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati alvidhau sthānivadbhāvaḥ na bhavati iti yat ayam adaḥ jagdhiḥ lyap ti kiti iti ti kiti iti eva siddhe lyabgrahaṇam karoti . tasmāt na arthaḥ anena yogena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३४।१०-१३५।८ रो इ,४०३-४०६ आरभ्यमाणे अपि एतस्मिन् योगे अल्विधौ प्रतिषेधे अविशेषणे अप्राप्तिः तस्य अदर्शनात् । अल्विधौ प्रतिषेधे असति अपि विशेषणे समाश्रीयमणे असति तस्मिन् विशेषणे अप्राप्तिः विधेः : प्रदीव्य प्रसीव्य । किम् कारणम् । तस्य अदर्शनात् । वलादेः इति उच्यते न च अत्र वलादिम् पश्यामः । ननु च एवमर्थः एव अयम् यत्नः क्रियते : अन्यस्य कार्यम् उच्यमानम् अन्यस्य यथा स्यात् इति । सत्यम् एवमर्थः न तु प्राप्नोति । किम् कारणम् । सामान्यातिदेशे विशेषानतिदेशः । सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति । तत् यथा : ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते । यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते । एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् वलादेः इति न तत् अतिदिश्यते । यदि एवम् अग्रहीत् इति इटः ईटि इति सिचः लोपः न प्राप्नोति । अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति : प्रदीव्य प्रसीव्य इति । विशिष्टम् हि एषः अलम् आश्रयते वलम् नाम । इह च प्रतिषेधः न भविष्यति : अग्रहीत् इति । विशिष्टम् हि एषः अनलम् आश्रयति इटम् नाम । यदि तर्हि सामान्यम् अपि अतिदिश्यते विशेषः च सति आश्रये विधिः इष्टः । सति च वलादित्वे इटा भवितव्यम् : अरुदिताम् अरुदितम् अरुदित । किम् अतः यत् सति भवितव्यम् । प्रतिषेधः तु प्राप्नोति अल्विधित्वात् । प्रतिषेधः तु प्राप्नोति । किम् कारणम् । अल्विधित्वात् । अल्विधिः अयम् भवति । तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति । न वा आनुदेशिकस्य प्रतिषेधात् इतरेण भावः । न वा एषः दोषः । किम् कारणम् । आनुदेशिकस्य प्रतिषेधात् । अस्तु अत्र आनुदेशिकस्य वलादित्वस्य प्रतिषेधः । स्वाश्रयम् अत्र वलादित्वम् भविष्यति । न एतत् विवदामहे वलादिः न वलादिः इति । किम् तर्हि । स्थानिवद्भावात् सार्वधातुकत्वम् एषितव्यम् । तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।

KA I,134.10-135.8 Ro I,403-406 ārabhyamāṇe api etasmin yoge alvidhau pratiṣedhe aviśeṣaṇe aprāptiḥ tasya adarśanāt . alvidhau pratiṣedhe asati api viśeṣaṇe samāśrīyamaṇe asati tasmin viśeṣaṇe aprāptiḥ vidheḥ : pradīvya prasīvya . kim kāraṇam . tasya adarśanāt . valādeḥ iti ucyate na ca atra valādim paśyāmaḥ . nanu ca evamarthaḥ eva ayam yatnaḥ kriyate : anyasya kāryam ucyamānam anyasya yathā syāt iti . satyam evamarthaḥ na tu prāpnoti . kim kāraṇam . sāmānyātideśe viśeṣānatideśaḥ . sāmanye hi atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati . tat yathā : brahmaṇavat asmin kṣatriye vartitavyam iti sāmānyam yat brāhmaṇakāryam tat kṣatriye atidiśyate . yat viśiṣṭam māṭhare kauṇḍinye vā na tat atidiśyate . evam iha api sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam valādeḥ iti na tat atidiśyate . yadi evam agrahīt iti iṭaḥ īṭi iti sicaḥ lopaḥ na prāpnoti . analvidhau iti punaḥ ucyamāne iha api pratiṣedhaḥ bhaviṣyati : pradīvya prasīvya iti . viśiṣṭam hi eṣaḥ alam āśrayate valam nāma . iha ca pratiṣedhaḥ na bhaviṣyati : agrahīt iti . viśiṣṭam hi eṣaḥ analam āśrayati iṭam nāma . yadi tarhi sāmānyam api atidiśyate viśeṣaḥ ca sati āśraye vidhiḥ iṣṭaḥ . sati ca valāditve iṭā bhavitavyam : aruditām aruditam arudita . kim ataḥ yat sati bhavitavyam . pratiṣedhaḥ tu prāpnoti alvidhitvāt . pratiṣedhaḥ tu prāpnoti . kim kāraṇam . alvidhitvāt . alvidhiḥ ayam bhavati . tatra analvidhau iti pratiṣedhaḥ prāpnoti . na vā ānudeśikasya pratiṣedhāt itareṇa bhāvaḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ānudeśikasya pratiṣedhāt . astu atra ānudeśikasya valāditvasya pratiṣedhaḥ . svāśrayam atra valāditvam bhaviṣyati . na etat vivadāmahe valādiḥ na valādiḥ iti . kim tarhi . sthānivadbhāvāt sārvadhātukatvam eṣitavyam . tatra analvidhau iti pratiṣedhaḥ prāpnoti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३५।९-१३६।४ रो इ,४०६-४०८ किम् पुनः आदेशिनि अलि आश्रीयमाणे प्रतिषेधः भवति आहोस्वित् अविशेषेण आदेशे आदेशिनि च । कः च अत्र विशेषः । आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः । आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः वक्तव्यः । कुरु इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् । तत्र लघूपधगुणः प्राप्नोति । वधकम् इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च अदुपधत्वम् । तत्र वृद्धिः प्राप्नोति । पिब इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् । तत्र गुणः प्राप्नोति । अस्तु तर्हि अविशेषेण आदेशे आदेशिनि च । आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् । आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् कर्तव्यम् । सुप् : वृक्षाय प्लक्षाय । स्थानिवद्भावात् सुप्सञ्ज्ञा स्वाश्रयम् च यञादित्वम् । तत्र प्रतिषेधः प्राप्नोति । सुप् । तिङ् : अरुदिताम् अरुदितम् अरुदित । स्थानिवद्भावात् सार्वधातुकसञ्ज्ञा स्वाश्रयम् च वलादित्वम् । तत्र प्रतिषेधः प्राप्नोति । तिङ् । कृदतिदिष्टम् : भुवनम् , सुवनम् , धुवनम् । स्थानिवद्भावात् प्रत्ययसञ्ज्ञा स्वाश्रयम् च अजादित्वम् । तत्र प्रतिषेधः प्राप्नोति । किम् पुनः अत्र ज्यायः । आदेशिनि अलि आश्रीयमाणे प्रतिषेधः इति ज्यायः । कुतः एतत् । तथा हि अयम् विशिष्टम् स्थानिकार्यम् आदेशे अतिदिशति गुरुवत् गुरुपुत्रे इति यथा । तत् यथा : गुरुवत् गुरुपुत्रे वर्तितव्यम् अन्यत्र उच्छिष्टभोजनात् पादोपसङ्ग्रहणाच् च इति । यदि च गुरुपुत्रः अपि गुरुः भवति तत् अपि कर्तव्यम् । अस्तु तर्हि आदेशिनि अलि आश्रीयमाणे प्रतिषेधः । ननु च उक्तम् आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः इति । न एषः दोषः । करोतौ तपरकरणनिर्देशात् सिद्धम् । पिबतिः अदन्तः । वधकम् इति न अयम् ण्वुल् । अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा ।

