क्अ इइ,११३।२४-११४।१५ रो इइइ,२५८-२५९ आदिकर्मणि निष्ठा । आदिकर्मणि निष्ठा वक्तव्या । प्रकृतः कटम् देवदत्तः । किम् पुनः कारणम् न सिध्यति । यत् वा भवन्त्यर्थे । यत् वा भवन्त्यर्थे भाष्यते । प्रकृतः कटम् देवदत्तः । प्रकरोति कटम् देवदत्तः इति । न्याय्या तु आद्यपवर्गात् । न्याय्या तु एषा भूतकालता । कुतः । आद्यपवर्गात् । आदिः अत्र अपवृक्तः । एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते । वा च अद्यतन्याम् । वा च अद्यतन्याम् भाष्यते । प्रकृतः कटम् देवदत्तः । प्राकार्षीत् कटम् देवदत्तः इति । किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता । न अवश्यम् प्रयोगात् एव । क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः । सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते । तत् यथा । कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति । न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति । यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति । एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति । यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति ।
KA II,113.24-114.15 Ro III,258-259 ādikarmaṇi niṣṭhā . ādikarmaṇi niṣṭhā vaktavyā . prakṛtaḥ kaṭam devadattaḥ . kim punaḥ kāraṇam na sidhyati . yat vā bhavantyarthe . yat vā bhavantyarthe bhāṣyate . prakṛtaḥ kaṭam devadattaḥ . prakaroti kaṭam devadattaḥ iti . nyāyyā tu ādyapavargāt . nyāyyā tu eṣā bhūtakālatā . kutaḥ . ādyapavargāt . ādiḥ atra apavṛktaḥ . eṣaḥ ca nāma nyāyyaḥ bhūtakālaḥ yatra kim cit apavṛktam dṛśyate . vā ca adyatanyām . vā ca adyatanyām bhāṣyate . prakṛtaḥ kaṭam devadattaḥ . prākārṣīt kaṭam devadattaḥ iti . kim śakyante ete śabdāḥ prayoktum iti ataḥ nyāyyā eṣā bhūtakālatā . na avaśyam prayogāt eva . kriyā nāma iyam atyantāparidṛṣṭā anumānagamyā aśakyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ . sā asau yena yena śabdena abhisambadhyate tāvati tāvati parisampāpyate . tat yathā . kaḥ cit pāṭaliputram jigamiṣuḥ ekam ahaḥ gatvā āha idam adya gatam iti . na ca tāvatā asya vrajikriyā parisamāptā bhavati . yat tu gatam tat abhisamīkṣya etat prayujyate idam adya gatam iti . evam iha api yat kṛtam tat abhisamīkṣya etat prayujyate prakṛtaḥ kaṭam devadattaḥ iti . yadā hi veṇikāntaḥ kaṭaḥ abhisamīkṣitaḥ bhavati prakaroti kaṭam iti eva tadā bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.