क्अ इइ,१३९।२-२१ रो इइइ,३१२-३१३ भविष्यति इति अनद्यतने उपसङ्ख्यानम् । भविष्यति इति अनद्यतने उपसङ्ख्यानम् कर्तव्यम् । श्वः ग्रामम् गमी । किम् पुनः कारणम् न सिध्यति । लृटा अयम् निर्देशः कृइयते । लृट् च अनद्यतने लुटा बाध्यते । तेन लृटः एव विषये एते प्रत्ययाः स्युः । लुटः विषये न स्युः । इतरेतराश्रयम् च । इतरेतराश्रयम् च भवति । का इतरेतराश्रयता । भविष्यत्कालेन शब्देन निर्देशः क्रियते । निर्देशोत्तरकालम् च भ्भविष्यत्कालता । तत् एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । उक्तम् वा । किम् उक्तम् । एकम् तावत् उक्तम् न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति । अपरम् अपि उक्तम् अव्ययनिर्देशात् सिद्धम् इति। अव्ययवता शब्देन निर्देशः करिष्यते । अवर्तमाने अभूते इति । सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः । न कर्तव्यः । अव्ययम् एषः भविष्यतिशब्दः न एषा भवतेः लृट् । कथम् अव्ययत्वम् । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा । निपातम् अव्ययम् इति अवययसञ्ज्ञा । अथ अपि भवतेः लृट् एवम् अपि अवययम् एव । कथम् न व्येति इति अव्ययम् । क्व पुनः न व्येति । एतौ कालविशेषौ भूतवर्तमानौ । स्वभावतः भविष्यति एव वर्तते । यदि तत्रि न व्येति इति अव्ययम् । न वा तद्विधानस्य अन्यत्र अभावात् । न वा भविष्यदाधिकारेण अर्थः । किम् कारणम् । तद्विधानस्य अन्यत्र अभावात् । ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ । स्वभावतः एव ते भविष्यति एव वर्तन्ते । अतः उत्तरम् पठति । भविष्यदधिकारस्य प्रयोजनम् यावत् पचति पुरा पचति इति अनपशब्दत्वाय ।
KA II,139.2-21 Ro III,312-313 bhaviṣyati iti anadyatane upasaṅkhyānam . bhaviṣyati iti anadyatane upasaṅkhyānam kartavyam . śvaḥ grāmam gamī . kim punaḥ kāraṇam na sidhyati . lṛṭā ayam nirdeśaḥ kṛiyate . lṛṭ ca anadyatane luṭā bādhyate . tena lṛṭaḥ eva viṣaye ete pratyayāḥ syuḥ . luṭaḥ viṣaye na syuḥ . itaretarāśrayam ca . itaretarāśrayam ca bhavati . kā itaretarāśrayatā . bhaviṣyatkālena śabdena nirdeśaḥ kriyate . nirdeśottarakālam ca bhbhaviṣyatkālatā . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . uktam vā . kim uktam . ekam tāvat uktam na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti . aparam api uktam avyayanirdeśāt siddham iti. avyayavatā śabdena nirdeśaḥ kariṣyate . avartamāne abhūte iti . saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ . na kartavyaḥ . avyayam eṣaḥ bhaviṣyatiśabdaḥ na eṣā bhavateḥ lṛṭ . katham avyayatvam . vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . nipātam avyayam iti avayayasañjñā . atha api bhavateḥ lṛṭ evam api avayayam eva . katham na vyeti iti avyayam . kva punaḥ na vyeti . etau kālaviśeṣau bhūtavartamānau . svabhāvataḥ bhaviṣyati eva vartate . yadi tatri na vyeti iti avyayam . na vā tadvidhānasya anyatra abhāvāt . na vā bhaviṣyadādhikāreṇa arthaḥ . kim kāraṇam . tadvidhānasya anyatra abhāvāt . ye api ete itaḥ uttaram pratyayāḥ śiṣyante ete api etau kālaviśeṣau na viyanti bhūtavartamānau . svabhāvataḥ eva te bhaviṣyati eva vartante . ataḥ uttaram paṭhati . bhaviṣyadadhikārasya prayojanam yāvat pacati purā pacati iti anapaśabdatvāya .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१३९।२३-१४०।४ रो इइइ,३१४ यावत्पुरादिषु लड्विधिः लुटः पूर्वविप्रतिषिद्धम् । यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन । यावत्पुरानिपातयोः लट् भवति इति अस्य अवकाशः । यावत् भुङ्क्ते । पुरा भुङ्क्ते । लुटः अवकाशः । श्वः कर्ता । श्वः अध्येता । इह उभयम् प्राप्नोति । यावत् श्वः भुङ्क्ते । पुरा श्वः भुङ्क्ते । लट् भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । अनद्यतने लुट् इति अत्र यावत्पुरानिपातयोः लट् इति अनुवर्तिष्यते ।
KA II,139.23-140.4 Ro III,314 yāvatpurādiṣu laḍvidhiḥ luṭaḥ pūrvavipratiṣiddham . yāvatpurādiṣu laḍvidhiḥ bhavati luṭaḥ pūrvavipratiṣedhena . yāvatpurānipātayoḥ laṭ bhavati iti asya avakāśaḥ . yāvat bhuṅkte . purā bhuṅkte . luṭaḥ avakāśaḥ . śvaḥ kartā . śvaḥ adhyetā . iha ubhayam prāpnoti . yāvat śvaḥ bhuṅkte . purā śvaḥ bhuṅkte . laṭ bhavati vipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . anadyatane luṭ iti atra yāvatpurānipātayoḥ laṭ iti anuvartiṣyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४०।६-८ रो इइइ,३१४ किमर्थम् इदम् उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायाम् इति एव सिद्धम् । अकिंवृत्तार्थः अयम् आरम्भः । यः भवताम् ओदनम् ददाति सः स्वर्गम् लोकम् गच्छति । यः भवताम् ओदनम् दास्यति सः स्वर्गम् लोकम् गमिष्यति ।
KA II,140.6-8 Ro III,314 kimartham idam ucyate na lipsyamānasiddhiḥ api lipsā eva tatra kiṃvṛtte lipsāyām iti eva siddham . akiṃvṛttārthaḥ ayam ārambhaḥ . yaḥ bhavatām odanam dadāti saḥ svargam lokam gacchati . yaḥ bhavatām odanam dāsyati saḥ svargam lokam gamiṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४०।१०-१४१।६ रो इइइ,३१४-३१६ किमर्थम् क्रियायाम् उपपदे क्रियार्थायाम् ण्वुल् विधीयते न अविशेषेण विहितः ण्वुल् सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति । ण्वुलि सकर्मकग्रहणम् चोदितम् । अकरमकार्थः अयम् आरम्भः । आसकः व्रजति । शायकः व्रजति । प्रत्याख्यातम् तत् न वा धातुमात्रात् दर्शनात् ण्वुलः इति । एवम् तर्हि तृजादिषु वर्तमानकालोपादानम् चोदितम् । अवर्तमानकालार्थः अयम् आरम्भः । तत् अपि प्रत्याख्यातम् न वा कालमात्रे दर्शनात् अन्येषाम् इति । इदम् तर्हि प्रयोजनम्। अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः । सः यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति । एवम् तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात् । इह मा भूत् : अङ्ग यजताम् । लप्स्यन्ते अस्य याजकाः । ये एनम् याजययिष्यन्ति इति । न एषः भविष्यत्कालः । कः तर्हि । भूतकालः । कथम् तर्हि भविष्यत्कालता गम्यते । धातुसम्बन्धे प्रत्ययाः इति । यः तर्हि न धातुसम्बन्धः । इमे अस्य याजकाः । इमे अस्य लावकाः इति । एषः अपि भूतकालः । कथम् तर्हि भविष्यत्कालता गम्यते । सम्बन्धात् । सः च तावत् तैः अयाजितः भवति । तस्य च तावत् तैः यवाः अलूनाः भवन्ति । उच्यते च । इदम् तर्हि प्रयोजनम् । अयम् क्रियायाम् उपप्दे क्रियार्थायाम् तुमुन् विधीयते । सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत । एतत् अपि न अस्ति प्रयोजनम् । भावे तुमुन् विधीयते कर्तरि ण्वुल् । तत्र कः प्रसङ्गः यत् भावे विहितः तुमुन् कर्तरि विहितम् ण्वुलम् बाधेत । लृट् तर्हि बाधेत । वासरूपेण भविष्यति । अतः उत्तरम् पठति । ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् तृजादिप्रतिषेधार्थम् । ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् क्रियते ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति । ण्वुल् अपि तृजादिः ।
KA II,140.10-141.6 Ro III,314-316 kimartham kriyāyām upapade kriyārthāyām ṇvul vidhīyate na aviśeṣeṇa vihitaḥ ṇvul saḥ kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyati . ṇvuli sakarmakagrahaṇam coditam . akaramakārthaḥ ayam ārambhaḥ . āsakaḥ vrajati . śāyakaḥ vrajati . pratyākhyātam tat na vā dhātumātrāt darśanāt ṇvulaḥ iti . evam tarhi tṛjādiṣu vartamānakālopādānam coditam . avartamānakālārthaḥ ayam ārambhaḥ . tat api pratyākhyātam na vā kālamātre darśanāt anyeṣām iti . idam tarhi prayojanam. akenoḥ bhaviṣyadādhamrṇyayoḥ iti atra ṣaṣṭhyāḥ pratiṣedhaḥ uktaḥ . saḥ yathā syāt . etat api na asti prayojanam . yaḥ eva asau aviśeṣavihitaḥ saḥ yadā bhaviṣyati bhaviṣyati tadā asya pratiṣedhaḥ bhaviṣyati . evam tarhi bhaviṣyadadhikāravihitasya pratiṣedhaḥ yathā syāt . iha mā bhūt : aṅga yajatām . lapsyante asya yājakāḥ . ye enam yājayayiṣyanti iti . na eṣaḥ bhaviṣyatkālaḥ . kaḥ tarhi . bhūtakālaḥ . katham tarhi bhaviṣyatkālatā gamyate . dhātusambandhe pratyayāḥ iti . yaḥ tarhi na dhātusambandhaḥ . ime asya yājakāḥ . ime asya lāvakāḥ iti . eṣaḥ api bhūtakālaḥ . katham tarhi bhaviṣyatkālatā gamyate . sambandhāt . saḥ ca tāvat taiḥ ayājitaḥ bhavati . tasya ca tāvat taiḥ yavāḥ alūnāḥ bhavanti . ucyate ca . idam tarhi prayojanam . ayam kriyāyām upapde kriyārthāyām tumun vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta . etat api na asti prayojanam . bhāve tumun vidhīyate kartari ṇvul . tatra kaḥ prasaṅgaḥ yat bhāve vihitaḥ tumun kartari vihitam ṇvulam bādheta . lṛṭ tarhi bādheta . vāsarūpeṇa bhaviṣyati . ataḥ uttaram paṭhati . ṇvulaḥ kriyārthopapadasya punarvidhānam tṛjādipratiṣedhārtham . ṇvulaḥ kriyārthopapadasya punarvidhānam kriyate jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ kriyāyām upapade kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . ṇvul api tṛjādiḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४१।८-२० रो इइइ,३१६-३१७ किमर्थम् इदम् उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति । भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थम् । भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थः अयम् आरम्भः । इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति । भाववचनाः च अपि तृजादयः । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । यथाविहिताः इति तु वक्तव्यम् । किम् प्रयोजनम् । इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् यथा स्युः । व्यतिकरः मा भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धम् । सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् वाचकाः यथा स्युः इति । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् भवन्ति ततः अमी वाचकाः कृताः स्युः । अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवाचकाः कृताः स्युः ।
KA II,141.8-20 Ro III,316-317 kimartham idam ucyate na aviśeṣeṇa bhāve pratyayāḥ ye vihitāḥ te kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyanti . bhāvavacanānām yathāvihitānām pratipadavidhyartham . bhāvavacanānām yathāvihitānām pratipadavidhyarthaḥ ayam ārambhaḥ . idānīm eva hi uktam kriyāyām upapde kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . bhāvavacanāḥ ca api tṛjādayaḥ . asti prayojanam etat . kim tarhi iti . yathāvihitāḥ iti tu vaktavyam . kim prayojanam . iha yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa kriyāyām upapde kriyārthāyām yathā syuḥ . vyatikaraḥ mā bhūt iti . tat tarhi vaktavyam . na vaktavyam . iha bhāve pratyayāḥ bhavanti iti iyaṭa siddham . saḥ ayam evam siddhe sati yat vacanagrahaṇam karoti tasya etat prayojanam vācakāḥ yathā syuḥ iti . yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa kriyāyām upapde kriyārthāyām bhavanti tataḥ amī vācakāḥ kṛtāḥ syuḥ . atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amīvācakāḥ kṛtāḥ syuḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४१।२२-१४२।१३ रो इइइ,३१७-३१८ किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति । अणः पुनर्वचनम् अपवादविषये अनिवृत्त्यर्थम् । अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् । गोदायः व्रजति । कम्बलदायः व्रजति इति । किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् । इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति । अण् च अपि तृजादिः । एवम् तर्हि उभयम् अनेन क्रियते । अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् । कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । कर्मग्रहणसामर्थ्यात् । कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः । वचनग्रहणम् प्रकृतम् अनुवर्तते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । अपर्यायेण इति तु वक्तव्यम् । कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । चेन सन्नियोगः करिष्यते । अण् कर्मणि च । किम् च अन्यत् । क्रियायाम् उपपदे क्रियार्थायाम् इति । एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति । चेन एव सन्नियोगः करिष्यते । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति ।
