क्अ इ,२३१।४-७ रो इइ,११० अयम् अपि योगः शक्यः अवक्तुम् । कथम् उदिते पूर्वे फल्गुन्यौ , उदिताः पूर्वाः फल्गुन्यः , उदिते पूर्वे प्रोष्ठपदे , उदिताः पूर्वाः प्रोष्ठपदाः । फल्गुनीसम्पीपगते चन्द्रमसि फल्गुनीशब्दः वर्तते । बहवः ते अर्थाः । तत्र युक्तम् बहुवचनम् । यदा तयोः एव अभिधानम् तदा द्विवचनम् भविष्यति ।
KA I,231.4-7 Ro II,110 ayam api yogaḥ śakyaḥ avaktum . katham udite pūrve phalgunyau , uditāḥ pūrvāḥ phalgunyaḥ , udite pūrve proṣṭhapade , uditāḥ pūrvāḥ proṣṭhapadāḥ . phalgunīsampīpagate candramasi phalgunīśabdaḥ vartate . bahavaḥ te arthāḥ . tatra yuktam bahuvacanam . yadā tayoḥ eva abhidhānam tadā dvivacanam bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.