क्अ इइ,१५९।२१-१६०।९ रो इइइ,३५०-३५१ अनिष्पन्ने निष्पन्नशब्दः शिष्यः अनिष्पन्नत्वात् । अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः । किम् कारणम् । अनिष्पन्नत्वात् । देवः चेत् वृष्टः निष्पन्नाः शालयः । तत्र भवितव्यम् सम्पत्स्यन्ते शालयः इति । सिद्धम् तु भविष्यत्प्रतिषेधात् । सिद्धम् एतत् । कथम् । भविष्यत्प्रतिषेधात् । यत् लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगम् न मृष्यति । कः चित् आह । देवः चेत् वृष्टः सम्पत्स्यन्ते शालयः इति । सः उच्यते । मा एवम् वोचः । सम्पन्नाः शालयः इति एवम् ब्रूहि । हेतुभूतकालसम्प्रेक्षितत्वात् वा । हेतुभूतकालसम्प्रेक्षितत्वात् वा पुनः सिद्धम् एतत् । हेतुभूतकालम् वर्षम् वर्षाकाला च क्रिया । यदि तर्हि निष्पन्नः अर्थः किम् निष्पन्नकार्याणि न क्रियन्ते । कानि । भोजनादीनि । अन्यत् इदानीम् एतत् उच्यते किम् निष्पन्नकार्याणि न क्रियन्ते इति । यत् तु तत् निष्पन्नः अर्थः न निष्पन्नः इति । सः निष्पन्नः अर्थः । अवश्यम् खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि । एवम् इह अपि निष्पन्नः अर्थः । अवश्यम् तु जननादीनि प्रतीक्ष्याणि ।
KA II,159.21-160.9 Ro III,350-351 aniṣpanne niṣpannaśabdaḥ śiṣyaḥ aniṣpannatvāt . aniṣpanne niṣpannaśabdaḥ śiṣyaḥ śāsitavyaḥ . kim kāraṇam . aniṣpannatvāt . devaḥ cet vṛṣṭaḥ niṣpannāḥ śālayaḥ . tatra bhavitavyam sampatsyante śālayaḥ iti . siddham tu bhaviṣyatpratiṣedhāt . siddham etat . katham . bhaviṣyatpratiṣedhāt . yat lokaḥ bhaviṣyadvācinaḥ śabdasya prayogam na mṛṣyati . kaḥ cit āha . devaḥ cet vṛṣṭaḥ sampatsyante śālayaḥ iti . saḥ ucyate . mā evam vocaḥ . sampannāḥ śālayaḥ iti evam brūhi . hetubhūtakālasamprekṣitatvāt vā . hetubhūtakālasamprekṣitatvāt vā punaḥ siddham etat . hetubhūtakālam varṣam varṣākālā ca kriyā . yadi tarhi niṣpannaḥ arthaḥ kim niṣpannakāryāṇi na kriyante . kāni . bhojanādīni . anyat idānīm etat ucyate kim niṣpannakāryāṇi na kriyante iti . yat tu tat niṣpannaḥ arthaḥ na niṣpannaḥ iti . saḥ niṣpannaḥ arthaḥ . avaśyam khalu api koṣṭhagateṣu api śāliṣu avahananādīni pratīkṣyāṇi . evam iha api niṣpannaḥ arthaḥ . avaśyam tu jananādīni pratīkṣyāṇi .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.