क्अ इ,२११।१९-२१२।१७ रो इइ,५७-५९ स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् । स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यम् वक्तव्यम् : अग्निवेश्यः पचति । किम् पुनः कारणम् न सिध्यति । बहुवचनेन निर्देशः क्रियते । तेन बहूनाम् ऐकश्रुत्यम् स्यात् द्व्येकयोः न स्यात् । न एषः दोषः । न अत्र निर्देशः तन्त्रम् । कथम् पुनः तेन एव निर्देशः क्रियते तत् च अतन्त्रम् स्यात् । तत्कारी च भवान् तद्द्वेषी च । नान्तरीयकत्वात् अत्र बहुवचनेन निर्देशः क्रियते : अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः इति । तत् यथा : कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् । सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति । तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् । सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति । एवम् इह अपि नान्तरीयकत्वात् बहुवचनेन निर्देशः क्रियते । अविशेषेण ऐकश्रुत्यम् । अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् अप्रसिद्धिः । अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् ऐकश्रुत्यम् न प्राप्नोति : इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि । अनेकम् अपि इति तु वचनात् सिद्धम् । अनेकम् अपि एकम् अपि स्वरितात् परम् संहितायाम् एकश्रुति भवति इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् : स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् । अविशेषेण ऐकश्रुत्यम् व्यवहितानाम् अप्रसिद्धिः इति । न एषः दोषः । कथम् । एकशेषनिर्देशः अयम् अनुदात्तस्य च : अनुदात्तयोः च अनुदात्तानाम् च अनुदात्तानाम् इति । एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति । षट्प्रभृतिषु एकशेषः परिसमाप्यते । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।
KA I,211.19-212.17 Ro II,57-59 svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam . svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyam vaktavyam : agniveśyaḥ pacati . kim punaḥ kāraṇam na sidhyati . bahuvacanena nirdeśaḥ kriyate . tena bahūnām aikaśrutyam syāt dvyekayoḥ na syāt . na eṣaḥ doṣaḥ . na atra nirdeśaḥ tantram . katham punaḥ tena eva nirdeśaḥ kriyate tat ca atantram syāt . tatkārī ca bhavān taddveṣī ca . nāntarīyakatvāt atra bahuvacanena nirdeśaḥ kriyate : avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ iti . tat yathā : kaḥ cit annārthī śālikalāpam sapalālam satuṣam āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . tathā kaḥ cit māṃsārthī matsyān sakaṇṭakān saśakalān āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . evam iha api nāntarīyakatvāt bahuvacanena nirdeśaḥ kriyate . aviśeṣeṇa aikaśrutyam . aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aprasiddhiḥ . aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aikaśrutyam na prāpnoti : imam me gaṅge yamune sarasvati śutudri . anekam api iti tu vacanāt siddham . anekam api ekam api svaritāt param saṃhitāyām ekaśruti bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam : svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam . aviśeṣeṇa aikaśrutyam vyavahitānām aprasiddhiḥ iti . na eṣaḥ doṣaḥ . katham . ekaśeṣanirdeśaḥ ayam anudāttasya ca : anudāttayoḥ ca anudāttānām ca anudāttānām iti . evam api ṣaṭprabhṛtīnām eva prāpnoti . ṣaṭprabhṛtiṣu ekaśeṣaḥ parisamāpyate . pratyekam vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.