KA I,135.9-136.4 Ro I,406-408 kim punaḥ ādeśini ali āśrīyamāṇe pratiṣedhaḥ bhavati āhosvit aviśeṣeṇa ādeśe ādeśini ca . kaḥ ca atra viśeṣaḥ . ādeśyalvidhipratiṣedhe kuruvadhapibām guṇavṛddhipratiṣedhaḥ . ādeśyalvidhipratiṣedhe kuruvadhapibām guṇavṛddhipratiṣedhaḥ vaktavyaḥ . kuru iti atra sthānivadbhāvāt aṅgasañjñā śvāśrayam ca laghūpadhatvam . tatra laghūpadhaguṇaḥ prāpnoti . vadhakam iti atra sthānivadbhāvāt aṅgasañjñā śvāśrayam ca adupadhatvam . tatra vṛddhiḥ prāpnoti . piba iti atra sthānivadbhāvāt aṅgasañjñā śvāśrayam ca laghūpadhatvam . tatra guṇaḥ prāpnoti . astu tarhi aviśeṣeṇa ādeśe ādeśini ca . ādeśyādeśe iti cet suptiṅkṛdatidiṣṭeṣu upasaṅkhyānam . ādeśyādeśe iti cet suptiṅkṛdatidiṣṭeṣu upasaṅkhyānam kartavyam . sup : vṛkṣāya plakṣāya . sthānivadbhāvāt supsañjñā svāśrayam ca yañāditvam . tatra pratiṣedhaḥ prāpnoti . sup . tiṅ : aruditām aruditam arudita . sthānivadbhāvāt sārvadhātukasañjñā svāśrayam ca valāditvam . tatra pratiṣedhaḥ prāpnoti . tiṅ . kṛdatidiṣṭam : bhuvanam , suvanam , dhuvanam . sthānivadbhāvāt pratyayasañjñā svāśrayam ca ajāditvam . tatra pratiṣedhaḥ prāpnoti . kim punaḥ atra jyāyaḥ . ādeśini ali āśrīyamāṇe pratiṣedhaḥ iti jyāyaḥ . kutaḥ etat . tathā hi ayam viśiṣṭam sthānikāryam ādeśe atidiśati guruvat guruputre iti yathā . tat yathā : guruvat guruputre vartitavyam anyatra ucchiṣṭabhojanāt pādopasaṅgrahaṇāc ca iti . yadi ca guruputraḥ api guruḥ bhavati tat api kartavyam . astu tarhi ādeśini ali āśrīyamāṇe pratiṣedhaḥ . nanu ca uktam ādeśyalvidhipratiṣedhe kuruvadhapibām guṇavṛddhipratiṣedhaḥ iti . na eṣaḥ doṣaḥ . karotau taparakaraṇanirdeśāt siddham . pibatiḥ adantaḥ . vadhakam iti na ayam ṇvul . anyaḥ ayam akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३६।५-१३७।२ रो इ,४०८-४११ एकदेशविकृतस्य उपसङ्ख्यानम् । एकदेशविकृतस्य उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । पचतु पचन्तु । तिङ्ग्रहणेन ग्रहणम् यथा स्यात् । एकदेशविकृतस्य अनन्यत्वात् सिद्धम् । एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति । तत् यथ : श्वा कर्णे वा पुच्छे वा छिन्ने श्वा एव भवति न अश्वः न गर्दभः इति । अनित्यत्वविज्ञानम् तु तस्मात् उपसङ्ख्यनम् । अनित्यत्वविज्ञानम् तु भवति । नित्याः शब्दाः । नित्येषु नाम शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः । तत्र सः एव अयम् विकृतः च एतत् नित्येषु न उपपद्यते । तस्मात् उपसङ्ख्यनम् कर्तव्यम् । भारद्वाजीयाः पठन्ति : एकदेशविकृतेषु उपसङ्ख्यानम् । एकदेशविकृतेषु उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । पचतु पचन्तु : तिङ्ग्रहणेन ग्रहणम् यथा स्यात् । किम् च कारणम् न स्यात् । अनादेशत्वात् । आदेशः स्थानिवत् इति उच्यते , न च इमे आदेशाः । रूपान्यत्वात् च । अन्यत् खलु अपि रूपम् पचति इति अन्यत् पचतु इति । इमे अपि आदेशाः । कथम् । आदिश्यते यः सः आदेशः । इमे च अपि आदिश्यन्ते । आदेशः स्थानिवत् इति चेत् न अनाश्रितत्वात् । आदेशः स्थानिवत् इति चेत् तत् न । किम् कारणम् । अनाश्रितत्वात् । यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । न एतत् मन्तव्यम् : समुदाये आश्रीयमाणे अवयवः न आश्रीयते इति । अभ्यन्तरः हि समुदायस्य अवयवः । तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति । आश्रयः इति चेत् अल्विधिप्रसङ्गः । आश्रयः इति चेत् अल्विधिः अयम् भवति । तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति । न एषः दोषः । न एवम् सति कः चित् अपि अनल्विधिः स्यात् । उच्यते च इदम् अनल्विधौ इति । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अल्विधिः इति । कः च साधीयः अल्विधिः । यत्र प्राधान्येन अल् आश्रीयते । यत्र नान्तरीयकः अल् आश्रीयते न असौ अल्विधिः । अथ वा उक्तम् आदेशग्रहणस्य प्रयोजनम् : आदेशमात्रम् स्थानिवत् यथा स्यात् इति ।

KA I,136.5-137.2 Ro I,408-411 ekadeśavikṛtasya upasaṅkhyānam . ekadeśavikṛtasya upasaṅkhyānam kartavyam . kim prayojanam . pacatu pacantu . tiṅgrahaṇena grahaṇam yathā syāt . ekadeśavikṛtasya ananyatvāt siddham . ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati . tat yatha : śvā karṇe vā pucche vā chinne śvā eva bhavati na aśvaḥ na gardabhaḥ iti . anityatvavijñānam tu tasmāt upasaṅkhyanam . anityatvavijñānam tu bhavati . nityāḥ śabdāḥ . nityeṣu nāma śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . tatra saḥ eva ayam vikṛtaḥ ca etat nityeṣu na upapadyate . tasmāt upasaṅkhyanam kartavyam . bhāradvājīyāḥ paṭhanti : ekadeśavikṛteṣu upasaṅkhyānam . ekadeśavikṛteṣu upasaṅkhyānam kartavyam . kim prayojanam . pacatu pacantu : tiṅgrahaṇena grahaṇam yathā syāt . kim ca kāraṇam na syāt . anādeśatvāt . ādeśaḥ sthānivat iti ucyate , na ca ime ādeśāḥ . rūpānyatvāt ca . anyat khalu api rūpam pacati iti anyat pacatu iti . ime api ādeśāḥ . katham . ādiśyate yaḥ saḥ ādeśaḥ . ime ca api ādiśyante . ādeśaḥ sthānivat iti cet na anāśritatvāt . ādeśaḥ sthānivat iti cet tat na . kim kāraṇam . anāśritatvāt . yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . na etat mantavyam : samudāye āśrīyamāṇe avayavaḥ na āśrīyate iti . abhyantaraḥ hi samudāyasya avayavaḥ . tat yathā : vṛkṣaḥ pracalan saha avayavaiḥ pracalati . āśrayaḥ iti cet alvidhiprasaṅgaḥ . āśrayaḥ iti cet alvidhiḥ ayam bhavati . tatra analvidhau iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . na evam sati kaḥ cit api analvidhiḥ syāt . ucyate ca idam analvidhau iti . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ alvidhiḥ iti . kaḥ ca sādhīyaḥ alvidhiḥ . yatra prādhānyena al āśrīyate . yatra nāntarīyakaḥ al āśrīyate na asau alvidhiḥ . atha vā uktam ādeśagrahaṇasya prayojanam : ādeśamātram sthānivat yathā syāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३७।३-२६ रो इ,४११-४१२ अनुपपन्नम् स्थान्यादेशत्वम् नित्यत्वात् । स्थानी आदेशः इति एतत् नित्येषु शब्देषु न उपपद्यते । किम् कारणम् । नित्यत्वात् । स्थानी हि नाम् यः भूत्वा न भवति । आदेशः हि नाम यः अभूत्वा भवति । एतत् च नित्येषु शब्देषु न उपपद्यते यत् सतः नाम विनाशः स्यात् असतः वा प्रादुर्भावः इति । सिद्धम् तु यथा लौकिकवैदिकेषु अभूतपूर्वे अपि स्थानशब्दप्रयोगात् । सिद्धम् एतत् । कथम् । यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि स्थानशब्दः वर्तते । लोके तावत् : उपाध्यायस्य स्थाने शिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति । वेदे अपि : सोमस्य स्थाने पूतीकतृणानि अभिषुणुयात् इति उच्यते न च तत्र सोमः भूतपूर्वः भवति । कार्यविपरिणामात् वा सिद्धम् । अथ वा कार्यविपरिणामात् सिद्धम् एतत् । किम् इदम् कार्यविपरिणामात् इति । कार्या बुद्धिः । सा विपरिणम्यते । ननु च कार्याविपरिणामात् इति भवितव्यम् । सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि । अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरम् । कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामात् इति । परिहारन्तरम् एव इदम् मत्वा पठितम् । कथम् च इदम् परिहारान्तरम् स्यात् । यदि भूतपूर्वे स्थानशब्दः वर्तते । भूतपूर्वे च अपि स्थानशब्दः वर्तते । कथम् । बुद्ध्या । तत् यथा कः चित् कस्मै चित् उपदिशति प्राचीनम् ग्रामात् आम्राः इति । तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता । ततः पश्चात् अह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति। सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिम् प्रतिपद्यते । सः ततः पश्यति बुद्ध्या आम्रान् च अपकृष्यमाणान् न्यग्रोधान् च आधीयमानान् । नित्याः एव च स्वस्मिन् विषये आम्राः नित्याः च न्यग्रोधाः । बुद्धिः तु अस्य विपरिणम्यते । एवम् इह अपि अस्तिः अस्मै अविशेषेण उपदिष्टः । तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता । सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिम् प्रतिपद्यते । सः ततः पश्यति बुद्ध्या अस्तिम् च अपकृष्यमाणम् भवतिम् च आधीयमानम् । नित्यः एव स्वस्मिन् विषये अस्तिः नित्यः भवतिः । बुद्धिः तु अस्य विपरिणम्यते ।