KA II,141.22-142.13 Ro III,317-318 kimartham idam ucyate na aviśeṣeṇa karmaṇi aṇ vihitaḥ saḥ kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyati . aṇaḥ punarvacanam apavādaviṣaye anivṛttyartham . aṇaḥ punarvacanam kriyate apavādaviṣaye anivṛttiḥ yathā syāt . godāyaḥ vrajati . kambaladāyaḥ vrajati iti . kim ucyate apavādaviṣaye anivṛttiḥ yathā syāt iti na punaḥ utsargaviṣaye pratipadavidhyartham syāt . idānīm eva hi uktam kriyāyām upapde kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . aṇ ca api tṛjādiḥ . evam tarhi ubhayam anena kriyate . apavādaviṣaye cānivṛttiḥ utsargaviṣaye pratipadavidhānam . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . karmagrahaṇasāmarthyāt . katham punaḥ antareṇa karmagrahaṇam karmaṇi aṇ labhyaḥ . vacanagrahaṇam prakṛtam anuvartate . asti prayojanam etat . kim tarhi iti . aparyāyeṇa iti tu vaktavyam . kadā cit hi karmaṇi syāt kadā cit kriyāyām upapade kriyārthāyām iti . tat tarhi vaktavyam . na vaktavyam . cena sanniyogaḥ kariṣyate . aṇ karmaṇi ca . kim ca anyat . kriyāyām upapade kriyārthāyām iti . evam api pratyekam upapadasañjñā na prāpnoti . cena eva sanniyogaḥ kariṣyate . pratyekam vākyaparisamāptiḥ dṛṣṭā iti pratyekam upapadasañjña bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४२।१५-१४३।५ रो इइइ,३१८-३१९ शेषवचनम् किमर्थम् । लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् । लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविध्यर्थम् । प्रतिपदविधिः यथा स्यात् । अविशेषेण विधाने लृटः अभावः प्रतिषिद्धत्वात् । अविशेषेण विधाने लृटः अभावः स्यात् । करिष्यामि इति व्रजति । हरिष्यामि इति व्रजति इति । किम् कारणम् । प्रतिषिद्धत्वात् । इदानीम् एव हि उक्तम् क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति । लृट् च अपि तृजादिः । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात् लृट् निर्भज्यते । किम् कारणम् । अक्रियार्थोपपदत्वात् । शेषे इति उच्यते । शेषः च कः । यत् अन्यत् क्रियायाः क्रियार्थायाः । एवम् तर्हि लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् । लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविधिः यथा स्यात् । लृट् शेषे च । करिष्यति हरिष्यति इति । क्व च । क्रियायाम् उपपदे क्रियार्थायाम् इति । सः तर्हि चकारः कर्तव्यः । न कर्तव्यः । इह लृट् भवति इति इयता सिद्धम् । सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत । सति च योगाङ्गे योगविभागः करिष्यते । लृट् भवति क्रियायाम् उपपदे क्रियार्थायाम् इति । ततः शेषे । शेषे च लृट् भवति इति ।
KA II,142.15-143.5 Ro III,318-319 śeṣavacanam kimartham . lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham . lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhyartham . pratipadavidhiḥ yathā syāt . aviśeṣeṇa vidhāne lṛṭaḥ abhāvaḥ pratiṣiddhatvāt . aviśeṣeṇa vidhāne lṛṭaḥ abhāvaḥ syāt . kariṣyāmi iti vrajati . hariṣyāmi iti vrajati iti . kim kāraṇam . pratiṣiddhatvāt . idānīm eva hi uktam kriyāyām upapade kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti . lṛṭ ca api tṛjādiḥ . asti prayojanam etat . kim tarhi iti . sādhīyaḥ tu khalu śeṣagrahaṇena kriyārthopapadāt lṛṭ nirbhajyate . kim kāraṇam . akriyārthopapadatvāt . śeṣe iti ucyate . śeṣaḥ ca kaḥ . yat anyat kriyāyāḥ kriyārthāyāḥ . evam tarhi lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham . lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhiḥ yathā syāt . lṛṭ śeṣe ca . kariṣyati hariṣyati iti . kva ca . kriyāyām upapade kriyārthāyām iti . saḥ tarhi cakāraḥ kartavyaḥ . na kartavyaḥ . iha lṛṭ bhavati iti iyatā siddham . saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti tasya etat prayojanam yogāṅgam yathā upajāyeta . sati ca yogāṅge yogavibhāgaḥ kariṣyate . lṛṭ bhavati kriyāyām upapade kriyārthāyām iti . tataḥ śeṣe . śeṣe ca lṛṭ bhavati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४३।७-१० रो इइइ,३२० सद्विधिः नित्यम् अप्रथमासमानाधिकरणे । सद्विधिः अप्रथमासमानाधिकरणे नित्यम् इति वक्तव्यम् । पक्ष्यन्तम् पश्य । पक्ष्यमाणम् पश्य । क्व तर्हि इदानीम् विभाषा । प्रथमासमानाधिकरणे । पाक्ष्यन् पक्ष्यति । पक्ष्यमाणः पक्ष्यते ।
KA II,143.7-10 Ro III,320 sadvidhiḥ nityam aprathamāsamānādhikaraṇe . sadvidhiḥ aprathamāsamānādhikaraṇe nityam iti vaktavyam . pakṣyantam paśya . pakṣyamāṇam paśya . kva tarhi idānīm vibhāṣā . prathamāsamānādhikaraṇe . pākṣyan pakṣyati . pakṣyamāṇaḥ pakṣyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४३।१२-१६ रो इइइ,३२० योगविभागः कर्तव्यः । अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः । श्वः अग्नीन् आध्यास्यमानेन । श्वः सोमेन यक्ष्यमाणेन । ततः लुट् । लुट् भवति अनद्यतने । श्वः कर्ता । श्वः अध्येता । केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते । एतत् एव ज्ञापयति भवति अनद्यतने लृट् इति यत् अयम् अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति । एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।
KA II,143.12-16 Ro III,320 yogavibhāgaḥ kartavyaḥ . anadyatane lṛṭaḥ satsñjñau bhavataḥ . śvaḥ agnīn ādhyāsyamānena . śvaḥ somena yakṣyamāṇena . tataḥ luṭ . luṭ bhavati anadyatane . śvaḥ kartā . śvaḥ adhyetā . kena vihitasya anadyatane lṛṭaḥ satsañjñau ucyete . etat eva jñāpayati bhavati anadyatane lṛṭ iti yat ayam anadyatane lṛṭaḥ satsñjñau śāsti . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam bhaviṣyati iti anadyatane upasaṅkhyānam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४३।१७-२३ रो इइइ,३२०-३२१ परिदेवने श्वस्तनीभविष्यन्त्यर्थे । परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यम् । इयम् नु कदा गन्ता या एवम् पादौ निदधाति । अयम् नु कदा अध्येता यः एवम् अनभियुक्तः इति । कालप्रकर्षात् तु उपमानम् । कालप्रकर्षात् तु उपमानम् । गन्ता इव इयम् गन्ता । न इयम् गमिष्यति । अध्येता इव अयम् अध्येता । न वै तिङन्तेन उपमानम् अस्ति । एवम् तर्हि अनद्यतने इव अनद्यतने इति ।
KA II,143.17-23 Ro III,320-321 paridevane śvastanībhaviṣyantyarthe . paridevane śvastanībhaviṣyantyāḥ arthe iti vaktavyam . iyam nu kadā gantā yā evam pādau nidadhāti . ayam nu kadā adhyetā yaḥ evam anabhiyuktaḥ iti . kālaprakarṣāt tu upamānam . kālaprakarṣāt tu upamānam . gantā iva iyam gantā . na iyam gamiṣyati . adhyetā iva ayam adhyetā . na vai tiṅantena upamānam asti . evam tarhi anadyatane iva anadyatane iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४४।२-३ रो इइइ,३२१ स्पृशः उपतापे । स्पृशः उपतापे इति वक्तव्यम् । इह मा भूत् । कम्बलस्पर्शः इति ।
KA II,144.2-3 Ro III,321 spṛśaḥ upatāpe . spṛśaḥ upatāpe iti vaktavyam . iha mā bhūt . kambalasparśaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४४।५-६ रो इइइ,३२१ वाधिमत्स्यबलेषु इति वक्तव्यम् । अतीसारः व्याधिः । विसारः मत्स्यः । बले । शालसारः खदिरसारः ।
KA II,144.5-6 Ro III,321 vādhimatsyabaleṣu iti vaktavyam . atīsāraḥ vyādhiḥ . visāraḥ matsyaḥ . bale . śālasāraḥ khadirasāraḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४४।८-१४५।३ रो इइइ,३२३-३२४ भावे सर्वलिङ्गनिर्देशः । भावे सर्वलिङ्गनिर्देशः कर्तव्यः । भूतौ भवने भावे इति । किम् प्रयोजनम् । सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति । किम् पुनः कारणम् न सिध्यति । पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनेन च । तेन् पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः । स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः । न अत्र निर्देशः तन्त्रम् । कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् । तत्कारी च भवान् तद्द्वेषी च । नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च । अवश्यम् कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः । तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् । सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति । तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् । सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति । एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । न हि अत्र निर्देशः तन्त्रम् । कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः । अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः । यत् च अत्र पचतेः भवतिः भवति न तत् भवतेः पचतिः भवति । यत् च भवतेः पचतिः भवति न तत् पचतेः भवतिः भवति । किम् च पचतेः भवतिः भवति । सामान्यम् । किम् च भवतेः पचतिः भवति । विशेषः । तत् यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयम् गत्वा आह । उपाध्यायम् भवान् अभिवादयताम् इति । सः गत्वा मातुलम् अभिवादयते । तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यम् गत्वा आह । मातुलम् भवान् अभिवादयताम् इति । सः गत्वा उपाध्यायम् अभिवादयते । एवम् इह अपि पचतेः भवतौ यत् तत् निर्दिश्यते ।
KA II,144.8-145.3 Ro III,323-324 bhāve sarvaliṅganirdeśaḥ . bhāve sarvaliṅganirdeśaḥ kartavyaḥ . bhūtau bhavane bhāve iti . kim prayojanam . sarvaliṅge bhāṅe ete pratyayāḥ yathā syuḥ iti . kim punaḥ kāraṇam na sidhyati . puṃliṅgena ayam nirdeśaḥ kriyate ekavacanena ca . ten puṃliṅge eva ekavacane ca ete prratyayāḥ syuḥ . strīnapuṃsakayoḥ dvivacanabahuvacnayoḥ ca na syuḥ . na atra nirdeśaḥ tantram . katham punaḥ tena eva ca nāma nirdeśaḥ kriyate tat ca atantram syāt . tatkārī ca bhavān taddveṣī ca . nāntarīyakatvāt atra puṃliṅgena nirdeśaḥ kriyate ekavacanena ca . avaśyam kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ . tat yathā kaḥ cit annārthī śālikalāpam satuṣam sapalālam āharati nāntarīyakatvāt . saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . tathā kaḥ cit māṃsārthī matsyān saśakalān sakaṇṭakān āharati nāntarīyakatvāt . saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . evam iha api nāntarīyakatvāt puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca . na hi atra nirdeśaḥ tantram . kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ . atha vā kṛbhvastayaḥ kriyāsāmānyavācinaḥ kriyāviśeṣavācinaḥ pacādayaḥ . yat ca atra pacateḥ bhavatiḥ bhavati na tat bhavateḥ pacatiḥ bhavati . yat ca bhavateḥ pacatiḥ bhavati na tat pacateḥ bhavatiḥ bhavati . kim ca pacateḥ bhavatiḥ bhavati . sāmānyam . kim ca bhavateḥ pacatiḥ bhavati . viśeṣaḥ . tat yathā upādhyāyasya śiṣyaḥ mātulasya bhāgineyam gatvā āha . upādhyāyam bhavān abhivādayatām iti . saḥ gatvā mātulam abhivādayate . tathā mātulasya bhāgineyaḥ upādhyāyasya śiṣyam gatvā āha . mātulam bhavān abhivādayatām iti . saḥ gatvā upādhyāyam abhivādayate . evam iha api pacateḥ bhavatau yat tat nirdiśyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४५।५-१४६।७ रो इइइ,३२५-३२७ कारकग्रहणम् किमर्थम् । कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् । कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति । तत् यथा । गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति । एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः । स्वार्थे मा भूवन् कारके यथा स्युः इति एवमर्थम् इदम् उच्यते । न एतत् अस्ति प्रयोजनम् । विहितः प्रत्ययः स्वार्थे भावे घञ् इति । तेन अत्रिप्रसक्तम् इति कृत्वा नियमार्थः अयम् विज्ञायेत । अकर्तरि सञ्ज्ञायाम् एव इति । अस्ति च इदानीम् कः चित् सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात् । अस्ति इति आह : आवाहः , विवाहः इति । