Library·Patanjali: Vyakaranamahabhasya·3·3.2·3.2.178

Patanjali: Vyakaranamahabhasya 3.2.178

क्अ इइ,१३५।१६-१३६।४ रो इइइ,३०५-३०६ किमर्थम् इदम् उच्यते न क्विप् अन्येभ्यः अपि दृश्यते इति एव सिद्धम् । क्विब्विधिः अनुपपदार्थः । अनुपपदार्थः अयम् आरम्भः । पचेः पक् । भिदेः भित् । छिदेः छित् । अथ यः अत्र सोपसर्गः तस्य ग्रहणम् किमर्थम् न तेन एव सिद्धम् । न सिध्यति । इह के चित् आ क्वेः इति सूत्रम् पठन्ति के चित् प्राक् क्वेः इति । तत्र ये आ क्वेः इति पठन्ति तैः क्विप् अपि आक्षिप्तः भवति । तत्र तच्छीलादिषु अर्थेषु किव्प् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च । न सिध्यति । अयम् तच्छीलादिषु तृन् विधीयते । सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत । वासरूपन्यायेन ण्वुल् अपि भविष्यति । न सिध्यति । इदानीम् एव हि उक्तम् तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति । क्विप् च अपि तृजादिः ।

KA II,135.16-136.4 Ro III,305-306 kimartham idam ucyate na kvip anyebhyaḥ api dṛśyate iti eva siddham . kvibvidhiḥ anupapadārthaḥ . anupapadārthaḥ ayam ārambhaḥ . paceḥ pak . bhideḥ bhit . chideḥ chit . atha yaḥ atra sopasargaḥ tasya grahaṇam kimartham na tena eva siddham . na sidhyati . iha ke cit ā kveḥ iti sūtram paṭhanti ke cit prāk kveḥ iti . tatra ye ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati . tatra tacchīlādiṣu artheṣu kivp yathā syāt . na etat asti prayojanam . yaḥ eva asau aviśeṣavihitaḥ saḥ tacchīlādiṣu bhaviṣyati anyatra ca . na sidhyati . ayam tacchīlādiṣu tṛn vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta . vāsarūpanyāyena ṇvul api bhaviṣyati . na sidhyati . idānīm eva hi uktam tacchīlādiṣu vartheṣu vāsarūpeṇa tṛjādayaḥ na bhavanti iti . kvip ca api tṛjādiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३६।४-२० रो इइइ,३०६-३०७ वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः च । वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च । वचि । वाक् । वचि । प्रच्छि । शब्दप्राट् प्रच्छि । आयतस्तु । आयतस्तूः । आयतस्तु । कटप्रु । कटप्रूः । कटप्रु । जु । जूः । जु । श्रि । श्रीः । अपरः आह : वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् सम्प्रसारणम् । अन्तरङ्गम् दीर्घत्वम् । का अन्तरङ्गता । प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् । तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् । प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् । तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति । द्युतिगमिजुहोतीनाम् द्वे च । द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् । दिद्युत्। द्युति । गमि । जगत् । गमि । जुहोति । जुहोतेः दीर्घः च । जुहूः । दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् । ददृत् । जुहूः जुहोतेः ह्वयतेः वा । ददृत् दृणातेः दीर्यतेः वा । जूः ज्वरतेः जीर्यतेः वा । धायतेः सम्प्रसारणम् च । धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः । धीः ध्यायतेः वा दधातेः वा ।

KA II,136.4-20 Ro III,306-307 vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca . vacipracchyāyatastukaṭaprujuśrīṇām dīrghatvam ca vaktavyam kvip ca . vaci . vāk . vaci . pracchi . śabdaprāṭ pracchi . āyatastu . āyatastūḥ . āyatastu . kaṭapru . kaṭaprūḥ . kaṭapru . ju . jūḥ . ju . śri . śrīḥ . aparaḥ āha : vacipracchyoḥ asamprasāraṇam ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati . idam iha sampradhāryam . dīrghatvam kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt samprasāraṇam . antaraṅgam dīrghatvam . kā antaraṅgatā . pratyayotpattisanniyogena dīrghatvam ucyate utpanne pratyaye samprasāraṇam . tatra antaraṅgatvāt dīrghatve kṛte samprasāraṇam . prasāraṇaparapūrvatve kṛte kāryakṛtatvāt punaḥ dīrghatvam na syāt . tasmāt suṣṭhu ucyate dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati iti . dyutigamijuhotīnām dve ca . dyutigamijuhotīnām dve ca iti vaktavyam . didyut. dyuti . gami . jagat . gami . juhoti . juhoteḥ dīrghaḥ ca . juhūḥ . dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam . dadṛt . juhūḥ juhoteḥ hvayateḥ vā . dadṛt dṛṇāteḥ dīryateḥ vā . jūḥ jvarateḥ jīryateḥ vā . dhāyateḥ samprasāraṇam ca . dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ . dhīḥ dhyāyateḥ vā dadhāteḥ vā .

Sanskrit only: no published translation is held for this verse.