क्अ इ,१६१।१५-१६२।२१ रो इ,४७९-४८२ किमर्थम् पुनः इदम् उच्यते । प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् शास्त्रस्य । प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् शास्त्रस्य । सत् शास्त्रेण अन्वाख्यायते सतः वा शास्त्रम् अन्व्याखायकम् भवति । सदन्वाख्यानात् शास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह : एव स्यात् गोमन्तौ यवमन्तौ । गोमान् यवमान् इति अत्र न स्यात् । इष्यते च स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति । अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति। लुकि उपसङ्ख्यानम् । लुकि उपसङ्ख्यानम् कर्तव्यम् : पञ्च सप्त । किम् पुनः कारणम् न सिध्यति । लोपे हि विधानम् । लोपे हि प्रत्ययलक्षणम् विधीयते । तेन लुकि न प्राप्नोति । न वा अदर्शनस्य लोपसञ्ज्ञित्वात् । न वा कर्तव्यम् । किम् कारणम् । अदर्शनस्य लोपसञ्ज्ञित्वात् । अदर्शनम् लोपसञ्ज्ञम् इति उच्यते । लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते । तेन लुकि अपि भविष्यति । यदि एवम् । प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् । प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् अपि प्राप्नोति । तत्र कः दोषः । तत्र लुकि श्लुविधिप्रतिषेधः । तत्र लुकि श्लुविधिः अपि प्राप्नोति । सः प्रतिषेध्यः : अत्ति हन्ति । श्लौ इति द्विर्वचनम् प्राप्नोति । न वा पृथक्सञ्ज्ञाकरणात् । न वा एषः दोषः । किम् कारणम् । पृथक्सञ्ज्ञाकरणात् । पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुकि श्लुविधिः न भविष्यति । तस्मात् अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते । यथा एव तर्हि अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवम् लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञाम् अवगाहेरन् । तत्र कः दोषः । अगोमती गोमती सम्पन्ना गोमतीभूता : लुक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत । ननु च अत्र अपि पृथक्सञ्ज्ञाकरणात् इति एव सिद्धम् । यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुमत्सञ्ज्ञाः लोपसञ्ज्ञाम् न अवगाहन्ते एवम् लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत । तत्र सः एव दोषः : लुकि उपसङ्ख्यानम् इति । अस्ति अन्यत् लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनम् । किम्। लुमत्सञ्ज्ञासु यत् उच्यते तत् लोपमात्रे मा भूत् इति । लुमति प्रतिषेधात् वा । अथ वा यत् अयम् न लुमता अङ्गस्य इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणम् इति ।
KA I,161.15-162.21 Ro I,479-482 kimartham punaḥ idam ucyate . pratyayalope pratyayalakṣaṇavacanam sadanvākhyānāt śāstrasya . pratyayalope pratyayalakṣaṇam iti ucyate sadanvākhyānāt śāstrasya . sat śāstreṇa anvākhyāyate sataḥ vā śāstram anvyākhāyakam bhavati . sadanvākhyānāt śāstrasya ugidacām sarvanāmasthāne adhātoḥ iti iha : eva syāt gomantau yavamantau . gomān yavamān iti atra na syāt . iṣyate ca syāt iti . tat ca antareṇa yatnam na sidhyati . ataḥ pratyayalope pratyayalakṣaṇavacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti. luki upasaṅkhyānam . luki upasaṅkhyānam kartavyam : pañca sapta . kim punaḥ kāraṇam na sidhyati . lope hi vidhānam . lope hi pratyayalakṣaṇam vidhīyate . tena luki na prāpnoti . na vā adarśanasya lopasañjñitvāt . na vā kartavyam . kim kāraṇam . adarśanasya lopasañjñitvāt . adarśanam lopasañjñam iti ucyate . lumatsañjñāḥ ca adarśanasya kriyante . tena luki api bhaviṣyati . yadi evam . pratyayādarśanam tu lumatsañjñam . pratyayādarśanam tu lumatsañjñam api prāpnoti . tatra kaḥ doṣaḥ . tatra luki śluvidhipratiṣedhaḥ . tatra luki śluvidhiḥ api prāpnoti . saḥ pratiṣedhyaḥ : atti hanti . ślau iti dvirvacanam prāpnoti . na vā pṛthaksañjñākaraṇāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . pṛthaksañjñākaraṇāt . pṛthaksañjñākaraṇasāmarthyāt luki śluvidhiḥ na bhaviṣyati . tasmāt adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate . yathā eva tarhi adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate evam lumatsañjñāḥ api lopasañjñām avagāheran . tatra kaḥ doṣaḥ . agomatī gomatī sampannā gomatībhūtā : luk taddhitaluki iti ṅīpaḥ luk prasajyeta . nanu ca atra api pṛthaksañjñākaraṇāt iti eva siddham . yathā eva tarhi pṛthaksañjñākaraṇasāmarthyāt lumatsañjñāḥ lopasañjñām na avagāhante evam lopasañjñā api lumatsañjñāḥ na avagāheta . tatra saḥ eva doṣaḥ : luki upasaṅkhyānam iti . asti anyat lopasañjñāyāḥ pṛthaksañjñākaraṇe prayojanam . kim. lumatsañjñāsu yat ucyate tat lopamātre mā bhūt iti . lumati pratiṣedhāt vā . atha vā yat ayam na lumatā aṅgasya iti pratṣedham śāsti tat jñāpayati ācāryaḥ bhavati luki pratyayalakṣaṇam iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.