Library·Patanjali: Vyakaranamahabhasya·1·1.2·1.2.18

Patanjali: Vyakaranamahabhasya 1.2.18

P 1.2.18

क्अ इ,१९९।६-२००।२४ रो इइ,२७-३१ न सेट् इति कृते अकित्त्वे । न सेट् इति एव सिद्धम् । न अर्थः क्त्वाग्रहणेन । निष्ठायम् अपि तर्हि प्राप्नोति : गुधितः गुधितवान् इति । निष्ठायाम् अवधारणात् । निष्ठायाम् अवधारणात् न भविष्यति । किम् अवधारणम् । निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः इति । परोक्षायाम् तर्हि प्राप्नोति । किम् च स्यात् । पपिव पपिम : क्ङिति इति आकारलोपः न स्यात् । मा भूत् एवम् । इटि इति एवम् भविष्यति । इदम् तर्हि : जग्मिव जघ्निव । क्ङिति इति उपधालोपः न स्यात् । ज्ञापकात् न परोक्षायाम् । ज्ञापकात् परोक्षायाम् न भविष्यति । किम् ज्ञापकम् । सनि झल्ग्रहणम् विदुः । यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् ज्ञापयति आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति । कथम् कृत्वा ज्ञापकम् । झल्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : शिशयिषते इति । यदि च अत्र आतिदेशिकस्य कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् । अस्तु अत्र कित्त्वम् । न सेट् इति प्रतिषेधः भविष्यति । पश्यति तु आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति । ततः झल्ग्रहणम् करोति । न एतत् अस्ति प्रयोजनम् । उत्तरार्थम् एतत् स्यात् । स्थाघ्वोः इत् च झलादौ यथा स्यात् । इह मा भूत् : उपास्थायिषाताम् उपास्थायिषत । इत्त्वम् कित्सन्नियोगेन । कित्सन्नियोगेन इत्त्वम् उच्यते । तेन असति कित्त्वे इत्त्वम् न भविष्यति । रेण तुल्यम् सुधीवनि । तत् यथा सुधीवा सुपीवा : ङीप्सन्नियोगेन रः उच्यमानः असति ङीपि न भवति । अथ वा अस्तु अत्र इत्त्वम् । का रूपसिद्धिः । वृद्धौ कृतायाम् आयादेशः भविष्यति । वस्वर्थम् । वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् । वसौ हि औपदेशिकम् कित्त्वम् । किम् च स्यात् । पपिवान् पपिमान् : क्ङिति इति आकारलोपः न स्यात् । मा भूत् एवम् । इटि इति एवम् भविष्यति । इदम् तर्हि : जग्मिवान् , जघ्निवान् : क्ङिति इति उपधालोपः न स्यात् । किदतीदेशात् । अस्तु अत्र औपदेशिकस्य कित्त्वस्य प्रतिषेधः । आतिदेशिकस्य कित्त्वम् भविष्यति । यत्र तर्हि तत् प्रतिषिध्यते : अञ्जेः आजिवान् इति । एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति । तत्र सार्वधातुकम् अपित् ङित् भवति इति ङिति उपधालोपः भविष्यति । निगृहीतिः । निगृहीतिः प्रयोजनम् । इदम् तर्हि प्रयोजनम् : इह मा भूत् : निगृहीतिः , उपसन्निहितिः , निकुचितिः । तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्त्वा च विग्रहात् । उपरिष्टात् योगविभागः करिष्यते : न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । मृषः तितिक्षायाम् । उदुपधात् भावादिकर्मणोः अन्यतरस्याम् । ततः पूङः । पूङः निष्ठा सेट् न कित् भवति । ततः क्त्वा । क्त्वा च सेट् न कित् भवति । पूङ् इति निवृत्तम् । न सेट् इति कृते अकित्त्वे निष्ठायाम् अवधारणात् । ज्ञापकात् न परोक्षायाम् सनि झल्ग्रहणम् विदुः ॥ इत्त्वम् कित्सन्नियोगेन रेण तुल्यम् सुधीवनि । वस्वर्थम् किदतीदेशात् निगृहीतिः क्त्वा च विग्रहात् ॥

