क्अ इ,१९३।२३-१९४।७ रो इइ,११-१२ किम् पुनः अयम् पर्युदासः : यत् अन्यत् पितः , आहोस्वित् प्रसज्य अयम् प्रतिषेधः : पित् न इति । कः च अत्र विशेषः । अपित् ङित् इति चेत् शब्देकादेशप्रतिषेधः आदिवत्त्वात् । अपित् ङित् इति चेत् शब्देकादेशे प्रतिषेधः वक्तव्यः : च्यवन्ते प्लवन्ते । किम् कारणम् । आदिवत्त्वात् । पिदपितोः एकादेशः अपितः आदिवत् स्यात् । अस्ति अन्यत् पितः इति कृत्वा ङित्त्वम् प्राप्नोति । अस्तु तर्हि प्रसज्यप्रतिषेधः : पित् न इति । न पित् ङित् इति चेत् उत्तमैकादेशप्रतिषेधः । पित् न इति चेत् उत्तमैकादेशे प्रतिषेधः प्राप्नोति : तुदानि लिखानि । किम् कारणम् । आदिवत्त्वात् एव । पिदपितोः एकादेशः पितः आदिवत् स्यात् । तत्र पित् न इति प्रतिषेधः प्राप्नोति । यथा इच्छसि तथा अस्तु । ननु च उक्तम् उभयथा अपि दोषः इति । उभयथा अपि न दोषः । एकादेशः पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् ।
KA I,193.23-194.7 Ro II,11-12 kim punaḥ ayam paryudāsaḥ : yat anyat pitaḥ , āhosvit prasajya ayam pratiṣedhaḥ : pit na iti . kaḥ ca atra viśeṣaḥ . apit ṅit iti cet śabdekādeśapratiṣedhaḥ ādivattvāt . apit ṅit iti cet śabdekādeśe pratiṣedhaḥ vaktavyaḥ : cyavante plavante . kim kāraṇam . ādivattvāt . pidapitoḥ ekādeśaḥ apitaḥ ādivat syāt . asti anyat pitaḥ iti kṛtvā ṅittvam prāpnoti . astu tarhi prasajyapratiṣedhaḥ : pit na iti . na pit ṅit iti cet uttamaikādeśapratiṣedhaḥ . pit na iti cet uttamaikādeśe pratiṣedhaḥ prāpnoti : tudāni likhāni . kim kāraṇam . ādivattvāt eva . pidapitoḥ ekādeśaḥ pitaḥ ādivat syāt . tatra pit na iti pratiṣedhaḥ prāpnoti . yathā icchasi tathā astu . nanu ca uktam ubhayathā api doṣaḥ iti . ubhayathā api na doṣaḥ . ekādeśaḥ pūrvavidhau sthānivat iti sthānivadbhāvāt vyavadhānam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.