क्अ इ,२५१।९-१४ रो इइ,१६९-१७० त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि । त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि भवन्ति । सा च देवदत्तः च तौ सा च कुण्डे च तानि । अद्वन्द्वतत्पुरुषविशेषणानाम् । अद्वन्द्वतत्पुरुषविशेषणानाम् इति वक्तव्यम् । इह मा भूत् । सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते । अर्धम् पिप्पल्याः तत् अर्धपिप्पली च सा अर्धपिप्पल्यौ ते ।
KA I,251.9-14 Ro II,169-170 tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni . tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni bhavanti . sā ca devadattaḥ ca tau sā ca kuṇḍe ca tāni . advandvatatpuruṣaviśeṣaṇānām . advandvatatpuruṣaviśeṣaṇānām iti vaktavyam . iha mā bhūt . saḥ ca kukkuṭaḥ sā ca mayūrī kukkuṭamayūryau te . ardham pippalyāḥ tat ardhapippalī ca sā ardhapippalyau te .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.