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । अकर्तरि च कारके सञ्ज्ञायाम् घञ् विधेयः । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति । ननु च उक्तम् विहितः प्रत्ययः स्वार्थे भावे घञ् इति इति । अन्यः सः भावः बाह्यः प्रकृत्यर्थात् । अनेन इदानीम् आभ्यन्तरे भावे स्यात् । कः पुनः एतयोः भावयोः विशेषः । उक्तः भावभेदः भाष्ये । एतत् अपि न अस्ति प्रयोजनम् । नञिवयुक्तम् अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्तम् इवयुक्तम् च अस्न्यस्मिन् तत्सदृशे कार्यम् विज्ञयते । तथा हि अर्थः गम्यते । तत् यथा । अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् पुरुषम् आनयति । न असौ लोष्टम् आनीय कृती भवति । एवम् इह अपि अकर्तरि इति कर्तृप्रतिषेधात् अन्यस्मिन् अकर्तरि कर्तृसदृशे कार्यम् विज्ञस्यते । किम् च अन्यत् अकर्तृ कर्तृसदृशम् । कारकम् । उत्तरार्थम् तर्हि कारकग्रहणम् कर्तव्यम् । परिमाणाख्यायाम् सर्वेभ्यः कारके यथा स्यात् । इह मा भूत् । एका तिलोच्छ्रितिः । देवे सृती इति । घञनुक्रमणम् अजब्विषये अवचने हि स्त्रीप्रत्ययानाम् अपि अवादविज्ञानम् इति वक्ष्यति । तत् न वक्तव्यम् भवति । एतत् अपि न अस्ति प्रयोजनम् । अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते । सञ्ज्ञाग्रहणानर्थक्यम् च सर्वत्र घञः दर्शनात् । सञ्ज्ञाग्रहणम् च अनर्थकम् । किम् कारणम् । सर्वत्र घञः दर्शनात् । असञ्ज्ञायाम् अपि हि घञ् दृश्यते । कः भवता दायः दत्तः । कः भवता लाभः लब्धः इति । यदि सञ्ज्ञाग्रहणम् न क्रियते अतिप्रसङ्गः भवति । कृतः कटः इति अत्र कारः कट इति प्राप्नोति । अतिप्रसङ्गः इति चेत् अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् । अतिप्रसङ्गः इति चेत् तत् न । किम् कारणम् । अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् । अभिधानलक्षणाः कृत्तद्धितसमादाः । अनभिधानात् न भविष्यन्ति ।
KA II,145.5-146.7 Ro III,325-327 kārakagrahaṇam kimartham . kārakagrahaṇam anādeśe svārthavijñānāt . kārakagrahaṇam anādeśe svārthavijñānāt . anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti . tat yathā . guptijkidbhyaḥ san yāvādibhyaḥ kan iti . evam ime api pratyayāḥ svārthe syuḥ . svārthe mā bhūvan kārake yathā syuḥ iti evamartham idam ucyate . na etat asti prayojanam . vihitaḥ pratyayaḥ svārthe bhāve ghañ iti . tena atriprasaktam iti kṛtvā niyamārthaḥ ayam vijñāyeta . akartari sañjñāyām eva iti . asti ca idānīm kaḥ cit sañjñābhūtaḥ bhāvaḥ yadarthaḥ vidhiḥ syāt . asti iti āha : āvāhaḥ , vivāhaḥ iti . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . akartari ca kārake sañjñāyām ghañ vidheyaḥ . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . tat eva tarhi prayojanam svārthe mā bhūvan iti . nanu ca uktam vihitaḥ pratyayaḥ svārthe bhāve ghañ iti iti . anyaḥ saḥ bhāvaḥ bāhyaḥ prakṛtyarthāt . anena idānīm ābhyantare bhāve syāt . kaḥ punaḥ etayoḥ bhāvayoḥ viśeṣaḥ . uktaḥ bhāvabhedaḥ bhāṣye . etat api na asti prayojanam . nañivayuktam anyasadṛśādhikaraṇe . tathā hi arthagatiḥ . nañyuktam ivayuktam ca asnyasmin tatsadṛśe kāryam vijñayate . tathā hi arthaḥ gamyate . tat yathā . abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam puruṣam ānayati . na asau loṣṭam ānīya kṛtī bhavati . evam iha api akartari iti kartṛpratiṣedhāt anyasmin akartari kartṛsadṛśe kāryam vijñasyate . kim ca anyat akartṛ kartṛsadṛśam . kārakam . uttarārtham tarhi kārakagrahaṇam kartavyam . parimāṇākhyāyām sarvebhyaḥ kārake yathā syāt . iha mā bhūt . ekā tilocchritiḥ . deve sṛtī iti . ghañanukramaṇam ajabviṣaye avacane hi strīpratyayānām api avādavijñānam iti vakṣyati . tat na vaktavyam bhavati . etat api na asti prayojanam . atra api akartari iti eva anuvartiṣyate . sañjñāgrahaṇānarthakyam ca sarvatra ghañaḥ darśanāt . sañjñāgrahaṇam ca anarthakam . kim kāraṇam . sarvatra ghañaḥ darśanāt . asañjñāyām api hi ghañ dṛśyate . kaḥ bhavatā dāyaḥ dattaḥ . kaḥ bhavatā lābhaḥ labdhaḥ iti . yadi sañjñāgrahaṇam na kriyate atiprasaṅgaḥ bhavati . kṛtaḥ kaṭaḥ iti atra kāraḥ kaṭa iti prāpnoti . atiprasaṅgaḥ iti cet abhidhānalakṣaṇatvāt pratyayasya siddham . atiprasaṅgaḥ iti cet tat na . kim kāraṇam . abhidhānalakṣaṇatvāt pratyayasya siddham . abhidhānalakṣaṇāḥ kṛttaddhitasamādāḥ . anabhidhānāt na bhaviṣyanti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४६।१४७।६ रो इइइ,३२७-३२९ सर्वग्रहणम् किमर्थम् । सर्वेभ्यः धातुभ्यः घञ् यथा स्यात् अजपोः अपि विषये । एकः तण्डुलनिश्चायः । द्वौ शूर्पनिष्पावौ । सर्वग्रहणम् अनर्थकम् परिमाणाख्यायम् इति सिद्धत्वात् । सर्वग्रहणम् अनर्थकम् । किम् कारणम् । परिमाणाख्यायम् इति सिद्धत्वात् । परिमाणाख्यायम् इति एव घञ् सिद्धः अजपोः अपि विषये । न अर्थः सर्वग्रहणेन । अस्ति अन्यत् एतस्य वचने प्रयोजनम् । किम् । एकः पाकः द्वौ पाकौ त्रयः पाकाः इति । पूर्वेण अपि एतत् सिद्धम् । न सिध्यति । सञ्ज्ञायाम् इति पूर्वः योगः । न च एषा सञ्ज्ञा । प्रत्याख्यायते सञ्ज्ञाग्रहणम् । अथ अपि क्रियते एवम् अपि न दोषः । अजौ अपि सञ्ज्ञायाम् एव । यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यम् । उत्तरार्थम् तर्हि । इङः च सर्वेभ्यः अपि यथा स्यात् । ननु च अयम् इङ् एकः एव वण्टरण्डाकल्पः । सर्वेषु साधनेषु यथा स्यात् । उपेत्य अधीयते तस्मात् अध्यायः । अधीयते तस्मिन् अध्यायः । अध्यायन्यायायोद्यावसंहारावायाः च इति एतत् निपातनम् न कर्तव्यम् भवति । एतत् अपि न अस्ति प्रयोजनम् । क्रियते न्यासे एव । उत्तराऋथम् एव तर्हि वक्तव्यम् । कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यः यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति एतत् । कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । पृथक् ग्रहणम् बाधकबाधनार्थम् । व्यावचोरीव्यावचर्च्यर्थम् । तत्र व्यतीक्षादिषु दोषः । सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च इति । उत्तरार्थम् तर्हि अभिविधौ भावे इनुण् सर्वेभ्यः यथा स्यात् । सांराविणम् । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति एतत् । अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् । पृथक् ग्रहणम् बाधकबाधार्थम् । न तु ल्युट् इति । इदम् तर्हि प्रयोजनम् । प्रकृत्याश्रयः यः अपवादः तस्य बाधनम् यथा स्यात् । अर्थाश्रयः यः अपवादः तस्य बाधनम् मा भूत् । एका तिलोच्छ्रितिः द्वे सृती इति । घञनुक्रमणम् अजब्विषये । अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् इति चोदयिष्यति । तत् न वक्तव्यम् भवति ।
KA II,146.147.6 Ro III,327-329 sarvagrahaṇam kimartham . sarvebhyaḥ dhātubhyaḥ ghañ yathā syāt ajapoḥ api viṣaye . ekaḥ taṇḍulaniścāyaḥ . dvau śūrpaniṣpāvau . sarvagrahaṇam anarthakam parimāṇākhyāyam iti siddhatvāt . sarvagrahaṇam anarthakam . kim kāraṇam . parimāṇākhyāyam iti siddhatvāt . parimāṇākhyāyam iti eva ghañ siddhaḥ ajapoḥ api viṣaye . na arthaḥ sarvagrahaṇena . asti anyat etasya vacane prayojanam . kim . ekaḥ pākaḥ dvau pākau trayaḥ pākāḥ iti . pūrveṇa api etat siddham . na sidhyati . sañjñāyām iti pūrvaḥ yogaḥ . na ca eṣā sañjñā . pratyākhyāyate sañjñāgrahaṇam . atha api kriyate evam api na doṣaḥ . ajau api sañjñāyām eva . yathājātīyakaḥ utsargaḥ tathājātīyakena apavādena bhavitavyam . uttarārtham tarhi . iṅaḥ ca sarvebhyaḥ api yathā syāt . nanu ca ayam iṅ ekaḥ eva vaṇṭaraṇḍākalpaḥ . sarveṣu sādhaneṣu yathā syāt . upetya adhīyate tasmāt adhyāyaḥ . adhīyate tasmin adhyāyaḥ . adhyāyanyāyāyodyāvasaṃhārāvāyāḥ ca iti etat nipātanam na kartavyam bhavati . etat api na asti prayojanam . kriyate nyāse eva . uttarāṛtham eva tarhi vaktavyam . karmavyatihāre ṇac striyām iti sarvebhyaḥ yathā syāt . etat api na asti prayojanam . vakṣyati etat . karmavyatihāre strīgrahaṇam vyatipākārtham . pṛthak grahaṇam bādhakabādhanārtham . vyāvacorīvyāvacarcyartham . tatra vyatīkṣādiṣu doṣaḥ . siddham tu prakṛte strīgrahaṇe ṇajgrahaṇam ṇijgrahaṇam ca iti . uttarārtham tarhi abhividhau bhāve inuṇ sarvebhyaḥ yathā syāt . sāṃrāviṇam . etat api na asti prayojanam . vakṣyati etat . abhividhau bhāvagrahaṇam napuṃsake ktādinivṛttyartham . pṛthak grahaṇam bādhakabādhārtham . na tu lyuṭ iti . idam tarhi prayojanam . prakṛtyāśrayaḥ yaḥ apavādaḥ tasya bādhanam yathā syāt . arthāśrayaḥ yaḥ apavādaḥ tasya bādhanam mā bhūt . ekā tilocchritiḥ dve sṛtī iti . ghañanukramaṇam ajabviṣaye . avacane hi strīpratyayānām api apavādavijñānam iti codayiṣyati . tat na vaktavyam bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४७।७-१६ रो इइइ,३२९-३३० घञनुक्रमणम् अजब्विषये । घञनुक्रमणम् अजब्विषये इति वक्तव्यम् । अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् । अनुच्यमाने हि एतस्मिन् स्त्रीप्रत्ययानाम् अपि अपवादः अयम् विज्ञयेत । एका तिलोच्छ्रितिः द्वे सृती इति । दारजारौ कर्तरि णिलुक् च । दारजारौ कर्तरि वक्तव्यौ णिलुक् च वक्तव्यः । दारयन्ति इति दाराः । जरयन्ति इति जाराः । करणे वा । करणे वा वक्तव्यौ । दीर्यते तैः दाराः । जीर्यन्ति तैः जाराः ।
KA II,147.7-16 Ro III,329-330 ghañanukramaṇam ajabviṣaye . ghañanukramaṇam ajabviṣaye iti vaktavyam . avacane hi strīpratyayānām api apavādavijñānam . anucyamāne hi etasmin strīpratyayānām api apavādaḥ ayam vijñayeta . ekā tilocchritiḥ dve sṛtī iti . dārajārau kartari ṇiluk ca . dārajārau kartari vaktavyau ṇiluk ca vaktavyaḥ . dārayanti iti dārāḥ . jarayanti iti jārāḥ . karaṇe vā . karaṇe vā vaktavyau . dīryate taiḥ dārāḥ . jīryanti taiḥ jārāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४७।१८-२३ रो इइइ,३३० इङः च इति अपादाने स्त्रियाम् उपसङ्ख्यानम् तदन्तात् च वा ङीष् । इङः च इति अत्र अपादाने स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् तदन्तात् च वा ङीष् वक्तव्यः । उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया । शॄ वायुवर्णनिवृतेषु । शॄ इति एतस्मात् वायुवर्णनिवृतेषु घञ् वक्तव्यः । शारः वायुः । शारः वर्णः । गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः ।
KA II,147.18-23 Ro III,330 iṅaḥ ca iti apādāne striyām upasaṅkhyānam tadantāt ca vā ṅīṣ . iṅaḥ ca iti atra apādāne striyām upasaṅkhyānam kartavyam tadantāt ca vā ṅīṣ vaktavyaḥ . upetya adhīyate tasyāḥ uapādhyāyī upādhyāyā . śṝ vāyuvarṇanivṛteṣu . śṝ iti etasmāt vāyuvarṇanivṛteṣu ghañ vaktavyaḥ . śāraḥ vāyuḥ . śāraḥ varṇaḥ . gauḥ iva akṛtanīśāraḥ prāyeṇa śiśire kṛśaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४८।२-९ रो इइइ,३३१ समि मुष्टौ इति अनर्थकम् वचनम् परिमाणाख्यायाम् इति सिद्धत्वात् । समि मुष्टौ इति एतत् वचनम् अनर्थकम् । किम् कारणम् । परिमाणाख्यायाम् इति सिद्धत्वात् । परिमाणाख्यायाम् इति एव सिद्धम् । अपरिमाणार्थम् तु । अपरिमाणार्थम् तु अयम् आरम्भः । मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति । उद्ग्राभिनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः । उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः । उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् ।