KA I,199.6-200.24 Ro II,27-31 na seṭ iti kṛte akittve . na seṭ iti eva siddham . na arthaḥ ktvāgrahaṇena . niṣṭhāyam api tarhi prāpnoti : gudhitaḥ gudhitavān iti . niṣṭhāyām avadhāraṇāt . niṣṭhāyām avadhāraṇāt na bhaviṣyati . kim avadhāraṇam . niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ iti . parokṣāyām tarhi prāpnoti . kim ca syāt . papiva papima : kṅiti iti ākāralopaḥ na syāt . mā bhūt evam . iṭi iti evam bhaviṣyati . idam tarhi : jagmiva jaghniva . kṅiti iti upadhālopaḥ na syāt . jñāpakāt na parokṣāyām . jñāpakāt parokṣāyām na bhaviṣyati . kim jñāpakam . sani jhalgrahaṇam viduḥ . yat ayam ikaḥ jhal iti jhalgrahaṇam karoti tat jñāpayati ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti . katham kṛtvā jñāpakam . jhalgrahaṇasya etat prayojanam : iha mā bhūt : śiśayiṣate iti . yadi ca atra ātideśikasya kittvasya pratiṣedhaḥ syāt jhalgrahaṇam anarthakam syāt . astu atra kittvam . na seṭ iti pratiṣedhaḥ bhaviṣyati . paśyati tu ācāryaḥ aupadeśikasya kittvasya pratiṣedhaḥ na ātideśikasya iti . tataḥ jhalgrahaṇam karoti . na etat asti prayojanam . uttarārtham etat syāt . sthāghvoḥ it ca jhalādau yathā syāt . iha mā bhūt : upāsthāyiṣātām upāsthāyiṣata . ittvam kitsanniyogena . kitsanniyogena ittvam ucyate . tena asati kittve ittvam na bhaviṣyati . reṇa tulyam sudhīvani . tat yathā sudhīvā supīvā : ṅīpsanniyogena raḥ ucyamānaḥ asati ṅīpi na bhavati . atha vā astu atra ittvam . kā rūpasiddhiḥ . vṛddhau kṛtāyām āyādeśaḥ bhaviṣyati . vasvartham . vasvartham tarhi ktvāgrahaṇam kartavyam . vasau hi aupadeśikam kittvam . kim ca syāt . papivān papimān : kṅiti iti ākāralopaḥ na syāt . mā bhūt evam . iṭi iti evam bhaviṣyati . idam tarhi : jagmivān , jaghnivān : kṅiti iti upadhālopaḥ na syāt . kidatīdeśāt . astu atra aupadeśikasya kittvasya pratiṣedhaḥ . ātideśikasya kittvam bhaviṣyati . yatra tarhi tat pratiṣidhyate : añjeḥ ājivān iti . evam tarhi chāndasḥ kvasuḥ liṭ ca chandasi sārvadhātukam api bhavati . tatra sārvadhātukam apit ṅit bhavati iti ṅiti upadhālopaḥ bhaviṣyati . nigṛhītiḥ . nigṛhītiḥ prayojanam . idam tarhi prayojanam : iha mā bhūt : nigṛhītiḥ , upasannihitiḥ , nikucitiḥ . tat tarhi ktvāgrahaṇam kartavyam . na kartavyam . ktvā ca vigrahāt . upariṣṭāt yogavibhāgaḥ kariṣyate : na seṭ niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ . mṛṣaḥ titikṣāyām . udupadhāt bhāvādikarmaṇoḥ anyatarasyām . tataḥ pūṅaḥ . pūṅaḥ niṣṭhā seṭ na kit bhavati . tataḥ ktvā . ktvā ca seṭ na kit bhavati . pūṅ iti nivṛttam . na seṭ iti kṛte akittve niṣṭhāyām avadhāraṇāt | jñāpakāt na parokṣāyām sani jhalgrahaṇam viduḥ || ittvam kitsanniyogena reṇa tulyam sudhīvani | vasvartham kidatīdeśāt nigṛhītiḥ ktvā ca vigrahāt ||

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/P/1.2.18

Cite as: Patanjali: Vyakaranamahabhasya 1.2.18, in HREEM (hreem.cc/library/P/1.2.18), after GRETIL, Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay….

Edition, numbering and licence

GRETIL 6_sastra/1_gram/pmbhasuu.htm — Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). With additional references of the edition Gurukuljhajjar, Rohatak (Rohtak) : Hariyana sahitya samsthan, 1961-196

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text