क्अ इइ,५४।२-२४ रो इइइ,१३६-१३८ किमर्थम् इदम् उच्यते । नियमार्थम् । श्लिषः आलिङ्गने एव क्सः यथा स्यात् । इह मा भूत् : उपाश्लिषत् जतु च काष्ठम् च । समाश्लिषत् ब्राह्मणकुलम् इति । अतः उत्तरम् पठति । श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् । श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः । किम् कारणम् । विधेयभावात् । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । पुषादिपाठात् अङ् प्राप्तः । तद्बाधनार्थः क्सः विधेयः । तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात् न नियमः । किम् च स्यात् यदि अयम् नियमः न स्यात् । आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत । यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत । उपाश्लेषि कन्या देवदत्तेन इति । सिद्धम् तु श्लिषः आलिङ्गने अचिण्विषये । सिद्धम् एतत् । कथम् । श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यम् । अङ्विधाने च श्लिषः अनालिङ्गने । अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् इति । न एषः दोषः । योगविभागात् सिद्धम् । योगविभागः करिष्यते । श्लिषः । श्लिषः क्सः भवति । किमर्थम् इदम् । पुषादिपाठात् अङ् प्राप्नोति । तद्बाधनार्थम् । ततः आलिङ्गने । आलिङ्गने च श्लिषः क्सः भवति । इदम् इदानीम् किमर्थम् । नियमार्थम् । श्लिषः आलिङ्गने एव । क्व मा भूत् । उपाश्लिषत् जतु च काष्ठम् च । समाश्लिषत् ब्राह्मणकुलम् इति । यत् अपि उच्यते यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत इति । पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति एवम् क्सः अङम् बाधिष्यते । चिणम् न बाधिष्यते । अथ वा तत्र वक्ष्यति : चिण्ग्रहणस्य प्रयोजनम् चिण् एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
KA II,54.2-24 Ro III,136-138 kimartham idam ucyate . niyamārtham . śliṣaḥ āliṅgane eva ksaḥ yathā syāt . iha mā bhūt : upāśliṣat jatu ca kāṣṭham ca . samāśliṣat brāhmaṇakulam iti . ataḥ uttaram paṭhati . śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt . śliṣaḥ āliṅgane niyamasya anupapattiḥ . kim kāraṇam . vidheyabhāvāt . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . puṣādipāṭhāt aṅ prāptaḥ . tadbādhanārthaḥ ksaḥ vidheyaḥ . tatra apūrvaḥ vidhiḥ astu niyamaḥ vā iti apūrvaḥ eva vidhiḥ syāt na niyamaḥ . kim ca syāt yadi ayam niyamaḥ na syāt . ātmanepadeṣu āliṅgane ca ksaḥ prasajyeta . yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta . upāśleṣi kanyā devadattena iti . siddham tu śliṣaḥ āliṅgane aciṇviṣaye . siddham etat . katham . śliṣaḥ āliṅgane aciṇviṣaye ksaḥ bhavati iti vaktavyam . aṅvidhāne ca śliṣaḥ anāliṅgane . aṅvidhāne ca śliṣaḥ anāliṅgane iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt iti . na eṣaḥ doṣaḥ . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . śliṣaḥ . śliṣaḥ ksaḥ bhavati . kimartham idam . puṣādipāṭhāt aṅ prāpnoti . tadbādhanārtham . tataḥ āliṅgane . āliṅgane ca śliṣaḥ ksaḥ bhavati . idam idānīm kimartham . niyamārtham . śliṣaḥ āliṅgane eva . kva mā bhūt . upāśliṣat jatu ca kāṣṭham ca . samāśliṣat brāhmaṇakulam iti . yat api ucyate yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta iti . purastāt apavādāḥ anantarān vidhīn bādhante na uttarān iti evam ksaḥ aṅam bādhiṣyate . ciṇam na bādhiṣyate . atha vā tatra vakṣyati : ciṇgrahaṇasya prayojanam ciṇ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.