KA I,137.3-26 Ro I,411-412 anupapannam sthānyādeśatvam nityatvāt . sthānī ādeśaḥ iti etat nityeṣu śabdeṣu na upapadyate . kim kāraṇam . nityatvāt . sthānī hi nām yaḥ bhūtvā na bhavati . ādeśaḥ hi nāma yaḥ abhūtvā bhavati . etat ca nityeṣu śabdeṣu na upapadyate yat sataḥ nāma vināśaḥ syāt asataḥ vā prādurbhāvaḥ iti . siddham tu yathā laukikavaidikeṣu abhūtapūrve api sthānaśabdaprayogāt . siddham etat . katham . yathā laukikeṣu vaidikeṣu ca kṛtānteṣu abhūtapūrve api sthānaśabdaḥ vartate . loke tāvat : upādhyāyasya sthāne śiṣyaḥ iti ucyate na ca tatra upādhyāyaḥ bhūtapūrvaḥ bhavati . vede api : somasya sthāne pūtīkatṛṇāni abhiṣuṇuyāt iti ucyate na ca tatra somaḥ bhūtapūrvaḥ bhavati . kāryavipariṇāmāt vā siddham . atha vā kāryavipariṇāmāt siddham etat . kim idam kāryavipariṇāmāt iti . kāryā buddhiḥ . sā vipariṇamyate . nanu ca kāryāvipariṇāmāt iti bhavitavyam . santi ca eva hi auttarpadikāni hrasvatvāni . api ca buddhiḥ sampratyayaḥ iti anarthāntaram . kāryā buddhiḥ kāryaḥ sampratyayaḥ kāryasya sampratyayasya vipariṇāmaḥ kāryavipariṇāmaḥ kāryavipariṇāmāt iti . parihārantaram eva idam matvā paṭhitam . katham ca idam parihārāntaram syāt . yadi bhūtapūrve sthānaśabdaḥ vartate . bhūtapūrve ca api sthānaśabdaḥ vartate . katham . buddhyā . tat yathā kaḥ cit kasmai cit upadiśati prācīnam grāmāt āmrāḥ iti . tasya sarvatra āmrabuddhiḥ prasaktā . tataḥ paścāt aha ye kṣīriṇaḥ avarohavantaḥ pṛthuparṇāḥ te nyagrodhāḥ iti. saḥ tatra āmrabuddhyāḥ nyagrodhabuddhim pratipadyate . saḥ tataḥ paśyati buddhyā āmrān ca apakṛṣyamāṇān nyagrodhān ca ādhīyamānān . nityāḥ eva ca svasmin viṣaye āmrāḥ nityāḥ ca nyagrodhāḥ . buddhiḥ tu asya vipariṇamyate . evam iha api astiḥ asmai aviśeṣeṇa upadiṣṭaḥ . tasya sarvatra astibuddhiḥ prasaktā . saḥ asteḥ bhūḥ iti astibuddhyāḥ bhavatibuddhim pratipadyate . saḥ tataḥ paśyati buddhyā astim ca apakṛṣyamāṇam bhavatim ca ādhīyamānam . nityaḥ eva svasmin viṣaye astiḥ nityaḥ bhavatiḥ . buddhiḥ tu asya vipariṇamyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३८।१-१० रो इ,४१३-४१४ अपवादप्रसङ्गः तु स्थानिवत्त्वात् । अपवादे उत्सर्गकृतम् च प्राप्नोति । कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अणि कृतम् प्राप्नोति । किम् कारणम् । स्थानिवत्त्वात् । उक्तम् वा । किम् उक्तम् । विषयेण तु नानालिङ्गकरणात् सिद्धम् इति । अथ वा । सिद्धम् तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् । सिद्धम् एतत् । कथम् । षष्ठीनिर्दिष्टस्य आदेशः स्थानिवत् इति वक्तव्यम् । तत् तर्हि षष्ठीनिर्दिष्टग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । षष्ठी स्थानेयोगा इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीनाम् कान् चित् शितः करोति : श्यन् , श्नम् , श्ना , शः , श्नुः इति ।

KA I,138.1-10 Ro I,413-414 apavādaprasaṅgaḥ tu sthānivattvāt . apavāde utsargakṛtam ca prāpnoti . karmaṇi aṇ ātaḥ anupasarge kaḥ iti ke api aṇi kṛtam prāpnoti . kim kāraṇam . sthānivattvāt . uktam vā . kim uktam . viṣayeṇa tu nānāliṅgakaraṇāt siddham iti . atha vā . siddham tu ṣaṣṭhīnirdiṣṭasya sthānivadvacanāt . siddham etat . katham . ṣaṣṭhīnirdiṣṭasya ādeśaḥ sthānivat iti vaktavyam . tat tarhi ṣaṣṭhīnirdiṣṭagrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . ṣaṣṭhī sthāneyogā iti . atha vā ācāryapravṛttiḥ jñāpayati na apavāde utsargakṛtam bhavati iti yat ayam śyanādīnām kān cit śitaḥ karoti : śyan , śnam , śnā , śaḥ , śnuḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१३८।११-१४१।२२ रो इ,४१४-४२१ तस्य दोषः तयादेशे उभयप्रतिषेधः । तस्य एतस्य लक्षणस्य दोषः : तयादेशे उभयप्रतिषेधः वक्तव्यः : उभये देवमनुष्याः । तयपः ग्रहणेन ग्रहणात् जसि विभाषा प्राप्नोति । न एषः दोषः । अयच् प्रत्ययान्तरम् । यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति । मा भूत् एवम् । मात्रचः इति एवम् भविष्यति । कथम् । मात्रच् इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । मात्रशब्दात् प्रभृति आ आयचः चकारात् । यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति । अतः इति वर्तते । एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति । सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् । जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावप्रतिषेधः । जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः । व्रीहिभ्यः आगतः इति अत्र घेः ङिति इत् गुणः प्राप्नोति । न एषः दोषः । उक्तम् एतत् : अर्थातिदेशात् सिद्धम् इति । ङ्याब्ग्रहणे अदीर्घः । ङ्याब्ग्रहणे अदीर्घः आदेशः न स्थानिवत् इति वक्तव्यम् । किम् प्रयोजनम् । निष्कौशाम्बिः , अतिखट्वः । ङ्याब्ग्रहणेन ग्रहणात् सुलोपः मा भूत् इति । ननु च दीर्घात् इति उच्यते । तत् न वक्तव्यम् भवति । किम् पुनः अत्र ज्यायः । स्थानिवत्प्रतिषेधः एव ज्यायान् । इदम् अपि सिद्धम् भवति : अतिखट्वाय अतिमालाय । याट् आपः इति याट् न भवति । अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित् च असौ भूतपूर्वः इति कृत्वा याट् आपः इति याट् कस्मात् न भवति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् इह उपस्थातुम् । न इति आह । न हि इदानीम् क्व चित् अपि स्थानिवद्भावः स्यात् । तत् तर्हि वक्तव्यम् । न वक्तव्यम्। प्रश्लिष्टनिर्देशात् सिद्धम् । प्रश्लिष्टनिर्देशः अयम् : ङी* ई* ईकारान्तात् आ* आप् आकारान्तात् इति । आहिभुवोः ईट्प्रतिषेधः । आहिभुवोः ईट्प्रतिषेधः वक्तव्यः : आत्थ अभूत् । अस्तिब्रूग्रहणेन ग्रहणात् ईट् प्राप्नोति । आहेः तावत् न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति न आहेः ईट् भवति इति यत् अयम् आहः थः इति झलादिप्रकरणे थत्वम् शास्ति । न एतत् अस्ति प्रयोजनम्। अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । भूतपूर्वगतिः यथा विज्ञायेत : झलादिः यः भूतपूर्वः इति । यदि एवम् थवचनम् अनर्थकम् स्यात् । आथिम् एव अयम् उच्चारयेत् : ब्रुवः पञ्चानाम् आदितः आथः ब्रुवः इति । भवतेः च अपि न वक्तव्यः । अस्तिसिचः अपृक्ते इति द्विसकारकः निर्देशः : अस्तेः सकारान्तात् इति । वध्यादेशे वृद्धितत्वप्रतिषेधः । वध्यादेशे वृद्धितत्वप्रतिषेधः वक्तव्यः : वधकम् पुष्करम् इति । स्थानिवद्भावात् वृद्धितत्वे प्राप्नुतः । न एषः दोषः । उक्तम् एतत् : न अयम् ण्वुल् । अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा । इड्विधिः च । इड्विधेयः : आवधिषीष्ट । एकाचः उपदेशे अनुदात्तात् इति प्रतिषेधः प्राप्नोति । न एषः दोषः । आद्युदात्तनिपातनम् करिष्यते । स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । एवम् अपि उपदेशिवद्भावः वक्तव्यः । यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत : आवधिषीष्ट इति । न एषः दोषः । आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु । तत्र आर्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात् प्रत्ययस्वरः भविष्यति । आकारान्तात् नुक्षुक्प्रतिषेधः । आकारान्तात् नुक्षुकोः प्रतिषेधः वक्तव्यः : विलापयति भापयते । लीभीग्रहणेन ग्रहणात् नुक्षुकौ प्राप्नुतः । लीभियोः प्रश्लिष्टनिर्देशात् सिद्धम् । लीभियोः प्रश्लिष्टनिर्देशः अयम् : ली* ई* ईकारान्तस्य भी* ई* ईकारान्तस्य च इति । लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः । लोडादेशे एषाम् प्रतिषेधः वक्तव्यः : शिष्टात् , हतात् , भिन्तात्

