क्अ इ,२०२।२-७ रो इइ,३३ किम् इदम् रलः क्त्वासनोः कित्त्वम् विधीयते आहोस्वित् प्रतिषिध्यते । किम् च अतः । यदि विधीयते क्त्वाग्रहणम् अनर्थकम् । कित् एव हि क्त्वा । अथ प्रतिषिध्यते सन्ग्रहणम् अनर्थकम् । अकित् एव हि सन् । अतः उत्तरम् पठति : रलः क्त्वासनोः कित्त्वम् । रलः क्त्वासनोः कित्त्वम् विधीयते । ननु च उक्तम् : क्त्वाग्रहणम् अनर्थकम् । कित् एव हि क्त्वा इति । न अनर्थकम् । न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति । तद्बाधनार्थम् ।
KA I,202.2-7 Ro II,33 kim idam ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate . kim ca ataḥ . yadi vidhīyate ktvāgrahaṇam anarthakam . kit eva hi ktvā . atha pratiṣidhyate sangrahaṇam anarthakam . akit eva hi san . ataḥ uttaram paṭhati : ralaḥ ktvāsanoḥ kittvam . ralaḥ ktvāsanoḥ kittvam vidhīyate . nanu ca uktam : ktvāgrahaṇam anarthakam . kit eva hi ktvā iti . na anarthakam . na ktvā seṭ iti pratiṣedhaḥ prāpnoti . tadbādhanārtham .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.