क्अ इइ,९६।१३-९७।२७ रो इइइ,२२५-२२८ कविधौ सर्वत्र प्रसारणिभ्यः डः । कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः । ब्रह्मज्यः । किम् उच्यते सर्वत्र इति । अन्यत्र अपि न अवश्यम् इह एव । ह्व अन्यत्र । आह्वः प्रह्वः इति । के हि सम्प्रसारणप्रसङ्गः । के हि सति सम्प्रसारणम् प्रसज्येत । सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् । सः तर्हि वक्तव्यः । न वक्तव्यः । अस्तु अत्र सम्प्रसारणम् । सम्प्रसारणे कृते आकारलोपः । तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति । पूर्वत्वे कृते प्राप्नोति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आकारलोपः क्रियताम् पूर्वत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् आकारलोपः । न सिध्यति । अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति । एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आकारलोपः क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् आकारलोपः । नित्यम् सम्प्रसारणम् । कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति । आकारलोपः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः आकारलोपः । न हि कृते सम्प्रसारणे प्राप्नोति । अन्तरङ्गम् हि पूर्वत्वम् भाधते । यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति । अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् । उभयोः नित्ययोः परत्वात् आकारलोपः । आकारलोपे कृते सम्प्रसारणम् । सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति । एवम् अपि न सिध्यति । यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः । आदिष्टात् च एषः अचः पूर्वः भवति । एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति । इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् । जुहुवतुः झुहुवुः इति । अस्ति अत्र विशेषः । अकृते अत्र आत्त्वे पूर्वत्वम् भवति । इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् पूर्वत्वम् । न सिध्यति । अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आत्त्वम् क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् आत्त्वम् । नित्यम् सम्प्रसारणम् । कृते अपि आत्त्वे प्राप्नोति अकृते अपि । आत्त्वम् अपि नित्यम् । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यम् आत्त्वम् । न हि सम्प्रसारणे कृते प्राप्नोति । परत्वात् पूर्वत्वेन एव भवितव्यम् । यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति । अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् । उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् । एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते । सम्प्रसारणात् परः पूर्वः भवति । तत एङः । एङः च सम्प्रसारणात् पूर्वः भवति । किमर्थम् इदम् । अकृते आत्त्वे पूर्वत्वम् यथा स्यात् । ततः पदान्तात् अति । एङः इति एव । इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् । आह्वः प्रह्वः इति । अस्ति अत्र विशेषः । आकारान्तलक्षणः कविधिः । तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् । लिट् पुनः अविशेषेण धातुमात्रात् विधीयते । नित्यम् प्रसारणम् । ह्वः यण् । वार्णात् आङ्गम् न पूर्वत्वम् । यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः । तेन असिद्धिः यणः ते । आतः कः । लिट् न । एङः पूर्वः । सिद्धः आह्वः तथा सति ।
KA II,96.13-97.27 Ro III,225-228 kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ . kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ vaktavyaḥ . brahmajyaḥ . kim ucyate sarvatra iti . anyatra api na avaśyam iha eva . hva anyatra . āhvaḥ prahvaḥ iti . ke hi samprasāraṇaprasaṅgaḥ . ke hi sati samprasāraṇam prasajyeta . samprasāraṇe kṛte samprasāraṇapūrvatve ca uvaṅādeśe āhuvaḥ iti etat rūpam syāt . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . astu atra samprasāraṇam . samprasāraṇe kṛte ākāralopaḥ . tasya sthānivadbhāvāt uvaṅādeśaḥ na bhaviṣyati . pūrvatve kṛte prāpnoti . evam tarhi idam iha sampradhāryam . ākāralopaḥ kriyatām pūrvatvam iti . kim atra kartavyam . paratvāt ākāralopaḥ . na sidhyati . antaraṅgatvāt pūrvatvam prāpnoti . evam tarhi vārṇāt āṅgam balīyaḥ bhavati iti ākāralopaḥ bhaviṣyati . evam tarhi idam iha sampradhāryam . ākāralopaḥ kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt ākāralopaḥ . nityam samprasāraṇam . kṛte api ākāralope prāpnoti akṛte api prāpnoti . ākāralopaḥ api nityaḥ . kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . anityaḥ ākāralopaḥ . na hi kṛte samprasāraṇe prāpnoti . antaraṅgam hi pūrvatvam bhādhate . yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca samprasāraṇam eva ākāralopasya nimittam hanti . avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . ubhayoḥ nityayoḥ paratvāt ākāralopaḥ . ākāralope kṛte samprasāraṇam . samprasāraṇe kṛte yaṇādeśe siddham rūpam āhvaḥ prahvaḥ iti . evam api na sidhyati . yaḥ anādiṣṭād acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ . ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati . evam tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na bhaviṣyati . iha api tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na syāt . juhuvatuḥ jhuhuvuḥ iti . asti atra viśeṣaḥ . akṛte atra āttve pūrvatvam bhavati . idam iha sampradhāryam āttvam kriyatām pūrvatvam iti . kim atra kartavyam . paratvāt pūrvatvam . na sidhyati . antaraṅgatvāt āttvam prāpnoti . evam tarhi idam iha sampradhāryam . āttvam kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt āttvam . nityam samprasāraṇam . kṛte api āttve prāpnoti akṛte api . āttvam api nityam . kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . anityam āttvam . na hi samprasāraṇe kṛte prāpnoti . paratvāt pūrvatvena eva bhavitavyam . yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca samprasāraṇam eva āttvasya nimittam vihanti . avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . ubhayoḥ nityayoḥ paratvāt ātttve kṛte samprasāraṇam . evam tarhi pūrvatve yogavibhāgaḥ kariṣyate . samprasāraṇāt paraḥ pūrvaḥ bhavati . tata eṅaḥ . eṅaḥ ca samprasāraṇāt pūrvaḥ bhavati . kimartham idam . akṛte āttve pūrvatvam yathā syāt . tataḥ padāntāt ati . eṅaḥ iti eva . iha api tarhi akṛte āttve pūrvatvam syāt . āhvaḥ prahvaḥ iti . asti atra viśeṣaḥ . ākārāntalakṣaṇaḥ kavidhiḥ . tena anena avaśyam āttvam pratīkṣyam . liṭ punaḥ aviśeṣeṇa dhātumātrāt vidhīyate . nityam prasāraṇam . hvaḥ yaṇ . vārṇāt āṅgam na pūrvatvam . yaḥ anādiṣṭāt acaḥ pūrvaḥ tatkārye sthānivattvam hi provāca bhagavān kātyaḥ . tena asiddhiḥ yaṇaḥ te . ātaḥ kaḥ . liṭ na . eṅaḥ pūrvaḥ . siddhaḥ āhvaḥ tathā sati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.