KA I,138.11-141.22 Ro I,414-421 tasya doṣaḥ tayādeśe ubhayapratiṣedhaḥ . tasya etasya lakṣaṇasya doṣaḥ : tayādeśe ubhayapratiṣedhaḥ vaktavyaḥ : ubhaye devamanuṣyāḥ . tayapaḥ grahaṇena grahaṇāt jasi vibhāṣā prāpnoti . na eṣaḥ doṣaḥ . ayac pratyayāntaram . yadi pratyayāntaram ubhayī iti īkāraḥ na prāpnoti . mā bhūt evam . mātracaḥ iti evam bhaviṣyati . katham . mātrac iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . mātraśabdāt prabhṛti ā āyacaḥ cakārāt . yadi pratyāhāragrahaṇam kati tiṣṭhanti atra api prāpnoti . ataḥ iti vartate . evam api tailamātrā ghrtamātrā iti atra api prāpnoti . sadṛśasya api asanniviṣṭasya na bhaviṣyati pratyāhāreṇa grahaṇam . jātyakhyāyām vacanātideśe sthānivadbhāvapratiṣedhaḥ . jātyakhyāyām vacanātideśe sthānivadbhāvasya pratiṣedhaḥ vaktavyaḥ . vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti it guṇaḥ prāpnoti . na eṣaḥ doṣaḥ . uktam etat : arthātideśāt siddham iti . ṅyābgrahaṇe adīrghaḥ . ṅyābgrahaṇe adīrghaḥ ādeśaḥ na sthānivat iti vaktavyam . kim prayojanam . niṣkauśāmbiḥ , atikhaṭvaḥ . ṅyābgrahaṇena grahaṇāt sulopaḥ mā bhūt iti . nanu ca dīrghāt iti ucyate . tat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . sthānivatpratiṣedhaḥ eva jyāyān . idam api siddham bhavati : atikhaṭvāya atimālāya . yāṭ āpaḥ iti yāṭ na bhavati . atha idānīm asati api sthānivadbhāve dīrghatve kṛte pit ca asau bhūtapūrvaḥ iti kṛtvā yāṭ āpaḥ iti yāṭ kasmāt na bhavati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . nanu ca idānīm sati api sthānivadbhāve etayā paribhāṣayā śakyam iha upasthātum . na iti āha . na hi idānīm kva cit api sthānivadbhāvaḥ syāt . tat tarhi vaktavyam . na vaktavyam. praśliṣṭanirdeśāt siddham . praśliṣṭanirdeśaḥ ayam : ṅī* ī* īkārāntāt ā* āp ākārāntāt iti . āhibhuvoḥ īṭpratiṣedhaḥ . āhibhuvoḥ īṭpratiṣedhaḥ vaktavyaḥ : āttha abhūt . astibrūgrahaṇena grahaṇāt īṭ prāpnoti . āheḥ tāvat na vaktavyaḥ . ācāryapravṛttiḥ jñāpayati na āheḥ īṭ bhavati iti yat ayam āhaḥ thaḥ iti jhalādiprakaraṇe thatvam śāsti . na etat asti prayojanam. asti hi anyat etasya vacane prayojanam . kim . bhūtapūrvagatiḥ yathā vijñāyeta : jhalādiḥ yaḥ bhūtapūrvaḥ iti . yadi evam thavacanam anarthakam syāt . āthim eva ayam uccārayet : bruvaḥ pañcānām āditaḥ āthaḥ bruvaḥ iti . bhavateḥ ca api na vaktavyaḥ . astisicaḥ apṛkte iti dvisakārakaḥ nirdeśaḥ : asteḥ sakārāntāt iti . vadhyādeśe vṛddhitatvapratiṣedhaḥ . vadhyādeśe vṛddhitatvapratiṣedhaḥ vaktavyaḥ : vadhakam puṣkaram iti . sthānivadbhāvāt vṛddhitatve prāpnutaḥ . na eṣaḥ doṣaḥ . uktam etat : na ayam ṇvul . anyaḥ ayam akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā . iḍvidhiḥ ca . iḍvidheyaḥ : āvadhiṣīṣṭa . ekācaḥ upadeśe anudāttāt iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . ādyudāttanipātanam kariṣyate . sa nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . evam api upadeśivadbhāvaḥ vaktavyaḥ . yathā eva hi nipātanasvaraḥ prakṛtisvaram bādhate evam pratyayasvaram api bādheta : āvadhiṣīṣṭa iti . na eṣaḥ doṣaḥ . ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu . tatra ārdhadhātukasāmānye vadhibhāve kṛte sati śiṣṭatvāt pratyayasvaraḥ bhaviṣyati . ākārāntāt nukṣukpratiṣedhaḥ . ākārāntāt nukṣukoḥ pratiṣedhaḥ vaktavyaḥ : vilāpayati bhāpayate . lībhīgrahaṇena grahaṇāt nukṣukau prāpnutaḥ . lībhiyoḥ praśliṣṭanirdeśāt siddham . lībhiyoḥ praśliṣṭanirdeśaḥ ayam : lī* ī* īkārāntasya bhī* ī* īkārāntasya ca iti . loḍādeśe śābhāvajabhāvadhitvahilopaittvapratiṣedhaḥ . loḍādeśe eṣām pratiṣedhaḥ vaktavyaḥ : śiṣṭāt , hatāt , bhintāt

Sanskrit only: no published translation is held for this verse.

क्अ इ,१४१।२४-१४४।१७ रो इ,४२१-४३१ अचः इति किमर्थम् । प्रश्नः , द्यूत्वा , आक्राष्टाम् आगत्य । प्रश्नः , विश्नः इति अत्र छकारस्य शकारः परनिमित्तकः । तस्य स्थानिवद्भावात् छे च इति तुक् प्राप्नोति । अचः इति वचनात् न भवति । न एतत् अस्ति प्रयोजनम् । क्रियमाणे अपि वै अज्ग्रहणे अवश्यम् अत्र तुगभावे यत्नः कर्तव्यः । अन्तरङ्गत्वात् हि तुक् प्राप्नोति । इदम् तर्हि : द्यूत्वा । वकारस्य ऊठ् परनिमित्तकः । तस्य स्थानिवद्भावात् अचि इति यणादेशः न प्राप्नोति । अचः इति वचनात् भवति । एतत् अपि न अस्ति प्रयोजनम् । स्वाश्रयम् अत्र अच्त्वम् भविष्यति । अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । इदम् तर्हि प्रयोजनम् : आक्राष्टाम् । सिचः लोपः परनिमित्तकः । तस्य स्थानिवद्भावात् षढोः कः सि इति कत्वम् प्राप्नोति । अचः इति वचनात् भवति । एतत् अपि न अस्ति प्रयोजनम् ।वक्ष्यति एतत् : पूर्वत्रासिद्धे न स्थानिवत् इति । इदम् तर्हि प्रयोजनम् : आगत्य , अभिगत्य । अनुनासिकलोपः परनिमित्तकः । तस्य स्थानिवद्भावात् ह्रस्वस्य इति तुक् न प्राप्नोति । अचः इति वचनात् भवति । अथ परस्मिन् इति किमर्थम् । युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये । युवजानिः , वधूजानिः इति : जायायाः निङ् न परनिमित्तकः । तस्य स्थानिवद्भावात् वलि इति यलोपः न प्राप्नोति । परस्मिन् इति वचनात् भवति । न एतत् अस्ति प्रयोजनम् । स्वाश्रयम् अत्र वल्तम् भविष्यति । अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । इदम् तर्हि प्रयोजनम् : द्विपदिका त्रिपदिका । पादस्य लोपः न परनिमित्तकः । तस्य स्थानिवद्भावात् पद्भावः न प्राप्नोति । परस्मिन् इति वचनात् भवति । एतत् अपि न अस्ति प्रयोजनम् । पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावः न भविष्यति । इदम् तर्हि प्रयोजनम् : वैयाघ्रपद्यः । ननु च अत्र अपि पुनर्वचनसामर्थ्यात् एव न भविष्यति । अस्ति हि अन्यत् पुनर्लोपवचने प्रयोजनम् । किम् । यत्र भसञ्ज्ञा न : व्याघ्रपात् , श्येनपात् इति । इदम् च अपि उदाहरणम् : आदीध्ये , आवेव्ये । इकारस्य एकारः न परनिमित्तकः । तस्य स्थानिवद्भावात् यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति । परस्मिन् इति वचनात् भवति । अथ पूर्वविधौ इति किम् अर्थम् । हे गौः , बाभ्रवीयाः , नैधेयः । हे गौः इति औकारः परनिमित्तकः । तस्य स्थानिवद्भावात् एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्राप्नोति । पूर्वविधौ इति वचनात् न भवति । न एतत् अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यत् अयम् एङ्ह्रस्वात् सम्बुद्धेः इति एङ्ग्रहणम् करोति । न एतत् अस्ति ज्ञापकम् । गोर्थम् एतत् स्यात् । यत् तर्हि प्रत्याहारग्रहणम् करोति । इतरथा हि ओह्रस्वात् इति एव ब्रूयात् । इदम् तर्हि प्रयोजनम् : बाभ्रवीयाः , माधवीयाः । वान्तादेशः परनिमित्तकः । तस्य स्थानिवद्भावात् हलः तद्धितस्य इति यलोपः न प्राप्नोति । पूर्वविधौ इति वचनात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । स्वाश्रयम् अत्र हल्त्वम् भविष्यति । अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । इदम् तर्हि प्रयोजनम् : नैधेयः । आकारलोपः परनिमित्तकः । तस्य स्थानिवद्भावात् द्व्यज्लक्षणः ढक् न प्राप्नोति । पूर्वविधौ इति वचनात् न भवति । अथ विधिग्रहणम् किमर्थम् । सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात् विधिः पूर्वविधिः इति । कानि पुनः पूर्वस्मात् विधौ स्थानिवद्भावस्य प्रयोजनानि । बेभिदिता , माथितिकः ,

KA I,141.24-144.17 Ro I,421-431 acaḥ iti kimartham . praśnaḥ , dyūtvā , ākrāṣṭām āgatya . praśnaḥ , viśnaḥ iti atra chakārasya śakāraḥ paranimittakaḥ . tasya sthānivadbhāvāt che ca iti tuk prāpnoti . acaḥ iti vacanāt na bhavati . na etat asti prayojanam . kriyamāṇe api vai ajgrahaṇe avaśyam atra tugabhāve yatnaḥ kartavyaḥ . antaraṅgatvāt hi tuk prāpnoti . idam tarhi : dyūtvā . vakārasya ūṭh paranimittakaḥ . tasya sthānivadbhāvāt aci iti yaṇādeśaḥ na prāpnoti . acaḥ iti vacanāt bhavati . etat api na asti prayojanam . svāśrayam atra actvam bhaviṣyati . atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . idam tarhi prayojanam : ākrāṣṭām . sicaḥ lopaḥ paranimittakaḥ . tasya sthānivadbhāvāt ṣaḍhoḥ kaḥ si iti katvam prāpnoti . acaḥ iti vacanāt bhavati . etat api na asti prayojanam .vakṣyati etat : pūrvatrāsiddhe na sthānivat iti . idam tarhi prayojanam : āgatya , abhigatya . anunāsikalopaḥ paranimittakaḥ . tasya sthānivadbhāvāt hrasvasya iti tuk na prāpnoti . acaḥ iti vacanāt bhavati . atha parasmin iti kimartham . yuvajāniḥ , dvipadikā , vaiyāghrapadyaḥ , ādīdhye . yuvajāniḥ , vadhūjāniḥ iti : jāyāyāḥ niṅ na paranimittakaḥ . tasya sthānivadbhāvāt vali iti yalopaḥ na prāpnoti . parasmin iti vacanāt bhavati . na etat asti prayojanam . svāśrayam atra valtam bhaviṣyati . atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . idam tarhi prayojanam : dvipadikā tripadikā . pādasya lopaḥ na paranimittakaḥ . tasya sthānivadbhāvāt padbhāvaḥ na prāpnoti . parasmin iti vacanāt bhavati . etat api na asti prayojanam . punarlopavacanasāmarthyāt sthānivadbhāvaḥ na bhaviṣyati . idam tarhi prayojanam : vaiyāghrapadyaḥ . nanu ca atra api punarvacanasāmarthyāt eva na bhaviṣyati . asti hi anyat punarlopavacane prayojanam . kim . yatra bhasañjñā na : vyāghrapāt , śyenapāt iti . idam ca api udāharaṇam : ādīdhye , āvevye . ikārasya ekāraḥ na paranimittakaḥ . tasya sthānivadbhāvāt yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ prāpnoti . parasmin iti vacanāt bhavati . atha pūrvavidhau iti kim artham . he gauḥ , bābhravīyāḥ , naidheyaḥ . he gauḥ iti aukāraḥ paranimittakaḥ . tasya sthānivadbhāvāt eṅhrasvāt sambuddheḥ iti lopaḥ prāpnoti . pūrvavidhau iti vacanāt na bhavati . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati na sambuddhilope sthānivadbhāvaḥ bhavati iti yat ayam eṅhrasvāt sambuddheḥ iti eṅgrahaṇam karoti . na etat asti jñāpakam . gortham etat syāt . yat tarhi pratyāhāragrahaṇam karoti . itarathā hi ohrasvāt iti eva brūyāt . idam tarhi prayojanam : bābhravīyāḥ , mādhavīyāḥ . vāntādeśaḥ paranimittakaḥ . tasya sthānivadbhāvāt halaḥ taddhitasya iti yalopaḥ na prāpnoti . pūrvavidhau iti vacanāt na bhavati . etat api na asti prayojanam . svāśrayam atra haltvam bhaviṣyati . atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ . idam tarhi prayojanam : naidheyaḥ . ākāralopaḥ paranimittakaḥ . tasya sthānivadbhāvāt dvyajlakṣaṇaḥ ḍhak na prāpnoti . pūrvavidhau iti vacanāt na bhavati . atha vidhigrahaṇam kimartham . sarvavibhaktyantaḥ samāsaḥ yathā vijñāyeta : pūrvasya vidhiḥ pūrvavidhiḥ , pūrvasmāt vidhiḥ pūrvavidhiḥ iti . kāni punaḥ pūrvasmāt vidhau sthānivadbhāvasya prayojanāni . bebhiditā , māthitikaḥ ,

