Library·Patanjali: Vyakaranamahabhasya·1·1.1·1.1.68

Patanjali: Vyakaranamahabhasya 1.1.68

क्अ इ,१७५।२०-२३ रो इ,५१९-५२० रूपग्रहणम् किम् अर्थम् न स्वम् शब्दस्य अशब्दसञ्ज्ञा भवति इति एव रूपम् शबस्य सञ्ज्ञा भविष्यति । न हि अन्यत् स्वम् शब्दस्य अस्ति अन्यत् अतः रूपात् । एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यत् रूपात् स्वम् शब्दस्य इति । किम् पुनः तत् । अर्थः । किम् एतस्य ज्ञापने प्रयोजनम् । अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति ।

KA I,175.20-23 Ro I,519-520 rūpagrahaṇam kim artham na svam śabdasya aśabdasañjñā bhavati iti eva rūpam śabasya sañjñā bhaviṣyati . na hi anyat svam śabdasya asti anyat ataḥ rūpāt . evam tarhi siddhe sati yat rūpagrahaṇam karoti tat jñāpayati ācāryaḥ asti anyat rūpāt svam śabdasya iti . kim punaḥ tat . arthaḥ . kim etasya jñāpane prayojanam . arthavadgrahaṇe na anarthakasya iti eṣā paribhāṣā na kartavyā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७५।२४-१७६।२४ रो इ,५२०-५२३ किमर्थम् पुनः इदम् उच्यते । शब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् । शब्देन उच्चारितेन अर्थः गम्यते । गाम् आनय दधि अशान इति अर्थः आनीयते अर्थः च भुज्यते । अर्थस्य असम्भवात् । इह व्याकरणे अर्थे कार्यस्य असम्भवः । अग्नेः डक् इति : न शक्यते अङ्गारेभ्यः परः ढक् कर्तुम् । शब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः शब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति । इष्यते च तस्मात् एव स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् । एवमर्थम् इदम् उच्यते । न वा शब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मात् अर्थनिवृत्तिः । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । शब्दपूर्वकः हि अर्थे सम्प्रत्ययः । शब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः । आतः च शब्दपूर्वकः : यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति । शब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे शब्दे कार्यस्य सम्भवः अर्थे असम्भवः । तस्मात् अर्थनिवृत्तिः भविष्यति । इदम् तर्हि प्रयोजनम् अशब्दसञ्ज्ञा इति वक्ष्यामि इति । इह मा भूत् : दाधाः घु अदाप् तरप्तमपौ घः इति । सञ्ज्ञाप्रतिषेधानर्थक्यम् वचनप्रामाण्यात् । सञ्ज्ञाप्रतिषेधः च अनर्थकः । शब्दसञ्ज्ञायाम् स्वरूपविधिः कस्मात् न भवति । वचनप्रामाण्यात् । शब्दसञ्ज्ञावचनसामर्थ्यात् । ननु च वचनप्रामाण्यात् सञ्ज्ञिनाम् सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च सञ्ज्ञायाः । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति शब्दसञ्ज्ञायाम् न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञाम् शास्ति । इतरथा हि वचनप्रामाण्यात् नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः । न एतत् अस्ति प्रयोजनम् । न हि षकारान्ता सञ्ज्ञा । का तर्हि । डकारान्ता । असिद्धम् जश्त्वम् । तस्य असिद्धत्वात् षकारान्ता । मन्त्राद्यर्थम् तर्हि इदम् वक्तव्यम् । मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च मा भूत् । मन्त्राद्यर्थम् इति चेत् शास्त्रसामर्थ्यात् अर्थगतेः सिद्धम् । मन्त्राद्यर्थम् इति चेत् न । किम् कारणम् । शास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति । मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् ।

