क्अ इ,२०६।३-१२ रो इइ,४१-४३ इह कस्मात् न भवति : द्यौः , पन्थाः , सः इति । सञ्ज्ञया विधाने नियमः । सञ्ज्ञया ये विधीयन्ते तेषु नियमः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अच् इति वर्तते । तत्र एवम् अभिसम्बन्धः करिष्यते : अचः अच् भवति ह्रस्वः दीर्घः प्लुतः इति एवम् भाव्यमनः इति । अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किम् प्रयोजनम् । अज्ग्रहणम् संयोगाच्समुदायनिवृत्त्यर्थम् । अज्ग्रहणम् क्रियते संयोग्निवृत्त्यर्थम् अच्समुदायनिवृत्त्यर्थम् च । संयोग्निवृत्त्यर्थम् तावत् : प्रतक्ष्य प्ररक्ष्य । ह्रस्वस्य पिति कृति तुक् इति तुक् मा भूत् इति । अच्समुदायनिवृत्त्यर्थम् : तितौच्छत्रम् , तितौच्छाया । दीर्घात् पदान्तात् वा इति विभाषा मा भूत् ।
KA I,206.3-12 Ro II,41-43 iha kasmāt na bhavati : dyauḥ , panthāḥ , saḥ iti . sañjñayā vidhāne niyamaḥ . sañjñayā ye vidhīyante teṣu niyamaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ac iti vartate . tatra evam abhisambandhaḥ kariṣyate : acaḥ ac bhavati hrasvaḥ dīrghaḥ plutaḥ iti evam bhāvyamanaḥ iti . atha pūrvasmin yoge ajgrahaṇe sati kim prayojanam . ajgrahaṇam saṃyogācsamudāyanivṛttyartham . ajgrahaṇam kriyate saṃyognivṛttyartham acsamudāyanivṛttyartham ca . saṃyognivṛttyartham tāvat : pratakṣya prarakṣya . hrasvasya piti kṛti tuk iti tuk mā bhūt iti . acsamudāyanivṛttyartham : titaucchatram , titaucchāyā . dīrghāt padāntāt vā iti vibhāṣā mā bhūt .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.