Sanskrit only: no published translation is held for this verse.

क्अ इ,१४४।१८-१४६।५ रो इ,४३१-४३५ कानि पुनः अस्य योगस्य प्रयोजनानि । स्तोष्यामि अहम् पादिकम् औदवाहिम् ततः श्वोभूते शातनीम् पातनीम् च । नेतारौ आगच्छतम् धारणिम् रावणिम् च ततः पश्चात् स्रंस्यते ध्वंस्यते च । इह तावत् पादिकम् औदवाहिम् शातनीम् पातनीम् धारणिम् रावणिम् इति अकारलोपे कृते पद्भावः ऊठ् अल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति । स्थानिवद्भावात् न भवन्ति । स्रंस्यते ध्वंस्यते : णिलोपे कृते अनिदिताम् हलः उपधायाः क्ङिति इति नलोपः प्राप्नोति । स्थानिवद्भावात् न भवति । न एतानि सन्ति प्रयोजनानि । असिद्धवत् अत्र आ भात् इति अनेन अपि एतानि सिद्धानि । इदम् तर्हि प्रयोजनम् : याज्यते वाप्यते । णिलोपे कृते यजादीनाम् किति इति सम्प्रसारणम् प्राप्नोति । स्थानिवद्भावात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । यजादिभिः अत्र कितम् विशेषयिष्यामः यजादीनाम् यः कित् इति । कः च यजादीनाम् कित् । यजादिभ्यः यः विहितः इति । इदम् तर्हि प्रयोजनम् : पट्व्या मृद्व्या इति । परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात् । स्थानिवद्भावात् भवति । किम् पुनः कारणम् परस्य तावत् भवति न पुनः पूर्वस्य । नित्यत्वात् । नित्यः परयणादेशः । कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात् परयणादेशे कृते पूर्वस्य न प्राप्नोति । स्थानिवद्भावात् भवति । एतत् अपि न अस्ति प्रयोजनम् । असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति असिद्धत्वात् बहिरङ्गलक्षणस्य परयणादेशस्य अन्तरङ्गलक्षणः पूर्वयणादेशः भविष्यति । अवश्यम् च एषा परिभाषा आश्रयितव्या स्वरार्थम् कर्त्र्य हर्त्र्य इति उदात्तयणः हल्पूर्वात् इति एषः स्वरः यथा स्यात् । अनेन अपि सिद्धः स्वरः । कथम् । आरभ्यमाणे नित्यः असौ । आरभ्यमाणे तु अस्मिन् योगे नित्यः पूर्वयणादेशः । कृते अपि परयणादेशे प्राप्नोति अकृते अपि । परयणादेशः अपि नित्यः । कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि । परः च असौ व्यवस्था । व्यवस्थया च असौ परः । युगपत्सम्भवः न अस्ति । न च अस्ति यौगपद्येन सम्भवः । कथम् च सिध्यति । बहिरङ्गेण सिध्यति । असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति अनेन सिध्यति । एवम् तर्हि यः अत्र उदात्तयण् तदाश्रयः स्वरः भविष्यति । ईकारयणा व्यवहितत्वात् न प्राप्नोति । स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति न अस्ति व्यवधानम् । सा तर्हि एषा परिभाषा कर्तव्या । ननु च इयम् अपि कर्तव्या : असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति । बहुप्रयोजना एषा परिभाषा । अवश्यम् एषा कर्तव्या । सा च अपि एषा लोकतः सिद्धा । कथम् । प्रत्यङ्गवर्ती लोकः लक्ष्यते । तत् यथा : पुरुषः अयम् प्रातः उत्थाय यानि अस्य प्रतिशरीरम् कार्याणि तानि तावत् करोति ततः सुहृदाम् ततः सम्बन्धिनाम् । प्रातिपदिकम् च अपि उपदिष्टम् सामान्यभूते अर्थे वर्तते । सामन्ये वर्तमानस्य व्यक्तिः उपजायते । व्यक्तस्य सतः लिङ्गसङ्ख्याभ्याम् अन्वितस्य बाह्येन अर्थेन योगः भवति । यया एव आनुपूर्व्या अर्थानाम् प्रादुर्भावः तया एव शब्दानाम् अपि तद्वत् कार्यैः अपि भवितव्यम् । इमानि तर्हि प्रयोजनानि : पटयति , अवधीत् , बहुखट्वकः । पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति । स्थानिवद्भावात् न भवति । अवधीत् इति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति । स्थानिवद्भावात् न भवति । बहुखट्वकः इत् आपः अन्यतरस्याम् ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात् पूर्वम् इति एषः स्वरः प्राप्नोति । स्थानिवद्भावात् न भवति ।

KA I,144.18-146.5 Ro I,431-435 kāni punaḥ asya yogasya prayojanāni . stoṣyāmi aham pādikam audavāhim tataḥ śvobhūte śātanīm pātanīm ca . netārau āgacchatam dhāraṇim rāvaṇim ca tataḥ paścāt sraṃsyate dhvaṃsyate ca . iha tāvat pādikam audavāhim śātanīm pātanīm dhāraṇim rāvaṇim iti akāralope kṛte padbhāvaḥ ūṭh allopaḥ ṭilopaḥ iti ete vidhayaḥ prāpnuvanti . sthānivadbhāvāt na bhavanti . sraṃsyate dhvaṃsyate : ṇilope kṛte aniditām halaḥ upadhāyāḥ kṅiti iti nalopaḥ prāpnoti . sthānivadbhāvāt na bhavati . na etāni santi prayojanāni . asiddhavat atra ā bhāt iti anena api etāni siddhāni . idam tarhi prayojanam : yājyate vāpyate . ṇilope kṛte yajādīnām kiti iti samprasāraṇam prāpnoti . sthānivadbhāvāt na bhavati . etat api na asti prayojanam . yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ yajādīnām yaḥ kit iti . kaḥ ca yajādīnām kit . yajādibhyaḥ yaḥ vihitaḥ iti . idam tarhi prayojanam : paṭvyā mṛdvyā iti . parasya yaṇādeśe kṛte pūrvasya na prāpnoti īkārayaṇā vyavahitatvāt . sthānivadbhāvāt bhavati . kim punaḥ kāraṇam parasya tāvat bhavati na punaḥ pūrvasya . nityatvāt . nityaḥ parayaṇādeśaḥ . kṛte api pūrvayaṇādeśe prāpnoti akṛte api prāpnoti . nityatvāt parayaṇādeśe kṛte pūrvasya na prāpnoti . sthānivadbhāvāt bhavati . etat api na asti prayojanam . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti asiddhatvāt bahiraṅgalakṣaṇasya parayaṇādeśasya antaraṅgalakṣaṇaḥ pūrvayaṇādeśaḥ bhaviṣyati . avaśyam ca eṣā paribhāṣā āśrayitavyā svarārtham kartrya hartrya iti udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ yathā syāt . anena api siddhaḥ svaraḥ . katham . ārabhyamāṇe nityaḥ asau . ārabhyamāṇe tu asmin yoge nityaḥ pūrvayaṇādeśaḥ . kṛte api parayaṇādeśe prāpnoti akṛte api . parayaṇādeśaḥ api nityaḥ . kṛte api pūrvayaṇādeśe prāpnoti akṛte api . paraḥ ca asau vyavasthā . vyavasthayā ca asau paraḥ . yugapatsambhavaḥ na asti . na ca asti yaugapadyena sambhavaḥ . katham ca sidhyati . bahiraṅgeṇa sidhyati . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti anena sidhyati . evam tarhi yaḥ atra udāttayaṇ tadāśrayaḥ svaraḥ bhaviṣyati . īkārayaṇā vyavahitatvāt na prāpnoti . svaravidhau vyañjanam avidyamānavat bhavati iti na asti vyavadhānam . sā tarhi eṣā paribhāṣā kartavyā . nanu ca iyam api kartavyā : asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . bahuprayojanā eṣā paribhāṣā . avaśyam eṣā kartavyā . sā ca api eṣā lokataḥ siddhā . katham . pratyaṅgavartī lokaḥ lakṣyate . tat yathā : puruṣaḥ ayam prātaḥ utthāya yāni asya pratiśarīram kāryāṇi tāni tāvat karoti tataḥ suhṛdām tataḥ sambandhinām . prātipadikam ca api upadiṣṭam sāmānyabhūte arthe vartate . sāmanye vartamānasya vyaktiḥ upajāyate . vyaktasya sataḥ liṅgasaṅkhyābhyām anvitasya bāhyena arthena yogaḥ bhavati . yayā eva ānupūrvyā arthānām prādurbhāvaḥ tayā eva śabdānām api tadvat kāryaiḥ api bhavitavyam . imāni tarhi prayojanāni : paṭayati , avadhīt , bahukhaṭvakaḥ . paṭayati laghayati iti ṭilope kṛte ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti . sthānivadbhāvāt na bhavati . avadhīt iti akāralope kṛte ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti . sthānivadbhāvāt na bhavati . bahukhaṭvakaḥ it āpaḥ anyatarasyām hrasvatve kṛte hrasvānte antyāt pūrvam iti eṣaḥ svaraḥ prāpnoti . sthānivadbhāvāt na bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१४६।६-१६ रो इ,४३५-४३६ इह वैयाकरणः , सौवश्वः इति य्वोः स्थानिवद्भावात् आयावौ प्राप्नुतः । तयोः प्रतिषेधः वक्तव्यः । अचः पूर्वविज्ञानात् ऐचोः सिद्धम् । यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः । आदिष्टात् च एषः अचः पूर्वः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अचः इति पञ्चमी : अचः पूर्वस्य । यदि एवम् आदेशः अविशेषितः भवति । आदेशः च विशेषितः । कथम् । न ब्रूमः यत् षष्ठीनिर्दिष्टम् अज्ग्रहणम् तत् पञ्चमीनिर्दिष्टम् कर्तव्यम् । किम् तर्हि अन्यत् कर्तव्यम् । अन्यत् च न कर्तव्यम् । यत् एव अदः षष्ठीनिर्दिष्टम् अज्ग्रहणम् तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति । कुतः पूर्वस्य । अचः इति । तत् यथा आदेशः प्रथमानिर्दिष्टः । तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति । कुतः पूर्वस्य । आदेशात् इति ।