KA I,175.24-176.24 Ro I,520-523 kimartham punaḥ idam ucyate . śabdena arthagateḥ arthasya asambhavāt tadvācinaḥ sañjñāpratiṣedhārtham svaṃrūpavacanam . śabdena uccāritena arthaḥ gamyate . gām ānaya dadhi aśāna iti arthaḥ ānīyate arthaḥ ca bhujyate . arthasya asambhavāt . iha vyākaraṇe arthe kāryasya asambhavaḥ . agneḥ ḍak iti : na śakyate aṅgārebhyaḥ paraḥ ḍhak kartum . śabdena arthagateḥ arthasya asambhavāt yāvantaḥ tadvācinaḥ śabdāḥ tāvadbhyaḥ sarvebhyaḥ utpattiḥ prāpnoti . iṣyate ca tasmāt eva syāt iti . tat ca antareṇa yatnam na sidhyati iti tadvācinaḥ sañjñāpratiṣedhārtham svaṃrūpavacanam . evamartham idam ucyate . na vā śabdapūrvakaḥ hi arthe sampratyayaḥ tasmāt arthanivṛttiḥ . na vā etat prayojanam asti . kim kāraṇam . śabdapūrvakaḥ hi arthe sampratyayaḥ . śabdapūrvakaḥ hi arthasya sampratyayaḥ . ātaḥ ca śabdapūrvakaḥ : yaḥ api hi asau āhūyate nāmnā nāma yadā anena na upalabdham bhavati tada pṛcchati kim bhavān āha iti . śabdapūrvakaḥ ca arthasya sampratyayaḥ iha ca vyākaraṇe śabde kāryasya sambhavaḥ arthe asambhavaḥ . tasmāt arthanivṛttiḥ bhaviṣyati . idam tarhi prayojanam aśabdasañjñā iti vakṣyāmi iti . iha mā bhūt : dādhāḥ ghu adāp taraptamapau ghaḥ iti . sañjñāpratiṣedhānarthakyam vacanaprāmāṇyāt . sañjñāpratiṣedhaḥ ca anarthakaḥ . śabdasañjñāyām svarūpavidhiḥ kasmāt na bhavati . vacanaprāmāṇyāt . śabdasañjñāvacanasāmarthyāt . nanu ca vacanaprāmāṇyāt sañjñinām sampratyayaḥ syāt svarūpagrahaṇāt ca sañjñāyāḥ . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati śabdasañjñāyām na svarūpavidhiḥ bhavati iti yat ayam ṣṇāntā ṣaṭ iti ṣakārāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñām śāsti . itarathā hi vacanaprāmāṇyāt nakārāntāyāḥ saṅkhyāyāḥ sampratyayaḥ syāt svarūpagrahaṇāt ca ṣakārāntāyāḥ . na etat asti prayojanam . na hi ṣakārāntā sañjñā . kā tarhi . ḍakārāntā . asiddham jaśtvam . tasya asiddhatvāt ṣakārāntā . mantrādyartham tarhi idam vaktavyam . mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde ṛkśabde ca yajuḥśabde ca mā bhūt . mantrādyartham iti cet śāstrasāmarthyāt arthagateḥ siddham . mantrādyartham iti cet na . kim kāraṇam . śāstrasāmarthyāt arthasya gatiḥ bhaviṣyati . mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde ṛkśabde ca yajuḥśabde ca tasya kāryasya sambhavaḥ na asti iti kṛtvā mantrādisahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७६।२५-१७७।१६ रो इ,५२३-५२५ सित् तद्विशेषाणाम् वृक्षाद्यर्थम् । सिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् : तद्विशेषाणाम् ग्रहणम् भवति इति । किम् प्रयोजनम् । वृक्षाद्यर्थम् । विभाषा वृक्षमृग इति : प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः । पित् पर्यायवचनस्य च स्वाद्यर्थम् । पिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् : पर्यायवचनस्य तद्विशेषाणाम् च ग्रहणम् भवति स्वस्य च रूपस्य इति । किम् प्रयोजनम् । स्वाद्यर्थम् । स्वे पुषः : स्वपोषम् पुष्यति रैपोषम् , विद्यापोषम् , गोपोषम् अश्वपोषम् । जित् पर्यायवचनस्य एव राजाद्यर्थम् । जिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति । किम् प्रयोजनम् । राजाद्यर्थम् । सभा राजामनुष्यपूर्वा : इनसभम् ईश्वरसभम् । तस्य एव न भवति : राजसभा । तद्विशेषाणाम् च न भवति : पुष्यमित्रसभा चन्द्रगुप्तसभा । झित् तस्य च तद्विशेषाणाम् च मत्स्याद्यर्थम् । झिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् : तस्य च ग्रहणम् भवति तद्विशेषाणाम् च इति । किम् प्रयोजनम् । मत्स्याद्यर्थम् । पक्षिमत्स्यमृगान् हन्ति : मात्स्यिकः । तद्विशेषाणाम् : शाफरिकः , शाकुलिकः । पर्यायवचनानाम् न भवति : अजिह्मान् हन्ति इति । अस्य एकस्य पर्यायवचनस्य इष्यते : मीनान् हन्ति मैनिकः ।

KA I,176.25-177.16 Ro I,523-525 sit tadviśeṣāṇām vṛkṣādyartham . sinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tadviśeṣāṇām grahaṇam bhavati iti . kim prayojanam . vṛkṣādyartham . vibhāṣā vṛkṣamṛga iti : plakṣanyagrodham , plakṣanyagrodhāḥ . pit paryāyavacanasya ca svādyartham . pinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : paryāyavacanasya tadviśeṣāṇām ca grahaṇam bhavati svasya ca rūpasya iti . kim prayojanam . svādyartham . sve puṣaḥ : svapoṣam puṣyati raipoṣam , vidyāpoṣam , gopoṣam aśvapoṣam . jit paryāyavacanasya eva rājādyartham . jinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam paryāyavacanasya eva grahaṇam bhavati . kim prayojanam . rājādyartham . sabhā rājāmanuṣyapūrvā : inasabham īśvarasabham . tasya eva na bhavati : rājasabhā . tadviśeṣāṇām ca na bhavati : puṣyamitrasabhā candraguptasabhā . jhit tasya ca tadviśeṣāṇām ca matsyādyartham . jhinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tasya ca grahaṇam bhavati tadviśeṣāṇām ca iti . kim prayojanam . matsyādyartham . pakṣimatsyamṛgān hanti : mātsyikaḥ . tadviśeṣāṇām : śāpharikaḥ , śākulikaḥ . paryāyavacanānām na bhavati : ajihmān hanti iti . asya ekasya paryāyavacanasya iṣyate : mīnān hanti mainikaḥ .

Sanskrit only: no published translation is held for this verse.