क्अ इ,२१६।१२-१६ रो इइ,६८ कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् द्विगुप्राप्तापन्नालम्पूर्वोपसर्गाः क्तार्थे । द्विगुः : पञ्चभिः गोभिः क्रीतः पञ्चगुः । प्राप्तापन्न : प्राप्तः जिविकाम् प्राप्तजीविकः । आपन्नः जीविकाम् आपन्नजीविकः । अलम्पूर्व : अलम् कुमार्यै अलङ्कुमारिः । उपसर्गाः क्तार्थे : निष्कौशाम्बिः निर्वाराणसिः ।
KA I,216.12-16 Ro II,68 kāni punaḥ asya yogasya prayojanāni . prayojanam dviguprāptāpannālampūrvopasargāḥ ktārthe . dviguḥ : pañcabhiḥ gobhiḥ krītaḥ pañcaguḥ . prāptāpanna : prāptaḥ jivikām prāptajīvikaḥ . āpannaḥ jīvikām āpannajīvikaḥ . alampūrva : alam kumāryai alaṅkumāriḥ . upasargāḥ ktārthe : niṣkauśāmbiḥ nirvārāṇasiḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.