KA I,146.6-16 Ro I,435-436 iha vaiyākaraṇaḥ , sauvaśvaḥ iti yvoḥ sthānivadbhāvāt āyāvau prāpnutaḥ . tayoḥ pratiṣedhaḥ vaktavyaḥ . acaḥ pūrvavijñānāt aicoḥ siddham . yaḥ anādiṣṭāt acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ . ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . acaḥ iti pañcamī : acaḥ pūrvasya . yadi evam ādeśaḥ aviśeṣitaḥ bhavati . ādeśaḥ ca viśeṣitaḥ . katham . na brūmaḥ yat ṣaṣṭhīnirdiṣṭam ajgrahaṇam tat pañcamīnirdiṣṭam kartavyam . kim tarhi anyat kartavyam . anyat ca na kartavyam . yat eva adaḥ ṣaṣṭhīnirdiṣṭam ajgrahaṇam tasya dikśabdaiḥ yoge pañcamī bhavati : ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati . kutaḥ pūrvasya . acaḥ iti . tat yathā ādeśaḥ prathamānirdiṣṭaḥ . tasya dikśabdaiḥ yoge pañcamī bhavati : ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati . kutaḥ pūrvasya . ādeśāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१४६।१७-१४७।१८ रो इ,४३६-४३८ तत्र आदेशलक्षणप्रतिषेधः । तत्र आदेशलक्षणम् कार्यम् प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः : वाय्वोः , अध्वर्य्वोः । लोपः व्योः वलि इति यलोपः प्राप्नोति । असिद्धवचनात् सिद्धम् । अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति असिद्धः भवति इति वक्तव्यम् । असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः । असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः कर्तव्यः : पट्व्या म्र्द्व्या इति । ननु च एतत् अपि असिद्धवचनात् सिद्धम् । असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः । असिद्धवचनात् सिद्धम् इति चेत् तत् न । किम् कारणम् । न अन्यस्य असिद्धवचनात् अन्यस्य भावः । न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति । तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च । तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च । पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः । वाय्वोः , अध्वर्य्वोः इति असिद्धत्वम् । उक्तम् वा । किम् उक्तम् । स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् इति । विषमः उपन्यासः । युक्तम् तत्र यत् एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् स्यात् : अन्यत् अन्यस्मिन् । इह पुनः न युक्तम् । कथम् हि तद् एव नाम तस्मिन् असिद्धम् स्यात् । तद् एव च अपि तस्मिन् असिद्धम् भवति । वक्ष्यति हि आचार्यः : चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति । चिणः लुक् चिणः लुकि एव असिद्धः भवति । कामम् अतिदिश्यताम् वा सत् च असत् च अपि न इह भारः अस्ति । कल्प्यः हि वाक्यशेषः वाक्यम् वक्तरि अधीनम् हि । अथ वा वतिनिर्देशः अयम् । कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् । तत् यथा । उशीनरवत् मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवत् अस्याः कलाः । सन्ति न सन्ति । एवम् इह अपि स्थानिवत् भवति स्थानिवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे । इह तावत् पट्व्या मृद्व्या इति यथा स्थानिनि यणादेशः भवति एवम् आदेशे अपि । इह इदानीम् वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवम् आदेशे अपि न भवति ।

KA I,146.17-147.18 Ro I,436-438 tatra ādeśalakṣaṇapratiṣedhaḥ . tatra ādeśalakṣaṇam kāryam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ : vāyvoḥ , adhvaryvoḥ . lopaḥ vyoḥ vali iti yalopaḥ prāpnoti . asiddhavacanāt siddham . ajādeśaḥ paranimittakaḥ pūrvasya vidhim prati asiddhaḥ bhavati iti vaktavyam . asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ . asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ kartavyaḥ : paṭvyā mrdvyā iti . nanu ca etat api asiddhavacanāt siddham . asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt anyasya bhāvaḥ . asiddhavacanāt siddham iti cet tat na . kim kāraṇam . na anyasya asiddhavacanāt anyasya bhāvaḥ . na hi anyasya asiddhavacanāt anyasya prādurbhāvaḥ bhavati . na hi devadattasya hantari hate devadattasya prādurbhāvaḥ bhavati . tasmāt sthānivadvacanam asiddhatvam ca . tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca . paṭvyā mṛdvyā iti atra sthānivadbhāvaḥ . vāyvoḥ , adhvaryvoḥ iti asiddhatvam . uktam vā . kim uktam . sthānivadvacanānarthakyam śāstrāsiddhatvāt iti . viṣamaḥ upanyāsaḥ . yuktam tatra yat ekādeśaśāstram tukśāstre asiddham syāt : anyat anyasmin . iha punaḥ na yuktam . katham hi tad eva nāma tasmin asiddham syāt . tad eva ca api tasmin asiddham bhavati . vakṣyati hi ācāryaḥ : ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt talopasya ca asiddhatvāt iti . ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati . kāmam atidiśyatām vā sat ca asat ca api na iha bhāraḥ asti . kalpyaḥ hi vākyaśeṣaḥ vākyam vaktari adhīnam hi . atha vā vatinirdeśaḥ ayam . kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . tat yathā . uśīnaravat madreṣu yavāḥ . santi na santi iti . mātṛvat asyāḥ kalāḥ . santi na santi . evam iha api sthānivat bhavati sthānivat na bhavati iti vākyaśeṣam samarthayiṣyāmahe . iha tāvat paṭvyā mṛdvyā iti yathā sthānini yaṇādeśaḥ bhavati evam ādeśe api . iha idānīm vāyvoḥ adhvaryvoḥ iti yathā sthānini yalopaḥ na bhavati evam ādeśe api na bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१४७।१९-१४८।२४ रो इ,४३८-४४१ किम् पुनः अनन्तरस्य विधिम् प्रति स्थानिवद्भावः आहोस्वित् पूर्वमात्रस्य । कः च अत्र विशेषः । अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् । अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् कर्तव्यम् । एकाननुदात्त : लुनीहि अत्र पुनीहि अत्र । अनुदात्तम् पदम् एकवर्जम् इति एषः स्वरः न प्राप्नोति । द्विगुस्वर : पञ्चारत्न्यः , दशारत्न्यः । इगन्तकाल इति एषः स्वरः न प्राप्नोति । गतिनिघात : यत् प्रलुनीहि अत्र , यत् प्रपुनीहि अत्र । तिङि चोदात्तवति इति एषः स्वरः न प्राप्नोति । अस्तु तर्हि पूर्वमात्रस्य । पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् । पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् वक्तव्यम् : वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन । किम् पुनः कारणम् न सिध्यति । यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति । गुरुसञ्ज्ञा च । गुरुसञ्ज्ञा च न सिध्यति : श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व । हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा । संयोगे गुरु इति गुरुसञ्ज्ञा । गुरोः इति प्लुतः न प्राप्नोति । ननु च यस्य अपि अनन्तरस्य विधिम् प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः संयोगसञ्ज्ञा विधेया । न वा संयोगस्य अपूर्वविधित्वात् । न वा एषः दोषः । किम् कारणम् । संयोगस्य अपूर्वविधित्वात् । न पूर्वविधिः संयोगः । किम् तर्हि । पूर्वपरविधिः संयोगः । एकादेशस्य उपसङ्ख्यानम् । एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् : श्रायसौ गौमतौ चातुरौ , आनडुहौ पादे , उदवाहे । एकादेशे कृते नुमामौ पद्भावः ऊठ् इति एते विधयः प्राप्नुवन्ति । किम् पुनः कारणम् न सिध्यति । उभयनिमित्तत्वात् । अजादेशः परनिमित्तकः इति उच्यते उभयनिमित्तः च अयम् । उभयादेशत्वात् च । अचः आदेशः इचि उच्यते अचोः च अयम् आदेशः । न एषः दोषः । यत् तावत् उच्यते उभयनिमित्तत्वात् इति : इह यस्य ग्रामे नगरे वा अनेकम् कार्यम् भवति शक्नोति असौ ततः अन्यतरत् व्यपदेष्टुम् : गुरुनिमित्तम् वसामः । अध्ययननिमित्तम् वसामः इति । यत् अपि उच्यते उभयादेशत्वात् च इति । इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् । तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति ।