KA II,148.2-9 Ro III,331 sami muṣṭau iti anarthakam vacanam parimāṇākhyāyām iti siddhatvāt . sami muṣṭau iti etat vacanam anarthakam . kim kāraṇam . parimāṇākhyāyām iti siddhatvāt . parimāṇākhyāyām iti eva siddham . aparimāṇārtham tu . aparimāṇārtham tu ayam ārambhaḥ . mallasya saṅgrāhaḥ muṣṭikasya saṅgāhaḥ iti . udgrābhinigrābhau ca chandasi srugudyamananipātanayoḥ . udgrābhaḥ nibrābhaḥ iti imau śabdau chandasi vaktavyau srugudyamananipātanayoḥ . udgrābham ca nigrābham ca brahma devāḥ avīvṛdhan .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४८।११-१४९।३ रो इइइ,३३१-३३२ स्त्रीग्रहणम् किमर्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् । इह मा भूत् । व्यतिपाकः वर्तते इति । अथ किमर्थम् पृथक् ग्रहणम् । पृथक् ग्रहणम् बाधकबाधनार्थम् । पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् । ये तस्य बाधकाः तद्बाधनार्थम् । किम् प्रयोजनम् । व्यावचोरीव्यावचर्च्यर्थम् । व्यावचोरी वर्तते । व्यावचर्ची वर्तते । तत्र व्यतीक्षादिषु दोषः । तत्र व्यतीक्षादिषु दोषः भवति । व्यतीक्षा वर्तते । व्यतीहा वर्तते । सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च । सिद्धम् एतत् । कथम् । प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः । स्त्रियाम् क्तिन् । ततः कर्मव्यतिहारे णच् । ततः णिचः ।
KA II,148.11-149.3 Ro III,331-332 strīgrahaṇam kimartham . karmavyatihāre strīgrahaṇam vyatipākārtham . karmavyatihāre strīgrahaṇam kriyate vyatipākārtham . iha mā bhūt . vyatipākaḥ vartate iti . atha kimartham pṛthak grahaṇam . pṛthak grahaṇam bādhakabādhanārtham . pṛthak grahaṇam kriyate bādhakabādhanārtham . ye tasya bādhakāḥ tadbādhanārtham . kim prayojanam . vyāvacorīvyāvacarcyartham . vyāvacorī vartate . vyāvacarcī vartate . tatra vyatīkṣādiṣu doṣaḥ . tatra vyatīkṣādiṣu doṣaḥ bhavati . vyatīkṣā vartate . vyatīhā vartate . siddham tu prakṛte strīgrahaṇe ṇajgrahaṇam ṇijgrahaṇam ca . siddham etat . katham . prakṛte eva strīgrahaṇe ayam yogaḥ kartavyaḥ . striyām ktin . tataḥ karmavyatihāre ṇac . tataḥ ṇicaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४९।५-१२ रो इइइ,३३२-३३३ भावग्रहणम् किमर्थम् । अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् । अभिविधौ भावग्रहणम् क्रियते नपुंसके क्तादिनिवृत्त्यर्थम् । नपुंसकलिङ्गे क्तादयः मा भूवन् इति । अथ किमर्थम् पृथक् ग्रहणम् । पृथक् ग्रहणम् बाधकबाधार्थम् । पृथक् ग्रहणम् क्रियते बाधकबाधार्थम् : ये तस्य बाधकाः तद्बाधनार्थम् । न तु ल्युटः । ल्युटः तु बाधनम् न इष्यते । सङ्कूटनम् इति एव भवति ।
KA II,149.5-12 Ro III,332-333 bhāvagrahaṇam kimartham . abhividhau bhāvagrahaṇam napuṃsake ktādinivṛttyartham . abhividhau bhāvagrahaṇam kriyate napuṃsake ktādinivṛttyartham . napuṃsakaliṅge ktādayaḥ mā bhūvan iti . atha kimartham pṛthak grahaṇam . pṛthak grahaṇam bādhakabādhārtham . pṛthak grahaṇam kriyate bādhakabādhārtham : ye tasya bādhakāḥ tadbādhanārtham . na tu lyuṭaḥ . lyuṭaḥ tu bādhanam na iṣyate . saṅkūṭanam iti eva bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१४९।१४-१५०।२ रो इइइ,३३३-३३४ अज्विधौ भयस्य उपसङ्ख्यानम् । अज्विधौ भयस्य उपसङ्ख्यानम् कर्तव्यम् । भयम् । अत्यल्पम् इदम् उच्यते : भयस्य इति । भयादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : भयम् वर्षम् । किम् प्रयोजनम् । नपुंसके क्तादिनिवृत्त्यर्थम् । नपुंसकलिङ्गे क्तादयः मा भूवन् इति । कल्पादिभ्यः च प्रतिषेधः । कल्पादिभ्यः च प्रतिषेधः वक्तव्यः । कल्पः अर्थः मन्त्रः । जवसवौ छन्दसि । जवसवौ छन्दसि वक्तव्यौ । ऊर्वोः अस्तु मे जवः । अयम् मे पञ्चौदनः सवः ।
KA II,149.14-150.2 Ro III,333-334 ajvidhau bhayasya upasaṅkhyānam . ajvidhau bhayasya upasaṅkhyānam kartavyam . bhayam . atyalpam idam ucyate : bhayasya iti . bhayādīnām iti vaktavyam iha api yathā syāt : bhayam varṣam . kim prayojanam . napuṃsake ktādinivṛttyartham . napuṃsakaliṅge ktādayaḥ mā bhūvan iti . kalpādibhyaḥ ca pratiṣedhaḥ . kalpādibhyaḥ ca pratiṣedhaḥ vaktavyaḥ . kalpaḥ arthaḥ mantraḥ . javasavau chandasi . javasavau chandasi vaktavyau . ūrvoḥ astu me javaḥ . ayam me pañcaudanaḥ savaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५०।४-१६ रो इइइ,३३४-३३५ किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् । न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा । तत् एव रूपम् सः एव स्वरः । न सिध्यति । हस्तादाने चेः घञ् प्राप्तः । तद्बाधनार्थम् । अतः उत्तरम् पठति । अब्विधौ निश्चिग्रहणम् अनर्थकम् स्तेयस्य घञ्विधौ प्रतिषेधात् । अब्विधौ निश्चिग्रहणम् अनर्थकम् । किम् कारणम् । स्तेयस्य घञ्विधौ प्रतिषेधात् । स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते । निष्पूर्वः चिनोतिः स्तेये वर्तते । अस्तेयार्थम् तर्हि इदम् वक्तव्यम् । निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् । अस्तेयार्थम् इति चेत् न अनिष्टत्वात् । अस्तेयार्थम् इति चेत् तत् न । किम् कारणम् । अनिष्टत्वात् । न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते । किम् तर्हि घञ् एव इष्यते । एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । निश्चयः । एषः स्वरः सिद्धः भवति ।
KA II,150.4-16 Ro III,334-335 kimartham niṣpūrvāt cinoteḥ ap vidhīyate na acā eva siddham . na hi asti viśeṣaḥ niṣpūrvāt cinoteḥ apaḥ vā acaḥ vā . tat eva rūpam saḥ eva svaraḥ . na sidhyati . hastādāne ceḥ ghañ prāptaḥ . tadbādhanārtham . ataḥ uttaram paṭhati . abvidhau niścigrahaṇam anarthakam steyasya ghañvidhau pratiṣedhāt . abvidhau niścigrahaṇam anarthakam . kim kāraṇam . steyasya ghañvidhau pratiṣedhāt . steyasya ghañvidhau pratiṣedhaḥ ucyate . niṣpūrvaḥ cinotiḥ steye vartate . asteyārtham tarhi idam vaktavyam . niṣpūrvāt cinoteḥ asteye yathā syāt . asteyārtham iti cet na aniṣṭatvāt . asteyārtham iti cet tat na . kim kāraṇam . aniṣṭatvāt . na niṣpūrvāt cinoteḥ asteye ap iṣyate . kim tarhi ghañ eva iṣyate . evam tarhi siddhe sati yat niṣpūrvāt cinoteḥ apam śāsti tat jñāpayati ācāryaḥ yat tat antaḥ thāthaghañktājabitṛkāṇām iti tat niṣpūrvāt cinoteḥ na bhavati iti . kim etasya jñāpane prayojanam . niścayaḥ . eṣaḥ svaraḥ siddhaḥ bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५०।१७-२४ रो इइइ,३३५ वशिरण्योः च उपसङ्ख्यानम् । वशिरण्योः च उपसङ्ख्यानम् । सः वशम् सैन्धवम् । धनञ्जयः रणे रणे । घञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम् । घञर्थे कः विधेयः । किम् प्रयोजनम् । स्थास्नापाव्यधिहनियुध्यर्थम् । स्था । प्रतिष्ठन्ते अस्मिन् धान्यानि इति प्रस्थः । प्रस्थे हिमवतः श्र्ङ्गे । स्था । स्ना । प्रस्नान्ति तस्मिन् इति प्रस्नः । स्ना । पा । प्रपिबन्ति अस्याम् इति प्रपा । पा । व्यधि । आविध्यन्ति तेन आविधम् । व्यधि । हनि । विघ्नन्ति तस्मिन् मनांसि विघ्नः । हनि । युधि । आयुध्यन्ते तेन आयुधम् ।
KA II,150.17-24 Ro III,335 vaśiraṇyoḥ ca upasaṅkhyānam . vaśiraṇyoḥ ca upasaṅkhyānam . saḥ vaśam saindhavam . dhanañjayaḥ raṇe raṇe . ghañarthe kavidhānam sthāsnāpāvyadhihaniyudhyartham . ghañarthe kaḥ vidheyaḥ . kim prayojanam . sthāsnāpāvyadhihaniyudhyartham . sthā . pratiṣṭhante asmin dhānyāni iti prasthaḥ . prasthe himavataḥ śrṅge . sthā . snā . prasnānti tasmin iti prasnaḥ . snā . pā . prapibanti asyām iti prapā . pā . vyadhi . āvidhyanti tena āvidham . vyadhi . hani . vighnanti tasmin manāṃsi vighnaḥ . hani . yudhi . āyudhyante tena āyudham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५१।२-११ रो इइइ,३३६ कस्मात् अयम् कः विधीयते । हन्तेः इति आह । तत् हन्तिग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । हनः च वधः । तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् । न एतानि निपातनानि । हन्तेः एते आदेशाः । यदि आदेशाः घनस्वरः न सिध्यति । घनः । सन्तु तर्हि निपातनानि । ननु च उक्तम् तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति । सम्बन्धम् अनुवर्तिष्यते । अथ वा पुनः सन्तु आदेशाः । ननु च उक्तम् स्वरः न सिध्यति इति । न एषः दोषः । अकारान्तः आदेशः । अथ यदा इषीकया स्तम्बः हन्यते कथम् तत्र भवितव्यम् । के चिद् तावत् आहुः । स्तम्बघ्ना इति भवितव्यम् । अपरे आहुः : स्तम्बहेतिः इति भवितव्यम् । ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनम् इति । अपरे आहुः । स्तम्बहननीइति भवितव्यम् इति । वक्ष्यति एतत् । अजब्भ्याम् स्त्रीईखलनाः । स्त्रियाः खलनौ विप्रतिषेधेन इति ।
KA II,151.2-11 Ro III,336 kasmāt ayam kaḥ vidhīyate . hanteḥ iti āha . tat hantigrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . hanaḥ ca vadhaḥ . tat vai anekena nipātanena vyavacchinnam na śakyam anuvartayitum . na etāni nipātanāni . hanteḥ ete ādeśāḥ . yadi ādeśāḥ ghanasvaraḥ na sidhyati . ghanaḥ . santu tarhi nipātanāni . nanu ca uktam tat vai anekena nipātanena vyavacchinnam na śakyam anuvartayitum iti . sambandham anuvartiṣyate . atha vā punaḥ santu ādeśāḥ . nanu ca uktam svaraḥ na sidhyati iti . na eṣaḥ doṣaḥ . akārāntaḥ ādeśaḥ . atha yadā iṣīkayā stambaḥ hanyate katham tatra bhavitavyam . ke cid tāvat āhuḥ . stambaghnā iti bhavitavyam . apare āhuḥ : stambahetiḥ iti bhavitavyam . ūtiyūtijūtisātihetikīrtayaḥ ca iti nipātanam iti . apare āhuḥ . stambahananīiti bhavitavyam iti . vakṣyati etat . ajabbhyām strīīkhalanāḥ . striyāḥ khalanau vipratiṣedhena iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५५१।१३-१९ रो इइइ,३३६-३३७ यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः । यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः । प्रश्नः इति । एवन् तर्हि आङित् करिष्यते । अङिति गुणप्रतिषेधः । यदि अङित् गुणप्रतिषेधः वक्तव्यः । विश्नः इति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति । न एषः दोषः । निपातनात् एतत् सिद्धम् । किम् निपातनम् । प्रश्ने च आसन्नकाले इति ।
KA II,1551.13-19 Ro III,336-337 yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ . yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ vaktavyaḥ . praśnaḥ iti . evan tarhi āṅit kariṣyate . aṅiti guṇapratiṣedhaḥ . yadi aṅit guṇapratiṣedhaḥ vaktavyaḥ . viśnaḥ iti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ iti . na eṣaḥ doṣaḥ . nipātanāt etat siddham . kim nipātanam . praśne ca āsannakāle iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५१।२१-१५२।६ रो इइइ,३३७ स्त्रियाम् क्तिन् आबादिभ्यः च । स्त्रियाम् क्तिन् इति अत्र आबादिभ्यः च इति वक्तव्यम् । आप्तिः राद्धिः दीप्तिः । निष्ठायाम् वा सेटः अकारवचनात् सिद्धम् । अथ वा निष्ठायाम् सेटः अकारः भवति इति वक्तव्यम् । यदि निष्ठायाम् सेटः अकारः भवति इति उच्यते स्रंसा ध्वंसा इति न सिध्यति । स्रस्तिः ध्वस्तिः इति प्राप्नोति । किम् पुनः इदम् परिगणनम् त्रयः एव आबादयः आहोस्वित् उदाहरणमात्रम् । किम् च अतः । यदि परिगणनम् भेदः भवति । अथ उदाहरणमात्रम् न अस्ति भेदः । स्रस्ति ध्वस्तिः इति एव भवितव्यम् ।
KA II,151.21-152.6 Ro III,337 striyām ktin ābādibhyaḥ ca . striyām ktin iti atra ābādibhyaḥ ca iti vaktavyam . āptiḥ rāddhiḥ dīptiḥ . niṣṭhāyām vā seṭaḥ akāravacanāt siddham . atha vā niṣṭhāyām seṭaḥ akāraḥ bhavati iti vaktavyam . yadi niṣṭhāyām seṭaḥ akāraḥ bhavati iti ucyate sraṃsā dhvaṃsā iti na sidhyati . srastiḥ dhvastiḥ iti prāpnoti . kim punaḥ idam parigaṇanam trayaḥ eva ābādayaḥ āhosvit udāharaṇamātram . kim ca ataḥ . yadi parigaṇanam bhedaḥ bhavati . atha udāharaṇamātram na asti bhedaḥ . srasti dhvastiḥ iti eva bhavitavyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५२।८-२० रो इइइ,३३८ स्थादिभ्यः सर्वापवादप्रसङ्गः । स्थादिभ्यः सर्वापवादः क्तिन् प्राप्नोति । सः यथा एव अङम् बाधते एवम् ण्वुलिञौ अपि बाधेत । काम् त्वम् स्थायिकाम् अस्थाः । काम् स्थायिम् । सिद्धम् तु अङ्विधाने स्थादिप्रतिषेधात् । सिद्धम् एतत् । कथम् । अङ्विधाने एव स्थादिप्रतिषेधः वक्तव्यः । प्रतिषिद्धे तस्मिन् क्तिन् एव भविष्यति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् स्थादिभ्यः सर्वापवादप्रसङ्गः इति । न एषः दोषः । पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् स्त्रियाम् क्तिन् अङम् बाधिष्यते । ण्वुलिञौ न बाधिष्यते । श्रुतिजिषिस्तुभ्यः करणे । श्रुतिजिषिस्तुभ्यः करणे क्तिन् वक्तव्यः । श्रूयते अनया श्रुतिः । इज्यते अनया इष्टिः । इष्यते अनया इष्टिः । स्तूयते अनया स्तुतिः । ग्लाज्याहाभ्यः निः । ग्लाज्याहाभ्यः निः वक्तव्यः । ग्लानिः ज्यानिः हानिः ।
