क्अ इइ,१६०।१०-१६१।२ रो इइइ,३५१-३५२ अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । कूपः अस्ति । कूपः भविष्यति । कूपः भविता । कूपः अभूत् । कूपः आसीत् । कूपः बभूव इति । कथम् पुनः ज्ञायते भवन्त्याः एषः अर्थः इति । कर्तुः विद्यमानत्वात् । कर्ता अत्र विद्यते । कथम् पुनः ज्ञायते कर्ता अत्र विद्यते इति । कूपः अनेन कदा चित् दृष्टः । न च अस्य कम् चिद् अपि अपायम् पश्यति । सः तु तत्र बुद्ध्या नित्याम् सत्ताम् अध्यवस्यति । कूपः अस्ति इति । सिद्धम् तु यथास्वम् कालसमुच्चारणात् । सिद्धम् एतत् । कथम् । यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति । कथम् पुनः ज्ञायते यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति । अवात्वात् । यत् न वा भाष्यन्ते । असिद्धविपर्यासः च । असिद्धः च विपर्यासः । न हि कः चित् कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूत् इति प्रयुङ्क्ते । किम् पुनः कारणम् । न वा भाष्यन्ते असिद्धः च विपर्यासः । इह किम् चित् इन्द्रियकर्म किम् चित् बुद्धिकर्म । इन्द्रियकर्म समासादनम् बुद्धिकर्मव्यवसायः । एवम् हि कः चित् पाटलिपुत्रम् जिगमिषुः आह । यः अयम् अध्वा गन्तव्यः आ पाटलिपुत्रात् एतस्मिन् कूपः भविष्यति । समासाद्य अतिक्रम्य उषित्वा कूपः आसीत् इति । समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति । तत् यदा इन्द्रियकर्म तदा एताः विभक्तयः । यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।
KA II,160.10-161.2 Ro III,351-352 astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ . astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ . kūpaḥ asti . kūpaḥ bhaviṣyati . kūpaḥ bhavitā . kūpaḥ abhūt . kūpaḥ āsīt . kūpaḥ babhūva iti . katham punaḥ jñāyate bhavantyāḥ eṣaḥ arthaḥ iti . kartuḥ vidyamānatvāt . kartā atra vidyate . katham punaḥ jñāyate kartā atra vidyate iti . kūpaḥ anena kadā cit dṛṣṭaḥ . na ca asya kam cid api apāyam paśyati . saḥ tu tatra buddhyā nityām sattām adhyavasyati . kūpaḥ asti iti . siddham tu yathāsvam kālasamuccāraṇāt . siddham etat . katham . yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti . katham punaḥ jñāyate yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti . avātvāt . yat na vā bhāṣyante . asiddhaviparyāsaḥ ca . asiddhaḥ ca viparyāsaḥ . na hi kaḥ cit kūpaḥ asti iti prayoktavye kūpaḥ abhūt iti prayuṅkte . kim punaḥ kāraṇam . na vā bhāṣyante asiddhaḥ ca viparyāsaḥ . iha kim cit indriyakarma kim cit buddhikarma . indriyakarma samāsādanam buddhikarmavyavasāyaḥ . evam hi kaḥ cit pāṭaliputram jigamiṣuḥ āha . yaḥ ayam adhvā gantavyaḥ ā pāṭaliputrāt etasmin kūpaḥ bhaviṣyati . samāsādya atikramya uṣitvā kūpaḥ āsīt iti . samāsādya atikramya uṣitvā vismṛtya kūpaḥ babhūva iti . tat yadā indriyakarma tadā etāḥ vibhaktayaḥ . yadā hi buddhikarma tadā vartamānā bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.