क्अ इइ,१३६।४-२० रो इइइ,३०६-३०७ वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः च । वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च । वचि । वाक् । वचि । प्रच्छि । शब्दप्राट् प्रच्छि । आयतस्तु । आयतस्तूः । आयतस्तु । कटप्रु । कटप्रूः । कटप्रु । जु । जूः । जु । श्रि । श्रीः । अपरः आह : वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् सम्प्रसारणम् । अन्तरङ्गम् दीर्घत्वम् । का अन्तरङ्गता । प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् । तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् । प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् । तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति । द्युतिगमिजुहोतीनाम् द्वे च । द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् । दिद्युत्। द्युति । गमि । जगत् । गमि । जुहोति । जुहोतेः दीर्घः च । जुहूः । दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् । ददृत् । जुहूः जुहोतेः ह्वयतेः वा । ददृत् दृणातेः दीर्यतेः वा । जूः ज्वरतेः जीर्यतेः वा । धायतेः सम्प्रसारणम् च । धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः । धीः ध्यायतेः वा दधातेः वा ।
KA II,136.4-20 Ro III,306-307 vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca . vacipracchyāyatastukaṭaprujuśrīṇām dīrghatvam ca vaktavyam kvip ca . vaci . vāk . vaci . pracchi . śabdaprāṭ pracchi . āyatastu . āyatastūḥ . āyatastu . kaṭapru . kaṭaprūḥ . kaṭapru . ju . jūḥ . ju . śri . śrīḥ . aparaḥ āha : vacipracchyoḥ asamprasāraṇam ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati . idam iha sampradhāryam . dīrghatvam kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt samprasāraṇam . antaraṅgam dīrghatvam . kā antaraṅgatā . pratyayotpattisanniyogena dīrghatvam ucyate utpanne pratyaye samprasāraṇam . tatra antaraṅgatvāt dīrghatve kṛte samprasāraṇam . prasāraṇaparapūrvatve kṛte kāryakṛtatvāt punaḥ dīrghatvam na syāt . tasmāt suṣṭhu ucyate dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati iti . dyutigamijuhotīnām dve ca . dyutigamijuhotīnām dve ca iti vaktavyam . didyut. dyuti . gami . jagat . gami . juhoti . juhoteḥ dīrghaḥ ca . juhūḥ . dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam . dadṛt . juhūḥ juhoteḥ hvayateḥ vā . dadṛt dṛṇāteḥ dīryateḥ vā . jūḥ jvarateḥ jīryateḥ vā . dhāyateḥ samprasāraṇam ca . dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ . dhīḥ dhyāyateḥ vā dadhāteḥ vā .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.