क्अ इइ,५५।२-१६ रो इइइ,१३८-१३९ णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् । णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् कर्तव्यम् । नाकम् इष्टमुखम् यान्ति सुयुक्तैः वडवारथैः । अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः । कर्मकर्तरि च । कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् । कारयति कटम् देवदत्तः । अचीकरत कटः स्वयम् एव । उच्छ्रययति कटम् देवदत्तः । औदशिश्रियत कटः स्वयम् एव । न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् । न वा कर्तव्यम् । किम् कारणम् । कर्मणि अविधानात् । न हि कः चित् कर्मणि विधीयते यः चङम् बाधेत । कर्तृत्वात् च कर्मकर्तुः सिद्धम् । अस्ति च कर्मकर्तरि कर्तृत्वम् इति कृत्वा चङ् भविष्यति । ननु च अयम् कर्मणि विधीयते । चिण् भावकर्मणोः इति । प्रतिषिध्येते तत्र यक्चिणौ । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति । यः तर्हि अहेतुमण्णिच् । उदपुपुच्छत गौः स्वयम् एव । अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन । यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।
KA II,55.2-16 Ro III,138-139 ṇiśridrusruṣu kameḥ upasaṅkhyānam . ṇiśridrusruṣu kameḥ upasaṅkhyānam kartavyam . nākam iṣṭamukham yānti suyuktaiḥ vaḍavārathaiḥ . atha patkāṣīṇaḥ yānti ye acīkamatabhāṣiṇaḥ . karmakartari ca . karmakartari ca upasaṅkhyānam kartavyam . kārayati kaṭam devadattaḥ . acīkarata kaṭaḥ svayam eva . ucchrayayati kaṭam devadattaḥ . audaśiśriyata kaṭaḥ svayam eva . na vā karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham . na vā kartavyam . kim kāraṇam . karmaṇi avidhānāt . na hi kaḥ cit karmaṇi vidhīyate yaḥ caṅam bādheta . kartṛtvāt ca karmakartuḥ siddham . asti ca karmakartari kartṛtvam iti kṛtvā caṅ bhaviṣyati . nanu ca ayam karmaṇi vidhīyate . ciṇ bhāvakarmaṇoḥ iti . pratiṣidhyete tatra yakciṇau . yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam iti . yaḥ tarhi ahetumaṇṇic . udapupucchata gauḥ svayam eva . atra api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena . yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñām ātmanepadākarmakāṇām upasaṅkhyānam iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.