क्अ इइ,१६६।२४-१६७।७ रो इइइ,३६५-३६६ किमर्थम् प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च । प्रैषादिषु कृत्यानाम् विधानम् नियमार्थम् । नियमार्थः अयम् आरम्भः । प्रैषादिषु एव कृत्याः यथा स्युः इति । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति । न हि प्रैषादिषु एव कृत्याः इष्यन्ते । किम् तर्हि । अविशेषेण इष्यन्ते । बुसोपेन्ध्यम् तृणोपेन्ध्यम् घन्घात्यम् । विध्यर्थम् तु स्त्रियाः प्राक् इति वचनात् । विध्यर्थम् तु प्रैषादिषु कृत्यानाम् वचनम् । अयम् प्रैषादिषु लोट् विधीयते । सः विशेषविहितः सामान्यविहितान् कृत्यान् बाधेत । वासरूपेण कृत्याः अपि भविष्यन्ति । न स्युः । किम् कारणम् । स्त्रियाः प्राक् इति वचनात् । प्राक् स्त्रियाः वा असरूपः ।
KA II,166.24-167.7 Ro III,365-366 kimartham praiṣādiṣu artheṣu kṛtyāḥ vidhīyante na aviśeṣeṇa vihitāḥ kṛtyāḥ te praiṣādiṣu bhaviṣyanti anyatra ca . praiṣādiṣu kṛtyānām vidhānam niyamārtham . niyamārthaḥ ayam ārambhaḥ . praiṣādiṣu eva kṛtyāḥ yathā syuḥ iti . praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam . praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam prāpnoti . na hi praiṣādiṣu eva kṛtyāḥ iṣyante . kim tarhi . aviśeṣeṇa iṣyante . busopendhyam tṛṇopendhyam ghanghātyam . vidhyartham tu striyāḥ prāk iti vacanāt . vidhyartham tu praiṣādiṣu kṛtyānām vacanam . ayam praiṣādiṣu loṭ vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyān bādheta . vāsarūpeṇa kṛtyāḥ api bhaviṣyanti . na syuḥ . kim kāraṇam . striyāḥ prāk iti vacanāt . prāk striyāḥ vā asarūpaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.