क्अ इइ,८५।१२-८६।१४ रो इइइ,२०८-२१० असञ्ज्ञायाम् इति किमर्थम् । भार्या । भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् । भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । किम् कारणम् । अन्येन विहितत्वात् । अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते । सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति । प्रतिषेधः इदानीम् किमर्थः स्यात् । प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञाप्रतिषेधार्थः । प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् । भार्याः नाम क्षत्रियाः । सिद्धम् तु स्त्रियाम् सञ्ज्ञाप्रतिषेधात् । सिद्धम् एतत् । कथम् । स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः । सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति । न एषः दोषः । भावे इति तत्र अनुवर्तते । कर्मसाधनः च अयम् । अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति । किम् तर्हि । प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति । अपरः आह : सञ्ज्ञायाम् पुंसि दृष्टत्वात् न ते भार्या प्रसिध्यति । सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति । स्त्रियाम् भावाधिकारः अस्ति तेन भार्या प्रसिध्यति । भावे इति तत्र वर्तते । कर्मसाधनः च अयम् । अथ वा बहुलम् कृत्याः सञ्ज्ञायाम् इति तत् स्मृतम् । अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति । यथा यत्यम् जन्यम् यथा भित्तिः तथा एव सा । समः च बहुलम् । समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् । सम्भृत्याः एव सम्भाराः । सम्भार्याः एव सम्भाराः ।
KA II,85.12-86.14 Ro III,208-210 asañjñāyām iti kimartham . bhāryā . bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt . bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . kim kāraṇam . anyena vihitatvāt . anyena lakṣaṇena striyām kyap vidhīyate . sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ iti . pratiṣedhaḥ idānīm kimarthaḥ syāt . pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñāpratiṣedhārthaḥ . pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñā asti tadarthaḥ pratiṣedhaḥ syāt . bhāryāḥ nāma kṣatriyāḥ . siddham tu striyām sañjñāpratiṣedhāt . siddham etat . katham . striyām sañjñāpratiṣedhaḥ vaktavyaḥ . sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ tataḥ na striyām bhṛñaḥ iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt iti . na eṣaḥ doṣaḥ . bhāve iti tatra anuvartate . karmasādhanaḥ ca ayam . atha vā ye ete sañjñāyām vidhīyante teṣu na evam vijñāyate sañjñāyām abhidheyāyām iti . kim tarhi . pratyayāntena cet sañjñā gamyate iti . aparaḥ āha : sañjñāyām puṃsi dṛṣṭatvāt na te bhāryā prasidhyati . sañjñāyām puṃsi dṛṣṭatvāt tava bhāryāśabdaḥ na sidhyati . striyām bhāvādhikāraḥ asti tena bhāryā prasidhyati . bhāve iti tatra vartate . karmasādhanaḥ ca ayam . atha vā bahulam kṛtyāḥ sañjñāyām iti tat smṛtam . atha vā kṛtyalyuṭaḥ bahulam iti evam atra api ṇyat bhaviṣyati . yathā yatyam janyam yathā bhittiḥ tathā eva sā . samaḥ ca bahulam . samaḥ ca bahulam upasaṅkhyānam kartavyam . sambhṛtyāḥ eva sambhārāḥ . sambhāryāḥ eva sambhārāḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.