KA I,147.19-148.24 Ro I,438-441 kim punaḥ anantarasya vidhim prati sthānivadbhāvaḥ āhosvit pūrvamātrasya . kaḥ ca atra viśeṣaḥ . anantarasya cet ekānanudāttadvigusvaragatinighāteṣu upasaṅkhyānam . anantarasya cet ekānanudāttadvigusvaragatinighāteṣu upasaṅkhyānam kartavyam . ekānanudātta : lunīhi atra punīhi atra . anudāttam padam ekavarjam iti eṣaḥ svaraḥ na prāpnoti . dvigusvara : pañcāratnyaḥ , daśāratnyaḥ . igantakāla iti eṣaḥ svaraḥ na prāpnoti . gatinighāta : yat pralunīhi atra , yat prapunīhi atra . tiṅi codāttavati iti eṣaḥ svaraḥ na prāpnoti . astu tarhi pūrvamātrasya . pūrvamātrasya iti cet upadhāhrasvatvam . pūrvamātrasya iti cet upadhāhrasvatvam vaktavyam : vāditavantam prayojitavān : avīvadat vīṇām parivādakena . kim punaḥ kāraṇam na sidhyati . yaḥ asau ṇau ṇiḥ lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti . gurusañjñā ca . gurusañjñā ca na sidhyati : śleṣmā3ghna pittā3ghna dā3dhyaśva mā3dhvaśva . halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā . saṃyoge guru iti gurusañjñā . guroḥ iti plutaḥ na prāpnoti . nanu ca yasya api anantarasya vidhim prati sthānivadbhāvaḥ tasya api anantaralakṣaṇaḥ vidhiḥ saṃyogasañjñā vidheyā . na vā saṃyogasya apūrvavidhitvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . saṃyogasya apūrvavidhitvāt . na pūrvavidhiḥ saṃyogaḥ . kim tarhi . pūrvaparavidhiḥ saṃyogaḥ . ekādeśasya upasaṅkhyānam . ekādeśasya upasaṅkhyānam kartavyam : śrāyasau gaumatau cāturau , ānaḍuhau pāde , udavāhe . ekādeśe kṛte numāmau padbhāvaḥ ūṭh iti ete vidhayaḥ prāpnuvanti . kim punaḥ kāraṇam na sidhyati . ubhayanimittatvāt . ajādeśaḥ paranimittakaḥ iti ucyate ubhayanimittaḥ ca ayam . ubhayādeśatvāt ca . acaḥ ādeśaḥ ici ucyate acoḥ ca ayam ādeśaḥ . na eṣaḥ doṣaḥ . yat tāvat ucyate ubhayanimittatvāt iti : iha yasya grāme nagare vā anekam kāryam bhavati śaknoti asau tataḥ anyatarat vyapadeṣṭum : gurunimittam vasāmaḥ . adhyayananimittam vasāmaḥ iti . yat api ucyate ubhayādeśatvāt ca iti . iha yaḥ dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ prasaṅge bhavati labhate asau anyatarataḥ vyapadeśam . tat yathā devadattasya putraḥ , devadattāyāḥ putraḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१४९।१-१९ रो इ,४४१-४४३ अथ हलचोः आदेशः स्थानिवत् भवति उताहो न । कः च अत्र विशेषः । हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपः एकादेशः । हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपे एकादेशः वक्तव्यः : विंशकः , विंशम् शतम् , विंशः । स्थूलादीनाम् यणादिलोपे अवादेशः । स्थूलादीनाम् यणादिलोपे कृते अवादेशः वक्तव्यः : स्थवीयान् , दवीयान् । केकयिमित्रय्वोः इयादेशे एत्वम् । केकयिमित्रय्वोः इयादेशे एत्वम् न सिध्यति : कैकेयः , मैत्रेयः । अचि इति एत्वम् न सिध्यति । उत्तरपदलोपे च । उत्तरपदलोपे च दोषः भवति : दध्युपसिक्ताः सक्तवः दधिसक्तवः । अचि इति यणादेशः प्राप्नोति । यङ्लोपे यणियङुवङः । यङ्लोपे यणियङुवङः न सिध्यन्ति : चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः । अचि इति यणियङुवङः न सिध्यन्ति । अस्तु तर्हि न स्थानिवत् । अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः । अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः : लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति । न एषः दोषः । न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।

KA I,149.1-19 Ro I,441-443 atha halacoḥ ādeśaḥ sthānivat bhavati utāho na . kaḥ ca atra viśeṣaḥ . halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilopaḥ ekādeśaḥ . halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilope ekādeśaḥ vaktavyaḥ : viṃśakaḥ , viṃśam śatam , viṃśaḥ . sthūlādīnām yaṇādilope avādeśaḥ . sthūlādīnām yaṇādilope kṛte avādeśaḥ vaktavyaḥ : sthavīyān , davīyān . kekayimitrayvoḥ iyādeśe etvam . kekayimitrayvoḥ iyādeśe etvam na sidhyati : kaikeyaḥ , maitreyaḥ . aci iti etvam na sidhyati . uttarapadalope ca . uttarapadalope ca doṣaḥ bhavati : dadhyupasiktāḥ saktavaḥ dadhisaktavaḥ . aci iti yaṇādeśaḥ prāpnoti . yaṅlope yaṇiyaṅuvaṅaḥ . yaṅlope yaṇiyaṅuvaṅaḥ na sidhyanti : cecyaḥ , nenyaḥ , cekriyaḥ , loluvaḥ , popuvaḥ . aci iti yaṇiyaṅuvaṅaḥ na sidhyanti . astu tarhi na sthānivat . asthānivattve yaṅlope guṇavṛddhipratiṣedhaḥ . asthānivattve yaṅlope guṇavṛddhipratiṣedhaḥ vaktavyaḥ : loluvaḥ , popuvaḥ , sarīsṛpaḥ , marīmṛjaḥ iti . na eṣaḥ doṣaḥ . na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१४९।२०-१५१।११ रो इ,४४३-४४७ किम् पुनः आश्रीयमाणायाम् प्रकृतौ स्थानिवत् भवति आहोस्वित् अविशेषेण । कः च अत्र विशेषः । अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः । अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः न सिध्यति : श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व । हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः न प्राप्नोति । द्विर्वचनादयः च प्रतिषेधे । द्विर्वचनादयः च प्रतिषेधे वक्तव्याः : द्विर्वचनवरेयलोप इति । क्सलोपे लुग्वचनम् । क्सलोपे लुक् वक्तव्यः : अदुग्ध , अदुग्धाः : लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति । हन्तेः घत्वम् । हन्तेः च घत्वम् वक्तव्यम् : घ्नन्ति घ्नन्तु , अघ्नन् । अस्तु तर्हि आश्रीयमाणायाम् प्रकृतौ इति । ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशप्रतिषेधः । ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशस्य प्रतिषेधः वक्तव्यः : निराद्य समाद्य । अदः जग्धिः ल्यप् ति किति इति जग्धिभावः प्राप्नोति । यणादेशे युलोपेत्वानुनासिकात्त्वप्रतिषेधः । यणादेशे युलोपेत्वानुनासिकात्त्वानाम् प्रतिषेधः वक्तव्यः । यलोप : वाय्वोः , अध्वर्य्वोः । लोपः व्योः वलि इति यलोपः प्राप्नोति । उलोप : अकुर्वि* आशाम् अकुर्व्य् आशाम् । नित्यम् करोतेः ये च इति उकारलोपः प्राप्नोति । ईत्व : अलुनि* आशाम् अलुन्य् आशाम् । ई हलि अघोः इति ईत्वम् प्राप्नोति । अनुनासिकात्त्व : अजज्ञि* आशाम् अजज्ञ्य् आशाम् । ये विभाषा इति अनुनासिकात्त्वम् प्राप्नोति । रायात्वप्रतिषेधः च । रायः आत्वस्य च प्रतिषेधः वक्तव्यः : रायि* आशाम् राय्य् आशाम् । रायः हलि इति आत्वम् प्राप्नोति । दीर्घे यलोपप्रतिषेधः । दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः : सौर्ये नाम हिमवतः श्र्ङ्गे तद्वान् सौर्यी हिमवान् इति सौ इनाश्रये दीर्घत्वे कृते ईति यलोपः प्राप्नोति । अतः दीर्घे यलोपवचनम् । अतः दीर्घे यलोपः वक्तव्यः : गार्गाभ्याम् , वात्साभ्याम् । दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति । न एषः दोषः । आश्रीयते तत्र प्रकृतिः : तद्धिते इति । सर्वेषाम् एषाम् परिहारः : उक्तम् विधिग्रहणस्य प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ इति । अथ वा पुनः अस्तु अविशेषेण स्थानिवत् इति । ननु च उक्तम् अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनम् , हन्तेः घत्वम् इति । न एषः दोषः । यत् तावत् उच्यते अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः इति : उक्तम् एतत् : न वा संयोगस्य अपूर्वविधित्वात् इति । यत् अपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति : उच्यन्ते न्यासे एव । क्सलोपे लुग्वचनम् इति : क्रियते न्यासे एव । हन्तेः घत्वम् इति । सप्तमे परिहारम् वक्ष्यति ।