KA II,152.8-20 Ro III,338 sthādibhyaḥ sarvāpavādaprasaṅgaḥ . sthādibhyaḥ sarvāpavādaḥ ktin prāpnoti . saḥ yathā eva aṅam bādhate evam ṇvuliñau api bādheta . kām tvam sthāyikām asthāḥ . kām sthāyim . siddham tu aṅvidhāne sthādipratiṣedhāt . siddham etat . katham . aṅvidhāne eva sthādipratiṣedhaḥ vaktavyaḥ . pratiṣiddhe tasmin ktin eva bhaviṣyati . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam sthādibhyaḥ sarvāpavādaprasaṅgaḥ iti . na eṣaḥ doṣaḥ . purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam striyām ktin aṅam bādhiṣyate . ṇvuliñau na bādhiṣyate . śrutijiṣistubhyaḥ karaṇe . śrutijiṣistubhyaḥ karaṇe ktin vaktavyaḥ . śrūyate anayā śrutiḥ . ijyate anayā iṣṭiḥ . iṣyate anayā iṣṭiḥ . stūyate anayā stutiḥ . glājyāhābhyaḥ niḥ . glājyāhābhyaḥ niḥ vaktavyaḥ . glāniḥ jyāniḥ hāniḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५२।२२-२३ रो इइइ,३३९ क्यब्विधिः अधिकरणे च । क्यब्विधिः अधिकरणे च इति वक्तव्यम् । समजन्ति तस्याम् समज्या ।
KA II,152.22-23 Ro III,339 kyabvidhiḥ adhikaraṇe ca . kyabvidhiḥ adhikaraṇe ca iti vaktavyam . samajanti tasyām samajyā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५३।२-३ रो इइइ,३३९ कृञः श च इति वावचनम् क्तिनर्थम् । कृञः श च इति वावचनम् कर्तव्यम् क्तिन् अपि यथा स्यात् । कृतिः ।
KA II,153.2-3 Ro III,339 kṛñaḥ śa ca iti vāvacanam ktinartham . kṛñaḥ śa ca iti vāvacanam kartavyam ktin api yathā syāt . kṛtiḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५३।५-७ रो इइइ,३३९ किम् निपात्यते । इषेः शे यगभावः । अत्यल्पम् इदम् उच्यते इच्छा इति । इच्छापरिचर्यापरिसर्यामृगयाटाट्यानाम् निपातनम् कर्तव्यम् । जागर्तेः अकारः वा । जागर्य जागरा ।
KA II,153.5-7 Ro III,339 kim nipātyate . iṣeḥ śe yagabhāvaḥ . atyalpam idam ucyate icchā iti . icchāparicaryāparisaryāmṛgayāṭāṭyānām nipātanam kartavyam . jāgarteḥ akāraḥ vā . jāgarya jāgarā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५३।९-१८ रो इइइ,३४० भिदा विदारणे । भिदा विदारणे इति वक्तव्यम् । भित्तिः अन्या । छिधा द्वैधीकरणे । छिधा द्वैधीकरणे इति वक्तव्यम् । छित्तिः अन्या । आरा शस्त्र्याम् । आरा शस्त्र्याम् इति वक्तव्यम् । आर्तिः अन्या । धारा प्रपाते । धारा प्रपाते इति वक्तव्यम् । धृतिः अन्या । गुहा गिर्योषध्योः । गुहा गिर्योषध्योः इति वक्तव्यम् । गूढिः अन्या ।
KA II,153.9-18 Ro III,340 bhidā vidāraṇe . bhidā vidāraṇe iti vaktavyam . bhittiḥ anyā . chidhā dvaidhīkaraṇe . chidhā dvaidhīkaraṇe iti vaktavyam . chittiḥ anyā . ārā śastryām . ārā śastryām iti vaktavyam . ārtiḥ anyā . dhārā prapāte . dhārā prapāte iti vaktavyam . dhṛtiḥ anyā . guhā giryoṣadhyoḥ . guhā giryoṣadhyoḥ iti vaktavyam . gūḍhiḥ anyā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५३।२०-१५४।७ रो इइइ,३४०-३४१ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । उदात्तः इति वर्तते भूवीराः उदात्तः इति । यदि उदात्तः इति वर्तते वजयजोः भावे क्यप् किमर्थः पकारः । तुगर्थः । ह्रस्वस्य पिति कृति तुक् इति । उदात्तः इति वर्तते । एवम् अपि कुतः एतत् तदन्तस्य उदात्तत्वम् भविष्यति न पुनः आदेः इति । उदात्तः इति अनुवर्तनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भवति । कस्य च अप्राप्तः । अन्त्यस्य । सामान्यग्रहणाविघातार्थः तर्हि । क्व सामान्यग्रहणाविघातार्थेन अर्थः । युवोः अनाकौ इति । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति एतत् । सिद्धम् तु युवोः अनुनासिकवचनात् इति ।
KA II,153.20-154.7 Ro III,340-341 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . udāttaḥ iti vartate bhūvīrāḥ udāttaḥ iti . yadi udāttaḥ iti vartate vajayajoḥ bhāve kyap kimarthaḥ pakāraḥ . tugarthaḥ . hrasvasya piti kṛti tuk iti . udāttaḥ iti vartate . evam api kutaḥ etat tadantasya udāttatvam bhaviṣyati na punaḥ ādeḥ iti . udāttaḥ iti anuvartanasāmarthyāt yasya aprāptaḥ svaraḥ tasya bhavati . kasya ca aprāptaḥ . antyasya . sāmānyagrahaṇāvighātārthaḥ tarhi . kva sāmānyagrahaṇāvighātārthena arthaḥ . yuvoḥ anākau iti . etat api na asti prayojanam . vakṣyati etat . siddham tu yuvoḥ anunāsikavacanāt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५४।८-१३ रो इइइ,३४१ युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् । युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् कर्तव्यम् । घट्टना वन्दना वेदना । इषेः अनिच्छार्थस्य । इषेः अनिच्छार्थस्य इति वक्तव्यम् । अन्विष्यते अन्वेषणा । परेः वा । परेः वा इति वक्तव्यम् । अन्याम् परीष्टिम् चर । अन्याम् पर्येषणाम् चर ।
KA II,154.8-13 Ro III,341 yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam . yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam kartavyam . ghaṭṭanā vandanā vedanā . iṣeḥ anicchārthasya . iṣeḥ anicchārthasya iti vaktavyam . anviṣyate anveṣaṇā . pareḥ vā . pareḥ vā iti vaktavyam . anyām parīṣṭim cara . anyām paryeṣaṇām cara .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५४।१५-१५५।१० रो इइइ,३४३४१-३४२ धात्वर्तनिर्देशे ण्वुल् । धात्वर्तनिर्देशे ण्वुल् वक्तव्यः । का नाम आसिका अन्येषु ईहमानेषु । का नाम् शायिका अन्येषु अधीयानेषु । इक्श्तिपौ धातुनिर्देशे । इक्श्तिपौ इति एतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ । पचेः ब्रूहि । पचतेः ब्रूहि । वर्णात् कारः । वर्णात् कारप्रत्ययः वक्तव्यः । अकारः इकारः । रात् इफः । रात् इफः वक्तव्यः । रेफः । मत्वर्थात् छः । मत्वर्थात् छः वक्तव्यः । मत्वर्थीयः । इण् अजादिभ्यः । इण् अजादिभ्यः वक्तव्यः । आजिः आतिः आदिः । इञ् वपादिभ्यः । इञ् वपादिभ्यः वक्तव्यः । वापिः वासिः वादिः । इक् कृष्यादिभ्यः । इक् कृष्यादिभ्यः वक्तव्यः । कृषिः किरिः गिरिः । सम्पदादिभ्यः क्विप् । सम्पदादिभ्यः क्विप् वक्तव्यः । सम्पत् विपत् प्रतिपत् आपत् परिषत् ।
KA II,154.15-155.10 Ro III,34341-342 dhātvartanirdeśe ṇvul . dhātvartanirdeśe ṇvul vaktavyaḥ . kā nāma āsikā anyeṣu īhamāneṣu . kā nām śāyikā anyeṣu adhīyāneṣu . ikśtipau dhātunirdeśe . ikśtipau iti etau pratyayau dhātunirdeśe vaktavyau . paceḥ brūhi . pacateḥ brūhi . varṇāt kāraḥ . varṇāt kārapratyayaḥ vaktavyaḥ . akāraḥ ikāraḥ . rāt iphaḥ . rāt iphaḥ vaktavyaḥ . rephaḥ . matvarthāt chaḥ . matvarthāt chaḥ vaktavyaḥ . matvarthīyaḥ . iṇ ajādibhyaḥ . iṇ ajādibhyaḥ vaktavyaḥ . ājiḥ ātiḥ ādiḥ . iñ vapādibhyaḥ . iñ vapādibhyaḥ vaktavyaḥ . vāpiḥ vāsiḥ vādiḥ . ik kṛṣyādibhyaḥ . ik kṛṣyādibhyaḥ vaktavyaḥ . kṛṣiḥ kiriḥ giriḥ . sampadādibhyaḥ kvip . sampadādibhyaḥ kvip vaktavyaḥ . sampat vipat pratipat āpat pariṣat .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५५।१२-१३ रो इइइ,३४३ कृतः बहुलम् इति वक्तव्यम् पादहारकाद्यर्थम् । पादाभ्याम् ह्रियते पादहारकः । गले चोप्यते गलेचोपकः । श्वः अग्नीन् आधास्यमानेन । श्वः सोमेन यक्ष्यमाणेन ।
KA II,155.12-13 Ro III,343 kṛtaḥ bahulam iti vaktavyam pādahārakādyartham . pādābhyām hriyate pādahārakaḥ . gale copyate galecopakaḥ . śvaḥ agnīn ādhāsyamānena . śvaḥ somena yakṣyamāṇena .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५५।१५-१७ रो इइइ,३४३ गोचरादीनाम् अग्रहणम् प्रायवचनात् यथा कषः निकषः इति । गोचरादीनाम् ग्रहणम् शक्यम् अकर्तुम् । घञ् कस्मात् न भवति । प्रायवचनात् यथा कषः निकषः इति प्रायवचनात् घञ् न भवति ।
KA II,155.15-17 Ro III,343 gocarādīnām agrahaṇam prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti . gocarādīnām grahaṇam śakyam akartum . ghañ kasmāt na bhavati . prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti prāyavacanāt ghañ na bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५५।१९-२१ रो इइइ,३४४ घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् । घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् कर्तव्यम् । अवह्रियन्ते अस्मिन् अवहारः । आध्रियन्ते अस्मिन् आधारः । एत्य एतस्मिन् वयन्ति आवायः ।
KA II,155.19-21 Ro III,344 ghañvidhau avahārādhārāvāyānām upasaṅkhyānam . ghañvidhau avahārādhārāvāyānām upasaṅkhyānam kartavyam . avahriyante asmin avahāraḥ . ādhriyante asmin ādhāraḥ . etya etasmin vayanti āvāyaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५६।२-७ रो इइइ,३४४ किमर्थम् इदम् उच्यते न हलः च इति एव सिद्धम् । अनुदके इत् वक्ष्यामि इति । इह मा भूत् । उदकोदञ्चनः । उदङ्कः अनुदकग्रहणानर्थक्यम् च प्रायवचनात् यथा गोदोहनः प्रसाधनः इति । उदङ्कः अनुदकग्रहणम् च अनर्थकम् । घञ् कस्मात् न भवति । प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।
KA II,156.2-7 Ro III,344 kimartham idam ucyate na halaḥ ca iti eva siddham . anudake it vakṣyāmi iti . iha mā bhūt . udakodañcanaḥ . udaṅkaḥ anudakagrahaṇānarthakyam ca prāyavacanāt yathā godohanaḥ prasādhanaḥ iti . udaṅkaḥ anudakagrahaṇam ca anarthakam . ghañ kasmāt na bhavati . prāyavacanāt yathā godohanaḥ prasādhanaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५६।९-१० रो इइइ,३४४ डः वक्तव्यः । आखः । डरः वक्तव्यः । आखरः । इकः वक्तव्यः । आखनिकः । इकवकः वक्तव्यः । आखनिकवकः ।
KA II,156.9-10 Ro III,344 ḍaḥ vaktavyaḥ . ākhaḥ . ḍaraḥ vaktavyaḥ . ākharaḥ . ikaḥ vaktavyaḥ . ākhanikaḥ . ikavakaḥ vaktavyaḥ . ākhanikavakaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५६।१२-२२ रो इइइ,३४५ अजब्भ्याम् स्त्रीखलनाः । अजब्भ्याम् स्त्रीखलनाः भवन्ति विप्रतिषेधेन । अजपोः अवकाशः चयः लवः । स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः । इह उभयम् प्राप्नोति । चितिः स्तुतिः । खलः अवकाशः ईषद्भेदः सुभेदः । अजपोः सः एव । इह उभयम् प्राप्नोति । ईषच्चयः सुचयः ईषल्लवः सुलवः । अनस्य अवकाशः इध्मप्रव्रश्चनः । अजपोः सः एव । इह उभयम् प्राप्नोति । पलाशचयनः अविलवनः । स्त्रीखलनाः भवन्ति विप्रतिषेधेन । स्त्रियाः खलनौ विप्रतिषेधेन । स्त्रियाः खलनौ भवतः विप्रतिषेधेन । स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः । खलः अवकाशः ईषद्भेदः सुभेदः । इह उभयम् प्राप्नोति । ईषद्भेदा सुभेदा । अनस्य अवकाशः इध्मप्रव्रश्चनः । स्त्रीप्रत्ययानाम् सः एव । इह उभयम् प्राप्नोति । सक्तुधानी तिलपीडनी । खलनौ भवतः विप्रतिषेधेन ।
KA II,156.12-22 Ro III,345 ajabbhyām strīkhalanāḥ . ajabbhyām strīkhalanāḥ bhavanti vipratiṣedhena . ajapoḥ avakāśaḥ cayaḥ lavaḥ . strīpratyayānām avakāśaḥ kṛtiḥ hṛtiḥ . iha ubhayam prāpnoti . citiḥ stutiḥ . khalaḥ avakāśaḥ īṣadbhedaḥ subhedaḥ . ajapoḥ saḥ eva . iha ubhayam prāpnoti . īṣaccayaḥ sucayaḥ īṣallavaḥ sulavaḥ . anasya avakāśaḥ idhmapravraścanaḥ . ajapoḥ saḥ eva . iha ubhayam prāpnoti . palāśacayanaḥ avilavanaḥ . strīkhalanāḥ bhavanti vipratiṣedhena . striyāḥ khalanau vipratiṣedhena . striyāḥ khalanau bhavataḥ vipratiṣedhena . strīpratyayānām avakāśaḥ kṛtiḥ hṛtiḥ . khalaḥ avakāśaḥ īṣadbhedaḥ subhedaḥ . iha ubhayam prāpnoti . īṣadbhedā subhedā . anasya avakāśaḥ idhmapravraścanaḥ . strīpratyayānām saḥ eva . iha ubhayam prāpnoti . saktudhānī tilapīḍanī . khalanau bhavataḥ vipratiṣedhena .
