क्अ इ,२५२।१३-२३ रो इइ,१७२ अयम् अपि योगः शक्यः अवक्तुम् । कथम् गावः इमाः चरन्ति , अजाः इमाः चरन्ति । गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च । स्त्रियः एव अवशिष्यन्ते । इदम् तर्हि प्रयोजनम् : ग्राम्येषु इति वक्ष्यामि इति । इह मा भूत् : न्यङ्कवः इमे , शूकराः इमे इति । कः पुनः अर्हति अग्राम्याणाम् पुंसः उत्कालयितुम् ये ग्रहीतुम् अशक्याः । कुतः एव वाहाय च विक्रयाय च । इदम् तर्हि प्रयोजनम् : पशुषु इति वक्ष्यामि इति । इह मा भूत् : ब्राह्मणाः इमे , वृषलाः इमे । कः पुनः अर्हति अपशूनाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च । इदम् तर्हि प्रयोजनम् : सङ्घेषु इति वक्ष्यामि इति । इह मा भूत् : एतौ गावः चरतः । कः पुनः अर्हति निर्ज्ञाते अर्थे अन्यथा प्रयोक्तुम् । इदम् तर्हि प्रयोजनम् : अतरुणेषु इति वक्ष्यामि इति । इह मा भूत् : उरणकाः इमे , बर्कराः इमे इति । कः पुनः अर्हति तरुणानाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च । अनेकशफेषु इति वक्तव्यम् इह मा भूत् : अश्वाः चरन्ति । गर्दभाः चरन्ति इति ।
KA I,252.13-23 Ro II,172 ayam api yogaḥ śakyaḥ avaktum . katham gāvaḥ imāḥ caranti , ajāḥ imāḥ caranti . gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca . striyaḥ eva avaśiṣyante . idam tarhi prayojanam : grāmyeṣu iti vakṣyāmi iti . iha mā bhūt : nyaṅkavaḥ ime , śūkarāḥ ime iti . kaḥ punaḥ arhati agrāmyāṇām puṃsaḥ utkālayitum ye grahītum aśakyāḥ . kutaḥ eva vāhāya ca vikrayāya ca . idam tarhi prayojanam : paśuṣu iti vakṣyāmi iti . iha mā bhūt : brāhmaṇāḥ ime , vṛṣalāḥ ime . kaḥ punaḥ arhati apaśūnām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca . idam tarhi prayojanam : saṅgheṣu iti vakṣyāmi iti . iha mā bhūt : etau gāvaḥ carataḥ . kaḥ punaḥ arhati nirjñāte arthe anyathā prayoktum . idam tarhi prayojanam : ataruṇeṣu iti vakṣyāmi iti . iha mā bhūt : uraṇakāḥ ime , barkarāḥ ime iti . kaḥ punaḥ arhati taruṇānām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca . anekaśapheṣu iti vaktavyam iha mā bhūt : aśvāḥ caranti . gardabhāḥ caranti iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.