KA I,149.20-151.11 Ro I,443-447 kim punaḥ āśrīyamāṇāyām prakṛtau sthānivat bhavati āhosvit aviśeṣeṇa . kaḥ ca atra viśeṣaḥ . aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ . aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ na sidhyati : śleṣmā3ghna pittā3ghna dā3dhyaśva mā3dhvaśva . halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ na prāpnoti . dvirvacanādayaḥ ca pratiṣedhe . dvirvacanādayaḥ ca pratiṣedhe vaktavyāḥ : dvirvacanavareyalopa iti . ksalope lugvacanam . ksalope luk vaktavyaḥ : adugdha , adugdhāḥ : luk vā duhadihalihaguhām ātmanepade dantye iti . hanteḥ ghatvam . hanteḥ ca ghatvam vaktavyam : ghnanti ghnantu , aghnan . astu tarhi āśrīyamāṇāyām prakṛtau iti . grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśapratiṣedhaḥ . grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśasya pratiṣedhaḥ vaktavyaḥ : nirādya samādya . adaḥ jagdhiḥ lyap ti kiti iti jagdhibhāvaḥ prāpnoti . yaṇādeśe yulopetvānunāsikāttvapratiṣedhaḥ . yaṇādeśe yulopetvānunāsikāttvānām pratiṣedhaḥ vaktavyaḥ . yalopa : vāyvoḥ , adhvaryvoḥ . lopaḥ vyoḥ vali iti yalopaḥ prāpnoti . ulopa : akurvi* āśām akurvy āśām . nityam karoteḥ ye ca iti ukāralopaḥ prāpnoti . ītva : aluni* āśām aluny āśām . ī hali aghoḥ iti ītvam prāpnoti . anunāsikāttva : ajajñi* āśām ajajñy āśām . ye vibhāṣā iti anunāsikāttvam prāpnoti . rāyātvapratiṣedhaḥ ca . rāyaḥ ātvasya ca pratiṣedhaḥ vaktavyaḥ : rāyi* āśām rāyy āśām . rāyaḥ hali iti ātvam prāpnoti . dīrghe yalopapratiṣedhaḥ . dīrghe yalopasya pratiṣedhaḥ vaktavyaḥ : saurye nāma himavataḥ śrṅge tadvān sauryī himavān iti sau ināśraye dīrghatve kṛte īti yalopaḥ prāpnoti . ataḥ dīrghe yalopavacanam . ataḥ dīrghe yalopaḥ vaktavyaḥ : gārgābhyām , vātsābhyām . dīrghe kṛte āpatyasya ca taddhite anāti iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . āśrīyate tatra prakṛtiḥ : taddhite iti . sarveṣām eṣām parihāraḥ : uktam vidhigrahaṇasya prayojanam vidhimātre sthānivat yathā syāt anāśrīyamāṇāyām api prakṛtau iti . atha vā punaḥ astu aviśeṣeṇa sthānivat iti . nanu ca uktam aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ dvirvacanādayaḥ ca pratiṣedhe , ksalope lugvacanam , hanteḥ ghatvam iti . na eṣaḥ doṣaḥ . yat tāvat ucyate aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ iti : uktam etat : na vā saṃyogasya apūrvavidhitvāt iti . yat api ucyate dvirvacanādayaḥ ca pratiṣedhe vaktavyāḥ iti : ucyante nyāse eva . ksalope lugvacanam iti : kriyate nyāse eva . hanteḥ ghatvam iti . saptame parihāram vakṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५१।१४-१५२।१५ रो इ,४४७-४५३ पदान्तविधिम् प्रति न स्थानिवत् इति उच्यते । तत्र वेतस्वान् इति रुः प्राप्नोति । न एषः दोषः । भसञ्ज्ञा अत्र बाधिका भविष्यति : तसौ मत्वर्थे इति । अकारान्तम् एतत् भसञ्ज्ञाम् प्रति । पदसञ्ज्ञाम् प्रति सकारान्तम् । ननु च एवम् विज्ञास्यते : यः सम्प्रति पदान्तः इति । कर्मसाधनस्य विधिशब्दस्य उपादाने एतत् एवम् स्यात् । अयम् च विधिशब्दः अस्ति एव कर्मसाधनः : विधीयते विधिः । अस्ति भावसाधनः : विधानम् विधिः इति । तत्र भावसाधनस्य उपादाने एषः दोषः भवति । इह च : ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै : धकारस्य जश्त्वम् प्राप्नोति । अस्ति पुनः किम् चित् भावसाधनस्य विधिशब्दस्य उपादाने सति इष्टम् सङ्गृहीतम् आहोस्वित् दोषान्तम् एव । अस्ति इति आह । इह कानि सन्ति यानि सन्ति कौ स्तः , यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा श्रूयेत सः न श्रूयते । षडिकः च अपि सिद्धः भवति । वाचिकः तु न सिध्यति । अस्तु तर्हि कर्मसाधनः । यदि कर्मसाधनः षडिकः न सिध्यति । अस्तु तर्हि भावसाधनः । वाचिकः न सिध्यति । वाचिकषडिकौ न संवदेते । कर्तव्यः अत्र यत्नः । कथम् ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै। उभयतः आश्रये न अन्तादिवत् इति । कथम् वेतस्वान् । न एवम् विज्ञायते : पदस्य अन्तः पदान्तः पदन्तविधिम् प्रति इति । कथम् तर्हि । पदे अन्तः पदान्तः पदान्तविधिम् प्रति इति । अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वम् जश्त्वम् च एवम् इदम् अपि पदकार्यम् उपप्लोष्यते । किम्। भसञ्ज्ञा नाम । वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति उच्यते । तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् अवर्णलोपविधिम् प्रति स्थानिवत् स्यात् । न एषः दोषः । न एवम् विज्ञायते : वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति । कथम् तर्हि । वरे अयलोपविधिम् प्रति इति । किम् इदम् अयलोपविधिम् प्रति इति । अवर्णलोपविधिम् प्रति यलोपविधिम् च प्रति इति । अथ वा योगविभागः करिष्यते : वरे लुप्तम् न स्थानिवत् । ततः यलोपविधिम् च प्रति न स्थानिवत् इति । यलोपे किम् उदाहरणम् । कण्डूयतेः अप्रत्ययः कण्डूः इति । न एतत् अस्ति । क्वौ लुप्तम् न स्थानिवत् । इदम् तर्हि : सौरी बलाका । न एतत् अस्ति । उपधात्वविधिम् प्रति न स्थानिवत् । इदम् तर्हि प्रयोजनम् : आदित्यः । न एतत् अस्ति । पूर्वत्रासिद्धे न स्थानिवत् । इदम् तर्हि : कण्डूतिः , वल्गूतिः । न एतत् अस्ति प्रयोजनम् । कण्डूया वल्गूया इति भवितव्यम् । इदम् तर्हि : कण्डूयतेः क्तिच् : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः ।

KA I,151.14-152.15 Ro I,447-453 padāntavidhim prati na sthānivat iti ucyate . tatra vetasvān iti ruḥ prāpnoti . na eṣaḥ doṣaḥ . bhasañjñā atra bādhikā bhaviṣyati : tasau matvarthe iti . akārāntam etat bhasañjñām prati . padasañjñām prati sakārāntam . nanu ca evam vijñāsyate : yaḥ samprati padāntaḥ iti . karmasādhanasya vidhiśabdasya upādāne etat evam syāt . ayam ca vidhiśabdaḥ asti eva karmasādhanaḥ : vidhīyate vidhiḥ . asti bhāvasādhanaḥ : vidhānam vidhiḥ iti . tatra bhāvasādhanasya upādāne eṣaḥ doṣaḥ bhavati . iha ca : brahmabandhvā brahmabandhvai : dhakārasya jaśtvam prāpnoti . asti punaḥ kim cit bhāvasādhanasya vidhiśabdasya upādāne sati iṣṭam saṅgṛhītam āhosvit doṣāntam eva . asti iti āha . iha kāni santi yāni santi kau staḥ , yau staḥ iti yaḥ asau padāntaḥ yakāraḥ vakāraḥ vā śrūyeta saḥ na śrūyate . ṣaḍikaḥ ca api siddhaḥ bhavati . vācikaḥ tu na sidhyati . astu tarhi karmasādhanaḥ . yadi karmasādhanaḥ ṣaḍikaḥ na sidhyati . astu tarhi bhāvasādhanaḥ . vācikaḥ na sidhyati . vācikaṣaḍikau na saṃvadete . kartavyaḥ atra yatnaḥ . katham brahmabandhvā brahmabandhvai. ubhayataḥ āśraye na antādivat iti . katham vetasvān . na evam vijñāyate : padasya antaḥ padāntaḥ padantavidhim prati iti . katham tarhi . pade antaḥ padāntaḥ padāntavidhim prati iti . atha vā yathā eva anyāni api padakāryāṇi upaplavante rutvam jaśtvam ca evam idam api padakāryam upaploṣyate . kim. bhasañjñā nāma . vare yalopavidhim prati na sthānivat bhavati iti ucyate . tatra te apsu yāyāvaraḥ pravapeta piṇḍān avarṇalopavidhim prati sthānivat syāt . na eṣaḥ doṣaḥ . na evam vijñāyate : vare yalopavidhim prati na sthānivat bhavati iti . katham tarhi . vare ayalopavidhim prati iti . kim idam ayalopavidhim prati iti . avarṇalopavidhim prati yalopavidhim ca prati iti . atha vā yogavibhāgaḥ kariṣyate : vare luptam na sthānivat . tataḥ yalopavidhim ca prati na sthānivat iti . yalope kim udāharaṇam . kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . na etat asti . kvau luptam na sthānivat . idam tarhi : saurī balākā . na etat asti . upadhātvavidhim prati na sthānivat . idam tarhi prayojanam : ādityaḥ . na etat asti . pūrvatrāsiddhe na sthānivat . idam tarhi : kaṇḍūtiḥ , valgūtiḥ . na etat asti prayojanam . kaṇḍūyā valgūyā iti bhavitavyam . idam tarhi : kaṇḍūyateḥ ktic : brāhmaṇakaṇḍūtiḥ , kṣatriyakaṇḍūtiḥ .

Sanskrit only: no published translation is held for this verse.