Sanskrit only: no published translation is held for this verse.
क्अ १५७।२-७ रो इइइ,३४५-३४६ खल् कर्तृकरणयोः च्व्यर्थयोः । खल् कर्तृकरणयोः च्व्यर्थयोः इति वक्तव्यम् । अनाढ्येन भवता ईषदाढ्येन शक्यम् भवितुम् ईषदाढ्यम्भवम् भवता । दुराढ्यम्भवम् स्वाढ्यम्भवम् । कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् । कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् द्रष्टव्यम् । द्वेष्यम् विजानीयात् : अभिधेययोः इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् इति ।
KA 157.2-7 Ro III,345-346 khal kartṛkaraṇayoḥ cvyarthayoḥ . khal kartṛkaraṇayoḥ cvyarthayoḥ iti vaktavyam . anāḍhyena bhavatā īṣadāḍhyena śakyam bhavitum īṣadāḍhyambhavam bhavatā . durāḍhyambhavam svāḍhyambhavam . kartṛkarmagrahaṇam ca upapadasañjñārtham . kartṛkarmagrahaṇam ca upapadasañjñārtham draṣṭavyam . dveṣyam vijānīyāt : abhidheyayoḥ iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : kartṛkarmagrahaṇam ca upapadasañjñārtham iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५७।९-१२ रो इइइ,३४६ भाषायाम् शासियुधिदृशिधृषिभ्यः युच् । भाषायाम् शासियुधिदृशिधृषिभ्यः युच् वक्तव्यः । दुःशासनः दुर्योधनः दुर्दर्शनः दुर्धर्षणः । मृषेः च इति वक्तव्यम् । दुर्मर्षणः ।
KA II,157.9-12 Ro III,346 bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ yuc . bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ yuc vaktavyaḥ . duḥśāsanaḥ duryodhanaḥ durdarśanaḥ durdharṣaṇaḥ . mṛṣeḥ ca iti vaktavyam . durmarṣaṇaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५८।२-१६ रो इइइ,३४६-३४८ वत्करणम् किमर्थम् । वर्तमानसामीप्ये वर्त्मानाः वा इति इयति उच्यमाने वर्तमाने ये प्रत्ययाः विहिताः वर्तमानसामीप्ये धातुमात्रात् स्युः । वत्करणे पुनः क्रियमाणे न दोषः भवति । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण वर्तमाने प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण वर्तमानसामीप्ये भवन्ति ततः अमीवर्तमानवत् कृताः स्युः । अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवर्तमानवत् कृताः स्युः । इह वर्तमानसामीप्ये वर्तमानवत् वा इति उक्त्वा लोट् एव उदाह्रियते । यदि पुनः वा लट् भवति इति एव उच्येत । अतः उत्तरम् पठति । वर्तमानसामीप्ये वर्तमानवद्वचनम् शत्राद्यर्थम् । वर्तमानसामीप्ये वर्तमानवद्वचनम् क्रियते शत्राद्यर्थम् । शत्राद्यर्थः अयम् आरम्भः । एषः अस्मि पचन् । एषः अस्मि पचमानः इति । न एतत् अस्ति प्रयोजनम् । लडादेशौ शतृशानचौ । तत्र वा लट् भवति इति एव सिद्धम् । यौ तर्हि अलडादेशौ । एषः अस्मि पवमानः । एषः अस्मि यजमानः । यौ च अपि लडादेशौ तौ अपि प्रयोजयतः । वर्तमानविहितस्य लटः शतृशानचौ उच्येते । अविशेषेण विहितः च अयम् योगः । शत्राद्यर्थम् इति खलु अपि उच्यते । बहवः च शत्रादयः । एषः अस्मि अलङ्करिष्णुः । एषः अस्मि प्रजनिष्णुः ।
KA II,158.2-16 Ro III,346-348 vatkaraṇam kimartham . vartamānasāmīpye vartmānāḥ vā iti iyati ucyamāne vartamāne ye pratyayāḥ vihitāḥ vartamānasāmīpye dhātumātrāt syuḥ . vatkaraṇe punaḥ kriyamāṇe na doṣaḥ bhavati . yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa vartamāne pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa vartamānasāmīpye bhavanti tataḥ amīvartamānavat kṛtāḥ syuḥ . atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amīvartamānavat kṛtāḥ syuḥ . iha vartamānasāmīpye vartamānavat vā iti uktvā loṭ eva udāhriyate . yadi punaḥ vā laṭ bhavati iti eva ucyeta . ataḥ uttaram paṭhati . vartamānasāmīpye vartamānavadvacanam śatrādyartham . vartamānasāmīpye vartamānavadvacanam kriyate śatrādyartham . śatrādyarthaḥ ayam ārambhaḥ . eṣaḥ asmi pacan . eṣaḥ asmi pacamānaḥ iti . na etat asti prayojanam . laḍādeśau śatṛśānacau . tatra vā laṭ bhavati iti eva siddham . yau tarhi alaḍādeśau . eṣaḥ asmi pavamānaḥ . eṣaḥ asmi yajamānaḥ . yau ca api laḍādeśau tau api prayojayataḥ . vartamānavihitasya laṭaḥ śatṛśānacau ucyete . aviśeṣeṇa vihitaḥ ca ayam yogaḥ . śatrādyartham iti khalu api ucyate . bahavaḥ ca śatrādayaḥ . eṣaḥ asmi alaṅkariṣṇuḥ . eṣaḥ asmi prajaniṣṇuḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५८।१८-२४ रो इइइ,३४७ आशंसा नाम भविष्यत्काला । आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः । आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः वक्तव्यः । न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् । न वा वक्तव्यः । किम् कारणम् । अपवादस्य निमित्ताभावात् । न अत्र अपवादस्य निमित्तम् अस्ति । कथम् । अनद्यतने हि तयोः विधानम् । अनद्यतने हि तौ विधीयेते लङ्लिटौ । न च अत्र अनद्यतनः कालः विवक्षितः । कः तर्हि । भूतकालसामान्यम् ।
KA II,158.18-24 Ro III,347 āśaṃsā nāma bhaviṣyatkālā . āśaṃsāyām bhūtavadatideśe laṅliṭoḥ pratiṣedhaḥ . āśaṃsāyām bhūtavadatideśe laṅliṭoḥ pratiṣedhaḥ vaktavyaḥ . na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam . na vā vaktavyaḥ . kim kāraṇam . apavādasya nimittābhāvāt . na atra apavādasya nimittam asti . katham . anadyatane hi tayoḥ vidhānam . anadyatane hi tau vidhīyete laṅliṭau . na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ . kaḥ tarhi . bhūtakālasāmānyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५९।१-१४ रो इइइ,३४८-३५० आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः । आशंसा सम्भावनम् इति अविशिष्टौ एतौ अर्थौ । आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः । आशंसायाम् ये विधीयन्ते ते सम्भावने अपि प्राप्नुवन्ति । ये च सम्भावने विधीयन्ते ते आशंसायाम् अपि प्राप्नुवन्ति । किम् तर्हि उच्यते अप्राप्तिः इति । न साधीयः प्राप्तिः भवति । इष्टा व्यवस्था न प्रकल्पेत । न सर्वे सर्वत्र इष्यन्ते । न वा सम्भावनावयवत्वात् आशंसायाः । न वा एषः दोषः । किम् कारणम् । सम्भावनावयवत्वात् आशंसायाः । सम्भावनावयवात्मिका आशंसा । आशंसा नाम प्रधारितः अर्थः अभिनीतः च अनभिनीतः च । सम्भावनम् नाम प्रधारितः अर्थः अभिनीतः एव। अर्थासन्देहः वा अलमर्थत्वात् सम्भावनस्य । अथ वा अर्थासन्देहः एव पुनः अस्य । किम् कारणम् । अलमर्थत्वात् सम्भावनस्य । सम्भावने आलमर्थ्यम् गम्यते आसंशायाम् पुनः अनालमर्थ्यम् । आचार्यप्रवृत्तिः ज्ञापयति सम्भावने अपि अनालमर्थ्यम् गम्यते इति यत् अयम् सम्भावने अलम् इति आह । तस्मात् सुष्ठु उच्यते न वा सम्भावनावयवत्वात् आशंसायाः इति ।
KA II,159.1-14 Ro III,348-350 āśaṃsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ . āśaṃsā sambhāvanam iti aviśiṣṭau etau arthau . āśaṃsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ . āśaṃsāyām ye vidhīyante te sambhāvane api prāpnuvanti . ye ca sambhāvane vidhīyante te āśaṃsāyām api prāpnuvanti . kim tarhi ucyate aprāptiḥ iti . na sādhīyaḥ prāptiḥ bhavati . iṣṭā vyavasthā na prakalpeta . na sarve sarvatra iṣyante . na vā sambhāvanāvayavatvāt āśaṃsāyāḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . sambhāvanāvayavatvāt āśaṃsāyāḥ . sambhāvanāvayavātmikā āśaṃsā . āśaṃsā nāma pradhāritaḥ arthaḥ abhinītaḥ ca anabhinītaḥ ca . sambhāvanam nāma pradhāritaḥ arthaḥ abhinītaḥ eva. arthāsandehaḥ vā alamarthatvāt sambhāvanasya . atha vā arthāsandehaḥ eva punaḥ asya . kim kāraṇam . alamarthatvāt sambhāvanasya . sambhāvane ālamarthyam gamyate āsaṃśāyām punaḥ anālamarthyam . ācāryapravṛttiḥ jñāpayati sambhāvane api anālamarthyam gamyate iti yat ayam sambhāvane alam iti āha . tasmāt suṣṭhu ucyate na vā sambhāvanāvayavatvāt āśaṃsāyāḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५९।१६-२०१।२ रो इइइ,३५० क्षिप्रवचने लृअः आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृअः आशंसावचने लिङ् भवति विप्रतिषेधेन । क्षिप्रवचने लृट् भवति इति अस्य अवकाशः । उपाध्यायः चेत् आगतः क्षिप्रम् अध्येष्यामहे । आशंसावचबे लिङ् भवति इति अस्य अवकाशः । उपाध्यायः चेत् आगतः आशंसे युक्तः अधीयीय । इह उभयम् प्राप्नोति । उपाध्यायः चेत् आगतः आशंसे क्षिप्रम् अधीयीय । लिङ् भवति विप्रतिषेधेन ।
KA II,159.16-201.2 Ro III,350 kṣipravacane lṛaḥ āśaṃsāvacane liṅ vipratiṣedhena . kṣipravacane lṛaḥ āśaṃsāvacane liṅ bhavati vipratiṣedhena . kṣipravacane lṛṭ bhavati iti asya avakāśaḥ . upādhyāyaḥ cet āgataḥ kṣipram adhyeṣyāmahe . āśaṃsāvacabe liṅ bhavati iti asya avakāśaḥ . upādhyāyaḥ cet āgataḥ āśaṃse yuktaḥ adhīyīya . iha ubhayam prāpnoti . upādhyāyaḥ cet āgataḥ āśaṃse kṣipram adhīyīya . liṅ bhavati vipratiṣedhena .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१५९।२१-१६०।९ रो इइइ,३५०-३५१ अनिष्पन्ने निष्पन्नशब्दः शिष्यः अनिष्पन्नत्वात् । अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः । किम् कारणम् । अनिष्पन्नत्वात् । देवः चेत् वृष्टः निष्पन्नाः शालयः । तत्र भवितव्यम् सम्पत्स्यन्ते शालयः इति । सिद्धम् तु भविष्यत्प्रतिषेधात् । सिद्धम् एतत् । कथम् । भविष्यत्प्रतिषेधात् । यत् लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगम् न मृष्यति । कः चित् आह । देवः चेत् वृष्टः सम्पत्स्यन्ते शालयः इति । सः उच्यते । मा एवम् वोचः । सम्पन्नाः शालयः इति एवम् ब्रूहि । हेतुभूतकालसम्प्रेक्षितत्वात् वा । हेतुभूतकालसम्प्रेक्षितत्वात् वा पुनः सिद्धम् एतत् । हेतुभूतकालम् वर्षम् वर्षाकाला च क्रिया । यदि तर्हि निष्पन्नः अर्थः किम् निष्पन्नकार्याणि न क्रियन्ते । कानि । भोजनादीनि । अन्यत् इदानीम् एतत् उच्यते किम् निष्पन्नकार्याणि न क्रियन्ते इति । यत् तु तत् निष्पन्नः अर्थः न निष्पन्नः इति । सः निष्पन्नः अर्थः । अवश्यम् खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि । एवम् इह अपि निष्पन्नः अर्थः । अवश्यम् तु जननादीनि प्रतीक्ष्याणि ।
KA II,159.21-160.9 Ro III,350-351 aniṣpanne niṣpannaśabdaḥ śiṣyaḥ aniṣpannatvāt . aniṣpanne niṣpannaśabdaḥ śiṣyaḥ śāsitavyaḥ . kim kāraṇam . aniṣpannatvāt . devaḥ cet vṛṣṭaḥ niṣpannāḥ śālayaḥ . tatra bhavitavyam sampatsyante śālayaḥ iti . siddham tu bhaviṣyatpratiṣedhāt . siddham etat . katham . bhaviṣyatpratiṣedhāt . yat lokaḥ bhaviṣyadvācinaḥ śabdasya prayogam na mṛṣyati . kaḥ cit āha . devaḥ cet vṛṣṭaḥ sampatsyante śālayaḥ iti . saḥ ucyate . mā evam vocaḥ . sampannāḥ śālayaḥ iti evam brūhi . hetubhūtakālasamprekṣitatvāt vā . hetubhūtakālasamprekṣitatvāt vā punaḥ siddham etat . hetubhūtakālam varṣam varṣākālā ca kriyā . yadi tarhi niṣpannaḥ arthaḥ kim niṣpannakāryāṇi na kriyante . kāni . bhojanādīni . anyat idānīm etat ucyate kim niṣpannakāryāṇi na kriyante iti . yat tu tat niṣpannaḥ arthaḥ na niṣpannaḥ iti . saḥ niṣpannaḥ arthaḥ . avaśyam khalu api koṣṭhagateṣu api śāliṣu avahananādīni pratīkṣyāṇi . evam iha api niṣpannaḥ arthaḥ . avaśyam tu jananādīni pratīkṣyāṇi .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६०।१०-१६१।२ रो इइइ,३५१-३५२ अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । कूपः अस्ति । कूपः भविष्यति । कूपः भविता । कूपः अभूत् । कूपः आसीत् । कूपः बभूव इति । कथम् पुनः ज्ञायते भवन्त्याः एषः अर्थः इति । कर्तुः विद्यमानत्वात् । कर्ता अत्र विद्यते । कथम् पुनः ज्ञायते कर्ता अत्र विद्यते इति । कूपः अनेन कदा चित् दृष्टः । न च अस्य कम् चिद् अपि अपायम् पश्यति । सः तु तत्र बुद्ध्या नित्याम् सत्ताम् अध्यवस्यति । कूपः अस्ति इति । सिद्धम् तु यथास्वम् कालसमुच्चारणात् । सिद्धम् एतत् । कथम् । यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति । कथम् पुनः ज्ञायते यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति । अवात्वात् । यत् न वा भाष्यन्ते । असिद्धविपर्यासः च । असिद्धः च विपर्यासः । न हि कः चित् कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूत् इति प्रयुङ्क्ते । किम् पुनः कारणम् । न वा भाष्यन्ते असिद्धः च विपर्यासः । इह किम् चित् इन्द्रियकर्म किम् चित् बुद्धिकर्म । इन्द्रियकर्म समासादनम् बुद्धिकर्मव्यवसायः । एवम् हि कः चित् पाटलिपुत्रम् जिगमिषुः आह । यः अयम् अध्वा गन्तव्यः आ पाटलिपुत्रात् एतस्मिन् कूपः भविष्यति । समासाद्य अतिक्रम्य उषित्वा कूपः आसीत् इति । समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति । तत् यदा इन्द्रियकर्म तदा एताः विभक्तयः । यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।
