क्अ इ,२२५।१६-२३ रो इइ,९५ तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः । तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः वक्तव्यः : अवन्ती कुन्ती कुरूः । तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः अलुक्परत्वात् । तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । लुक् कस्मात् न भवति । अलुक्परत्वात् । लुकि इति उच्यते । न च अत्र लुकम् पश्यामः । लुकि इति न एषा परसप्तमी शक्या विज्ञातुम् । न हि लुका पौर्वापर्यम् अस्ति । का तर्हि । सत्सप्तमी : लुकि सति इति । सत्सप्तमी चेत् प्राप्नोति । एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति । किम् । उपसर्जनस्य इति वर्तते । न च जातिः उपसर्जनम् ।
KA I,225.16-23 Ro II,95 taddhitaluki avantyādīnām pratiṣedhaḥ . taddhitaluki avantyādīnām pratiṣedhaḥ vaktavyaḥ : avantī kuntī kurūḥ . taddhitaluki avantyādīnām apratiṣedhaḥ alukparatvāt . taddhitaluki avantyādīnām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . luk kasmāt na bhavati . alukparatvāt . luki iti ucyate . na ca atra lukam paśyāmaḥ . luki iti na eṣā parasaptamī śakyā vijñātum . na hi lukā paurvāparyam asti . kā tarhi . satsaptamī : luki sati iti . satsaptamī cet prāpnoti . evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . kim . upasarjanasya iti vartate . na ca jātiḥ upasarjanam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.