क्अ इइ,१६५।१६-१६६।२२ रो इइइ,३६२-३६५ कथम् पुनः इदम् विज्ञायते । निमन्त्रणादीईनाम् अर्थे इति आहोस्वित् निमन्त्रणादिषु गम्यमानेषु इति । कः च अत्र विशेषः । निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् । निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः । किम् कारणम् । प्रकृत्या अभिहितत्वात् । प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति । द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् । द्विवचनबहुवनयोः च अ प्रसिद्धिः । किम् कारणम् । एकार्थत्वात् । एकः अयम् अर्थः निमन्त्रणम् नाम । तस्य एकत्वात् एकवचनम् एव प्राप्नोति । अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु । इह अपि तर्हि प्राप्नोति । देवदत्तः भवन्तम् आमन्त्रयते । देवदत्तः भवन्तम् निमन्त्रयते इति । सिद्धम् तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् । सिद्धम् एतत् । कथम् । द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यम् । के च प्रकृताः अर्थाः । भावकर्मकर्तारः । भवेत् सिद्धम् प्राप्नोतु भवान् आमन्त्रणम् अनुभवतु भवान् अमन्त्रणम् इति यत्र द्वितीयः आकाङ्क्यते । इदम् तु न सिध्यति आमन्त्रयै निमन्त्रयै इति । अत्र अपि द्वितीयः आकाङ्क्यते । कः । निमन्त्रिः एव । आमन्त्रयै आमन्त्रणम् । निमन्त्रयै निमन्त्रणम् । कथम् पुनः निम्नत्रिः निमन्त्रणम् आकाङ्क्षेत् । दृष्टः च भावेन भावयोगः । तत् यथा इषिः इषिणा युज्यते स्त्रीत्वम् च स्त्रीत्वेन । यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनाम् अर्थे इति । ननु च उक्तम् निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् इति । न एषः दोषः । यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति । अयम् तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् इति । न एषः दोषः । सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङाम् । प्रसिद्धः नियमः तत्र । प्रसिद्धः तत्र नियमः । नियमः प्रकृतेषु वा । अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु । बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।
KA II,165.16-166.22 Ro III,362-365 katham punaḥ idam vijñāyate . nimantraṇādīīnām arthe iti āhosvit nimantraṇādiṣu gamyamāneṣu iti . kaḥ ca atra viśeṣaḥ . nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt . nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ . kim kāraṇam . prakṛtyā abhihitatvāt . prakṛtyā abhihitaḥ saḥ arthaḥ iti kṛtvā pratyayaḥ na prāpnoti . dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt . dvivacanabahuvanayoḥ ca a prasiddhiḥ . kim kāraṇam . ekārthatvāt . ekaḥ ayam arthaḥ nimantraṇam nāma . tasya ekatvāt ekavacanam eva prāpnoti . astu tarhi nimantraṇādiṣu gamyamāneṣu . iha api tarhi prāpnoti . devadattaḥ bhavantam āmantrayate . devadattaḥ bhavantam nimantrayate iti . siddham tu dvitīyākāṅkṣasya prakṛte pratyayārthe pratyayavidhānāt . siddham etat . katham . dvitīyākāṅkṣasya dhātoḥ prakṛte pratyayārthe pratyayaḥ bhavati iti vaktavyam . ke ca prakṛtāḥ arthāḥ . bhāvakarmakartāraḥ . bhavet siddham prāpnotu bhavān āmantraṇam anubhavatu bhavān amantraṇam iti yatra dvitīyaḥ ākāṅkyate . idam tu na sidhyati āmantrayai nimantrayai iti . atra api dvitīyaḥ ākāṅkyate . kaḥ . nimantriḥ eva . āmantrayai āmantraṇam . nimantrayai nimantraṇam . katham punaḥ nimnatriḥ nimantraṇam ākāṅkṣet . dṛṣṭaḥ ca bhāvena bhāvayogaḥ . tat yathā iṣiḥ iṣiṇā yujyate strītvam ca strītvena . yāvatā atra dvitīyaḥ ākāṅkṣyate asti tarhi nimantraṇādīnām arthe iti . nanu ca uktam nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt iti . na eṣaḥ doṣaḥ . yaḥ asau dvitīyaḥ ākāṅkṣyate saḥ eva mama pratyayārthaḥ bhaviṣyati . ayam tarhi doṣaḥ dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt iti . na eṣaḥ doṣaḥ . supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . tathā tiṅām . prasiddhaḥ niyamaḥ tatra . prasiddhaḥ tatra niyamaḥ . niyamaḥ prakṛteṣu vā . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam naikasmin na bahuṣu . bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.