KA II,160.10-161.2 Ro III,351-352 astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ . astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ . kūpaḥ asti . kūpaḥ bhaviṣyati . kūpaḥ bhavitā . kūpaḥ abhūt . kūpaḥ āsīt . kūpaḥ babhūva iti . katham punaḥ jñāyate bhavantyāḥ eṣaḥ arthaḥ iti . kartuḥ vidyamānatvāt . kartā atra vidyate . katham punaḥ jñāyate kartā atra vidyate iti . kūpaḥ anena kadā cit dṛṣṭaḥ . na ca asya kam cid api apāyam paśyati . saḥ tu tatra buddhyā nityām sattām adhyavasyati . kūpaḥ asti iti . siddham tu yathāsvam kālasamuccāraṇāt . siddham etat . katham . yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti . katham punaḥ jñāyate yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti . avātvāt . yat na vā bhāṣyante . asiddhaviparyāsaḥ ca . asiddhaḥ ca viparyāsaḥ . na hi kaḥ cit kūpaḥ asti iti prayoktavye kūpaḥ abhūt iti prayuṅkte . kim punaḥ kāraṇam . na vā bhāṣyante asiddhaḥ ca viparyāsaḥ . iha kim cit indriyakarma kim cit buddhikarma . indriyakarma samāsādanam buddhikarmavyavasāyaḥ . evam hi kaḥ cit pāṭaliputram jigamiṣuḥ āha . yaḥ ayam adhvā gantavyaḥ ā pāṭaliputrāt etasmin kūpaḥ bhaviṣyati . samāsādya atikramya uṣitvā kūpaḥ āsīt iti . samāsādya atikramya uṣitvā vismṛtya kūpaḥ babhūva iti . tat yadā indriyakarma tadā etāḥ vibhaktayaḥ . yadā hi buddhikarma tadā vartamānā bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६१।४-१४ रो इइइ,३५३-३५४ किमर्थम् इमौ द्वौ प्रतिषेधौ उच्येते न अद्यतनवत् इति एव उच्येत । न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः । न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः द्रष्टव्यः । अद्यतनवद्वचने हि विधानम् । अद्यतनवद्वचने हि सति विधिः इयम् विज्ञायेत । तत्र कः दोषः । तत्र लड्विधिप्रसङ्गः । तत्र लड्विधिः प्रसज्येत । लुङ्लृटोः च अयथाकालम् । लुङ्लृटोः च अयथाकालम् प्रयोगः प्रसज्येत । लुङः अपि विषये लृट् स्यात् लृटः च विषये लुङ् स्यात् । अद्य पुनः अयम् द्वौ प्रतिषेधौ उक्त्वा तूष्णीम् आस्ते । यथाप्राप्तेम् एव अद्यतने भविष्यति इति ।
KA II,161.4-14 Ro III,353-354 kimartham imau dvau pratiṣedhau ucyete na adyatanavat iti eva ucyeta . na anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ . na anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ draṣṭavyaḥ . adyatanavadvacane hi vidhānam . adyatanavadvacane hi sati vidhiḥ iyam vijñāyeta . tatra kaḥ doṣaḥ . tatra laḍvidhiprasaṅgaḥ . tatra laḍvidhiḥ prasajyeta . luṅlṛṭoḥ ca ayathākālam . luṅlṛṭoḥ ca ayathākālam prayogaḥ prasajyeta . luṅaḥ api viṣaye lṛṭ syāt lṛṭaḥ ca viṣaye luṅ syāt . adya punaḥ ayam dvau pratiṣedhau uktvā tūṣṇīm āste . yathāprāptem eva adyatane bhaviṣyati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६१।१६-१६२।१३ रो इइइ,३५४-३५५ किमर्थम् इदम् उच्यते न न अनद्यतनवत् इति एव सिद्धम् । भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् । अक्रियाप्रबन्धार्थः अयम् आरम्भः । किम् उच्यते अक्रियाप्रबन्धः । न पुनः क्रियाप्रबन्धार्थः अपि स्यात् । क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् । क्रियाप्रबन्धार्थम् इति चेत् वचनम् अनर्थकम् । सिद्धम् क्रियाप्रबन्धे पूर्वेण एव । इदम् तर्हि प्रयोजनम् । अनहोरात्राणाम् इति वक्ष्यामि इति । इह मा भूत् । यः अयम् त्रिंशद्रात्रः आगामी तस्य यः अवरः पञ्चदशरात्रः इति । अहोरात्रप्रतिषेधार्थम् इति चेत् न अनिष्टत्वात् । अहोरात्रप्रतिषेधार्थम् इति चेत् तत् न अनिष्टत्वात् । किम् कारणम् । अनिष्टत्वात् । अत्र अपि न अनद्यतनवत् इति एव इष्यते । इदम् तर्हि प्रयोजनम् : भविष्यति इति वक्ष्यामि इति । इह म भूत् । यः अयम् अध्वा गतः आ पाटलिपुत्रात् तस्य यत् अवरम् साकेतात् इति । न अनिष्टत्वात् । अत्र अपि न अनद्यतनवत् इति एव इष्यते । इदम् तर्हि प्रयोजनम् मर्यादावचने इति वक्ष्यामि इति । इह मा भूत् । यः अयम् अध्वा अपरिमाणः गन्तव्यः तस्य यत् अवरम् साकेतात् इति । अत्र अपि न अनद्यतनवत् इति एव इष्यते । तस्मात् सुष्ठु उच्यते भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् । क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् इति ।
KA II,161.16-162.13 Ro III,354-355 kimartham idam ucyate na na anadyatanavat iti eva siddham . bhaviṣyati maryādāvacane avarasmin iti akriyāprabandhārtham . akriyāprabandhārthaḥ ayam ārambhaḥ . kim ucyate akriyāprabandhaḥ . na punaḥ kriyāprabandhārthaḥ api syāt . kriyāprabandhārtham iti cet vacanānarthakyam . kriyāprabandhārtham iti cet vacanam anarthakam . siddham kriyāprabandhe pūrveṇa eva . idam tarhi prayojanam . anahorātrāṇām iti vakṣyāmi iti . iha mā bhūt . yaḥ ayam triṃśadrātraḥ āgāmī tasya yaḥ avaraḥ pañcadaśarātraḥ iti . ahorātrapratiṣedhārtham iti cet na aniṣṭatvāt . ahorātrapratiṣedhārtham iti cet tat na aniṣṭatvāt . kim kāraṇam . aniṣṭatvāt . atra api na anadyatanavat iti eva iṣyate . idam tarhi prayojanam : bhaviṣyati iti vakṣyāmi iti . iha ma bhūt . yaḥ ayam adhvā gataḥ ā pāṭaliputrāt tasya yat avaram sāketāt iti . na aniṣṭatvāt . atra api na anadyatanavat iti eva iṣyate . idam tarhi prayojanam maryādāvacane iti vakṣyāmi iti . iha mā bhūt . yaḥ ayam adhvā aparimāṇaḥ gantavyaḥ tasya yat avaram sāketāt iti . atra api na anadyatanavat iti eva iṣyate . tasmāt suṣṭhu ucyate bhaviṣyati maryādāvacane avarasmin iti akriyāprabandhārtham . kriyāprabandhārtham iti cet vacanānarthakyam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६२।१५-२१ रो इइइ,३५६ अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः । अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः वक्तव्यः । यः अयम् त्रिंशद्रात्रः आगामीतस्य यः अवरः अर्धमासः । तैः च विभागे । तैः च विभागे इति वक्तव्यम् : यः अयम् मासः आगामीतस्य यः अवरः पञ्चदशरात्रः इति । द्वेष्यम् विजानीयात् : अहोरात्राणाम् एव अहोरात्रैः विभागे प्रतिषेधः इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः । तैः च विभागे इति ।
KA II,162.15-21 Ro III,356 anahorātrāṇām iti tadvibhāge pratiṣedhaḥ . anahorātrāṇām iti tadvibhāge pratiṣedhaḥ vaktavyaḥ . yaḥ ayam triṃśadrātraḥ āgāmītasya yaḥ avaraḥ ardhamāsaḥ . taiḥ ca vibhāge . taiḥ ca vibhāge iti vaktavyam : yaḥ ayam māsaḥ āgāmītasya yaḥ avaraḥ pañcadaśarātraḥ iti . dveṣyam vijānīyāt : ahorātrāṇām eva ahorātraiḥ vibhāge pratiṣedhaḥ iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : anahorātrāṇām iti tadvibhāge pratiṣedhaḥ . taiḥ ca vibhāge iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६२।२३ रो इइइ,३५६) कस्मिन् परस्मिन् । कालविभागे । कुतः एतत् । योगविभागकरणसामर्थ्यात् ।
KA II,162.23 Ro III,356) kasmin parasmin . kālavibhāge . kutaḥ etat . yogavibhāgakaraṇasāmarthyāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६३।२-५ रो इइइ,३५७ साधनातिपत्तौ इति अपि वक्तव्यम् इह अपि यथा स्यात् । अभोक्ष्यत भवान् मांसेन यदि मत्समीपे आसिष्यत इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः अस्ति इति साधनातिपत्तिः चेत् क्रियातिपत्तिः अपि भवति । तत्र क्रियातिपत्तौ इति एव सिद्धम् ।
KA II,163.2-5 Ro III,357 sādhanātipattau iti api vaktavyam iha api yathā syāt . abhokṣyata bhavān māṃsena yadi matsamīpe āsiṣyata iti . tat tarhi vaktavyam . na vaktavyam . na antareṇa sādhanam kriyāyāḥ pravṛttiḥ asti iti sādhanātipattiḥ cet kriyātipattiḥ api bhavati . tatra kriyātipattau iti eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६३।७-८ रो इइइ,३५७ भूते लृङ् उताप्यादिषु । भूते लृङ् उताप्यादिषु द्रष्टव्यः । उत अध्याइष्यत । अपि अध्यैष्यत ।
KA II,163.7-8 Ro III,357 bhūte lṛṅ utāpyādiṣu . bhūte lṛṅ utāpyādiṣu draṣṭavyaḥ . uta adhyāiṣyata . api adhyaiṣyata .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६३।१०-१३ रो इइइ,३५७-३५८ विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् । विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति वक्तव्यम् । वा आ उताप्योः इति हि उच्यमाने सन्देहः स्यात् : प्राक् वा उतापिभ्याम् सह वा इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति ।
KA II,163.10-13 Ro III,357-358 vibhāṣā garhāprabhṛtau prāk utāpibhyām . vibhāṣā garhāprabhṛtau prāk utāpibhyām iti vaktavyam . vā ā utāpyoḥ iti hi ucyamāne sandehaḥ syāt : prāk vā utāpibhyām saha vā iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe vibhāṣā garhāprabhṛtau prāk utāpibhyām iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६३।१५-२० रो इइइ,३५८ गर्हायाम् लड्विधानानर्थक्यम् क्रियासमाप्तिविवक्षितत्वात् । गर्हायाम् लड्विधिः नर्थकः । किम् कारणम् । क्रियासमाप्तिविवक्षितत्वात् । क्रियायाः अत्र असमाप्तिः गम्यते । एषः च नाम न्याय्यः वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति । तत्र वर्तमाने लट् इति एव सिद्धम् । यदि वर्तमाने लट् इति एवम् अत्र लट् भवति शतृशानचौ प्राप्नुतः । इष्येते च शतृशानचौ : अपि माम् याजयन्तम् पश्य । अपि माम् याजयमानम् पश्य ।
KA II,163.15-20 Ro III,358 garhāyām laḍvidhānānarthakyam kriyāsamāptivivakṣitatvāt . garhāyām laḍvidhiḥ narthakaḥ . kim kāraṇam . kriyāsamāptivivakṣitatvāt . kriyāyāḥ atra asamāptiḥ gamyate . eṣaḥ ca nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyā aparisamāptā bhavati . tatra vartamāne laṭ iti eva siddham . yadi vartamāne laṭ iti evam atra laṭ bhavati śatṛśānacau prāpnutaḥ . iṣyete ca śatṛśānacau : api mām yājayantam paśya . api mām yājayamānam paśya .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६४।२-८ रो इइइ,३५८-३५९ किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणानर्थक्यम् । किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणम् अनर्थकम् । निवृत्तम् किंवृत्ते इति । तस्मिन् निवृत्ते अविशेषेण किंवृत्ते अकिंवृत्ते च भविष्यति । इदम् तर्हि प्रयोजनम् उपपदसञ्ज्ञाम् वक्ष्यामि इति । उपपदसञ्ज्ञावचने किम् प्रयोजनम् । उपपदम् अतिङ् इति समासः यथा स्यात् । अतिङ् इति प्रतिषेधः प्राप्नोति । यदा तर्हि लृटः सत्सञ्ज्ञौ तदा उपपदसञ्ज्ञा भविष्यति । भविष्यदधिकारविहितस्य लृटः सत्स्ञ्ज्ञौ उच्येते अविशेषविहितः च अयम् ।
