क्अ इ,२१०।१९-२११।१४ रो इइ,५५-५६ सुब्रह्मण्यायम् ओकारः उदात्तः । सुब्रह्मण्यायम् ओकारः उदात्तः भवति : सुब्रह्मण्योम् । आकारः आख्याते परादिः च । आकारः आख्याते परादिः च उदात्तः भवति : इन्द्र अगच्छ । हरिवः अगच्छ । वाक्यादौ च द्वे द्वे । वाक्यादौ च द्वे द्वे उदात्ते भवतः : इन्द्र अगच्छ । हरिवः अगच्छ । मघवन्वर्जम् । अगच्छ मघवन् । सुत्यापराणाम् अन्तः । सुत्यापराणाम् अन्तः उदात्तः भवति : द्व्यहे सुत्यम् । त्र्यहे सुत्यम् । असौ इति अन्तः । असौ इति अन्तः उदात्तः भवति : गार्ग्यः यजते । वात्स्यः यजते । अमुष्य इति अन्तः । अमुष्य इति अन्तः : दाक्षेः पित यजते । स्यान्तस्य उपोत्तमम् च । स्यान्तस्य उपोत्तमम् उदात्तम् भवति अन्तः च । गार्ग्यस्य पित यजते । वात्स्यस्य पित यजते । वा नामधेयस्य । वा नामधेयस्य स्यान्तस्य उपोत्तमम् उदात्तम् भवति : देवदत्तस्य पित यजते । देवदत्तस्य पित यजते ।
KA I,210.19-211.14 Ro II,55-56 subrahmaṇyāyam okāraḥ udāttaḥ . subrahmaṇyāyam okāraḥ udāttaḥ bhavati : subrahmaṇyom . ākāraḥ ākhyāte parādiḥ ca . ākāraḥ ākhyāte parādiḥ ca udāttaḥ bhavati : indra agaccha . harivaḥ agaccha . vākyādau ca dve dve . vākyādau ca dve dve udātte bhavataḥ : indra agaccha . harivaḥ agaccha . maghavanvarjam . agaccha maghavan . sutyāparāṇām antaḥ . sutyāparāṇām antaḥ udāttaḥ bhavati : dvyahe sutyam . tryahe sutyam . asau iti antaḥ . asau iti antaḥ udāttaḥ bhavati : gārgyaḥ yajate . vātsyaḥ yajate . amuṣya iti antaḥ . amuṣya iti antaḥ : dākṣeḥ pita yajate . syāntasya upottamam ca . syāntasya upottamam udāttam bhavati antaḥ ca . gārgyasya pita yajate . vātsyasya pita yajate . vā nāmadheyasya . vā nāmadheyasya syāntasya upottamam udāttam bhavati : devadattasya pita yajate . devadattasya pita yajate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.