क्अ इइ,६४।१७-६५।६ रो इइइ,१६०-१६२ योगविभागः कर्तव्यः । व्यत्ययः भवति स्यादीनाम् इति । आण्डा शुष्णस्य भॄदति । भिनत्ति इति प्राप्ते । सः च न मरति । मिर्यते इति प्राप्ते । ततः बहुलम्। बहुलम् छन्दसि विषये सर्वे विधयः भवन्ति इति । सुपाम् व्यत्ययः । तिङाम् व्यत्ययः । वर्णव्यत्ययः । लिङ्गव्यत्ययः । कालव्यत्ययः । पुरुषव्यत्ययः । आत्मनेपदव्यत्ययः । परस्मैपदव्यत्ययः । सुपाम् व्यत्ययः । युक्ता माता आसीत् धुरि दक्षिणायाः । दक्षिणायाम् इति प्राप्ते । तिङाम् व्यत्ययः । चषालम् ये अश्वयूपाय तक्षति । तक्षन्ति इति प्राप्ते । वर्णव्यत्ययः । त्रिष्टुभौजः शुभितम् उग्रवीरम् । सुहितम् इति प्राप्ते । लिङ्गव्यत्ययः । मधोः गृह्णाति । मधोः तृप्ताः इव आसते । मधुनः इति प्राप्ते । कालव्यत्ययः । श्वः अग्नीन् आधास्यमानेन । श्वः सोमेन यक्ष्यमाणेन । आधाता यष्टा इति एवम् प्राप्ते । पुरुषव्यत्ययः । अधा सः वीरैः दशभिः वियूयाः । वियूयात् इति प्राप्ते । आत्मनेपदव्यत्ययः । ब्रह्म्नचारिणम् इच्छते । इच्छति इति प्राप्ते । परस्मैपदव्यत्ययः । प्रतीपम् अन्यः ऊर्मिः युध्यति । युध्यते इति प्राप्ते । सुप्तिङुपग्रहलिङ्गनराणाम् काल्हलच्स्वरकर्तृयङाम् च व्यत्ययम् इच्छति शास्त्रकृत् एषाम् । सः अपि च सिध्यति बाहुलकेन ।
KA II,64.17-65.6 Ro III,160-162 yogavibhāgaḥ kartavyaḥ . vyatyayaḥ bhavati syādīnām iti . āṇḍā śuṣṇasya bhṝdati . bhinatti iti prāpte . saḥ ca na marati . miryate iti prāpte . tataḥ bahulam. bahulam chandasi viṣaye sarve vidhayaḥ bhavanti iti . supām vyatyayaḥ . tiṅām vyatyayaḥ . varṇavyatyayaḥ . liṅgavyatyayaḥ . kālavyatyayaḥ . puruṣavyatyayaḥ . ātmanepadavyatyayaḥ . parasmaipadavyatyayaḥ . supām vyatyayaḥ . yuktā mātā āsīt dhuri dakṣiṇāyāḥ . dakṣiṇāyām iti prāpte . tiṅām vyatyayaḥ . caṣālam ye aśvayūpāya takṣati . takṣanti iti prāpte . varṇavyatyayaḥ . triṣṭubhaujaḥ śubhitam ugravīram . suhitam iti prāpte . liṅgavyatyayaḥ . madhoḥ gṛhṇāti . madhoḥ tṛptāḥ iva āsate . madhunaḥ iti prāpte . kālavyatyayaḥ . śvaḥ agnīn ādhāsyamānena . śvaḥ somena yakṣyamāṇena . ādhātā yaṣṭā iti evam prāpte . puruṣavyatyayaḥ . adhā saḥ vīraiḥ daśabhiḥ viyūyāḥ . viyūyāt iti prāpte . ātmanepadavyatyayaḥ . brahmnacāriṇam icchate . icchati iti prāpte . parasmaipadavyatyayaḥ . pratīpam anyaḥ ūrmiḥ yudhyati . yudhyate iti prāpte . suptiṅupagrahaliṅganarāṇām kālhalacsvarakartṛyaṅām ca vyatyayam icchati śāstrakṛt eṣām . saḥ api ca sidhyati bāhulakena .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.