KA II,164.2-8 Ro III,358-359 kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇānarthakyam . kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇam anarthakam . nivṛttam kiṃvṛtte iti . tasmin nivṛtte aviśeṣeṇa kiṃvṛtte akiṃvṛtte ca bhaviṣyati . idam tarhi prayojanam upapadasañjñām vakṣyāmi iti . upapadasañjñāvacane kim prayojanam . upapadam atiṅ iti samāsaḥ yathā syāt . atiṅ iti pratiṣedhaḥ prāpnoti . yadā tarhi lṛṭaḥ satsañjñau tadā upapadasañjñā bhaviṣyati . bhaviṣyadadhikāravihitasya lṛṭaḥ satsñjñau ucyete aviśeṣavihitaḥ ca ayam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६४।१०-१२ रो इइइ,३५९ जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् । जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् कर्तव्यम् । यदा भवद्विधः क्षत्रियम् याजयेत् । यदि भवद्विधः क्षत्रियम् याजयेत् ।
KA II,164.10-12 Ro III,359 jātuyadoḥ liṅvidhāne yadāyadyoḥ upasaṅkhyānam . jātuyadoḥ liṅvidhāne yadāyadyoḥ upasaṅkhyānam kartavyam . yadā bhavadvidhaḥ kṣatriyam yājayet . yadi bhavadvidhaḥ kṣatriyam yājayet .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६४।१४-१६ रो इइइ,३५९-३६० चित्रीकरणे यदिप्रतिषेधानर्थक्यम् अर्थान्यत्वात् । चित्रीकरणे यदिप्रतिषेधः अनर्थकः । किम् कारणम् । अर्थान्यत्वात् । न हि यदौ उपपदे चित्रीकरणम् गम्यते । किम् तर्हि । सम्भावनम् ।
KA II,164.14-16 Ro III,359-360 citrīkaraṇe yadipratiṣedhānarthakyam arthānyatvāt . citrīkaraṇe yadipratiṣedhaḥ anarthakaḥ . kim kāraṇam . arthānyatvāt . na hi yadau upapade citrīkaraṇam gamyate . kim tarhi . sambhāvanam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६४।१८-१६५।५ रो इइइ,३६० हेतुहेतुमतोः लिङ् वा । हेतुहेतुमतोः लिङ् वा इति वक्तव्यम् । अनेन चेत् यायात् न शकटम् पर्याभवेत् । अनेन चेत् यास्यति न शकटम् पर्याभविष्यति । भविष्यदधिकारे । भविष्यदधिकारे इति वक्तव्यम् । इह मा भूत् । वर्षति इति धावति । हन्ति इति पलयते । अथ इदानीम् शतृशानचौ अत्र कस्मात् न भवतः । देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः । मिथः ते न विभाष्यन्ते । गवाक्षः संशितव्रतः ।
KA II,164.18-165.5 Ro III,360 hetuhetumatoḥ liṅ vā . hetuhetumatoḥ liṅ vā iti vaktavyam . anena cet yāyāt na śakaṭam paryābhavet . anena cet yāsyati na śakaṭam paryābhaviṣyati . bhaviṣyadadhikāre . bhaviṣyadadhikāre iti vaktavyam . iha mā bhūt . varṣati iti dhāvati . hanti iti palayate . atha idānīm śatṛśānacau atra kasmāt na bhavataḥ . devatrātaḥ galaḥ grāhaḥ itiyoge ca sadvidhiḥ . mithaḥ te na vibhāṣyante . gavākṣaḥ saṃśitavrataḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६५।७-८ रो इइइ,३६१ कामप्रवेदनम् चेत् । कामप्रवेदनम् चेत् गम्यते इति वक्तव्यम् । इह मा भूत् । इच्छन् कटम् करोति ।
KA II,165.7-8 Ro III,361 kāmapravedanam cet . kāmapravedanam cet gamyate iti vaktavyam . iha mā bhūt . icchan kaṭam karoti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६५।१०-१५ रो इइइ,३६१ विध्यधीष्टयोः कः विशेषः । विधिः नाम प्रेषणम् । अधीष्टम् नाम् सत्कार्पूर्विका व्यापारणा । अथ निमन्त्रणामन्त्रणयोः कः विशेषः । सन्निहितेन निमन्त्रणम् भवति असन्निहितेन च आमन्त्रणम् । न एषः अस्ति विशेषः । असन्निहितेन अपि निमन्त्रणम् भवति सन्निहितेन च आमन्त्रणम् । एवम् तर्हि यत् नियोगतः कर्तव्यम् तत् निमन्त्रणम् । किम् पुनः तत् । हव्यम् कव्यम् वा । ब्राह्मणेन सिद्धम् भुज्यताम् इति उक्ते अधर्मः प्रत्याख्यातुः । आमन्त्रणे कामचारः ।
KA II,165.10-15 Ro III,361 vidhyadhīṣṭayoḥ kaḥ viśeṣaḥ . vidhiḥ nāma preṣaṇam . adhīṣṭam nām satkārpūrvikā vyāpāraṇā . atha nimantraṇāmantraṇayoḥ kaḥ viśeṣaḥ . sannihitena nimantraṇam bhavati asannihitena ca āmantraṇam . na eṣaḥ asti viśeṣaḥ . asannihitena api nimantraṇam bhavati sannihitena ca āmantraṇam . evam tarhi yat niyogataḥ kartavyam tat nimantraṇam . kim punaḥ tat . havyam kavyam vā . brāhmaṇena siddham bhujyatām iti ukte adharmaḥ pratyākhyātuḥ . āmantraṇe kāmacāraḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६५।१६-१६६।२२ रो इइइ,३६२-३६५ कथम् पुनः इदम् विज्ञायते । निमन्त्रणादीईनाम् अर्थे इति आहोस्वित् निमन्त्रणादिषु गम्यमानेषु इति । कः च अत्र विशेषः । निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् । निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः । किम् कारणम् । प्रकृत्या अभिहितत्वात् । प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति । द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् । द्विवचनबहुवनयोः च अ प्रसिद्धिः । किम् कारणम् । एकार्थत्वात् । एकः अयम् अर्थः निमन्त्रणम् नाम । तस्य एकत्वात् एकवचनम् एव प्राप्नोति । अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु । इह अपि तर्हि प्राप्नोति । देवदत्तः भवन्तम् आमन्त्रयते । देवदत्तः भवन्तम् निमन्त्रयते इति । सिद्धम् तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् । सिद्धम् एतत् । कथम् । द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यम् । के च प्रकृताः अर्थाः । भावकर्मकर्तारः । भवेत् सिद्धम् प्राप्नोतु भवान् आमन्त्रणम् अनुभवतु भवान् अमन्त्रणम् इति यत्र द्वितीयः आकाङ्क्यते । इदम् तु न सिध्यति आमन्त्रयै निमन्त्रयै इति । अत्र अपि द्वितीयः आकाङ्क्यते । कः । निमन्त्रिः एव । आमन्त्रयै आमन्त्रणम् । निमन्त्रयै निमन्त्रणम् । कथम् पुनः निम्नत्रिः निमन्त्रणम् आकाङ्क्षेत् । दृष्टः च भावेन भावयोगः । तत् यथा इषिः इषिणा युज्यते स्त्रीत्वम् च स्त्रीत्वेन । यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनाम् अर्थे इति । ननु च उक्तम् निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् इति । न एषः दोषः । यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति । अयम् तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् इति । न एषः दोषः । सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङाम् । प्रसिद्धः नियमः तत्र । प्रसिद्धः तत्र नियमः । नियमः प्रकृतेषु वा । अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु । बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।
KA II,165.16-166.22 Ro III,362-365 katham punaḥ idam vijñāyate . nimantraṇādīīnām arthe iti āhosvit nimantraṇādiṣu gamyamāneṣu iti . kaḥ ca atra viśeṣaḥ . nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt . nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ . kim kāraṇam . prakṛtyā abhihitatvāt . prakṛtyā abhihitaḥ saḥ arthaḥ iti kṛtvā pratyayaḥ na prāpnoti . dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt . dvivacanabahuvanayoḥ ca a prasiddhiḥ . kim kāraṇam . ekārthatvāt . ekaḥ ayam arthaḥ nimantraṇam nāma . tasya ekatvāt ekavacanam eva prāpnoti . astu tarhi nimantraṇādiṣu gamyamāneṣu . iha api tarhi prāpnoti . devadattaḥ bhavantam āmantrayate . devadattaḥ bhavantam nimantrayate iti . siddham tu dvitīyākāṅkṣasya prakṛte pratyayārthe pratyayavidhānāt . siddham etat . katham . dvitīyākāṅkṣasya dhātoḥ prakṛte pratyayārthe pratyayaḥ bhavati iti vaktavyam . ke ca prakṛtāḥ arthāḥ . bhāvakarmakartāraḥ . bhavet siddham prāpnotu bhavān āmantraṇam anubhavatu bhavān amantraṇam iti yatra dvitīyaḥ ākāṅkyate . idam tu na sidhyati āmantrayai nimantrayai iti . atra api dvitīyaḥ ākāṅkyate . kaḥ . nimantriḥ eva . āmantrayai āmantraṇam . nimantrayai nimantraṇam . katham punaḥ nimnatriḥ nimantraṇam ākāṅkṣet . dṛṣṭaḥ ca bhāvena bhāvayogaḥ . tat yathā iṣiḥ iṣiṇā yujyate strītvam ca strītvena . yāvatā atra dvitīyaḥ ākāṅkṣyate asti tarhi nimantraṇādīnām arthe iti . nanu ca uktam nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt iti . na eṣaḥ doṣaḥ . yaḥ asau dvitīyaḥ ākāṅkṣyate saḥ eva mama pratyayārthaḥ bhaviṣyati . ayam tarhi doṣaḥ dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt iti . na eṣaḥ doṣaḥ . supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . tathā tiṅām . prasiddhaḥ niyamaḥ tatra . prasiddhaḥ tatra niyamaḥ . niyamaḥ prakṛteṣu vā . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam naikasmin na bahuṣu . bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६६।२४-१६७।७ रो इइइ,३६५-३६६ किमर्थम् प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च । प्रैषादिषु कृत्यानाम् विधानम् नियमार्थम् । नियमार्थः अयम् आरम्भः । प्रैषादिषु एव कृत्याः यथा स्युः इति । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति । न हि प्रैषादिषु एव कृत्याः इष्यन्ते । किम् तर्हि । अविशेषेण इष्यन्ते । बुसोपेन्ध्यम् तृणोपेन्ध्यम् घन्घात्यम् । विध्यर्थम् तु स्त्रियाः प्राक् इति वचनात् । विध्यर्थम् तु प्रैषादिषु कृत्यानाम् वचनम् । अयम् प्रैषादिषु लोट् विधीयते । सः विशेषविहितः सामान्यविहितान् कृत्यान् बाधेत । वासरूपेण कृत्याः अपि भविष्यन्ति । न स्युः । किम् कारणम् । स्त्रियाः प्राक् इति वचनात् । प्राक् स्त्रियाः वा असरूपः ।
KA II,166.24-167.7 Ro III,365-366 kimartham praiṣādiṣu artheṣu kṛtyāḥ vidhīyante na aviśeṣeṇa vihitāḥ kṛtyāḥ te praiṣādiṣu bhaviṣyanti anyatra ca . praiṣādiṣu kṛtyānām vidhānam niyamārtham . niyamārthaḥ ayam ārambhaḥ . praiṣādiṣu eva kṛtyāḥ yathā syuḥ iti . praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam . praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam prāpnoti . na hi praiṣādiṣu eva kṛtyāḥ iṣyante . kim tarhi . aviśeṣeṇa iṣyante . busopendhyam tṛṇopendhyam ghanghātyam . vidhyartham tu striyāḥ prāk iti vacanāt . vidhyartham tu praiṣādiṣu kṛtyānām vacanam . ayam praiṣādiṣu loṭ vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyān bādheta . vāsarūpeṇa kṛtyāḥ api bhaviṣyanti . na syuḥ . kim kāraṇam . striyāḥ prāk iti vacanāt . prāk striyāḥ vā asarūpaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१६७।९-१२ रो इइइ,३६६ प्रथमान्तेषु इति वक्तव्यम् । किम् प्रयोजनम् । इह मा भूत् । काले भुङ्क्ते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । प्रैषादिषु इति वर्तते । तत् च अवश्यम् प्रैषादिग्रहणम् अनुवर्त्यम् । प्रथमान्तेषु इति हि उच्यमाने इह अपि प्रसज्येत । कालः पचति भूतानि कालः संहरति प्रजाः ।
KA II,167.9-12 Ro III,366 prathamānteṣu iti vaktavyam . kim prayojanam . iha mā bhūt . kāle bhuṅkte . tat tarhi vaktavyam . na vaktavyam . praiṣādiṣu iti vartate . tat ca avaśyam praiṣādigrahaṇam anuvartyam . prathamānteṣu iti hi ucyamāne iha api prasajyeta . kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ .
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.